摩诃婆罗多 · 章 13.219
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.219.1
भगवन्देवदेवेश मानुषेष्वेव केचन ।
ज्ञानविज्ञानसम्पन्ना बुद्धिमन्तो विचक्षणाः ॥ १३.२१९.१ ॥
尊贵的神中之神啊,人类之中确有一些人具备知识与智慧,聪慧而明察。
13.219.2
दुर्गतास्तु प्रदृश्यन्ते यतमाना यथाविधि ।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ १३.२१९.२ ॥
然而,他们虽依规而勤勉努力,却仍可见陷于困厄。是由于哪一业报成熟而致此?请您为我说明。
13.219.3
तदहं ते प्रवक्ष्यामि शृणु कल्याणि कारणम् ॥ १३.२१९.३ ॥
因此我将告诉你其中的原因。听着,吉祥的女神!
13.219.4
ये पुरा मनुजा देवि श्रुतवन्तोपि केवलम् ।
निरा निरन्नाद्या भृशमात्मपरायणाः ॥ १३.२१९.४ ॥
女神啊,那些往昔只是听闻、贫穷而缺衣少食、且极度只顾自身的人,
13.219.5
ते पुनर्जन्मनि शुभे ज्ञानबुद्धियुता अपि ।
निष्किञ्चना भवन्त्येव अनुप्तं हि न रोहति ॥ १३.२१९.५ ॥
吉祥的女神啊,他们在来世即使具备知识与智慧,也会变得一无所有;因为未播种的不会生长。
13.219.6
मूर्खा लोके प्रदृश्यन्ते वृथा मूढा विचेतसः ।
ज्ञानविज्ञानरहिताः समृद्धाश्च समन्ततः।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ १३.२१९.६ ॥
世间常见愚昧之人,徒然迷惑、心神昏乱,缺乏知识与智慧,却处处富足。是由于哪一业报成熟而致此?请您为我说明。
13.219.7
ये पुरा मनुजा देवि बालिशा अपि सर्वतः ।
समाचरन्ति दानानि दीनानुग्रहकारणात् ॥ १३.२१९.७ ॥
女神啊,往昔那些人,即使愚昧,也到处因怜悯困苦者而行布施,
13.219.8
अबुद्धिपूर्वं वा दानं ददत्येव यतस्ततः ।
ते पुनर्जन्मनि शुभे प्राप्नुवन्त्येव तत्तथा ॥ १३.२१९.८ ॥
那些不经意或随处布施的人,在吉祥的来世也确实获得同样的果报。
13.219.9
पण्डितोऽपण्डितो वाऽपि भुङ्क्ते दानफलं नरः ।
बुद्ध्याऽनपेक्षितं दानं सर्वथा तत्फलत्युत ॥ १३.२१९.९ ॥
无论智者或愚者,人都享受布施的果报;不经智慧思量的布施,也完全会得到那果报。
13.219.10
भगवन्देवदेवेश मानुषेष्वेव केचन ।
मेधाविनः श्रुतधरा भवन्ति विशदाक्षराः।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ १३.२१९.१० ॥
世尊,天神之主,人间有些人变得聪慧、能持闻法、字句清晰。由哪种业果成熟而致此?请您为我宣说。
13.219.11
ये पुरा मनुजा देवि गुरुशुश्रूषका भृशम् ।
ज्ञानार्थं ते तु सङ्गृह्य तीर्थतो विधिपूर्वकम् ॥ १३.२१९.११ ॥
女神啊,往昔那些极力侍奉师长的人,为求知识,依仪轨从圣地(求得)教导,
13.219.12
विधिनैव परांश्चैव ग्राहयन्ति च नान्यथा ।
अश्लाघमाना ज्ञानेन प्रशान्ता यतवाचकाः।
विद्यास्थानानि ये लोके स्थापयन्ति च यत्नतः ॥ १३.२१९.१२ ॥
