摩诃婆罗多 · 章 13.229
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.229.1
भगवन्सर्वलोकेश त्रिपुरार्दन शङ्कर ।
कीदृशा यमदण्डास्ते कीदृशाः परिचारकाः ॥ १३.२२९.१ ॥
尊贵的主啊,诸世界之主,摧毁三城者,湿婆!阎摩的刑杖是怎样的?他的侍从又是怎样的?
13.229.2
कथं मृतास्ते गच्छन्ति प्राणिनो यमसादनम् ।
कीदृशं भवनं तस्य कथं दण्डयति प्रजाः।
एतत्सर्वं महादेव श्रोतुमिच्छाम्यहं प्रभो ॥ १३.२२९.२ ॥
死去的生灵如何前往阎摩的住所?他的宫殿是怎样的?他又如何惩罚众生?大天神啊,主啊,这一切我都愿意听闻。
13.229.3
शृणु कल्याणि तत्सर्वं यत्ते देवि मनःप्रियम् ।
दक्षिणस्यां दिशि शुभे यमस्य सदनं महत् ॥ १३.२२९.३ ॥
吉祥的女神啊,听我说,这一切都是你心中所喜爱的。女神,美丽的人啊,南方之地有阎摩的伟大宫殿。
13.229.4
विचित्रं रमणीयं च नानाभावसमन्वितम् ।
पितृभिः प्रेतसङ्घैश्च यमदूतैश्च सन्ततम् ॥ १३.२२९.४ ॥
此处奇妙而可爱,具有种种景象,常常充满祖先、亡灵群和阎摩的使者。
13.229.5
प्राणिसङ्घैश्च बहुभिः कर्मवश्यैश्च पूरितम् ।
तत्रास्ते दण्डयन्नित्यं यमो लोकहिते रतः ॥ १३.२२९.५ ॥
此处充满众多受业力所牵的生灵。阎摩常在此处施加惩罚,乐于世间的福祉。
13.229.6
मायया सततं वेत्ति प्राणिनां यच्छुभाशुभम् ।
मायया संहरंस्तत्र प्राणिसङ्घान्यतस्ततः ॥ १३.२२९.६ ॥
他凭借幻力,常知众生的善恶;亦凭幻力,于此处那里收摄众生的群体。
13.229.7
तस्य मायामयाः पाशा न वेद्यन्ते सुरासुरैः ।
को हि मानुषमात्रस्तु देवस्य चरितं महत् ॥ १३.२२९.७ ॥
他由幻力所造的羂索,连天神与阿修罗也不能知晓。凡人又怎能知道神的伟大行迹?
13.229.8
एवं संवसतस्तस्य यमस्य परिचारकाः ।
गृहीत्वा सन्नयन्त्येव प्राणिनः क्षीणकर्मणः।
यन केनापदेशेन त्वपदेशसमुद्भवाः ॥ १३.२२९.८ ॥
如此,阎摩的侍从捉住业力已尽的众生并将其带走。他们借某种因由而出现,或以这样或那样的方式到来。
13.229.9
कर्मणा प्राणिनो लोके उत्तमाधममध्यमाः ।
यथार्हं तान्समादाय नयन्ति यमसादनम् ॥ १३.२२९.९ ॥
世间众生依其业力分为上、下、中三等。他们按各自应得,将其带往阎摩之处。
13.229.10
धार्मिकानुत्तमान्विद्धि स्वर्गिणस्ते यथाऽमराः ।
त्रिषु जन्म लभन्ते ये कर्मणा मध्यमाः स्मृताः।
तिर्यङनरकगन्तारो ह्यधमास्ते नराधमाः ॥ १३.२२९.१० ॥
应知正直者为上等,他们如诸天神一般居于天界。依业力被称为中等者得三种生处。堕入畜生道与地狱者,才是下等,人中之最下者。
13.229.11
पन्थानस्त्रिविधा दृष्टाः सर्वेषां गतजीविनाम् ।
रमणीयं निराबाधं दुर्दर्शमिति नामतः ॥ १३.२२९.११ ॥
对于所有已离世者,可见三种道路,以名称区分:可爱的、无障碍的,以及难以看见的。
13.229.12
रमणीयं तु यन्मार्गं पताकाध्वजसङ्कुलम् ।
धूपितं सिक्तसंमृष्टं पुष्पमालाभिसङ्कुलम् ॥ १३.२२९.१२ ॥
那条可爱的道路装饰着旗幡与旌旗,焚香飘香,洒水洁净,并挤满了花鬘。
13.229.13
मनोहरं सुखस्पर्शं गच्छतामेव तद्भवेत् ।
निराबाधं यथालोकं सुप्रशस्तं कृतं भवेत् ॥ १३.२२९.१३ ॥
那条道路令人愉悦,触之舒适,对行走者而言毫无阻碍,并且目之所及都被妥善修建。
13.229.14
तृतीयं यत्तु दुर्दर्शं दुर्गन्धि तमसा वृतम् ।
परुषं शर्कराकीर्णं श्वदंष्ट्राबहुलं भृशम्।
किमिकीटसमाकीर्णं भजतामतिदुर्गमम् ॥ १३.२२९.१४ ॥
第三条路,望之可怖,臭气熏天,笼罩在黑暗之中,崎岖粗糙,布满砂砾,遍是如狗牙般的荆棘,又充斥着虫蛆蠕虫,行走其上的人极为艰难。
13.229.15
मार्गैरेवं त्रिभिर्नित्यमुत्तमाधममध्यमान् ।
सन्नयन्ति यथा काले तन्मे शृणु शुचिस्मिते ॥ १३.२२९.१५ ॥
他们总是依此三条道路,按时引导上等、下等和中等之人。女子啊,请从我这里听来。
13.229.16
उत्तमानन्तकाले तु यमदूताः सुसंवृताः ।
नयन्ति सुखमादाय रमणीयपथेन वै ॥ १३.२२९.१६ ॥
然而在命终之时,阎摩的使者们装束齐备,轻柔地接引上等之人,确实沿着那条令人喜悦的道路前行。
13.229.17
भगवंस्तत्र चात्मानं त्यक्तदेहं निराश्रयम् ।
अदृश्यं कथमादाय सन्नयन्ति यमान्तिकम् ॥ १३.२२९.१७ ॥
尊贵的主啊,阎摩的使者如何将那已舍弃身体、无所依托、不可见的自我带走,送到阎摩的面前呢?
