Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.228

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.228.1

भगवन्सर्वभूतेश लोके कर्मक्रियापथे ।
दैवात्प्रवर्तते सर्वमिति केचिद्व्यवस्थिताः ॥ १३.२२८.१ ॥

尊贵的众生之主啊!有些人坚定地认为,在世间行动与作为的道路上,一切都由命运推动而发生。

13.228.2

अपरे चेष्टया चेति दृष्ट्वा प्रत्यक्षतः क्रियाम् ।
पक्षभेदे द्विधा चास्मिन्संशयस्थं मनो मम।
तत्त्वं वद महादेव श्रोतुं कौतूहलं हि मे ॥ १३.२२८.२ ॥

另一些人则认为是出于努力,因为他们直接见到了行动。在这种意见分歧中,我的心分成两端,陷于疑惑。伟大的天神啊,请说出真理;我渴望听闻。

13.228.3

तदहं ते प्रवक्ष्यामि शृणु तत्वं समाहिता ।
तदेवं कुरुते कर्म लोके देवि शुभाशुभम् ॥ १३.२२८.३ ॥

因此我将告诉你;女神啊,请以专注之心听取真理。世间之人就这样造作善与恶的行为。

13.228.4

लक्ष्यते द्विविधं कर्म मानुषेष्वेव तच्छृणु ।
पुराकृतं तयोरेकमैहिकं त्वितरस्तथा ॥ १३.२२८.४ ॥

人类之中,行为可见有两种,你且听着。其一是前世所作,另一是今生所作。

13.228.5

अदृष्टपूर्वं यत्कर्म तद्दैवमिति लक्ष्यते ।
विहीनं दृष्टकरणं तन्मानुषमिति स्मृतम् ॥ १३.२२८.५ ॥

凡是前所未见的行为,便被认为是天命(命运)。凡没有可见原因的,则被称为人为。

13.228.6

मानुषं तु क्रियामात्रं दैवात्सम्भवते फलम् ।
एवं तदुभयं कर्म मानुषं विद्धि तन्नृषु ॥ १३.२२८.६ ॥

人的所为只是行动,而其果报却由命运而生。因此,应当知道这两种行为在人之中都属于人为。

13.228.7

लौकिकं तु प्रवक्ष्यामि दैवमानुषनिर्मितम् ।
कृषौ तु दृश्यते कर्म कर्षणं वपनं तथा ॥ १३.२२८.७ ॥

我现在要讲世间的行为,它由天命与人力共同造成。在农事中可见其行为:耕犁与播种。

13.228.8

रोपणं चैव लवनं यच्चान्यत्पौरुषं स्मृतम् ।
दैवादसिद्धिश्च भवेद्दुष्कृतं चास्ति पौरुषे ॥ १३.२२८.८ ॥

种植与收割,以及其他被称为人力的事。由于天命可能失败,而人力之中也有恶行。

13.228.9

सुयत्नाल्लभ्यते कीर्तिर्दुर्यत्नादयशस्तथा ।
एवं लोकगतिर्देवि आदिप्रभृति वर्तते ॥ १३.२२८.९ ॥

以善行努力得名声,以恶行努力得耻辱。如此,女神啊,世间之道自始以来便是如此。

13.228.10

भगवन्सर्वलोकेश सुरासुरनमस्कृत ।
कथमात्मा सदा गर्भं संविशेष्कर्मकारणात्।
तन्मे वद महादेव तद्धि गुह्यं परं मतम् ॥ १३.२२८.१० ॥

世尊啊,诸世界之主,为诸天与阿修罗所礼敬!灵魂因业之故,如何常常进入胎中?大天啊,请告诉我,因为这被认为是最高的秘密。

13.228.11

शृणु भामिनि तत्सर्वं गुह्यानां परमं प्रिये ।
देवगुह्यादपि परमात्मगुह्यमिति स्मृतम् ॥ १३.२२८.११ ॥

听着,女士,这是一切秘密中最高的,亲爱的。至上自我的秘密被认为比诸神的秘密更为殊胜。

13.228.12

देवासुरास्तन्न विदुरात्मनो हि गतागतम् ।
अदृश्यो हि सदैवात्मा जनैः सौक्ष्म्यान्निराश्रयात् ॥ १३.२२८.१२ ॥

