摩诃婆罗多 · 章 13.223
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.223.1
भगवन्मानुषेष्वेव मानुषाः समदर्शनाः ।
चण्डाला इव दृश्यन्ते स्पर्शमात्रविदूषिताइः ॥ १३.२२३.१ ॥
尊贵的主啊,人们中即便是视众生平等的人,看起来也像仅因一触即被玷污的旃陀罗。
13.223.2
नीचकर्मरता देव सर्वेषां मलहारकाः ।
दुर्गताः क्लेशभूयिष्ठा विरूपा दुष्टचेतसः।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ १३.२२३.२ ॥
神啊,那些沉溺于卑劣行为、为众人搬运污秽、堕入恶道、极为痛苦、形容丑陋且心地邪恶的人,是由于何种业报而变成这样的?你应当为我说明。
13.223.3
तदहं ते प्रवक्ष्यामि तदेकाग्रमनाः शृणु ॥ १३.२२३.३ ॥
此事我将为你讲述,你要专心聆听。
13.223.4
ये पुरा मनुजा देवि अतिमानयुता भृशम् ।
आत्मसम्भावनायुक्ताः स्तब्धा दर्पसमन्विताः ॥ १३.२२३.४ ॥
女神啊,往昔那些极度傲慢、自我抬高、高傲自大、充满骄矜的人们——
13.223.5
प्रणामं तु न कुर्वन्ति गुरूणामपि पामराः ।
ये स्वधर्मार्पणं कार्यमतिमानान्न कुर्वते ॥ १३.२२३.५ ॥
那些卑劣之人甚至不向师长致敬,并因过度傲慢而不尽自身法所应尽的职责。
13.223.6
परान्संनामयन्त्येव आज्ञयात्मनि ये बलात् ।
ऋद्धियोगात्परान्नित्यमवमन्यन्ति मानवान्।
पानपाः सर्वभक्षाश्च परुषाः कटुका नराः ॥ १३.२२३.६ ॥
那些以命令和强力压制他人、凭借富贵之力常常轻视他人的人——嗜酒者、无所不食者、粗暴苛刻、言语尖刻的人。
13.223.7
एवंयुक्तसमाचाराक दण्डिता यमशासनैः ।
कथंचित्प्राप्य मानुष्यं चण्डालाः सम्भवन्ति ते ॥ १३.२२३.७ ॥
行恶之人受阎摩之令惩罚,纵然侥幸得了人身,也生为旃陀罗(贱民)。
13.223.8
नीचकर्मरताश्चैव सर्वेषां मलहारकाः ।
परेषां वन्दनपरास्ते भवन्त्येव मानिनः ॥ १३.२२३.८ ॥
喜好卑劣之业的人,会成为清除众人污秽之人;虽然专心于礼拜他人,他们依然傲慢。
13.223.9
विरूपाः पापयोनिस्थाः स्पर्शनादिविवर्जिताः ।
कुवृत्तिमुपजीवन्ति भुत्वा ते रजकादयः।
पुराऽतिमानदोषात्तु भुञ्जते स्वकृतं फलम् ॥ १३.२२३.९ ॥
面目丑陋、生于罪恶胎中、被人避开接触的洗衣匠等人,以卑劣的生计为生;往昔因过度骄慢之过,他们承受自己所作的果报。
13.223.10
तानप्यवस्ताकृपणांश्चण्डालानपि बुद्धिमान् ।
न च निन्देन्नापि कुप्येद्भुञ्जते स्वकृतं फलम्।
चण्डाला अपि तां जातिं शोचन्तः शुद्धिमाप्नुयुः ॥ १३.२२३.१० ॥
智者不应责骂,也不应愤怒于那些可怜可悯的旃陀罗,因为他们正承受自己所作的果报。旃陀罗若为那样的出生而悲悼,也可获得清净。
13.223.11
भगवन्मानुषाः केचिदाशापाशशतैर्वृताः ।
