摩诃婆罗多 · 章 13.221
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.221.1
भगवन्देवदेवेश भूतपाल नमोस्तु ते ।
ह्रस्वाङ्गाश्चैव वक्राङ्गाः कुब्जा वामनकास्तथा ॥ १३.२२१.१ ॥
尊贵的主啊,诸神之神,众生的守护者,向您致敬。也可见到肢体短小者、肢体弯曲者、驼背者和侏儒。
13.221.2
अपरे मानुषा देव दृश्यन्ते कुणिबाहवः ।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ १३.२२१.२ ॥
神啊,另有一些人可见手臂萎缩。由于何种业报的成熟而如此?请您告诉我。
13.221.3
ये पुरा मनुजा देवि लोभमोहसमन्विताः ।
धान्यमानान्विकुर्वन्ति क्रयविक्रयकारणात् ॥ १३.२२१.३ ॥
女神啊,往昔那些充满贪婪与迷惑的人,为了买卖之故而篡改粮食的量器。
13.221.4
कुलदोषं तदा देवि धृतमानेषु नित्यशः ।
अर्धापकर्षणं चैव सर्वेषां क्रयविक्रये ॥ १३.२२१.४ ॥
女神啊,那时他们的家族有污点:持量器者常如此,买卖之中众人皆有减半欺瞒之过。
13.221.5
अङ्गदोषकरा ये तु परेषां कोपकारणात् ।
मांसादाश्चैव ये मूर्खा अयथावत्प्रथाः सदा ॥ १३.२२१.५ ॥
那些因激怒他人而造成肢体缺陷者,愚蠢的食肉者,以及始终行为不当、习俗错乱者。
13.221.6
एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने ।
ह्रस्वाङ्गा वामनाश्चैव कुब्जाश्चैव भवन्ति ते ॥ १३.२२१.६ ॥
行为如此者,即使在善好的再生中,也成为肢体短小、侏儒和驼背之人。
13.221.7
भगवन्मानुषाः केचिद्दृश्यन्ते मानुषेषु वै ।
उन्मत्ताश्च पिशाचाश्च पर्यटन्तो यतस्ततः।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ १३.२२१.७ ॥
尊者啊,人群中可见有些人如疯癫者和食人鬼一般,四处游荡。这是由于何种业报所致?请为我说明。
13.221.8
ये पुरा मनुजा देवि दर्पाहंकारसंयुताः ।
बहुधा प्रलपन्त्येव हसन्ति च परान्भृशम् ॥ १३.२२१.८ ॥
女神啊,那些往昔充满傲慢与骄矜的人,以种种方式胡言乱语,并且极力嘲笑他人。
13.221.9
मोहयन्ति परान्भोगैर्मदनैर्लोभकारणात् ।
वृद्धान्गुरूंश्च ये मूर्खा वृथैवापहसन्ति च।
शौण्डा विदग्धाः शास्त्रेषु सदैवानृतवादिनः ॥ १३.२२१.९ ॥
因贪欲,他们以享乐和醉意迷惑他人;愚人无故嘲笑长者和师长;自夸精通经典的狂妄者,总是说谎。
13.221.10
एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने ।
उन्मत्ताश्च पिशाचाश्च भवन्त्येव न संशयः ॥ १३.२२१.१० ॥
行为如此之人,吉祥者啊,在来世必定成为疯癫者与食人鬼,这毫无疑问。
13.221.11
भगवन्मानुषाः केचिन्निरपत्याः सुदुःखिताः ।
यतन्तो न लभन्त्येव अपत्यानि यतस्ततः।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ १३.२२१.११ ॥
尊者啊,人群中有些人无子嗣,极为痛苦;虽然努力,却从无处得到子嗣。这是由于何种业报所致?请为我说明。
13.221.12
ये पुरा मनुजा देवि सर्वप्राणिषु निर्दयाः ।
घ्नन्ति बालांश्च भुञ्जन्ते मृगाणां पक्षिणामपि ॥ १३.२२१.१२ ॥
