Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.230

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.230.1

भगवंस्ते कथं तत्र दण्ड्यन्ते नरकेषु वै ।
कति ते नरका घोराः कीदृशास्ते महेश्वर ॥ १३.२३०.१ ॥

尊贵的主啊,那些罪人在地狱中是如何受罚的?您那可怕的地狱有多少,它们是什么样的,大自在天啊?

13.230.2

शृणु भामिनि तत्सर्वं पञ्चैते नरकाः स्मृताः ।
भूमेरधस्ताद्विहिता घोरा दुष्कृतकर्मणाम् ॥ १३.२३०.२ ॥

听着,美丽的女子:这五座可怕的地狱据说设立于大地之下,为作恶之人而备。

13.230.3

प्रथमं रौरवं नाम शतयोजनमायतम् ।
तावत्प्रमाणविस्तीर्णं तामसं पापपीडितम् ॥ १३.२३०.३ ॥

第一座名为“啸叫”(罗罗婆),长一百由旬,宽度相同;它幽暗,充满被罪恶折磨的人。

13.230.4

भृशं दुर्गन्धि परुषं क्रिमिभिर्दारुणैर्वृतम् ।
अतिघोरमनिर्देश्यं प्रतिकूलं ततस्ततः ॥ १३.२३०.४ ॥

它极其腥臭、粗粝,满布凶猛的虫子。它极为可怖,难以形容,四面皆是敌对之物。

13.230.5

ते चिरं तत्र तिष्ठन्ति न तत्र शयनासने ।
क्रिमिभिर्भक्ष्यमाणाश्च विष्ठागन्धसमायुताः ॥ १३.२३०.५ ॥

他们在那里久留,没有可以躺卧或坐息的床座;被虫子啃噬,浸满粪便的臭气。

13.230.6

एवंप्रमाणमुद्विग्ना यावत्तिष्ठन्ति तत्र ते ।
यातनाभ्यो दशगुणं नरके दुःखमिष्यते ॥ १३.२३०.६ ॥

只要他们留在那里,在如此广阔之处备受煎熬,地狱中的痛苦据说比酷刑本身大十倍。

13.230.7

तत्र चात्यन्तिकं दुःखमिष्यते च शुभेक्षणे ।
क्रोशन्तश्च रुद्रन्तश्च वेदनास्तत्रि भुञ्जते ॥ १३.२३०.७ ॥

那里据说有无尽的痛苦,美目的女子啊。他们在那里哭喊、啼哭,忍受着折磨。

13.230.8

भ्रमन्ति दुःखमोक्षार्थं ज्ञाता कश्चिन्न विद्यते ।
दुःखस्यान्तरमात्रं तु ज्ञानं वा न च लभ्यते ॥ १३.२३०.८ ॥

他们四处游荡,寻求摆脱痛苦,却找不到一个知者。痛苦之中甚至连片刻的间歇也没有,也得不到智慧。

13.230.9

महारौरवसंज्ञं तु द्वितीयं नरकं प्रिये ।
तस्माद्द्विगुणितं विद्धि माने दुःखे च रौरवात् ॥ १३.२३०.९ ॥

第二地狱,爱人啊,名为摩诃罗啰婆。你应知道其中的痛苦是罗啰婆的两倍。

13.230.10

तृतीयं नरकं तत्र कण्टिकावनसंज्ञितम् ।
ततो द्विगुणितं तच्च पूर्वाभ्यां दुःखमानयोः।
महापातकसंयुक्ता घोरास्तस्मिन्विशन्ति हि ॥ १३.२३०.१० ॥

那里的第三地狱名为荆棘林。它的痛苦与程度是前两者的两倍。背负大罪的恐怖众生进入其中。

13.230.11

अग्निकुण्डमिति ख्यातं चतुर्थं नरकं प्रिये ।
एतद्द्विगुणितं तस्माद्यथानिष्टसुखं तथा ॥ १३.२३०.११ ॥

第四地狱,名为火坑,爱人啊,它是前者的两倍,正如那不如意的快乐一样。

13.230.12

ततो दुःखं हि सुमहदमानुषमिति स्मृतम् ।
भुञ्जते तत्रतत्रैव दुःखं दुष्कृतकारिणः ॥ १३.२३०.१२ ॥

其后,那极大的非人之苦被如此记述。在这里那里,行恶之人承受痛苦。

13.230.13

तत्र दुःखमनिर्देश्यं वहद्धोरं यथा तथा ।
पञ्चेन्द्रियैरसम्बाधात्पञ्चकष्टमिति स्मृतम्।
भुञ्जते तत्रतत्रैव दुःखं दुष्कृतकारिणः ॥ १३.२३०.१३ ॥

那里有难以言表的苦,其承受之可怖如此。因五根不受约束,此苦被称为五重苦。作恶之人便在各处承受苦难。

13.230.14

अमानुषार्हजं दुःखं महाभूतैश्च भुञ्जते ।
अतिघोरं चिरं कृत्वा महाभूतानि यान्ति तम् ॥ १३.२३०.१४ ॥