他们依规矩也使他人领受,而不是另外的方式。不以知识自夸,平静而言语节制,在世间精心设立学问之所的人,
13.219.13
तादृश मरणं प्राप्ताः पुनर्जन्मनि शोभने ।
मेधाविनः श्रुतधरा भवन्ति विशदाक्षराः ॥ १३.२१९.१३ ॥
得到这样的死亡,在美好的再生中,他们变得聪慧、记住所闻,并且吐字清晰。
13.219.14
अपरे मानुषा देव यतन्तोपि यतस्ततः ।
बहिष्कृताः प्रदृश्यन्ते श्रुतविज्ञानबुद्धितः।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ १३.२१९.१४ ॥
神啊,其他人虽然努力,却被看到四处流浪,被排除在学问、知识和智慧之外。由什么业报的成熟而致此?你应当告诉我。
13.219.15
ये पुरा मनुजा देवि ज्ञानदर्पसमन्विताः ।
श्लाघमानाश्च तत्प्राप्य ज्ञानाहङ्कारमोहिताः ॥ १३.२१९.१५ ॥
神女啊,过去那些怀着知识傲慢的人,得到了它,被知识的我慢所迷惑,而自我夸耀,
13.219.16
वदन्ति ये परान्नित्यं ज्ञानाधिक्येन दर्पिताः ।
ज्ञानादसूयां कुर्वन्ति न सहन्ते च चापरान् ॥ १३.२१९.१६ ॥
那些因知识之盛而常自傲、贬低他人、因知识而生嫉妒、不能容忍他人的人,
13.219.17
तादृशा मरणं प्राप्ताः पुनर्जन्मनि शोभने ।
मानुष्यं सुचिरात्प्राप्य तत्र बोधविवर्जिताः।
भवन्ति सततं देवि यतन्तो हीनमेधसः ॥ १३.२१९.१७ ॥
这样的人死后,在美好的再生中,经过很久才得到人身,却在那里缺乏觉悟。神女啊,他们虽然努力,却始终智力低下。
13.219.18
भगवन्मानुषाः केचित्सर्वकल्याणसंयुताः ।
पुत्रैर्दारैर्गुणयुतैर्दासीदासपरिच्छदैः ॥ १३.२१९.१८ ॥
尊贵的主啊,有些人具备一切吉祥,拥有贤德的儿子、妻子以及奴仆婢女的随从。
13.219.19
परमं बुद्धिसंयुक्ताः स्थानैश्वर्यपरिग्रहैः ।
व्याधिहीना नबाधाश्च रूपारोग्यबलैर्युताः ॥ १३.२१९.१९ ॥
具足至上智慧,拥有地位与权势,远离疾病与苦恼,具备容貌、健康与力量。
13.219.20
धनधान्येन सम्पन्नाः प्रासादैर्यानवाहनैः ।
सर्वोपभोगसंयुक्ता नानाचित्रैर्मनोहरैः ॥ १३.२१९.२० ॥
富有财物与五谷,拥有宫殿与车乘,享受一切受用,具备种种美妙之物。
13.219.21
ज्ञातिभिः सह मोदन्ते अविघ्नं तु दिनेदिने ।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ १३.२१९.२१ ॥
他们与亲族日复一日无碍地欢乐。由何种业报之果而致此?请你为我宣说。
13.219.22
तदहं ते प्रवक्ष्यामि शृणु सर्वं समाहिता ॥ १३.२१९.२२ ॥
因此,我将为你宣说。请专心听取其全部。
13.219.23
ये पुरा मनुजा देवि आढ्या वा इतरेऽपि वा ।
श्रुतवृत्तसमायुक्ता दानकामाः श्रुतप्रियाः ॥ १३.२१९.२३ ॥
女神啊,往昔那些人,无论富有与否,具备学问与良好德行,乐于布施,喜好经典。
13.219.24
परेङ्गितपरा नित्यं दातव्यमिति निश्चिताः ।
सत्यसन्धाः क्षमाशीला लोभमोहविवर्जिताः ॥ १३.२१९.२४ ॥
