Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.231

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.231.1

भगवन्देवदेवेश शूलपाणे वृषध्वज ।
श्रुतं मे परमं गुह्यं प्रसादात्ते वरप्रद ॥ १३.२३१.१ ॥

尊贵的主,众神之神,持三叉戟者,以牛为旗者!蒙您恩典,我已听闻至高秘密,赐恩者啊。

13.231.2

श्रोतुं भूयोऽहमिच्छामि प्रजानां हितकारणात् ।
शुभाशुभमिति प्रोक्तं कर्म स्वस्वं समासतः ॥ १३.२३१.२ ॥

为众生之利,我想再次聆听;您曾简要说过,善与恶之业各属其主。

13.231.3

तन्मे विस्तरतो ब्रूहि शुभाशुभविधइं प्रति ।
अशुभं कीदृशं कर्म प्राणिनो यन्निपातयेत् ॥ १३.२३१.३ ॥

因此请为我详细讲述善恶之规:何种恶业能使众生堕落?

13.231.4

शुभं वापि कथं देव प्रजानामूर्ध्वदं भवेत् ।
एतन्मे वद देवेश श्रोतुकामाऽस्मि कीर्तय ॥ १३.२३१.४ ॥

神啊,善业如何使众生升向上界?请告诉我,众神之主;我愿意聆听,请宣说。

13.231.5

तदहं ते प्रवक्ष्यामि तत्सर्वं शृणु शोभने ।
सुकृतं दुष्कृतं चेति द्विविधं कर्मविस्तरम् ॥ १३.२३१.५ ॥

这一切我都将告诉你;听着,光明者啊。业的范围有二:善作(善业)与恶作(恶业)。

13.231.6

तयोर्यद्दुष्कृतं कर्म तच्च सञ्जायते त्रिधा ।
मनसा कर्मणा वाचा बुद्धिमोहसमुद्भवात् ॥ १३.२३१.६ ॥

在这两者之中,恶作的业以三种方式生起:由意、由身行与由语言,从智慧的迷惑中产生。

13.231.7

मनःपूर्वं तु वा कर्म वर्तते वाङ्मयं ततः ।
जायते वै क्रियायोगमनु चेष्टाक्रमः प्रिये ॥ १३.२३१.७ ॥

行为先由心产生,随后生出言语之行。爱人啊,依循与行动相应,便生出动作的次第。

13.231.8

अभिद्रोहोऽभ्यसूया च परार्थेषु च वै स्पृहा ।
शुभाशुभानां मर्त्यानां वर्तनं परिवारितम् ॥ १३.२३१.८ ॥

怀恨、嫉妒,以及对他人之事的贪求——这便是被善恶所环绕的凡人的行为。

13.231.9

धर्मकार्ये यदाऽश्रद्धा पापकर्मणि हर्षणम् ।
एवमाद्यशुभं कर्म मनसा पापमुच्यते ॥ १३.२३१.९ ॥

若对正法之事缺乏信心,而对罪恶之事生欢喜——这类及其他不吉的行为,称为意念之罪。

13.231.10

अनृतं यच्च परुषमबद्धवचनं कटु ।
असत्यं परिवादश्च पापमेतत्तु वाङ्मयम् ॥ १३.२३१.१० ॥

虚妄、粗暴之言、放肆而刻薄的话语、不实与诽谤——这便是言语之罪。

13.231.11

अगम्यागमनं चैव परदारनिषेवणम् ।
वधबन्धपरिक्लेशैः परप्राणोपतापनम् ॥ १३.२३१.११ ॥

与不可亲近之人交合,亲近他人之妻;以杀害、捆缚和折磨使他人的生命受苦。

13.231.12

चौर्यं परेषां द्रव्याणां हरणं नाशनं तथा ।
अभक्ष्यभक्षणं चैव व्यसनेष्वविषङ्गता ॥ १३.२३१.१२ ॥

盗取他人财物、夺取与毁坏;同样,食用不可食之物,并沉溺于种种恶习。

13.231.13

दर्पात्स्तम्भाभिमानाच्च परेषामुपतापनम् ।
अकार्याणां च करणमशौचं पानसेवनम् ॥ १३.२३१.१३ ॥

