摩诃婆罗多 · 章 13.232
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.232.1
विधानं सुकृतस्यापि भूयः शृणु शुचिस्मिते ।
प्रोच्यते तत्त्रिधा देवि सुकृतं च समासतः ॥ १३.२३२.१ ॥
纯洁微笑的你啊,请再听善业的规则。女神啊,简而言之,它被说为三种。
13.232.2
यदौपरमिकं चैव सुकृतं निरुपद्रवम् ।
तथैव सोपकरणं तावता सुकृतं विदुः ॥ १३.२३२.२ ॥
与止息相关的善业是无害的;同样,带有其助缘的善业也是如此。仅凭此,人们便认为它是善业。
13.232.3
निवृत्तिः पापकर्मभ्यस्तदौपरमिकं प्रिये ।
मनोवाक्कायजा दोषाः शृणु मे वर्जनाच्छुभम् ॥ १३.२३२.३ ॥
远离恶行,爱人啊,这就是止息所属。请听我说由意、语、身所生的过失;远离它们,便得善。
13.232.4
त्रैविध्यदोषोपरमे यस्तु दोषव्यपेक्षया ।
स हि प्राप्नोति सकलं सर्वदुष्कृतवर्जनात् ॥ १३.२३२.४ ॥
当三种过失止息时,若顾及过失而远离,便因避开一切恶行而得到全部。
13.232.5
प्रथमं वर्जयेद्दोषान्युगपत्पृथगेव वा ।
तथा धर्ममवाप्नोति दोषत्यागो हि दुष्करः।
दोषसाकल्यसंत्यागान्मुनिर्भवति मानवः ॥ १३.२३२.५ ॥
应先远离过失,或同时或分别。如此便得法,因为舍弃过失是困难的。完全舍弃一切过失,人便成为圣者。
13.232.6
सौकर्यं पस्य धर्मस्य कार्यारम्भादृतेऽपि च ।
आत्मा च लब्धोपरमो लभन्ते सुकृतं परम् ॥ १३.२३२.६ ॥
看那法的易行,即便不开始任何行动。已得止息的自我,便得至上善业。
13.232.7
अहो नृशंसाः पच्यन्ते मानुषाः स्वल्पबुद्धयः ।
एतादृशं न बुध्यन्ते आत्माधीनं न निर्व्यथाः ॥ १३.२३२.७ ॥
唉!愚钝而残忍的人受苦,却不知这种取决于自我、无忧无苦之道。
13.232.8
दुष्कृतत्यागमात्रेण पदमूर्ध्वं हि लभ्यते ॥ १३.२३२.८ ॥
仅仅舍弃恶行,便能获得更高的境界。
13.232.9
पापभीरुत्वमात्रेण दोषाणां परिवर्जनात् ।
सुशोभनो भवेद्देवि क्रजुर्धर्मव्यपेक्षया।
इत्यौपरमिकं देवि कथितं सुकृतं तव ॥ १३.२३२.९ ॥
仅凭畏惧罪恶、避免过失,女神啊,人便能在法上变得正直而极为光彩。女神啊,这便是我告诉你的,由止息而来的功德。
13.232.10
श्रुत्वा च वृद्धसंयोगादिन्द्रियाणां च निग्रहात् ।
सन्तोषाच्च धृतेश्चैव शक्यते दोषवर्जनम् ॥ १३.२३२.१० ॥
