Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.222

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.222.1

भगवन्देवदेवेश शूलपाणे वृषध्वज ।
पुंश्चल्य इव या स्त्रीषु नीचवृत्तिरताः स्मृताः।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ १३.२२२.१ ॥

尊贵的主,众神之主,持三叉戟者,以牛为旗者!女人中被称为淫荡、耽于卑劣行为者,由于何种业报成熟而成为那样?你应当告诉我。

13.222.2

याः पुरा मनुजा देवि बुद्धिमोहसमन्विताः ।
कामरागसमायुक्ताः पतीनतिचरन्ति वै ॥ १३.२२२.२ ॥

女神啊,那些前世为人、心智迷惑、为欲望与贪爱所缚的女子,违逆她们的丈夫。

13.222.3

प्रतिकूलपरा यास्तु पतीन्प्रति यथा तथा ।
शौचं लज्जां तु विस्मृत्य यथेष्टपरिचारणाः ॥ १३.२२२.३ ॥

那些对丈夫以各种方式怀有敌意的女子,忘却了清净与羞耻,任意沉溺于享乐。

13.222.4

एवंयुक्तसमाचारा यमलोके सुदण्डिताः ।
यदि वै मानुषं जन्म लभेरंस्तास्तथाविधाः।
बहुसाधारणा एव पुंश्चल्यश्च भवन्ति ताः ॥ १३.२२२.४ ॥

如此行为的女子在阎摩之国受到严厉惩罚。即使她们再得人身,仍然如此,成为众人共享的淫荡女子。

13.222.5

पौश्चल्यं यत्तु तद्वृत्तं स्त्रीणां कष्टतमं स्मृतम् ।
ततःप्रभृति ता देवि पतन्त्येव न संशयः ॥ १३.२२२.५ ॥

女子的那种淫荡行为被称为最痛苦的。从那时起,女神啊,她们必定堕落,这没有疑问。

13.222.6

शोचन्ति चेत्तु तद्वृत्तं मनसा हितमाप्नुयुः ।
भगवन्देवदेवेश प्रमदा विधवा भृशम्। ॥ १३.२२२.६ ॥

若她们心中为那种行为而悲叹,便可得益。尊贵的主,众神之主!女子,尤其是寡妇,应当极度悲叹。

13.222.7

दृश्यन्ते मानुषा लोके सर्वकल्याणवर्जिताः ।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ १३.२२२.७ ॥

在世间,人们被看见缺乏一切福祉。由何种业报所致?你应当为我说明。

13.222.8

याः पुरा मनुजा देवि बुद्धिमोहसमन्विताः ।
कुटुम्बं तत्र वे पत्युर्नाशयन्ति वृथा तथा ॥ १३.२२२.८ ॥

女神啊,那些往昔被迷惑之智所缠绕的人,在那里徒然毁坏丈夫的家族,同样如此。

13.222.9

विषदाश्चाग्निदाश्चैव पतीन्प्रति सुनिर्दयाः ।
अन्यासां हि पतीन्यान्ति स्वपतिद्वेषकारणात् ॥ १३.२२२.९ ॥

那些投毒者、纵火者,对丈夫极为无情的女子,因对自己丈夫的憎恨,便去到别的女人的丈夫身边。

13.222.10

एवंयुक्तसमाचारा यमलोके सुदण्डिताः ।
निरयस्थाश्चिरं कालं कथंचित्प्राप्य मानुषम्।
तत्र ता भोगरहिता विधवास्तु भवन्ति वै ॥ १३.२२२.१० ॥

行为如此的女子,在阎摩之界受到严厉惩罚,长久住在地狱之中,终于以某种方式得到人身,在那里却成为无享受的寡妇。

13.222.11

भगवन्प्रमदा लोके पत्यौ ज्ञातिषु सत्सुच ।
लिङ्गिन्यः सम्प्रदृश्यन्ते पाषण्डं मतमाश्रिताः।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ १३.२२२.११ ॥