出于傲慢与固执的自负,折磨他人,行禁止之事,不净,以及饮用酒类。

13.231.14

दौःशील्यं पापसम्पर्के साहाय्यं पापकर्मणि ।
अधर्म्यमयशस्यं च कार्यं तस्य निषेवणम्।
एवमाद्यशुभं चान्यच्छारीरं पापमुच्यते ॥ १३.२३१.१४ ॥

恶劣品行、与恶人结交、助人行恶、从事不义和有辱名声之事,以及诸如此类及其他不吉之事,称为身体之罪。

13.231.15

मानसाद्वाङ्मयं पापं विशिष्टमिति लक्ष्यते ।
वाङ्मयादपि वै पापाच्छारीरं गण्यते बहु ॥ १३.२३१.१५ ॥

由意而生的罪被视为与言语之罪不同;而即便与言语之罪相比,身体之罪也被计为更多。

13.231.16

एवं पापयुतं कर्म त्रिविधं पातयेन्नरम् ।
परापकारजननमत्यन्तं पातकं स्मृतम् ॥ १३.२३१.१६ ॥

如此,与罪相连的三种行为会使人堕落;损害他人被宣称为极其严重的大罪。

13.231.17

त्रिविधं तत्कृतं पापं कर्तारं पापकं नयेत् ।
पातकं चापि यत्कर्म कर्मणा बुद्धिपूर्वकम् ॥ १३.२३१.१७ ॥

以三种方式所造之罪使行者陷入罪恶;而有意识、有心所作之业,也是大罪。

13.231.18

सापदेशमवश्यं तत्कर्तव्यमिति तत्कृतम् ।
कथञ्चित्तत्कृतमपि कर्ता तेन स लिप्यते ॥ १३.२३१.१८ ॥

即便此事是借口所为,自以为必须去做,或以某种方式而成,行者仍因此而被玷染。

13.231.19

अवश्यं पापदेशेन प्रतिहृन्येत कारणम् ॥ १३.२३१.१९ ॥

必然要以罪过之处来抵挡其因。

13.231.20

भगवन्पापकं कर्म यथा कृत्वा न लिप्यते ॥ १३.२३१.२० ॥

世尊啊,人如何做了罪恶之业而不被玷污?

13.231.21

यो नरोऽनपराधी च स्वात्मप्राणस्य रक्षणात् ।
शत्रुमुद्यतशस्त्रं वा पूर्वं तेन हतोपि वा।
प्रतिहन्यान्नरो हिंस्यान्न स पापेन लिप्यते ॥ १३.२३१.२१ ॥

无罪之人为保护自己的性命,对举刀的敌人予以还击,即使先前被他所伤,而伤害了他,也不会被罪恶所玷污。

13.231.22

चोरादधिकसंत्रस्तस्तत्प्रतीकारचेष्टया ।
यः प्रजघ्नन्नरो हन्यान्न स पापेन लिप्यते ॥ १३.२३१.२२ ॥

人因极度惊恐于盗贼,为抵抗之故打击并杀死了他,不会被罪恶所玷污。

13.231.23

ग्रामार्थं भर्तृपिण्डार्थं दीनानुग्रहकारणात् ।
वधबन्धपरिक्लेशान्कुर्वन्पापात्प्रमुच्यते ॥ १३.२३१.२३ ॥

为了村庄,为了主人的食粮,出于怜悯贫苦者的缘故,即使行杀戮、捆绑与折磨,人也能脱离罪恶。

13.231.24

दुर्भिक्षे चात्मवृत्त्यर्थमेकायतनगस्तथा ।
अकार्यं वाऽप्यभक्ष्यं वा कृत्वा पपान्न लिप्यते ॥ १३.२३१.२४ ॥

饥荒之时,为了自己的生计,居于一处之人,即使做了不应做之事或吃了不可吃之物,也不会被罪恶所玷污。

13.231.25

विधिरेष गृहस्थानां प्रायेणैवोपदिश्यते ।
अवाच्यं वाऽप्यकार्यं वा देशकालवशेन तु ॥ १३.२३१.२५ ॥

此法通常教导家主:在地点与时间的支配下,即使不可言说或不当做之事,也可以去做。

13.231.26

बुद्धिपूर्व नरः कुर्वस्तत्प्रयोजनमात्रया ।
किञ्चिद्वा लिप्यते पापैरथवा न च लिप्यते ॥ १३.२३१.२६ ॥