女神啊,那些往昔对一切众生都无慈悲的人,甚至杀害孩童,也吞食鹿和飞鸟。
13.221.13
गुरुविद्वेषिणश्चैव परपुत्राभ्यसूयकाः ।
पितृपूजां न कुर्वन्ति यथोक्तां चाष्टकादिभिः ॥ १३.२२१.१३ ॥
憎恶师长、嫉妒他人之子的人,不按规定以阿湿陀迦等祭仪祭祀祖先。
13.221.14
एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने ।
मानुष्यं वा चिरात्प्राप्य निरपत्या भवन्ति ते।
पुत्रशोकयुताश्चापि नास्ति तत्र विचारणा ॥ १३.२२१.१४ ॥
行为如此的人,在善趣再生,或久后得人身,也将无子,并且饱受失子之痛;此事毋庸置疑。
13.221.15
भगवन्मानुषाः केचित्प्रदृश्यन्ते सुदुःखिताः ।
उद्वेगवासनिरताः सोद्वेगाश्च यतव्रताः ॥ १३.२२१.१५ ॥
尊者啊!有些人显得极其痛苦,沉溺于忧虑而生活,心神不安,却仍坚守誓愿。
13.221.16
नित्यं शोकसमाविष्टा दुर्गताश्च तथैव च ।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ १३.२२१.१६ ॥
那些常被忧愁所缠、又同样处于困厄的人,是由哪种业报所致?您应当为我宣说。
13.221.17
ये पुरा मनुजा नित्यमुत्क्रोशनपरायणाः ।
भीषयन्ति परानित्यं विकुर्वन्ति तथैव च ॥ १३.२२१.१७ ॥
过去那些总是放声哀哭的人,常常惊吓他人,也常常加害于人。
13.221.18
ऋणवृद्धिकराश्चैव दरिद्रेभ्यो यथेष्टतः ।
ऋणार्थमभिगच्छन्ति सततं वृद्धिरूपकाः ॥ १३.२२१.१८ ॥
任意增加贫穷者债务的人,以及为借债而不断前往放高利贷者处的人。
13.221.19
उद्विजन्ते हि तान्दृष्ट्वा धारकाः स्वार्थकारणात् ।
अतिवृद्धिर्न कर्तव्या दरिद्रेभ्यो यथेष्टतः ॥ १३.२२१.१९ ॥
见到他们,放贷者也因自身利益而心生不安。不可随意从贫穷者那里收取过高的利息。
13.221.20
ये श्वभिः क्रीडमानाश्च त्रासयन्ति वने मृगान् ।
प्राणिहिंसां तथा देवि कुर्वन्ति च यतस्ततः ॥ १३.२२१.२० ॥
那些在森林中与狗嬉戏、惊吓鹿群的人,还有,女神啊,同样到处伤害有生命之物的人。
13.221.21
येषां गृहेषु वै श्वानस्त्रासयन्ति वृथा नरान् ।
एवंयुक्तसमाचाराः कालधर्मगताः पुनः ॥ १३.२२१.२१ ॥
在他们家中,狗无端惊吓人们;行为如此之人,一旦归于时间之法(死亡),又
13.221.22
पीडिता यमदण्डेन निरयस्थाश्चिरं प्रिये ।
कथञ्चित्प्राप्य मानुष्यं तत्र ते दुःखसंयुताः ॥ १३.२२१.२२ ॥
爱妻啊,被阎摩的棍杖折磨,长久住在地狱之中,以某种方式获得人身之后,他们在那里仍充满痛苦。
13.221.23
कुदेशे दुःखभूयिष्ठे व्याघातशतसङ्कुले ।
जायन्ते तत्र शोचन्तः सोद्वेगाश्च यतस्ततः ॥ १३.२२१.२३ ॥
在充满苦难、布满百种障碍的恶劣之国,他们在那里出生,悲叹不已,四处惶恐不安。
13.221.24
भगवन्मानुषाः केचिदैश्वर्यज्ञानसंयुताः ।
म्लेच्छभूमिषु दृश्यन्ते म्लेच्छैश्वर्यसमन्विताः।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ १३.२२१.२४ ॥
尊贵的主啊,有些人具备权势与智慧,却见于蛮夷之地,拥有蛮夷的权势。这是由何种业报之果所致?请您为我说明。
13.221.25