即使是诸天与阿修罗,也不知道自我的来去。自我因其精微且无所依托,对人们而言始终是不可见的。

13.228.13

अतिमायेति मायानामात्ममाया सेदष्यते ।
सोयं चतुर्विधां जातिं संविशत्यात्ममायया।
मैथुनं शोणितं बीजं दैवमेवात्र कारणम् ॥ १३.२२८.१३ ॥

这是超越一切幻化的幻化;在诸幻化中,只见自我之幻。他以自身之幻进入四种生类。交合、血、种子——此中唯天命为因。

13.228.14

बीजशोणितसंयोगे यदा सम्भवते शुभे ।
तदाऽऽत्मा विशते गर्भमेवमण्डजरायुजे ॥ १३.२२८.१४ ॥

吉祥的女神啊,当精与血相合而胎体生起时,灵魂便入于胎中——卵生与胎生之类,皆如此。

13.228.15

एवं संयोगकाले तु आत्मा गर्भत्वमेयिवान् ॥ १३.२२८.१५ ॥

如此,在交合之时,灵魂便成为胎身。

13.228.16

कलिलाज्जायते पिण्डं पिण्डात्पेश्यर्बुदं भवेत् ।
व्यक्तिभावगतं चैव कर्म त्वाश्रयते क्रमात् ॥ १३.२२८.१६ ॥

由凝血(迦罗罗)生出团块;由团块生出肉块与如泡的隆起。获得显现之形后,业便渐渐依止于其中。

13.228.17

एवं विवर्धमानेन कर्मात्मा सह वर्धते ।
एवमात्मगतिं विद्धि यन्मां पृच्छसि सुप्रभे ॥ १३.२२८.१७ ॥

如此随之增长,行为之我亦与之俱长。光明的女神啊,你所问的灵魂之行,当如此知之。

13.228.18

रोपणं चैव लवनं यच्चान्यत्पौरुषं स्मृतम् ॥ १३.२२८.१८ ॥

播种与收获,以及其他被称为人力的一切——

13.228.19

काले वृष्टिः सुवापं च प्ररोहः पक्तिरेव च ।
एवमादि तु यच्चान्यत्तद्दैवतमिति स्मृतम् ॥ १३.२२८.१९ ॥

适时的雨水、良好的播种、发芽与成熟,以及诸如此类的其他一切,都被称为属于天命。

13.228.20

पञ्चभूतस्थितिश्चैव ज्योतिषामयनं तथा ।
अबुद्धिगम्यं यन्मर्त्यैर्हेतुभिर्वा न विद्यते ॥ १३.२२८.२० ॥

五大元素的稳定与星辰的运行,凡人的智慧无法领会,或其原因无从得知。

13.228.21

तादृशं कारणं दैवं शुभं वा यदि वेतरत् ।
यादृशं चात्मना शक्यं तत्पौरुषमिति स्मृतम् ॥ १३.२२८.२१ ॥

此类原因即是天命,无论吉祥与否;而凭自身所能做到的,则称为人力。

13.228.22

केवलं फलनिष्पत्तिरेकेन तु न शक्यते ।
पौरुषेणैव दैवेनि युगपद्ग्रथितं प्रिये।
तयोः समाहितं कर्म शीतोष्णं युगपत्तथा ॥ १३.२२८.२२ ॥

仅凭一方不能成就结果;人力与天命交织在一起,我的爱人。二者结合的行为,就像寒与热同时存在一样。

13.228.23

पौरुषं तु तयोः पूर्वमारब्धव्यं विजानता ।
आत्मना तु न शक्यं हि न तथा कीर्तिमाप्नुयात् ॥ १३.२२८.२३ ॥

明智之人应先从二者中的人力开始;自己无法做到的事便不可能成就,如此也就得不到名声。

13.228.24

खननान्मथनाल्लोके जलाग्निप्रापणं यथा ।
तथा पुरुषकारे तु दैवसम्पत्समाहिता ॥ १३.२२८.२४ ॥

正如世间通过挖掘与钻木取得水与火,人力之中也汇聚着天命的福分。

13.228.25

नरस्याकुर्वतः कर्म दैवसम्पन्न लभ्यते ।
तस्मात्सर्वसमारम्भो दैवमानुषनिर्मितः ॥ १३.२२८.२५ ॥