留心他人的暗示,坚定地认为应当常常布施,诚守誓言,性情忍辱,远离贪婪与愚痴。
13.219.25
दातारः पात्रतो दानं व्रतैर्नियमसंयुताः ।
स्वदुःखमिव संस्मृत्य परदुःखविवर्जिताः।
सौम्यशीलाः शुभाचारा देवब्राह्मणपूजकाः ॥ १३.२१९.२५ ॥
施舍者依受者之德而施,持守戒律与规范,以己之苦推及他人之苦而不加于人,性情温和,行为吉祥,敬奉天神与婆罗门。
13.219.26
एवंशीलसमाचाराः पुनर्जन्मनि शोभने ।
दिवि वा भुवि वा देवि जायन्ते कर्मभोगिनः ॥ १३.२१९.२६ ॥
具有如此品性与行为的人,女神啊,在美好的来世降生于天界或人间,享受其业报。
13.219.27
मानुषेष्वपि ये जातास्तादृशाः सम्भवन्ति ते ।
यादृशास्तु तथा प्रोक्ताः सर्वे कल्याणसंयुताः ॥ १३.२१९.२७ ॥
生于人间者亦成为如此之人;如所述,他们皆具善德。
13.219.28
रूपं द्रव्यं बलं चायुर्भोगैश्वर्यं बलं श्रुतम् ।
इत्येतत्सर्वसाद्गुण्यं दानाद्भवति नान्यथा।
तपोदानमयं सर्वमिति विद्धि शुभानने ॥ १३.२१९.२८ ॥
容貌、财富、力量、长寿、享受与权势、威力与学识——这一切美德皆由布施而来,别无他途。应知,吉颜者啊,这一切皆由苦行与布施而成。
13.219.29
अथ केचित्प्रदृश्यन्ते मानुषेष्वेव मानुषाः ।
दुर्गताः क्लेशभूयिष्ठा दानभोगविवर्जिताः ॥ १३.२१९.२९ ॥
然而,在人类之中仍可见到一些人,陷于困厄,充满苦恼,既无布施也无享受。
13.219.30
भयैस्त्रिभिः समाजुष्टा व्याधिक्षुद्भयसंयुताः ।
दुष्कलत्राभिभूताश्च सततं विघ्नदर्शकाः।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ १३.२१९.३० ॥
被三种恐惧所困,伴随疾病、饥饿与恐怖,为恶妻所制,常见障碍——由何种业报之果成熟而致此?你应当告诉我。
13.219.31
ये पुरा मनुजा देवि आसुरं भावमाश्रिताः ।
क्रोधलोभसमायुक्ता निरन्नाद्याश्च निष्क्रियाः ॥ १३.२१९.३१ ॥
往昔那些人,女神啊,皈依阿修罗之性,怀有愤怒与贪婪,缺乏食物等,且无所作为——
13.219.32
नास्तिकाश्चैव धूर्ताश्च मूर्खाश्चात्मपरायणाः ।
परोपतापिनो देवि प्रायशः प्राणिनिर्दयाः ॥ १३.२१९.३२ ॥
无信者、狡诈者、愚蠢者、只顾自我者,又折磨他人——女神啊,大多对众生无慈悲。
13.219.33
एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने ।
कथंचित्प्राप्य मानुष्यं तत्र ते दुःखपीडिताः ॥ १३.२१९.३३ ॥
行为如此之人,美丽的女神啊,在再生中即便以某种方式获得人身,也在那里为苦所逼。
13.219.34
सर्वतः सम्भवन्त्येव पूर्वमात्मप्रमादतः ।
यथा ते पूर्वकथितास्तथा ते सम्भवन्त्युत ॥ १३.२१९.३४ ॥
往昔因自身放逸,他们确实从各方而生;正如前面所述,他们便如此而生。
13.219.35
शुभाशुभं कृतं कर्म सुखदुःखफलोदयम् ।
इति ते कथितं देवि भूयः श्रोतुं किमिच्छसि ॥ १३.२१९.३५ ॥
所作的善与恶之业,其果报是苦乐的生起——女神啊,这已向你说明。你还想再听什么?