通过亲近长者而听闻,通过克制诸根,通过知足与坚定,便能避免过失。
13.232.11
तदेव धर्ममित्याहुर्दोषसंयमनं प्रिये ।
यमधर्मेण धर्मोस्ति नान्यः शुभतरः प्रिये।
यमधर्मेण यतयः प्राप्नुवन्त्युत्तमां गतिम् ॥ १३.२३२.११ ॥
这便被称为法:节制过失。爱妃啊,法因节制之法而存在,没有比它更吉祥的。爱妃啊,苦行者凭借节制之法达到至高的归宿。
13.232.12
ईश्वराणां प्रभवतां दरिद्राणां च वै नृणाम् ।
सफलो दोषसंत्यागो दानादपि शुभादपि ॥ १३.२३२.१२ ॥
无论是有权势、有力量的人,还是贫穷的人,舍弃过失都能有成效,甚至通过布施,甚至通过善行。
13.232.13
तपो दानं महादेवि दोषमल्पं हि निर्भरेत् ।
सुकृतं यामिकं चोक्तं वक्ष्ये निरुपसाधनम् ॥ १३.२३२.१३ ॥
大女神啊,苦行与布施能消除even小小的过失。我将讲述所谓“夜摩”的善行,它无需任何手段。
13.232.14
सुखाभिसन्धिर्लोकानां सत्यं शौचमथार्जवम् ।
व्रतोपवासः प्रीतिश्च ब्रह्मचर्यं दमः शमः ॥ १३.२३२.१४ ॥
为众生谋福之意、真实、清净、正直、誓戒与斋戒、慈爱、梵行、自制与寂静。
13.232.15
एवमादि शुभं कर्म सुकृतं नियमाश्रितम् ।
शृणु तेषां विशेषांश्च कीर्तयिष्यामि भामिनि ॥ १३.२३२.१५ ॥
如此等类的善行,乃是依持戒律的功德。美人啊,请听,我将宣说其中的差别。
13.232.16
सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव ।
नास्ति सत्यात्परं दानं नास्ति सत्यात्परं तपः ॥ १३.२३२.१६ ॥
真实是通往天界的阶梯,如同渡过大海的船。没有比真实更大的布施,没有比真实更大的苦行。
13.232.17
यथा श्रुतं यथा दृष्टमात्मना यद्यथा कृतम् ।
तथा तस्याविकारेण वचनं सत्यलक्षणम् ॥ १३.२३२.१७ ॥
如实所闻、亲眼所见、亲手所为,不加改变地说出,这便是真实的标志。
13.232.18
यच्छलेनाभिसंयुक्तं सत्यरूपं मृषैव तत् ।
सत्यमेव प्रवक्तव्यं पारावर्यं विजानता ॥ १३.२३२.१८ ॥
与欺诈相连之物,虽具真实之相,实为虚妄。知晓彼岸者,只应说真实。
13.232.19
दीर्घायुश्च भवेत्सत्यात्कुलसन्तानपालकः ।
लोकसंस्थितिपालश्च भवेत्सत्येन मानवः ॥ १३.२३२.१९ ॥
因真实,人得长寿,守护家族血脉,并因真实而成为世间秩序的守护者。
13.232.20
कथं सन्धारयन्मर्त्यो व्रतं शुभमवाप्नुयात् ॥ १३.२३२.२० ॥
凡人如何坚守吉祥的誓愿,才能获得其果报?
