Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.226

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.226.1

देवदेव महादेव श्रुतं मे भगवन्निदम् ।
आत्मनो जातिसम्बन्धं ब्रूहि स्त्रीपुरुषान्तरम् ॥ १३.२२६.१ ॥

神中之神、大天啊,尊贵的主,我已听闻此事。请告诉我自我与出生的关联,以及女人与男人之间的区别。

13.226.2

स्त्रीप्राणाः पुरुषप्राणा एकतः पृथगेव वा ।
एष मे संशयो देव तं मे छेत्तुं त्वमर्हसि ॥ १३.२२६.२ ॥

女人的生命之息与男人的生命之息是一体,还是各自分别?神啊,这正是我的疑问;请您为我断除它。

13.226.3

तदहं ते प्रवक्ष्यामि शृणु सर्वं समाहिता ।
स्त्रीत्वं पुंस्त्वमिति प्राणे स्थितिर्नास्ति शुभेक्षणे ॥ १३.२२६.३ ॥

因此我将为你宣说;请专心听完一切。美目者啊,女性与男性之性并不住于生命之息中。

13.226.4

निर्विकारः सदैवात्मा स्त्रीत्वं पुंस्त्वं न चात्मनि ।
कर्मप्रकारेण तथा जात्यां जात्यां प्रजायते ॥ १३.२२६.४ ॥

自我永远不变;女性与男性之性不在自我之中。依照业行的方式,它在每一次生中出生。

13.226.5

कृत्वा कर्म पुमान्स्त्री वा स्त्री पुमानपि जायते ।
स्त्रीभावं यत्पुमान्कृत्वा कर्मणा प्रमदा भवेत् ॥ १३.२२६.५ ॥

男子造作业行之后,可生为女人;女人也可生为男人。男子因业行而获得女性之性,便成为女人。

13.226.6

भगवन्सर्वलोकेश कर्मात्मा न करोति चेत् ।
कोऽन्यः कर्मकरो देहे तन्मे त्वं वक्तुमर्हसि ॥ १३.२२६.६ ॥

世界之主,尊贵的主啊!若以业为自我者不造作业,那么在身体中造作的又是谁呢?请您告诉我。

13.226.7

शृणु भामिनि कर्तारमात्मा हि न च कर्मकृत् ।
प्रकृत्या गुणयुक्तेन क्रियते कर्म नित्यशः ॥ १३.२२६.७ ॥

听着,夫人!自我并非作者,也不是行动的执行者。行动总是由具有三德的自然(prakṛti)所完成。

13.226.8

शरीरं प्राणिनां लोके यथा पित्तकफानिलैः ।
व्याप्तमेभिस्त्रिभिर्दोषैस्तथा व्याप्तं त्रिभिर्गुणैः ॥ १३.२२६.८ ॥

正如世间众生的身体被胆汁、痰液和风这三种病素所渗透,它也同样被三德所渗透。

13.226.9

सत्वं रजस्तमश्चैव गुणास्त्वेते शरीरिणः ।
प्रकाशात्मकमेतेषां सत्वं सततमिष्यते ॥ १३.२२६.९ ॥

悦(sattva)、激(rajas)、暗(tamas)——这便是有身体者的三德。其中,悦德常被认为具有光明的本性。

13.226.10

रजो दुःखत्मकं तत्र तमो मोहात्मकं स्मृतम् ।
त्रिभिरेतैर्गुणैर्युक्तं लोके कर्म प्रवर्तते ॥ १३.२२६.१० ॥

激德本性为苦,暗德被记为本性为迷惑。具备这三德,行动便在世间运行。

13.226.11

सत्यं प्राणिदया शौचं श्रेयः प्रीतिः क्षमा दमः ।
एवमादि तथाऽन्यश्च कर्म सात्विकमुच्यते ॥ १३.२२६.११ ॥

