Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.225

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.225.1

भगवन्भगनेत्रघ्न मानुषाणां विचेष्टितम् ।
सर्वमात्मकृतं चेति श्रुतं मे भगवन्मतम् ॥ १३.२२५.१ ॥

主啊,斩断薄伽之眼者!我听说人的一切行为都是自作的,这正是世尊的见解。

13.225.2

लोके ग्रहकृतं सर्वं मत्वा कर्म शुभाशुभम् ।
तदेव ग्रहनक्षत्रं प्रायशः पर्युपासते।
एष मे संशयो देव तं मे त्वं छेत्तुमर्हसि ॥ १३.२२५.२ ॥

世人以为一切善恶之行皆由星辰所作,因而大多供奉这些星辰与宿曜。神啊,这便是我的疑惑,愿您为我断除。

13.225.3

स्थाने संशयितं देवि शृणु तत्वविनिश्चयम् ॥ १३.२२५.३ ॥

女神啊,你的怀疑是恰当的;现在请听真理的确定之论。

13.225.4

नक्षत्राणि ग्रहाश्चैव शुभाशुभनिवेदकाः ।
मानवानां महाभागे न तु कर्मकराः स्वयम् ॥ १३.२२५.४ ॥

星宿与行星只是昭示人之善恶的,大福之人啊;它们自身并非行事之人。

13.225.5

प्रजानां तु हितार्थाय शुभाशुभविधिं प्रति ।
अनागतमतिक्रान्तं ज्योतिश्चक्रेण बोध्यते ॥ १३.२२५.५ ॥

为了众生的福祉,关于善恶之定则,未来与过去通过星象之轮而得以昭示。

13.225.6

किन्तु तत्र शुभं कर्म सुग्रहैस्तु निवेद्यते ।
दुष्कृतस्याशुभैरेव समावायो भवेदिति ॥ १३.२२५.६ ॥

然而,善行由吉星所昭示,而与恶行的相应则只由凶星而来。

13.225.7

तस्मात्तु ग्रहवैषम्ये विषमं कुरुते जनः ।
ग्रहसाम्ये शुभं कुर्याज्ज्ञात्वाऽऽत्मानं तथा कृतम् ॥ १३.२२५.७ ॥

因此,行星不利时,人作不善之事;行星平衡时,人应行善,知道自己所为即是其果。

13.225.8

केवलं ग्रहनक्षत्रं न करोति शुभाशुभम् ।
सर्वमात्मकृतं कर्म लोकवादो ग्रहा इति ॥ १३.२२५.८ ॥

仅仅星辰与宿曜并不造成善恶;一切业都是自作;所谓“星辰”不过是世俗之说。

13.225.9

पृथग्ग्रहाः पृथक्कर्ता कर्ता स्वं भुञ्जते फलम् ।
इति ते कथितं सर्वं विशङ्कां जहि शोभने ॥ १३.२२५.९ ॥

星辰各自不同,作者亦各自不同;作者自享其果。这一切都已对你说明;美好的人啊,去除疑惑吧。

13.225.10

भगवन्विविधं कर्म कृत्वा जन्तुः शुभाशुभम् ।
किं तयोः पूर्वकतरं भुङ्क्ते जन्मान्तरे पुनः।
एष मे संशयो देव तं मे त्वं छेत्तुमर्हसि ॥ १३.२२५.१० ॥

尊贵的主啊,众生作种种善恶之业后,在来世先受用二者中的哪一种?神啊,这便是我的疑惑;唯有您配为我断除它。

13.225.11

स्थाने संशयितं देवि तत्ते वक्ष्यामि तत्वतः ।
अशुभं पूर्वमित्याहुरपरे शुभमित्यपि। ॥ १३.२२५.११ ॥

女神啊,你的疑惑很恰当;我将如实告诉你。有人说先有不善,有人说先有善。

13.225.12

मिथ्या तदुभयं प्रोक्तं केवलं तद्ब्रवीमि ते ॥ १३.२२५.१२ ॥

这两种说法都被declared为虚妄;我只把这个告诉你。

13.225.13

मानुषे तु पदे कर्म युगपद्भुज्यते सदा ।
यथाकृतं यथायोगमुभयं भुज्यते क्रमात् ॥ १३.२२५.१३ ॥

在人的境界中,业报常常同时受用;依所作与所宜,二者依次受用。

13.225.14

भुञ्जानाश्चापि दृश्यन्ते क्रमशो भुवि मानवाः ।
ऋद्धिं हानिं सुखं दुःखं तत्सर्वमुभयं भयम् ॥ १३.२२५.१४ ॥