परेषां द्वारि तिष्ठन्ति प्रतिषिद्धाः प्रवेशने ॥ १३.२२३.११ ॥
世尊啊,有些人被百条希望之索所缠绕,被禁止入内,却站在他人的门口。
13.223.12
द्रष्टुं ज्ञापयितुं चैव न लभन्ते च यत्नतः ।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ १३.२२३.१२ ॥
即便尽力,他们也得不到见面或表明自己的机会。由哪一业报的成熟而致此?您应当为我宣示。
13.223.13
ये पुरा मानुषा देवि ऐश्वर्यस्थानसंयुताः ।
संवादं तु न कुर्वन्ति परैरैश्वर्यमोहिताः ॥ १३.२२३.१३ ॥
女神啊,往昔那些拥有权位与财富的人,被权势所迷惑,不与他人交谈。
13.223.14
द्वाराणि न ददत्येव लोभमोहादिभिर्वृताः ।
अवस्थामोहसंयुक्ताः स्वार्थमात्रपरायणाः ॥ १३.२२३.१४ ॥
被贪欲、迷惑等所缠绕,他们不开门;沉溺于地位的迷惑,只专注于自己的利益。
13.223.15
सर्वभोगयुता वाऽपि सर्वेषां निष्फला भृशम् ।
अपि शक्ता न कुर्युस्ते परानुग्रहकारणात् ॥ १३.२२३.१५ ॥
即使拥有一切享乐,他们对所有人都全然无益;虽有能力,也不会为了施恩于他人而有所作为。
13.223.16
निर्दयाश्चैव निर्द्वारा भोगैश्वर्यगतिं प्रति ।
एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने ॥ १३.२२३.१६ ॥
他们冷酷无情,闭门不纳,一心追逐享乐与权势;行为如此的人,即使在良好的来世,也(仍然处于这种境况)。
13.223.17
यदि चेन्मानुषं जन्म लभेरंस्ते तथाविधाः ।
दुर्गता दुरवस्थाश्च कर्मव्याक्षेपसंयुताः ॥ १३.२२३.१७ ॥
若这样的人得到人身,也会处于恶趣与困顿之中,被自己业行的障碍所牵制。
13.223.18
अभिधावन्ति ते सर्वे तमर्थमभिवेदिनः ।
राज्ञां वा राजमात्राणां द्वारि तिष्ठन्ति वारिताः ॥ १३.२२३.१८ ॥
追求那一目标的他们都奔走;站在国王或王臣的门口,却被拒之门外。
13.223.19
कर्म विज्ञापितुं द्रष्टुं न लभन्ते कथञ्चन ।
प्रवेष्टुमपि ते द्वारं बहिस्तिष्ठन्ति काङ्क्षया ॥ १३.२२३.१९ ॥
他们无论如何也无法获得陈述其行为或被人接见的机会;怀着进入大门的希望,他们只能站在门外。
13.223.20
भगवन्मानुषाः केचिन्मनुष्येषु बहुष्वपि ।
सहसा नष्टसर्वस्वा भ्रष्टकोशपरिग्रहाः ॥ १३.२२३.२० ॥
尊贵的主啊!在众多人中,有些人忽然失去了全部财产,府库与所有之物都化为乌有。
13.223.21
दृश्यन्ते मानुषाः केचिद्राजचोरोदकादिभिः ।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ १३.२२३.२१ ॥
可见有些人因国王、盗贼、水患等而败落。这是由哪一种业报成熟所致?请您为我说明。
13.223.22
ये पुरा मानुषा देवि आसुरं भावमाश्रिताः ।
परेषां वृत्तिनाशं तु कुर्वते द्वेषलोभतः ॥ १३.२२३.२२ ॥