不行动的人得不到天命所赐的福分。因此,一切事业都由天命与人力共同成就。

13.228.26

असुरा राक्षसाश्चैव मन्यन्ते लोकनाशनाः ।
पश्यन्ते न च ते पापाः केवलं मांसभक्षणाः ॥ १३.२२८.२६ ॥

毁灭世界的阿修罗与罗刹如此认为。那些罪人只是食肉者,他们什么也看不见。

13.228.27

प्रच्छादितं हि तत्सर्वं गूढमाया हि देवताः ।
तदहं ते प्रवक्ष्यामि देवि गुह्यं पुरस्सरम् ॥ १३.२२८.२७ ॥

这一切都被掩藏,因为诸神拥有隐秘的幻术。因此,女神啊,我将把那最重要的秘密告诉你。

13.228.28

आदिकाले नराः सर्वे कृत्वा कर्म शुभाशुभम् ।
भुञ्जते पश्यमानास्ते वृत्तान्तं लोकयोर्द्वयोः ॥ १३.२२८.२८ ॥

起初,所有人在行善作恶之后,一边观望两界的事迹,一边享受各自行为的果报。

13.228.29

यथैवात्मकृतं विद्युर्देशान्तरगता नराः ।
विद्युस्तथैवान्तकाले सुकृतं पौर्वदैहिकम् ॥ १३.२२८.२९ ॥

正如远行他乡的人知道自己所做的事,人在临终之时也知道前世之身所行的善业。

13.228.30

एवं व्यवस्थिते लोके सर्वे धर्मरताऽभवन् ।
अचिरेणैव कालेन स्वर्गः सम्पूरितस्तदा ॥ १३.२२८.३० ॥

世界如此安定之后,众人都乐于奉行正法,不久之后天界便充满了。

13.228.31

देवानामपि सम्बाधं दृष्ट्वा ब्रह्माऽप्यचिन्तयत् ।
सञ्चरन्ते कथं स्वर्गं मानुषाः प्रविशन्ति हि ॥ १३.२२८.३१ ॥

连诸神之间也拥挤不堪,梵天也思索起来:人类如何在天界行走并进入天界呢?

13.228.32

इत्येवमनुचिन्त्यैव मानुषान्सममोहयत् ।
तदाप्रभृति ते मर्त्या न विदुस्ते पुराकृतम् ॥ १३.२२८.३२ ॥

他如此思量之后,便使人类彻底迷惑;从那时起,那些凡人便不知道自己前世所作之业。

13.228.33

कामक्रोधौ तु तत्काले मानुषेष्ववपातयत् ।
ताभ्यामभिहता मर्त्याः स्वर्गलोकं न पेदिरे ॥ १३.२२८.३३ ॥

然而就在那时,他使欲望与愤怒降临人间;凡人被它们所伤,便不能到达天界。

13.228.34

पुराकृतस्याविज्ञानात्कामक्रोधाभिपीडिताः ।
नैतदस्तीति मन्वाना विकारंश्चक्रिरे पुनः ॥ १३.२२८.३४ ॥

因不知前世之业,被欲与怒所逼迫,以为“这并不存在”,于是又再次作乱。

13.228.35

अकार्यादिमहादोषानाहरन्त्यात्मकारणात् ।
विस्मृत्य धर्मकार्याणि परलोकभयं तदा ॥ १३.२२८.३५ ॥

为了自身,他们招来了诸如不当之事等大罪;忘记了法之事业,那时他们也不再畏惧来世。

13.228.36

एवं व्यवस्थिते लोके कश्मलं समपद्यत ।
लोकानां चैव देवानां क्षयायैव तथा प्रिये।
नरकाः पूरिताश्चासन्प्राणिभिः पापकारिभिः ॥ १३.२२८.३६ ॥

世界如此安排之后,混乱便产生了;亲爱的,正是为了世界与诸神的毁灭,地狱便被作恶的众生充满了。

13.228.37

पुनरेव तु तान्दृष्ट्वा लोककर्ता पितामहः ।
अचिन्तयत्तमेवार्थं लोकानां हितकारणात्।
समत्वेन कथं लोके वर्तेतेति मुहुर्मुहुः ॥ १३.२२८.३७ ॥