13.229.18
शृणु भामिनि तत्स्रवं त्रिविधं देहकारणम् ।
कर्मवश्यं भोगवश्यं दुःखवश्यमिति प्रिये ॥ १३.२२९.१८ ॥
请听,夫人:身体的原因有三种:受业所支配,受享受所支配,受苦所支配,如此,亲爱的。
13.229.19
मानुषं कर्मवश्यं स्याद्द्वितीयं भोगसाधनम् ।
तृतीयं यातनावश्यं शरीरं मायया कृतम्।
यमलोके न चान्यत्र दृश्यते यातनायुतम् ॥ १३.२२९.१९ ॥
人身受业力所支配;第二种是享乐的工具;第三种受折磨所支配;此身乃由幻力(māyā)所造。除阎摩界外,别处不见充满苦痛之身。
13.229.20
शरीरैर्यातनावश्यैर्जीवानामुच्य भामिनि ।
नयन्ति यामिकास्तत्र प्राणिनो मायया मृतान् ॥ १३.२२९.२० ॥
女士啊,众生与那些受折磨所支配的身体一起被带往那里;阎摩的侍者在那里带走因幻力而死去的人。
13.229.21
मध्यमान्योधवेषेण मध्यमेन पथा तथा ॥ १३.२२९.२१ ॥
中等之人以武士之形,走中间之路,如是被带走。
13.229.22
चण्डालवेषास्त्वधमान्गृहीत्वा भर्त्सतर्जनैः ।
आकर्षन्तस्तथा पाशैर्दुर्दर्शेन नयन्ति तान् ॥ १३.२२९.२२ ॥
而扮作旃陀罗之形者,抓住最下等之人,以斥骂威胁,用绳索拖拽,以可怖之方式将他们带走。
13.229.23
त्रिविधानेवमादाय नयन्ति यमसादनम् ।
धर्मासनगतं दक्षं भ्राजमानं स्वतेजसा ॥ १३.२२९.२३ ॥
如是将三类人带走,送往阎摩的居所;阎摩(达刹)坐于法座之上,以自身光辉照耀。
13.229.24
लोकपालं सहाध्यक्षं तथैव परिषद्गतम् ।
दर्शयन्ति महाभागे यामिकास्तं निवेद्य ते
पूजयन्दण्डयन्कांश्चित्तेषां शृण्वञ्शुभाशुभम् ।
व्याहृतो बहुसाहस्रैस्तत्रास्ते सततं यमः ॥ १३.२२९.२४ ॥
大福之女啊,阎摩的侍者通报并引见他——世界守护者,与其僚属坐于议会之中。他们尊崇某些人,惩罚另一些人;阎摩听取他们的善恶之行,常住于彼,被千千万万人呼唤。
13.229.26
गतानां तु यमस्तेषामुत्तमानभिपूजया ।
अभिसङ्गृह्य विधिवत्पृष्ट्वा स्वागतकौशलम्।
प्रस्तुत्य तत्कृतं तेषां लोकं संदिशते यमः ॥ १३.२२९.२६ ॥
阎摩尊敬死者中的上等人,依礼接待,询问他们的安好,述说他们所行之业,然后将他们遣往某一世界。
13.229.27
यमेनैवमनुज्ञाता यान्ति पश्चात्त्रिविष्टपम् ॥ १३.२२९.२७ ॥
阎摩如此允许之后,他们随后前往三界天(triviṣṭapa)。
13.229.28
मध्यमानां यमस्तेषां श्रुत्वा कर्म यथातथम् ।
जायन्तां मानुषेष्वेव इति संदिशते च तान् ॥ १३.२२९.२८ ॥
阎摩如实听取中等之人的所作之业后,吩咐他们:“让他们在人类之中投生。”
13.229.29
अधमान्पाशसंयुक्तान्यमो नावेक्षते गतान् ।
यमस्य पुरुषा घोराश्चण्डालसमदर्शनाः।
यातनाः प्रापयन्त्येताँल्लोकपालस्य शासनात् ॥ १३.२२९.२९ ॥
阎摩不看那被绳索缚住的下等之人;阎摩那形如旃陀罗的可怖侍者,依世界守护者之命,给他们施加痛苦。
13.229.30
भिन्दन्तश्च तुदन्तश्च प्रकर्षन्तो यतस्ततः ।