女神啊!那些往昔落入阿修罗本性的人,因嫉恨与贪欲而毁坏他人的生计。
13.223.23
उत्कोचनपराश्चैव पिशुनाश्च तथाविधाः ।
परद्रव्यहरा घोराश्चौर्याद्वाऽन्येन कर्मणा ॥ १३.२२३.२३ ॥
那些专事受贿、说人坏话之辈,以及夺取他人财物的残忍之人——或以盗窃,或以其他作为。
13.223.24
निर्दया निरनुक्रोशाः परेषां वृत्तिनाशकाः ।
नास्तिकाऽनृतभूयिष्ठाः परद्रव्यापहारिणः ॥ १३.२२३.२४ ॥
无情无悯之人,毁坏他人生计,不信正道,多行虚妄,夺取他人财物。
13.223.25
एवंयुक्तसमाचारा दण्डिता यमशासनैः ।
निरयस्थाश्चिरं कालं तत्र दुःखसमन्विताः ॥ १३.२२३.२५ ॥
行为如此的人,受阎摩之命惩罚,长久地处于地狱之中,充满痛苦。
13.223.26
यदि चेन्मानुषं जन्म लभेरंस्ते तथाविधाः ।
तत्रस्थाः प्राप्नुवन्त्येव सहसा द्रव्यवाशनम् ॥ १३.२२३.२६ ॥
若这样的人得到人身,则在那里便会突然遭受财物的损失。
13.223.27
कष्टं तत्प्राप्नुवन्त्येव कारणाकारणादपि ।
नाशं विनाशं द्रव्याणामुपघातं च सर्वशः ॥ १३.२२३.२७ ॥
他们必然遭受那种苦难,无论有因还是无因;财物毁坏、败落,并且各方面都受到损害。
13.223.28
भगवन्मानुषाः केचिद्बान्धवैः सहसा पृथक् ।
कारणादेव सहसा सर्वेषां प्राणनाशनम् ॥ १३.२२३.२८ ॥
尊贵的主啊,有些人会突然与亲属分离;由于某种原因,所有人的性命都会突然被夺去。
13.223.29
शस्त्रेण वाऽन्यथा वाऽपि प्राप्नुवन्ति वधं नराः ।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ १३.२२३.२९ ॥
人或死于兵器,或以他法而死;由于何种业报成熟而如此,你应当告诉我。
13.223.30
ये पुरा मनुजा देवि घोरकर्मरतानृताः ।
आसुराः प्रायशो मूर्खाः प्राणिहिंसाप्रिया भृशं ॥ १३.२२३.३० ॥
女神啊,昔日那些以可怕之事为乐、说谎、大多具有阿修罗本性、愚昧、并且极爱伤害众生的人。
13.223.31
निर्दयाः प्राणिहिंसायां तथा प्राणिविघातकाः ।
विश्वस्तघातकाश्चैव तथा सुप्तविघातकाः।
प्रायशोऽनृतभूयिष्ठा नास्तिका मांसभोजनाः ॥ १३.२२३.३१ ॥
残忍地伤害众生,杀害生灵,杀害信任他们之人及熟睡之人,大多充满虚妄,是无神论者,且食肉。
13.223.32
एवंयुक्तसमाचाराः कालधर्मं गताः पुनः ।
दण्डिता यमदण्डेन निरयस्थाश्चिरं प्रिये ॥ १३.२२३.३२ ॥
行为如此之人再次走向死亡之法,受阎摩之杖惩罚,长久居于地狱之中,我的爱人。
13.223.33
तिर्यग्योनिं पुनः प्राप्य तत्र दुःखपरिक्षयात् ।
यदि चेन्मानुपं जन्म लभेरंस्ते तथाविधाः।
तत्र ते प्राप्नुवन्त्येव वधबन्धान्यथा तथा ॥ १३.२२३.३३ ॥