人若有意而仅为此目的而行,则或多或少沾染罪过,或者竟也不沾染。

13.231.27

एवं देवि विजानीहि नास्ति तत्र विचारणा ॥ १३.२३१.२७ ॥

女神啊,你应如此知晓;此中无须再议。

13.231.28

भगवन्पानदोषांश्च पेयापेयत्वकारणम् ।
एतदिच्छाम्यहं श्रोतुं तन्मे वद महेश्वर ॥ १३.२३१.२८ ॥

世尊啊,我想听饮酒的过失,以及可饮与不可饮的缘由。大自在天啊,请告诉我。

13.231.29

हन्त ते कथयिष्यामि पानोत्पत्तिं शुचिस्मिते ॥ १३.२३१.२९ ॥

好吧,纯净笑靥的女神,我将告诉你饮品的起源。

13.231.30

पुरा सर्वेऽभवन्मर्त्या बुद्धिमन्तो नयानुगाः ।
शुचयश्च शुभाचाराः सर्वे चोन्मनसः प्रिये ॥ १३.२३१.३० ॥

往昔,众生皆有智慧,遵循正道,清净,行为善良,且心志高远,爱妻啊。

13.231.31

एवंभूते तदा लोके प्रेष्यकृन्न परस्परम् ।
प्रेष्याबावान्मनुष्याणां कर्मारम्भो ननाश ह ॥ १३.२३१.३१ ॥

那时世间处于这样的状态,人们彼此不再互为仆役;因为没有了仆役,人的行动之始便消失了。

13.231.32

उभयोर्लोकयोर्नाशं दृष्ट्वा कर्मक्षयात्प्रभुः ।
यज्ञकर्म कथं लोके वर्तेतेति पितामहः ॥ १३.२३१.३२ ॥

见两界皆将毁灭,诸业已尽,主宰祖父思忖:“世间的祭祀之事将如何延续?”

13.231.33

आज्ञापयत्सुरान्देवि मोहयस्वेति मानुषान् ।
तमसः सारमुद्धृत्य पानं बुद्धिप्रणाशनम्इ।
न्यपातयन्मनुष्येषु पापदोषावहं प्रिये ॥ १३.२३१.३३ ॥

他命众神:“使人迷惑。”他取出黑暗的精华,一种毁灭智慧、带来罪过的饮料,爱人啊,他将它倾倒在人间。

13.231.34

तदाप्रभृति तत्पानान्मुमुहुर्मानवा भुवि ।
कार्याकार्यमजानन्तो वाच्यावाच्यं गुणागुणम् ॥ १३.२३१.३४ ॥

从那时起,大地上的人们饮用此物而迷惑,不知何事应为与不应为,何言应说与不应说,何者为善、何者为恶。

13.231.35

केचिद्धसन्ति तत्पीत्वा प्रवदन्ति तथा परे ।
नृत्यन्ति मुदिताः केचिद्गायन्ति शुभाशुभान्। ॥ १३.२३१.३५ ॥

有人饮后大笑,有人也这样胡言。有人欢喜起舞,有人唱着吉与凶。

13.231.36

कलिं ते कुर्वतेऽभीष्टं प्रहरन्ति परस्परम् ।
क्वचिद्धावन्ति सहसा प्रस्खलन्ति पतन्ति च ॥ १३.२३१.३६ ॥

他们贪求争斗而挑起争端,彼此殴打。有时突然奔跑,跌跌撞撞,倒地而下。

13.231.37

अयुक्तं बहु भाषन्ते यत्र क्वचन शोभने ।
नग्ना विक्षिप्य गात्राणि नष्टज्ञाना इवासते ॥ १३.२३१.३७ ॥

无论何处,即使在吉祥之时,人们也说许多不当之言;赤身裸体,甩动肢体,像失去理智的人一样坐着。

13.231.38

एवं बहुविधान्भावान्कुर्वन्ति भ्रान्तचेतनाः ।
ये पिबन्ति महामोहं पानं पापयुता नराः ॥ १३.२३१.३८ ॥

如此,心神迷乱之人会产生种种状态;饮酒的罪人饮下的是大迷惑。

13.231.39

धृतिं लज्जां च बुद्धिं च पानं पीतं प्रणाशयेत् ।
तस्मान्नराः सम्भवन्ति निर्लज्जा निरपत्रपाः ॥ १३.२३१.३९ ॥