诚实、怜悯众生、清净、福祉、慈爱、忍辱、自制,以及诸如此类的其他行为,都被称为悦德的行为。

13.226.12

दाक्ष्यं कर्मपरत्वं च लोभो मोहो विधिं प्रति ।
कलत्रसङ्गो माधुर्यं नित्यमैश्वर्यलुब्धता।
रजसश्चोद्भवं चैतत्कर्म नानाविधं सदा ॥ १३.२२६.१२ ॥

技巧、专心于行动、贪欲、对仪轨的迷惑、对妻子的执着、追求乐趣,以及对权势的常年渴望,都由激德而生;这样的行为总是多种多样的。

13.226.13

अनृतं चैव पारुष्यं धृतिर्विद्वेषिता भृशम् ।
हिंसाऽसत्यं च नास्तिक्यं निद्रालस्यभयानि च।
तमसश्चोद्भवं चैतत्कर्म पापयुतं तथा ॥ १३.२२६.१३ ॥

虚妄与粗暴,极度的敌意与固执,暴力,不实与无信,昏睡、懈怠与恐惧——这些皆从暗性(tamas)而生,伴随这些的行为即是有罪的。

13.226.14

तस्माद्गुणमयः सर्वः कार्यारम्भः शुभाशुभः ।
तस्मादात्मानमव्यग्रं विद्ध्यकर्तारमव्ययम् ॥ १३.२२६.१४ ॥

因此,一切行为的开端,无论善恶,皆由诸德(guṇa)构成。故应知自我不动、非作者、不灭。

13.226.15

सात्विकाः पुण्यलोकेषु राजसा मानुषे पदे ।
तिर्यग्योनौ च नरके तिष्ठेयुस्तामसा नराः ॥ १३.२२६.१५ ॥

具善性(sattva)者住于福德之界,具激情(rajas)者住于人身,具暗性(tamas)者则住于畜生胎中与地狱。

13.226.16

किमर्थमात्मा भिन्नेऽस्मिन्देहे शस्त्रेण वा हते ।
स्वयं प्रयास्यति तदा तन्मे शंसितुमर्हसि ॥ १३.२२६.१६ ॥

此身破坏或被兵器所伤之时,自我因何缘故自行离去?请你为我宣说。

13.226.17

तदहं ते प्रक्ष्यामि शृणु कल्याणि कारणम् ।
एतन्निर्णायकैश्चापि मुह्यन्ते सूक्ष्मबुद्धिभिः ॥ १३.२२६.१७ ॥

因此我将告诉你那个缘由;听着,吉祥的女神。即使是裁断此事的智者,虽心思细密,也会在此迷惑。

13.226.18

कर्मक्षये तु सम्प्राप्ते प्राणिनां जन्मधारिणाम् ।
उपद्रवो भवेद्देहे येन केनापि हेतुना ॥ १३.२२६.१८ ॥

当承受生身的众生之业尽时,身体便可能因任何缘由而遭受灾患。

13.226.19

तन्निमित्तं शरीरी तु शरीरं प्राप्य संक्षयम् ।
अपयाति परित्यज्य ततः कर्मवशेन सः ॥ १३.२२६.१९ ॥

因此,有身的众生在身体毁坏之时,舍弃它,依业力所牵而离去。

13.226.20

देहक्षयेपि नैवात्मा वेदनाभिर्न चाल्यते ।
तिष्ठेत्कर्मफलं यावद्व्रजेत्कर्मक्षये पुनः ॥ १३.२२६.२० ॥

即使身体毁坏,我(我)也不会被痛苦所动摇;只要业果尚存便停留,业尽之时又再离去。

13.226.21

आदिप्रभृति लोकेऽस्मिन्नेवमात्मगतिः स्मृता ।
एतत्ते कथितं देवि किं भूयः श्रोतुमिच्छसि ॥ १३.२२६.२१ ॥

自宇宙开端以来,此世间的自我之行径便是如此被传授的。女神啊,这些我已告诉你了;你还想再听什么?