再次获得畜生之胎,在那里直到苦难耗尽;若他们得了人身,那里也会以某种方式遭受杀戮与束缚。
13.223.34
आढ्या वा दुर्गता वाऽपि भुञ्जते स्वकृतं फलम् ।
सुप्ता मत्ताश्च विश्वस्तास्तथा ते प्राप्नुवन्त्युत ॥ १३.२२३.३४ ॥
无论富贵还是贫困,他们都享受自己所作的果报;睡眠者、醉者与信任者同样承受此果。
13.223.35
प्राणवाधकृतं दुःखं बान्धवैः सहसा पृथक् ।
पुत्रदारविनाशं वा शस्त्रेणान्येन वा वधम् ॥ १३.२२३.३५ ॥
因杀害生命而生的苦难,与亲族的突然离散,儿子与妻子的毁灭,或死于其他兵器。
13.223.36
भगवन्मानुषाः केचिद्राजनीतिविशार दैः ।
दण्ड्यन्ते मानुषे लोके मानुषाः सर्वतोभयाः।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ १३.२२३.३६ ॥
尊贵的主啊,人间有些人被精通治国之道者所惩罚,人们四面皆惧。这是由何种业报的成熟所致?请你告诉我。
13.223.37
ये पुरा मनुजा देवि मानुषांश्चेतराणि वा ।
क्लिष्टघातेन निघ्नन्ति प्राणान्प्राणिषु निर्दयाः।
आसुर घोरकर्माणः क्रूरदण्डवधप्रियाः ॥ १३.२२३.३७ ॥
女神啊,那些往昔无情地以痛苦的杀戮夺取人或其他生灵性命的人,是阿修罗性的人,行可怕之事,以残酷的刑罚和杀戮为乐。
13.223.38
ये दण्डयन्त्यदण्ड्यांश्च राजानः कोपमोहिताः ।
हिंसाहङ्कारपरुषा मांसादा नास्तिकाशुभाः ॥ १३.२२३.३८ ॥
被愤怒迷惑的国王惩罚了不该惩罚的人;他们因暴力与傲慢而粗暴,是食肉者、无信者和不吉之人。
13.223.39
केचित्स्त्रीपुरुषघ्नाश्च गुरुघ्नाश्च तथा प्रिये ।
एवंयुक्तसमाचारा प्राणिधर्मं गताः पुनः ॥ १३.२२३.३९ ॥
亲爱的,有些人是杀害妇女与男子、杀害师长的人;行为如此的人又回到众生之性。
13.223.40
दण्डिता यमदण्डेन निरयस्थाश्चिरं प्रिये ।
पूर्वजन्मकृतं कर्म भुञ्जते तदिह प्रजाः ॥ १३.२२३.४० ॥
亲爱的,那些受阎摩之杖惩罚、久居地狱的人,在此承受前世所作之业。
13.223.41
इहैव यत्कर्म कृतं तत्परत्र फलत्युत ।
एषा व्यवस्थितिर्देवि मानुषेष्वेव दृश्यते ॥ १३.२२३.४१ ॥
此世所作之业,在彼世亦结果;女神啊,这种秩序只在人类之中可见。
13.223.42
न चर्षीणां न देवानाममृतत्वात्तपोबलात् ।
तैरेकेन शरीरेण भुज्यते कर्मणः फलम् ॥ १३.२२३.४२ ॥
无论是仙人还是天神,因不死与苦行之力,都不会以同一个身体承受业报之果。
13.223.43
न तथा मानुषाणां स्यादन्तर्धाय भवेद्धि तत् ॥ १३.२२३.४३ ॥
对凡人并非如此;只有在身体消逝之后才会发生。
13.223.44
किमर्थं मानुषा लोके दण्ड्यन्ते पृथिवीश्वरैः ।
कृतापराधमुद्दिश्य हन्ता हर्ताऽयमित्युत ॥ १३.२२३.४४ ॥
世间的人为何被地上的君主所惩罚?针对犯了罪的人,说:“此人是杀人者,此人是窃贼”?