他们承受非人所应得的苦,以及由大元素所致的苦。长久地造成极其可怖的苦之后,大元素便到达那种境地。

13.230.15

पञ्च् कष्टेन हि समं नास्ति दुःखं तथा परम् ।
दुःखस्थानमिति प्राहुः पञ्चकष्टमिति प्रिये ॥ १३.२३०.१५ ॥

没有任何其他苦能与五重苦相等。人们称之为苦之处;爱妻啊,这便叫做五重苦。

13.230.16

एवं त्वेतेषु तिष्ठन्ति प्राणिनोः दुःखभागिनः ।
अन्ये च नरकाः सन्ति अवीचिप्रमुखाः प्रिये ॥ १३.२३०.१६ ॥

如此,分受苦难的众生便留在这些之中。此外还有其他地狱,以阿鼻地狱为首,爱妻啊。

13.230.17

क्रोशन्तश्च रुदन्तश्च वेदनर्ता भृशातुराः ।
केचिद्भमन्तश्चेष्टन्ते केचिद्धावन्ति चातुराः ॥ १३.२३०.१७ ॥

哭喊哀泣,被痛苦折磨,极其焦急;有的四处游荡挣扎,有的惶恐奔逃。

13.230.18

आधावन्तो निवार्यन्ते शूलहस्तैर्यतस्ततः ।
रुजार्दितास्तृषायुक्ताः प्राणिनः पापकारिणः ॥ १३.२३०.१८ ॥

奔向他们的人,被手持三叉戟的人到处阻拦。被疾病折磨、饱受干渴之苦的作恶众生。

13.230.19

यावत्पूर्वकृतं तावन्न मुच्यन्ते कथञ्चन ।
क्रिमिभिर्भक्ष्यमाणाश्च वेदनार्तास्तृषान्विताः ॥ १३.२३०.१९ ॥

只要先前所作之罪尚存,他们便无论如何不得解脱;被蛆虫啃食,为痛苦所折磨,又满怀渴望。

13.230.20

संस्मरन्तः स्वकं पापं कृतमात्मापराधजम् ।
शोचन्तस्तत्र तिष्ठन्ति यावत्पापक्षयं प्रिये।
एवं भुक्त्वा तु नरकं मुच्यन्ते पापसंक्षयात् ॥ १३.२३०.२० ॥

回想自己所犯的罪,那源于自身过错的罪,他们在那里悲泣,直到罪业耗尽,爱人啊。如此经受地狱之苦后,他们因罪业消除而得解脱。

13.230.21

भगवन्कतिकालं ते तिष्ठन्ति नरकेषु वै ॥ १३.२३०.२१ ॥

尊者啊,他们在地狱中究竟要待多久?

13.230.22

शतवर्षसहस्राणामादिं कृत्वा हि जन्तवः ।
तिष्ठन्ति नरकावासाः प्रलयान्तमिति स्थितिः ॥ १३.२३०.२२ ॥

从数十万年开始,众生居住于地狱之中;其期限直至劫末,这便是其状况。

13.230.23

भगवंस्तेषु के तत्र तिष्ठन्तीति वद प्रभो ॥ १३.२३०.२३ ॥

尊者啊,在他们之中,谁在那里居住?主啊,请告诉我。

13.230.24

रौरवे शतसाहस्रं वर्षाणामिति संस्थितिः ।
मानुषघ्नाः कृतघ्नाश्च तथैवानृतवादिनः ॥ १३.२३०.२४ ॥

在罗罗婆地狱中,居留十万年,这便是定数;杀害人者、忘恩负义者、说谎者亦如此。

13.230.25

द्वितीये द्विगुणं कालं पच्यन्ते तादृशा नराः ।
महापातकयुक्तास्तु तृतीये दुःखमाप्नुयुः ॥ १३.२३०.२५ ॥

在第二层,这样的人被煮炼两倍的时间;而负有大罪者则在第三层受苦。

13.230.26

एतावन्मानुषसहं परमन्येषु लक्ष्यते ॥ १३.२३०.२६ ॥

人所能承受的只有这些;更多的痛苦则见于其他众生。

13.230.27

यक्षा विद्याधराश्चैव काद्रवेयाश्च किंनराः ।
गन्धर्वभूतसङ्घाश्च तेषां पापयुता भृशम्।
चतुर्थे परिपच्यन्ते तादृशा नरकाः स्मृताः ।
चतुर्थे परितप्यन्ते यावद्युगविपर्ययः। ॥ १३.२३०.२७ ॥

夜叉、持明、迦德卢之子(蛇)、紧那罗,以及乾闼婆与鬼神众中罪业深重者,在第四层被彻底煮炼;这样的地狱被如此称述。他们在第四层受苦,直到劫运逆转。

13.230.28

सहन्तस्तादृशं घोरं पञ्चकष्टे तु यादृशम् ।
तत्रास्य चिरदुःखस्य ह्यधोन्यान्विद्धि मानुषान् ॥ १३.२३०.२८ ॥