再次看到他们后,世界的创造者祖父为了众世界的福祉,反复思考如何才能使世界在平等中运行。

13.228.38

चिन्तयित्वा तदा ब्रह्मा ज्ञानेन तपसा प्रिये ।
अकरोज्ज्ञानदृश्यं तत्परलोकं न चक्षुषा ॥ १३.२२८.३८ ॥

爱妻啊,于是梵天思考,以智慧与苦行,使那彼世可以由智慧所见,而非由眼睛所见。

13.228.39

भगवन्मृतमात्रस्तु योयं जात इति स्मृतः ।
तथैव दृश्यते जातस्तत्रात्मा तु कथं भवेत् ॥ १३.२२८.३९ ॥

世尊啊,刚死去的人与被称为新生的人看起来是一样的;那么其中怎么会有灵魂呢?

13.228.40

गर्भादावेव संविष्ट आत्मा तु भगवन्मम ।
एष मे संशयो देव तन्मे छेत्तुं त्वमर्हसि ॥ १३.२२८.४० ॥

世尊啊,灵魂在胚胎的最初便已进入其中。神啊,这便是我的疑惑;您应当为我解决。

13.228.41

तदहं ते प्रवक्ष्यामि शृणु तत्वं समाहिता। ॥ १३.२२८.४१ ॥

因此我将告诉你;请以专注的心聆听真理。

13.228.42

अन्यो गर्भगतो भूत्वा तत्रैव निधनं गतः ।
पुनरन्यच्छरीरं तत्प्रविश्य भुवि जायते।
तत्वविन्नैव सर्वस्तु दैवयोगस्तु सम्भवेत् ॥ १३.२२८.४२ ॥

有一个人进入胚胎,就在那里死去;然后又进入另一个身体,在大地上出生。并非人人都是真理的知者,但神圣的机缘或许会发生。

13.228.43

सूतिकाया हितार्थं च मोहनार्थं च देहिनाम् ।
समकर्मविधानत्वादित्येवं विद्धि शोभने ॥ १३.२२८.४३ ॥

美好的女神啊,你应知道,从胎中出生既为有身众生之利益,也为其迷惑,因为业的安排对一切众生都是相同的。

13.228.44

काङ्क्षमाणास्तु नरकं भुक्त्वा केचित्प्रयान्ति हि ।
मायासंयामिका नाम यज्जन्ममरणान्तरे।
इति ते कथितं देवि भूयः श्रोतुं किमिच्छसि ॥ १३.२२८.४४ ॥

有些渴望地狱的人经历之后便离去;它名为幻化相续,处于生与死之间。女神啊,这已经告诉你了。你还想听什么?

13.228.45

भगवन्सर्वलोकेश लोकनाथ वृषध्वज ।
नास्त्यात्मा कर्मभोक्तेति मृतो जन्तुर्न जायते ॥ १३.२२८.४५ ॥

尊贵的主啊,诸世界之主,世界之王,以牛为旗者!难道没有享受业果的灵魂吗?死去的众生难道不再出生吗?

13.228.46

स्वभावाज्जायते सर्वं यथा वृक्षफलं तथा ।
यथोर्मयः सम्भवन्ति तथैव जगदाकृतिः ॥ १३.२२८.४६ ॥

犹如果实自然从树上生出,一切也都由自性而生;犹如波浪兴起,世界的形态也如此兴起。

13.228.47

तपोदानानि यत्कर्म तत्र तद्दृश्यते वृथा ।
नास्ति पौनर्भवं जन्म इति केचिद्व्यवस्थिताः ॥ १३.२२८.४७ ॥

苦行与布施等行为在那里看来都是徒劳的;有些人坚持认为没有再生。

13.228.48

परोक्षवचनं श्रुत्वा न प्रत्यक्षस्य दर्शनात् ।
तत्सर्वं नास्तिनास्तीति संशयस्थास्तथा परे ॥ १३.२२८.४८ ॥

听了间接之言,又未见直接所证之事,有些人陷入怀疑,说:‘那一切都不存在,不存在’;其他人也是如此。

13.228.49

पक्षभेदान्तरे चास्मिंस्तत्वं मे वक्तुमर्हसि ।
उक्तं भगवता यत्तु तत्तु लोकस्य संस्थितिः ॥ १३.२२८.४९ ॥