क्रोशन्तः पातयन्त्येतान्मिथो गर्तेष्ववाङ्मुखान् ॥ १३.२२९.३० ॥
他们刺穿、鞭打、拖来拖去,大声呼喊,把这些人一个压着一个,面朝下投入坑中。
13.229.31
संयामिन्यः शिलास्तेषां पतन्ति शिरसि प्रिये ।
अयोमुखाः कङ्कवला भक्षयन्ति सुदारुणाः ॥ १३.२२९.३१ ॥
爱妻啊,来自“束缚之地”的石头落在他们头上;铁嘴、极其凶残的迦迦鸟吞食他们。
13.229.32
असिपत्रवने घोरे चारयन्ति तथा परान् ।
तीक्ष्णदंष्ट्रास्तथा श्वानः कांश्चित्तत्र ह्यदन्ति वै ॥ १३.२२९.३२ ॥
在可怕的剑叶林中,他们使他人流浪;那里尖牙利齿的狗会吞食其中一些人。
13.229.33
तत्र वैतरणी नाम नदी ग्राहसमाकुला ।
दुष्प्रवेशा च घोरा च मूत्रशोणितवाहिनी।
तस्यां सम्मज्जयन्त्येते तृषितान्पाययन्ति तान् ॥ १३.२२९.३३ ॥
那里有一条名为伐伊泰罗尼的河,满是鳄鱼,难以进入,可怕,流淌着尿与血。他们把口渴的人浸入其中,又让他们喝的正是这水。
13.229.34
आरोपयन्ति वै कांश्चित्तत्र कण्टकशल्मलीम् ।
यन्त्रचक्रेषु तिलवत्पीड्यन्ते तत्र केचन ॥ १३.२२९.३४ ॥
在那里,他们让一些人攀上多刺的沙尔玛利树;在那里,一些人像芝麻一样在机器的轮子中被碾碎。
13.229.35
अङ्गरेषु च दह्यन्ते तथा दुष्कृतकारिणः ।
कुम्भीपाकेषु पच्यन्ते पच्यन्ते सिकतासु वै ॥ १३.२२९.३५ ॥
作恶之人在炽热的炭上被焚烧,在釜煮地狱的大锅中被煮,也在沙上被煮。
13.229.36
पाट्यन्ते तरुवच्छस्त्रैः पापिनः क्रकचादिभिः ।
भिद्यन्ते भागशः शूलैस्तुद्यन्ते सूक्ष्मसूचिभिः ॥ १३.२२९.३६ ॥
罪人像树木一样被锯子等兵器劈开,被尖桩刺成碎块,并被细针扎刺。
13.229.37
एवं त्वया कृतं दोषं तदर्थं दण्डनं त्विति ।
वाचैव घोषयन्ति स्म दण्डमानाः समन्ततः ॥ १३.२२९.३७ ॥
“你犯了这个过错,因此受此惩罚。”——受罚的人从四面八方,仅以言语宣告这一点。
13.229.38
एवं ते यातनां प्राप्य शरीरैर्यातनाशयैः ।
प्रसहन्तश्च तद्दुःखं स्मरन्तः स्वापराधजम् ॥ १३.२२९.३८ ॥
如此,受到折磨,以适于受刑的身体承受那痛苦,念及由自身罪过所生之事。
13.229.39
क्रोशन्तश्च रुद्रन्तश्च न मुच्यन्ते कथञ्चन ।
स्मरन्तस्तत्र तप्यन्ते पापमात्मकृतं भृशम् ॥ १३.२२९.३९ ॥
虽然他们哭喊哀号,却终究不能得到解脱;在那里,他们想起自己所作的恶,极其痛苦。
13.229.40
एवं बहुविधा दण्डा भुज्यन्ते पापकारिभिः ।
यातनाभिश्च पच्यन्ते नरकेषु पुनः पुनः ॥ १३.२२९.४० ॥
如此,作恶之人承受种种刑罚,在地狱中被种种酷刑反复煎熬。
13.229.41
अपरे यातनां भुक्त्वा मुच्यन्ते तत्र किल्बिषात् ।
पापदोषक्षयकरा यातनाः संस्मृता नृणाम्।
बहुतप्तं यथा लोहममलं तत्तथा भवेत् ॥ १३.२२९.४१ ॥
其他人在那里承受折磨之后,便脱离罪过。如此记载,那些能灭除人之罪过的折磨,正如被充分烧红的铁变得纯净一样,他们也会变得纯净。