世尊啊,世间的女子对丈夫、亲属乃至善人,都以出家者的标记示人,并且信奉异端之说。由何种业报所致?你应当为我说明。

13.222.12

याः पुरा भावदोषेणि लोभमोहसमन्विताः ।
परद्रव्यपरा लोभात्परेषां द्रव्यहारकाः ॥ १३.२२२.१२ ॥

那些往昔因心性之过,被贪欲与迷惑所缠绕,贪恋他人财物,因贪婪而窃取他人财物的女子。

13.222.13

अभ्यसूयापरा यास्तु सपत्नीनां प्रदूषकाः ।
ईर्ष्यापराः कोपनाश्च बन्धूनां विफलाः सदा ॥ १३.२२२.१३ ॥

那些总是沉溺于嫉妒与非议、诋毁众妾、善妒易怒、并且始终辜负亲属的女子。

13.222.14

एवंयुक्तसमाचाराः पुनर्जन्मनि ताः स्त्रियः ।
अलक्षणसमायुक्ताः पाषण्डं धर्ममाश्रिताः।
स्त्रियः प्रव्राजशीलाश्च भवन्त्येव न संशयः ॥ १३.२२२.१४ ॥

那些行为如此的女子,来世带着不吉祥的相貌,依附异端之法;女子必然倾向出家,这没有疑问。

13.222.15

भगवन्मानुषाः केचित्कारुवृत्तिसमाश्रिताः ।
प्रदृश्यन्ते मनुष्येषु नीचकर्मरतास्तथा।
केन कर्मविपाकेन तन्मे शंसितुमर्हति ॥ १३.२२२.१५ ॥

世尊啊!人间可见一些人以工匠之业为生,并以卑下之事为乐;这是由哪种业报的成熟所致?请您为我宣说。

13.222.16

ये पुरा मनुजा देवि स्तब्धमानयुता भृशम् ।
दर्पाहङ्कारसंयुक्ताः केवलात्मपरायणाः ॥ १३.२२२.१६ ॥

女神啊,往昔那些充满傲慢之心、骄矜自负、只顾自身的人。

13.222.17

तादृशा मानुषा देवि पुनर्जन्मनि शोभने ।
कात्वो नटगन्धर्वाः सम्भवन्ति यथा तथा ॥ १३.२२२.१७ ॥

女神啊,这样的人在美好的来世,会如此这般地投生为卡特瓦、伶人与乾闼婆。

13.222.18

नापिता बन्दिनश्चैव तथा वैतालिकाः प्रिये ।
एवंभूतास्त्वधोवृत्तिं जीवन्त्याश्रित्य मानवाः ॥ १३.२२२.१८ ॥

爱妻啊,理发匠、说唱艺人与宫廷吟颂者也是如此;这样生来的人,依靠卑下的营生维持生活。

13.222.19

परप्रसाधनकरास्ते परैः कृतवेतनाः ।
परावमानस्य फलं भुञ्जते पौर्वदैहिकम् ॥ १३.२२२.१९ ॥

那些为他人装饰、受他人雇用取酬的人,承受着前世轻慢他人的果报。

13.222.20

भगवन्देवदेवेश मानुषेष्वेव केचन ।
दासभूताः प्रदृश्यन्ते सर्वकर्मपरा भृशम् ॥ १३.२२२.२० ॥

尊贵的神明之主啊,在人类中可以看到一些人成为奴仆,极力从事各种劳作。

13.222.21

आघातभर्त्सनसहाः पीड्यमानाश्च सर्वशः ।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ १३.२२२.२१ ॥