ये पुरा मनुजा देवि धनधान्यसमन्विताः ।
अयथावत्प्रयच्छन्ति श्रद्धावर्जितमेव वा ॥ १३.२२१.२५ ॥
女神啊,那些往昔拥有财富与谷物的人,或不如法地布施,或只是无信心地布施。
13.221.26
अपात्रेभ्यश्च ये दानं शौचमङ्गलवर्जिताः ।
ददत्येव च ये मूर्खाः श्लाघयाऽवज्ञयाऽपि वा ॥ १३.२२१.२६ ॥
那些向不配者布施、缺乏清净与吉祥的人,以及愚昧之人出于夸耀或轻蔑而布施。
13.221.27
एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने ।
कुदेशे म्लेच्छभूयिष्ठे दुर्गमे वनसंकटे।
म्लेच्छाधिपत्यं सम्प्राप्य जायन्ते तत्रतत्र वै ॥ १३.२२१.२७ ॥
行为如此之人,在善妙的再生中,于蛮夷众多、难以抵达、林中险恶的恶国,获得对蛮夷的统治,而在各处出生。
13.221.28
भगवन्भगनेत्रघ्न मानुषेषु च केचन ।
क्लीबा नपुंसकाश्चैव दृश्यन्ते षण्डकास्तथा ॥ १३.२२१.२८ ॥
世尊啊,毁灭薄伽眼睛的神啊,人类之中也可见有些无能者、阉人与中性之人。
13.221.29
नीचकर्मरता नीचा नीचसक्यास्तथा भुवि ।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ १३.२२१.२९ ॥
大地之上,亦有乐于卑劣之业、卑贱之人、以及交结卑劣之友的人。这是由何种业报所致?你应当告诉我。
13.221.30
तदहं ते प्रवक्ष्यामि शृणु कल्याणि कारणम् ॥ १३.२२१.३० ॥
因此我将告诉你其原因。听着,吉祥的女神。
13.221.31
ये पुरा मनुजा भूत्वा घोरकर्मरतास्तथा ।
पशुपंस्त्वोपगातेन जीवन्ति च रमन्ति च ॥ १३.२२१.३१ ॥
那些前世为人、沉溺于可怕行为的人,获得了畜生的雄性之身,依然生存并享乐。
13.221.32
पुंस्त्वोपघातिनश्चैव नराणां कोपकारणात् ।
ये धूर्ताः स्त्रीषु गच्छन्ति अयथावद्यथेष्टतः ॥ १३.२२१.३२ ॥
那些毁坏男性能力、引起他人愤怒的人,以及狡诈地不合礼法、随意接近女人的人。
13.221.33
कामविघ्नकरा ये तु द्वेषपैशुन्यकारणात् ।
एवंयुक्तसमाचाराः कालधर्मं गतास्तु ते।
दण्डिता यमदण्डेन निरयस्थाश्चिरं प्रिये ॥ १३.२२१.३३ ॥
那些因怨恨和诽谤而阻碍欲望、行为如此的人,死亡后受阎摩之杖的惩罚,长久地住在地狱中,爱妻啊。
13.221.34
यदि चेन्मानुषं जन्म लभेरंस्ते तथाविधाः ।
क्लीबा वर्षवराश्चैव षण्डकाश्च भवन्ति ते ॥ १३.२२१.३४ ॥
若他们再得人身,便会成为这样的人:阳痿、性功能衰弱,以及宦官。
13.221.35
नीचकर्मपरा लोके निर्लज्जा वीतसम्भ्रमाः ।
परान्दीनान्बहिष्कृत्य ते भवन्ति स्वकर्मणा ॥ १३.२२१.३५ ॥
在世间沉溺于卑劣行为、无耻而不顾体面、驱逐他人与卑微者的人,他们因自身的行为而变成这样。
13.221.36
यदि चेत्सम्प्रपश्येरंस्ते मुच्यन्ते हि कल्मषात् ।
अत्रापि ते प्रमाद्येयुः पतन्ति नरकालये ॥ १३.२२१.३६ ॥
若他们能正确地看见,便从罪中解脱;但若在此处仍然放逸,便堕入地狱之处。
13.221.37
स्त्रीणामपि तथा देवि यथा पुंसां तु कर्मजम् ।
इति ते कथितं देवि भूयः श्रोतुं किमिच्छसि ॥ १३.२२१.३७ ॥
女神啊,男子所生之果报如何,女子亦然。这已对你说过了,女神啊。你还想再听什么?