13.223.45
पुत्रार्थी पुत्रकामेष्ट्या इहैव लभते सुतान् ।
तैरेव हि शरीरेण भुञ्जन्ते कर्मणां फलम् ॥ १३.२२३.४५ ॥
求子之人借补子祭便能在此世得子;而人们也正是以这同一身体享受业行的果报。
13.223.46
दृश्यन्ते मानुषे लोके तद्भवान्नानुमन्यते ।
एतन्मे संशयस्थानं तन्मे त्वं छेत्तुमर्हसि ॥ १३.२२३.४६ ॥
这些在人间世界里可以看见,可您却不认可。这正是我的疑问所在;请您为我解开它。
13.223.47
स्थाने संशयितं देवि तत्त्वं शृणु समाहिता ।
कर्म कर्मफलं चेति युगपद्भुवि नेष्यते ॥ १३.२२३.४७ ॥
女神啊,你的疑问提得恰当。专心听真理:在大地上,行为与行为之果并不被认为同时发生。
13.223.48
ये त्वयाऽभिहिता देवि हन्ता हर्ताऽयमित्यपि ।
तेषां तत्पूर्वकं कर्म दण्ड्यते यत्र राजभिः ॥ १३.२२३.४८ ॥
女神啊,你所说的那些人——'此人是杀者,此人是夺者'——因其前世所作之业,在那里被诸王所惩罚。
13.223.49
देवि कर्म कृतं चैषां हेतुर्भवति शासने ।
अपराधापरेशेन राजा दण्डयति प्रजाः ॥ १३.२२३.४९ ॥
女神啊,他们所作之业便成为治理中的因由;君王作为过失及其反面的主宰,惩罚臣民。
13.223.50
इह लोके व्यवस्थार्थं राजभिर्दण्डनं स्मृतम् ।
उद्वेजनार्थं शेषाणामपराधं तमुद्दिशन् ॥ १३.२२३.५० ॥
在此世间,为了秩序,诸王所施的刑罚已被规定;指出那项过失,以使其余之人心生畏惧。
13.223.51
पुराकृतफलं दण्डो दण्ड्यमानस्य तद्ध्रुवम् ।
प्रागेव च मया प्रोक्तं तत्र निःसंशया भव ॥ १३.२२३.५१ ॥
刑罚即是前世所作之业的果报,对受罚者而言必然如此。此事我先前已说过;对此不要有疑惑。
13.223.52
भगवन्भुवि मर्त्यानां दण्डितानां नरेश्वरैः ।
दण्डेनैव तु तेनेह पापनाशो भवेन्न वा। ॥ १३.२२३.५२ ॥
尊贵的主啊,对于世上那些被诸王惩罚的凡人,罪过是否仅因那刑罚便在此被消除,还是不能?