在大地上,可见世人依次受用:兴盛与损失,快乐与痛苦——这一切,二者皆是恐惧。

13.225.15

दुःखान्यनुभवन्त्याढ्या दरिद्राश्च सुखानि च ।
यौगपद्याद्धि भुञ्जाना दृश्यन्ते लोकसाक्षिकम् ॥ १३.२२५.१५ ॥

富者经历苦难,贫者享受快乐;人们可见他们同时受用二者——这是世间所共见的证明。

13.225.16

नरके स्वर्गलोके च न तथा संस्थितिः प्रिये ।
नित्यं दुःखं हि नरके स्वर्गे नित्यं सुखं तथा ॥ १३.२२५.१६ ॥

爱妻啊,地狱与天界的情形并不相同:地狱中常有苦,天界中同样常有乐。

13.225.17

शुभाशुभानामाधिक्यं कर्मणां तत्र सेव्यते ।
निरन्तरं सुखं दुःखं स्वर्गे च नरके भवेत् ॥ १३.२२५.१७ ॥

在那里所受用的,是善业与恶业的多寡:天界中持续的是快乐,地狱中持续的是痛苦。

13.225.18

तत्रापि सुमहद्भुक्त्वा पूर्वमल्पं पुनः शुभे ।
एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ॥ १३.२२५.१८ ॥

在那里,也是先受用极大的部分,然后再受用少许。吉祥的人啊,这一切我都已告诉你了;你还想听什么?

13.225.19

भगवन्प्राणिनो लोके म्रियन्ते केन हेतुना ।
जाताजाता न तिष्ठन्ति तन्मे शंसितुमर्हसि ॥ १३.२२५.१९ ॥

尊者啊,世间众生因何缘故而死?凡生者皆不能长存。请你为我宣说。

13.225.20

तदहं ते प्रवक्ष्यामि शृणु सत्यं समाहिता ।
आत्मा कर्मक्षयाद्देहं यथा मुञ्चति तच्छृणु ॥ १३.२२५.२० ॥

因此我将为你宣说。专心听闻真实之理。听我说,当业报耗尽时,灵魂如何舍离身体。

13.225.21

शरीरात्मसमाहारो जन्तुरित्यभिधीयते ।
तत्रात्मानं नित्यमाहुरनित्यं क्षेत्रिमुच्यते ॥ १३.२२५.२१ ॥

身与魂的结合称为众生。其中,魂被称为永恒,而无常者被称为田,即身体。

13.225.22

एवं कालेन सङ्क्रान्तं शरीरं जर्झरीकृतम् ।
अकर्मयोग्यं संशीर्णं त्यक्त्वा देही ततो व्रजेत् ॥ १३.२२५.२२ ॥

如是,身体为时间所侵,变得衰朽,不能再行事业,已然崩坏。舍弃此身之后,有身者便离去。

13.225.23

नित्यस्यानित्यसंत्यागाल्लोके तन्मरणं विदुः ।
कालं नातिक्रमेरन्हि सदेवासुरमानवाः ॥ १३.२२५.२३ ॥

永恒者舍弃无常者,世人称之为其死亡。天神、阿修罗与人类皆不能超越时间。

13.225.24

यथाऽऽकाशे न तिष्ठेत द्रव्यं किञ्चिदचेतनम् ।
तथा धावति कालोऽयं क्षणं किञ्चिन्न तिष्ठति ॥ १३.२२५.२४ ॥

如同无情之物不能留存于虚空,此时间奔驰而去,一刹那也无物停留。

13.225.25

स पुनर्जायतेऽन्यत्र शरीरं नवमाविशन् ।
एवंलोकगतिर्नित्यमादिप्रभृति वर्तते ॥ १३.२२५.२५ ॥

他在别处再次出生,进入新的身体。世界的这种运行从太初起便永恒持续。

13.225.26

भगवन्प्राणिनो बाला दृश्यन्ते मरणं गताः ।
अतिवृद्धाश्च जीवन्तो दृश्यन्ते चिरजीविनः ॥ १३.२२५.२६ ॥

尊贵者啊,孩子们似乎都走向了死亡,而极其年老的人却仍活着,长寿不衰。

13.225.27

केवलं कालमरणं न प्रमाणं महेश्वर ।
तस्मान्मे संशय ब्रूहि प्राणिनां जीवकारणम् ॥ १३.२२५.२७ ॥

大自在天啊,仅仅因时间而死并不足以为证。请解我疑惑,告诉我众生得以存活的原因。

13.225.28

शृणु तत्कारणं देवि निर्णयस्त्वेक एव सः ।
जीर्णत्वमात्रं कुरुते कालो देहं न पातयेत् ॥ १३.२२५.२८ ॥