忍受打击与辱骂,处处受苦——这是由哪种业报成熟所致?请您告诉我。

13.222.22

तदहं ते प्रवक्ष्यामि शृणु कल्याणि कारणम् ॥ १३.२२२.२२ ॥

因此我将告诉你其中的原因;听着,吉祥的女神。

13.222.23

ये पुरा मनुजा देवि परेषां वित्तहारकाः ।
ऋणवृद्धिकरं कृष्या न्यासदत्तं तथैव च ॥ १३.२२२.२३ ॥

女神啊,那些前世掠夺他人财富的人,通过耕种使债务利息增长的人,以及同样侵吞寄存之物的人。

13.222.24

निक्षेपकारणाद्दत्तपरद्रव्यापहारिणः ।
प्रमादाद्विस्मृतं नष्टं परेषां धनहारकाः ॥ १३.२२२.२४ ॥

因寄存之事而侵吞他人托付的财物,又因疏忽而称他人财物已忘记或丢失,从而夺取他人的钱财。

13.222.25

वधबन्धपरिक्लेशैर्दासत्वं कुर्वते परान् ।
तादृशा मरणं प्राप्ता दण्डिता यमशासनैः ॥ १३.२२२.२५ ॥

他们以杀戮、捆绑和折磨使他人沦为奴仆;这样的人死后,会受阎摩的律令惩罚。

13.222.26

कथञ्चित्प्राप्य मानुष्यं तत्र ते देवि सर्वथा ।
दासभूता भविष्यन्ति जन्मप्रभृति मानवाः ॥ १३.२२२.२६ ॥

女神啊,他们若侥幸获得人身,便会在那里从出生起就完全成为奴仆。

13.222.27

तेषां कर्माणि कुर्वन्ति येषां ते धनहारकाः ।
आसमाप्तेः स्वपापस्य कुर्वन्तीति विनिश्चयः ॥ १३.२२२.२७ ॥

他们为那些被他们夺去财富的人做工,直到自己的罪业耗尽——这是确定的。

13.222.28

पशुभूतास्तथा चान्ये भवन्ति धनहारकाः ।
तत्तथा क्षीयते कर्म तेषां पूर्वापराधजम्।
अतोऽन्यथा न तच्छक्यं कर्म भोक्तुं सुरासुरैः ॥ १३.२२२.२८ ॥

其他窃取财富的人会变成畜生;如此,由他们先前罪过所生的业便得以耗尽。因此,即使诸天与阿修罗也无法以别的方式承受这业报。

13.222.29

किन्तु मोक्षविधिस्तेषां सर्वता तत्प्रसादनम् ।
अयथावन्मोक्षकामः पुनर्जन्मनि चेष्यते ॥ १३.२२२.२९ ॥

然而,他们解脱的途径全在于使他欢喜。渴望解脱却不如法行事的人,只会在轮回中再生。

13.222.30

मोक्षकामी यथान्यायं कुर्वन्कर्माणि सर्वशः ।
भर्तुः प्रसादमाकाङ्क्षेदायासान्सर्वथा सहन् ॥ १३.२२२.३० ॥

渴望解脱的人,应依正理履行一切职责,渴望主人的恩宠,并以各种方式忍受辛劳。

13.222.31

प्रीतिपूर्वं तु यो भर्त्रा मुक्तो मुक्तः स्वपापतः ।
तथाभूतान्कर्मकरान्सदा सन्तोषयेत्पतिः ॥ १३.२२२.३१ ॥

主人应当始终使那些被主人以爱心释放、已脱离自身罪过的仆役感到满足。

13.222.32

यथार्हं कारयेत्कर्म दण्डकारणतः क्षिपेत् ।
वृद्धान्बालांस्तथा क्षीणान्पालयन्धर्ममाप्नुयात् ॥ १३.२२२.३२ ॥

应按其能力使之工作,只有因罚过才可驱逐;保护老人、孩童和弱者的人,便能获得法。

13.222.33

इति ते कथितं देवि भूयः श्रोतुं किमिच्छसि ॥ १३.२२२.३३ ॥

女神啊,这些已经讲给你听了。你还想再听什么?