13.223.53
एतन्मया संशयितं तद्भवांश्छेत्तुमर्हति ।
स्थाने संशयितं देवि शृणु तत्वं समाहिता ॥ १३.२२३.५३ ॥
此疑惑在我心中生起;愿您为我解决它。(摩诃提婆:)女神啊,此疑惑恰当;请专心聆听真谛。
13.223.54
ये नृपैर्दण्डिता भूमावपराधापदेशतः ।
यमलोके न दण्ड्यन्ते तत्र ते यमदण्डनैः ॥ १३.२२३.५४ ॥
在大地上以过错为借口被君王惩罚的人,在阎摩世界不会再因阎摩的刑罚而在那里受罚。
13.223.55
अदण्डिता वा ये मिथ्या मिथ्या वा दण्डिता भुवि ।
तान्यमो दण्डयत्येव स हि वेद कृताकृतम्।
नातिक्रमेद्यमं कश्चित्कर्म कृत्वेह मानुषः ॥ १३.२२३.५५ ॥
在大地上未受罚或被冤枉受罚的人,阎摩必定惩罚他们,因为他知道已做与未做之事。在此行事的凡人,不应违背阎摩。
13.223.56
राजा यमश्च कुर्वाते दण्डमात्रं तु शोभने ।
उभाभ्यां यमराजभ्यां दण्डितोऽदण्डितोपि वा।
पश्चात्कर्मफलं भुङ्क्ते नरके मानुषेषु वा ॥ १३.२२३.५६ ॥
国王与阎摩都只施加惩罚,美丽的女子啊。无论是否受到这两位阎摩之主的惩罚,之后人都要在地狱或人世间享受其行为的果报。
13.223.57
नास्ति कर्मफलच्छेत्ता कश्चिल्लोकत्रयेऽपि च ।
इति ते कथितं सर्वं निर्विशङ्का भव प्रिये ॥ १३.२२३.५७ ॥
在三界之中,没有任何人能够斩断行为的果报。我已将这一切告诉你;爱人啊,不要再有疑虑。
13.223.58
किमर्थं दुष्कृतं कृत्वा मानुषा भुवि नित्यशः ।
पुनस्तत्कर्मनाशाय प्रायश्चित्तानि कुर्वते ॥ १३.२२३.५८ ॥
人们在大地上不断作恶,为何之后又为消除那业行而修行赎罪?
13.223.59
सर्वपापहरं चेति हयमेधं वदन्ति च ।
प्रायश्चित्तानि चान्यानि पापनाशाय कुर्वते।
तस्मान्मया संशयितं त्वं तच्छेत्तुमिहार्हसि ॥ १३.२२३.५९ ॥
人们说马祭(aśvamedha)能消除一切罪恶,也会行其他忏悔来断除罪恶。因此我心中有疑,请您为我解决。
13.223.60
स्थाने संशयितं देवि शृणु तत्वं समाहिता ।
संशयो हि महानेव पूर्वेषां च मनीषिणाम् ॥ १३.२२३.६० ॥
女神啊,这个疑问提得恰当;请专心听真理。即使是往昔的贤哲,这个疑问也是很大的。
13.223.61
द्विधा तु क्रियते पापं सद्भिश्चासद्भिरेव च ।
अभिसन्धाय वा नित्यमन्यथा वा यदृच्छया ॥ १३.२२३.६१ ॥
罪过有两种造作方式,无论善人还是恶人:或出于故意的预谋,或以其他方式,或出于偶然。
13.223.62
केवलं चाभिसन्धाय संरम्भाच्च करोति यत् ।
कर्मणस्तस्य नाशस्तु न कथंचन विद्यते ॥ १३.२२३.६२ ॥
凡人仅出于故意预谋和激情而造作的行为,其业果绝无任何消除之法。
13.223.63
अभिसन्धिकृतस्यैव नैव नाशोस्ति कर्मणः ।
अश्वमेधसहस्रैश्च प्रायश्चित्तशतैरपि ॥ १३.२२३.६३ ॥
出于故意预谋所做之业,确实无法消除,即使以千次马祭和百种忏悔也不能。
13.223.64
अन्यथा यत्कृतं पापं प्रमादाद्वा यदृच्छया ।
प्रायश्चित्ताश्वमेधाब्यां श्रेयसा तत्प्रणश्यति ॥ १३.२२३.६४ ॥
若是因疏忽或偶然而造的罪,则以忏悔和马祭可得吉祥地消除。
13.223.65
लोकसंव्यवहारार्थं प्रायश्चित्तादिरिष्यते ।
विद्ध्येवं पापके कार्ये निर्विशङ्का भव प्रिये ॥ १३.२२३.६५ ॥
为了世间的日常事务,规定了赎罪等仪式。爱妻啊,你应当知道:即使在罪恶之事上,也要毫无疑虑。
13.223.66
इति ते कथितं देवि भूयः श्रोतुं किमिच्छसि ॥ १३.२२३.६६ ॥
女神啊,这些已经告诉你了。你还想再听什么?