承受着如同第五种痛苦一般可怖的折磨;须知在那漫长苦难之下,便是那些人类。

13.230.29

एवं ते नरकान्भुक्त्वा तत्र क्षपितकल्मषाः ।
नरकेभ्यो विमुक्ताश्च जायन्ते कृमिजातिषु ॥ १३.२३०.२९ ॥

如此,他们在那里经历了这些地狱,罪业耗尽,便从地狱中解脱,并投生于虫类之中。

13.230.30

उद्भेदजेषु वा केचिदत्रापि क्षीणकल्मषाः ।
पुनरेव प्रजायन्ते मृगपक्षिषु शोभने।
मृगपक्षिषु तद्भुक्त्वा लभन्ते मानुषं पदम् ॥ १३.२३०.३० ॥

有些人生于萌芽之类,也在此处,罪业耗尽后,又投生于美好的兽与鸟之中。在兽与鸟之中经历此报后,他们便获得人身之位。

13.230.31

नानाजातिषु केनैव जायन्ते पापकारिणः ॥ १३.२३०.३१ ॥

作恶之人会投生于哪些不同的种类之中?

13.230.32

तदहं ते प्रवक्ष्यामि यत्त्वमिच्छसि शोभने ।
सर्वदाऽऽत्मा कर्मवशो नानाजातिषु जायते ॥ १३.२३०.३२ ॥

因此,光彩照人的女神啊,我将告诉你你想知道的事。受业力支配的自我,总是投生于各种不同的种类之中。

13.230.33

यश्च मांसप्रियो नित्यं काकगृध्नान्स संस्पृशेत् ।
सुरापः सततं मर्त्यः सूकरत्वं व्रजेद्भुवम् ॥ १३.२३०.३३ ॥

常好肉食、触碰乌鸦与秃鹫、且经常饮酒的凡人,必定会转生为猪。

13.230.34

अभक्ष्यभक्षणो मर्त्यः काकजातिषु जायते ।
आत्मघ्नो यो नरः कोपात्प्रेतजातिसु तिष्ठति ॥ १३.२३०.३४ ॥

吃不该吃之物的凡人,会生于乌鸦之类;因愤怒而自杀的人,则停留在鬼魂之类之中。

13.230.35

पैशुन्यात्परिवादाच्च कुक्कुटत्वमवाप्नुयात् ।
नास्तिकश्चैव यो मूर्खो मृगजातिं स गच्छति ॥ १३.२३०.३५ ॥

因搬弄是非和诽谤,人会得到公鸡的境遇;而不信者、愚昧者,则转生为鹿类。

13.230.36

हिंसाविहारस्तु नरः क्रिमिकीटेषु जायते ।
अतिमानयुतो नित्यं प्रेत्य गर्दभतां व्रजेत् ॥ १३.२३०.३६ ॥

而喜好暴力的人,会生为虫蚁之类;总是充满过度傲慢的人,死后会转为驴的境遇。

13.230.37

अगम्यागमनाच्चैव परदारनिषेवणात् ।
मूषिकत्वं व्रजेन्मर्त्यो नास्ति तत्र विचारणा ॥ १३.२३०.३७ ॥

与不可亲近之女交合,以及亲近他人之妻,凡人便会转生为老鼠,此事毋庸置疑。

13.230.38

कृतघ्नो मित्रघाती च सृगालवृकजातिषु ।
कृतघ्नः पुत्रघाती च स्थावरेष्वथ तिष्ठति ॥ १३.२३०.३८ ॥

忘恩者与背叛朋友者,生为豺狼之类;忘恩者与杀子者,则留于不动之物中。

13.230.39

एवमाद्यशुभं कृत्वा नरा निरयगामिनः ।
तांस्तान्भावान्प्रपद्यन्ते स्वकृतस्यैव कारणात् ॥ १३.२३०.३९ ॥

人若行此类及其他不善之业而堕入地狱,便因自己所作之业而得各种不同的境遇。

13.230.40

एवंजातिषु निर्देश्याः प्राणिनः पापकारिणः ।
कथंचित्पुनरुत्पद्यि लभन्ते मानुषं पदम् ॥ १३.२३०.४० ॥

被安置于此类之中的造恶众生,若有机缘再度投生,便能得到人身。

13.230.41

बहुशश्चाग्निसङ्क्रान्तं लोहं शुचिमयं तथा ।
बहुदुःखाभिसन्तप्तस्तथाऽऽत्मा शोध्यते बलात्।
तस्मात्सुदुर्लभं चेति विद्धि जन्मसु मानुषम् ॥ १३.२३०.४१ ॥

如铁在火中屡次烧炼而变得纯净,同样,饱受诸多苦难煎熬的自我会被强行净化。因此应知,在诸生之中,人身最为难得。