女神啊,请听那个原因。定论只有一个:时间只会使身体衰老,却不会使它倒下。

13.225.29

जीर्णे कर्मणि संघातः स्वयमेव विशीर्यते ।
पूर्वकर्मप्रमाणेन जीवितं मृत्युरेव वा ॥ १३.२२५.२९ ॥

当过去的业耗尽时,身体的聚合便会自行崩散。依照过去业的量度,或有生命,或即死亡。

13.225.30

यावत्पूर्वकृतं कर्म तावज्जीवति मानवः ।
तत्र कर्मवशाद्बाला म्रियन्ते कालसंक्षयात् ॥ १३.२२५.३० ॥

人只要前世所作之业尚存,便一直活着。在那里,由于业力的支配,孩童因时运耗尽而死去。

13.225.31

चिरं जीवन्ति वृद्धाश्च तथा कर्मप्रमाणतः ।
इति ते कथितं देवि निर्विशङ्का भव प्रिये ॥ १३.२२५.३१ ॥

老者依业力之量而长久生存。女神啊,此事已对你说明;爱人啊,不必疑惑。

13.225.32

भगवन्केन वृत्तेन भवन्ति चिरजीविनः ।
अल्पायुषो नराः केन तन्मे शंसितुमर्हसि ॥ १३.२२५.३२ ॥

尊贵的主啊,人因何种行为而长寿,又因何而短命?请你为我宣说。

13.225.33

शृणु तत्सर्वमखिलं गुह्यं पथ्यतरं नृणाम् ।
येन वृत्तेन सम्पन्ना भवन्ति चिरजीविनः ॥ १३.२२५.३३ ॥

请听这全部奥秘,对人最为有益:凭借此行,人便得以圆满而长寿。

13.225.34

अहिंसा सत्यवचनमक्रोधः क्षीन्तिरार्जवम् ।
गुरूणां नित्यशुश्रूषा वृद्धानामपि पूजनम् ॥ १३.२२५.३४ ॥

不杀生、说真实语、不生嗔怒、忍辱、正直,恒常侍奉师长,并尊敬年老者。

13.225.35

शौचादकार्यसंत्यागात्सदा पथ्यस्य भोजनम् ।
एवमादिगुणं वृत्तं नराणां दीर्घजीविनाम् ॥ १३.२२५.३५ ॥

以清净,舍弃不当之事,常食有益的饮食——如此等德行,便是长寿之人的行为。

13.225.36

तपसा ब्रह्मचर्येण रसायननिषेवणात् ।
उदग्रसत्त्वा बलिनो भवन्ति चिरजीविनः।
स्वर्गे वा मानुषे वाऽपि चिरं तिष्ठन्ति धार्मिकाः ॥ १३.२२५.३६ ॥

凭苦行、梵行与服用延年药,心志高远的强者得以长寿;有德之人无论在天界或人间都长久留住。

13.225.37

अपरे पापकर्माणः प्रायशोऽनृतवादिनः ।
हिंसाप्रिया गुरुद्विष्टा निष्क्रियाः शौचवर्जिताः ॥ १३.२२५.३७ ॥

另一些人作恶多端,大多说谎,喜好暴力,憎恨师长,无所作为,缺乏清净。

13.225.38

नास्तिका घोरकर्माणः सततं मांसपानपाः ।
पापाचारा गुरुद्विष्टाः कोपनाः कलहप्रियाः ॥ १३.२२५.३८ ॥

无神论者,行为凶恶,常年食肉饮酒,行为罪恶,憎恨师长,易怒,喜好争吵。

13.225.39

एवमेवाशुभाचारास्तिष्ठन्ति नरके चिरम् ।
तिर्यग्योनौ तथाऽत्यन्तमल्पास्तिष्ठन्ति मानवाः।
तस्मादल्पायुषो मर्त्यास्तादृशाः सम्भवन्ति ते ॥ १३.२२५.३९ ॥

同样,行为不善者久居地狱,也长期处于畜生之胎;人类则只停留很短时间。因此这样的凡人生来寿命短促。

13.225.40

अगम्यदेशगमनादपथ्यानां च भोजनात् ।
आयुःक्षयो भवेन्नॄणामायुःक्षयकरा हि ते ॥ १३.२२५.४० ॥

因为前往不当之地和食用有害之物,人的寿命便会耗损;这些恰恰是导致寿命减损的原因。

13.225.41

भवन्त्यल्पायुषस्तैस्तैरन्यथा चिरजीविनः ।
एतत्ते कथितं सर्वं भूयः श्रोतुं किमिच्छसि ॥ १३.२२५.४१ ॥

因这些种种原因,人便寿命短促;反之,行为相反则长寿。这一切我都已告诉你了;你还想再听什么呢?