即使在这种观点分歧中,您也应当向我说明真理。世尊所说的,正是世界的确定秩序。

13.228.50

प्रश्नमेतत्तु पृच्छत्या रुद्राण्या परिषत्तदा ।
कौतूहलयुता श्रोतुं समाहितमनाऽभवत् ॥ १३.२२८.५० ॥

鲁陀罗尼提出此问时,集会充满好奇,专心致志地静听。

13.228.51

नैतदस्ति महाभागे यद्वदन्तीह नास्तिकाः ।
एतदेवाभिशस्तानां श्रुतविद्वेषिणां मतम् ॥ १३.२२८.५१ ॥

大福之人啊,这里无神论者所说的并非如此。这正是那些被谴责、敌视圣典者的见解。

13.228.52

सर्वमर्थं श्रुतं दृष्टं यत्प्रागुक्तं मया तव ।
तदाप्रभृति मर्त्यानां श्रुतमाश्रित्य पण्डिताः ॥ १३.२२८.५२ ॥

我先前对你所说的一切义理,都是闻知并亲见的。从那时起,智者们依托圣典,为世间的凡人而行。

13.228.53

कामान्संछिद्य परिगान्धृत्या वै परमासिना ।
अभियान्त्येव ते स्वर्गं पश्यन्तः कर्मणः पलम् ॥ १३.२२८.५३ ॥

以坚定之至上利剑斩断欲望及其环绕的缠缚,见到业之果报,他们确实走向天界。

13.228.54

एवं श्रद्धाफलं लोके परतः सुमहत्फलम् ।
बुद्धिः श्रद्धा च विनयः कारणानि हितैषिणाम् ॥ १३.२२८.५४ ॥

如此,信心的果报在今世与来世都极为巨大。智慧、信心与谦逊,是求利益者的因缘。

13.228.55

तस्मात्स्वर्गाभिगन्तारः कतिचित्त्वभवन्नराः ।
अन्ये करणहीनत्वान्नास्तिक्यं भावमाश्रिताः ॥ १३.२२८.५५ ॥

因此,能升天者只有少数人;其余的人因缺乏感官之能,便沉溺于无信的态度。

13.228.56

श्रुतविद्वेषिणो मूर्खा नास्तिका दृढनिश्चयाः ।
निष्क्रियास्तु निरन्नादाः पतन्त्येवाधमां गतिम् ॥ १३.२२८.५६ ॥

敌视学问的愚人、无神论者、固执己见者、无所作为者以及食用未献之食的人,必定堕入最低的去处。

13.228.57

नास्त्यस्तीति पुनर्जन्म कवयोऽप्यत्र मोहिताः ।
नाधिगच्छन्ति तन्नित्यं हेतुवादशतैरपि ॥ १३.२२८.५७ ॥

“有轮回”或“无轮回”——即使智者在此也迷惑;即便用上百种论辩,他们也从未得到那永恒的真理。

13.228.58

एषा ब्रह्मकृता माया दुर्विज्ञेया सुरासुरैः ।
किंपुनर्मानवैर्लोके ज्ञातुकामैः कुबुद्धिभिः ॥ १३.२२८.५८ ॥

此幻术由梵天所造,即使天神与阿修罗也难以理解;何况世间那些想要知晓它的心智低劣之人呢?

13.228.59

केवलं श्रद्धया देवि श्रुतमात्मनिविष्टया ।
ततोस्तीऽत्येव मन्तव्यं तथा हितमवाप्नुयात् ॥ १३.२२८.५९ ॥

女神啊,唯凭信心,安住于自我,所闻之事应当视为真实;如此,便能获得善果。

13.228.60

दैवगुह्येषु चान्येषु हेतुर्देवि निरर्थकः ।
बधिरान्धवदेवात्र वर्तितव्यं हितैषिणा।
एतत्ते कथितं देवि ऋषिगुह्यं प्रजाहितम् ॥ १३.२२८.६० ॥

女神啊,在神圣的秘密和其他事务上,推理是徒劳的;在此,求善者应如聋子和盲人那样行事。女神啊,这一有益于众生的圣人秘密,已经说与你听了。