13.223.67
भगवन्देवदेवेश मानुषाश्चेतरा अपि ।
म्रियन्ते मानुषा लोके कारणाकारणादपि।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ १३.२२३.६७ ॥
世尊,诸神之神,人类和其他众生在世间因有因或无因而死。这是由哪种业报所致呢?请您告诉我。
13.223.68
ये पुरा मनुजा देवि कारणाकारणादपि ।
यथाऽसुभिर्वियुज्यन्ते प्राणिनः प्राणिनिर्दर्यः ॥ १३.२२३.६८ ॥
女神啊,那些往昔为人者,无论有因或无因,都在残忍对待众生中与生命之气分离。
13.223.69
तथैव ते प्राप्नुवन्ति यथैवात्मकृतं फलम् ।
विषदास्तु विषेणैव शस्त्रैः शस्त्रेण घातकाः ॥ १३.२२३.६९ ॥
同样地,他们获得的正是自己所作业的果报。施毒者因毒而亡,以兵器杀人者则因兵器而亡。
13.223.70
एवमेव यथा लोके मानुषान्घ्नन्ति मानुषाः ।
कारणेनैव तेनाथ तता स्वप्राणनाशनम्।
प्राप्नुवन्ति पुनर्देवि नास्ति तत्र विचारणा ॥ १३.२२३.७० ॥
正如世间的人杀害他人,他们也因同样的缘由而遭受自己生命的毁灭。女神啊,此中没有疑问。
13.223.71
इति ते कथितं सर्वं कर्मपाकफलं प्रिये ।
भूयस्तव समासेन कथयिष्यामि तच्छृणु ॥ १३.२२३.७१ ॥
我已将业报成熟之果的一切告诉你了,爱人。现在我将简要地再说一遍,听好。
13.223.72
सत्यप्रमाणकरणान्नित्यमव्यभिचारि च ।
यैः पुरा मनुजैर्देवि यस्मिन्काले यथा कृतम् ॥ १३.२२३.७२ ॥
因以真实为凭证,此事永远不虚。女神啊,古时的人们在何时如何行事。
13.223.73
येनैव कारणेनापि कर्म यत्तु शुभाशुभम् ।
तस्मन्काले तथा देवि कारणेनैव तेन तु ॥ १३.२२३.७३ ॥
无论因何原因所作的善恶之业,在那一时刻,女神啊,也因同样的原因。
13.223.74
प्राप्नुवन्ति नराः प्रेत्य निःसन्देहं शुभाशुभम् ।
इति सत्यं प्रजानीहि लोके तत्र विधिं प्रति ॥ १३.२२३.७४ ॥
人死后必定获得善与恶的果报。应当知道,关于彼世的法则,这是真实的。
13.223.75
कर्मकर्ता नरो भोक्ता स नास्ति दिवि वा भुवि ।
न शक्यं कर्म चाभोक्तुं सदेवासुरमानुषैः ॥ १३.२२३.७५ ॥
造业之人即是受报之人,天上人间别无他者受报。即使诸天、阿修罗与人类,也不可能不承受业报。
13.223.76
कर्मणा ग्रथितो लोक आदिप्रभृति वर्तते ।
एतदुद्देशतः प्रोक्तं कर्मपाकफलं प्रति ॥ १३.२२३.७६ ॥
此世界由业所编织,自始便已存在。关于业报成熟之果,这里已作了概要的宣说。
13.223.77
यदन्यच्च मया नोक्तं यस्मिंस्ते कर्मसङ्ग्रहे ।
बुद्धितर्केण तत्सर्वं तथा वेदितुमर्हसि।
कथितं श्रोतुकामाया भूयः श्रोतुं किमिच्छसि ॥ १३.२२३.७७ ॥
我未在业之集中告诉你的其他内容,你应当以智慧与推理来理解。你既渴望聆听,已告诉你的内容之外,你还想再听什么?