所饮之酒会毁灭坚定、羞耻与智慧;因此人们变得无耻、毫无廉耻。

13.231.40

बुद्धिसत्वैः परिक्षीणास्तेजोहीना मलान्विताः ।
पीत्वापीत्वा तृषायुक्ताः पानपाः सम्भवन्ति च ॥ १३.२३१.४० ॥

智慧与精力耗尽,失去光彩,沾染污垢,一再饮酒而被渴望所困,于是成为酒徒。

13.231.41

पानकामाः पानकथाः पानकालाभिकाङ्क्षिणः ।
पानार्थं कर्मवश्यास्ते सम्भवन्ति नराधमाः ॥ १३.२३१.४१ ॥

渴望饮酒、只谈饮酒、盼望饮酒时刻的人,为了酒而受行为所驱使,便成为最卑下的人。

13.231.42

पानकामास्तृषायोगाद्बुद्धिसत्वपरिक्षयात् ।
पानदानां प्रेष्यकाराः पानपाः सहसाऽभवन् ॥ १३.२३१.४२ ॥

因渴望饮酒,与渴望相连,智慧与精力耗尽,饮酒者便突然成为给他们酒的人的仆役。

13.231.43

तदाप्रभृति वै लोके दीनैः पानवशैर्नरैः ।
कारयन्ति च कर्माणि बुद्धिमन्तस्तु पानपाः ॥ १३.२३१.४३ ॥

从那时起,世上那些沉溺于酒的可怜之人,被聪明的斟酒者役使去做各种事务。

13.231.44

कारुत्वमथ दासत्वं प्रेष्यतामेत्य पानपाः ।
सर्वकर्मकराश्चासन्पशुवद्रज्जुबन्धिताः ॥ १३.२३१.४४ ॥

于是斟酒者沦为工匠、奴仆与侍役,成为做一切劳作之人,并像牲畜一样被绳子捆绑。

13.231.45

पानपस्तु सुरां पीत्वा तदा बुद्धिप्रणाशनात् ।
कार्याकार्यस्य चाज्ञानाद्यथेष्टकरणात्स्वयम्।
विदुषामविधेयत्वात्पापमेवाभिपद्यते ॥ १३.२३१.४५ ॥

斟酒者饮了烈酒,因理智丧失、不知应做与不应做之事、任意妄为,又不听从智者,自己便堕入罪恶。

13.231.46

परिभूतो भवेल्लोके मद्यपो मित्रभेदकः ।
सर्वकालमशुद्धिं च सर्वभक्षस्तथा भवेत् ॥ १३.२३१.४६ ॥

饮酒之人在世上受人轻贱,会离间朋友,永远不洁,并且什么都吃。

13.231.47

विनष्टो ज्ञातिविद्वद्भ्यः सततं कलिभावगः ।
परुषं कटुकं घोरं वाक्यं वदति सर्वशः ॥ १३.२३१.४७ ॥

常被亲族与智者所弃,堕入迦利状态的人,处处说出粗暴、苦涩、可怕的话语。

13.231.48

गुरूनतिवदेन्मत्तः परदारान्प्रधर्षयेत् ।
संविदं कुरुते शौण्डेर्न शृणोति हितं क्वचित् ॥ १३.२३१.४८ ॥

醉者侮辱长辈,侵犯他人之妻,与酒徒结盟,从不听从有益之言。

13.231.49

एवं बहुविधा दोषाः पानपे सन्ति शोभने ।
केवलं नरकं यान्ति नास्ति तत्र विचारणा।
तस्मात्तद्वर्जितं सद्भिः पानमात्महितैषिभिः ॥ १३.२३१.४९ ॥

如此,饮酒有多种过失,美丽的女子啊。它们只会导致堕入地狱,此中毫无疑问。因此,求自身利益的善人戒绝饮酒。

13.231.50

यदि पानं न वर्जेरन्सन्तश्चारित्रकारणात् ।
भवेदेतज्जगत्सर्वममर्यादं च निष्क्रियम् ॥ १३.२३१.५० ॥

若善人为品行之故而不戒饮酒,这整个世界便会失去秩序,变得无所作为。

13.231.51

तस्माद्बुद्धेर्हि रक्षार्थं सद्भिः पानं विवर्जितम् ।
इति ते दुष्कृतं सर्वं कथितं त्रिविधं प्रिये ॥ १३.२३१.५१ ॥

因此,为了保护智慧,善人戒绝饮酒。爱妻啊,我已将一切恶行分为三类告诉你了。