13.232.21
पूर्वमुक्तं तु यत्पापं मनोवाक्कायकर्मभिः ।
व्रतवत्तस्य संत्यागस्तपोव्रतमिति स्मृतम् ॥ १३.२३२.२१ ॥
前面所说的罪业由心、口、身之业而生;像持戒那样完全舍弃它,这被称为苦行之誓。
13.232.22
त्याज्यं वा यदि वा जोष्यमव्रतेनि वृथा चरन् ।
तथा फलं न लभते तस्माद्धर्मं वृथा चरेत् ॥ १३.२३२.२२ ॥
无誓而徒然行事者,若该舍弃者不舍,或该受用者受用,便得不到相应的果报;因此不可徒然行法。
13.232.23
शुद्धकायो नरो भूत्वा स्नात्वा तीर्थ यथाविधि ।
पञ्चभूतानि चन्द्रार्कौ संध्ये धर्मयमौ पितॄन् ॥ १३.२३२.२३ ॥
身体清净的人,依规定在圣渡口沐浴后,应当以五大、日月、晨昏、法与阎摩、以及祖先为证。
13.232.24
आत्मनैव तथाऽऽत्मानं निवेद्य व्रतवच्चरेत् ।
व्रतमामरणाद्वाऽपि कालच्छेदेन वा हरेत् ॥ १३.२३२.२४ ॥
以自身奉献于自身,应如持守誓愿般修行;誓愿或守至命终,或限定于一定时日。
13.232.25
शाकादिषु व्रतं कुर्यात्तथा पुष्पफलादिषु ।
ब्रह्मचर्यव्रतं कुर्यादुपवासव्रतं तथा ॥ १३.२३२.२५ ॥
应在蔬菜等事物上持守誓戒,同样也在花、果等事物上持守。应守持梵行之戒,同样也应守持斋戒。
13.232.26
एवमन्येषु बहुषु व्रतं कार्यं हितैषिणा ।
व्रतभङ्गो यथा न स्याद्रक्षितव्यं तथा बुधैः।
व्रतभङ्गे महत्पापमिति विद्धि शुभेक्षणे ॥ १३.२३२.२६ ॥
同样,求福者应在许多其他事情上持守誓戒。智者应守护誓戒,使其不被破坏。应知,美目者啊,破坏誓戒是大罪。
13.232.27
औषधार्थं यदज्ञानाद्गुरूणां वचनादपि ।
अनुग्रहार्थं बन्धूनां व्रतभङ्गो न दुष्यते ॥ १३.२३२.२७ ॥
若因药物、因无知、因尊长之言,或为恩惠亲属而破坏誓戒,则不算有过。
13.232.28
व्रतापवर्गकाले तु दैवब्राह्मणपूजनम् ।
नरेण तु यथा विद्धि कार्यसिद्धिं यथाऽऽप्तुयात् ॥ १३.२३२.२८ ॥
在誓戒结束之时,应礼拜诸神与婆罗门。应知人以此方式可成就其所求之事。
13.232.29
कथं शौचविधिस्तत्र तन्मे शंसितुमर्हसि ॥ १३.२३२.२९ ॥
其中净化之法如何?你应当为我说明。
13.232.30
बाह्ममाभ्यन्तरं चेति द्विविधं शौचमिष्यते ।
मानसं सुकृतं यत्तच्छौचमाभ्यन्तरं स्मृतम् ॥ १३.२३२.३० ॥
净化被认为有两种:外在与内在。心中的善行被记为内在的净化。
13.232.31
सदाऽऽहारविशुद्धिश्च कायप्रक्षालनं च यत् ।
बाह्यशौचं भवेदेतत्तथैवाचमनादिना ॥ १३.२३२.३१ ॥
始终保持食物洁净,洗涤身体,此即外在之净;同样以漱口饮水(阿遮曼)等行之亦然。
13.232.32
मृच्चैव शुद्धदेशस्था गोशकृन्मूत्रमेव च ।
द्रव्याणि गन्धयुक्तानि यानि पुष्टिकराणि च।
एतैः सम्मार्जयेत्कायमम्भसा च पुनः पुनः ॥ १३.२३२.३२ ॥
取自净地的泥土、牛粪与牛尿,以及芬芳滋养之物——以此与水反复擦洗身体。
13.232.33
अक्षोभ्यं यत्प्रकीर्णं च नित्यस्रोतं च यज्जलम् ।
प्रायशस्तादृशे मज्जेदन्यथा च विवर्जयेत् ॥ १३.२३२.३३ ॥
凡静止而广布、常流不息之水,大多应在其中沐浴;否则应当避免。
13.232.34
त्रिस्त्रिराचमनं श्रेष्ठं निष्फेनैर्निर्मलैर्जलैः ।
तथा विण्मूत्रयोः शुद्धिरद्भिर्बहुमृदा भवेत्।
तथैव जलसंशुद्धिर्यत्संशुद्धं तु संस्पृशेत् ॥ १३.२३२.३४ ॥
以无泡沫、清净之水漱口三次三遍为最佳。同样,清除粪便与尿液须用水和大量泥土;水的净化亦然——只应接触洁净之物。
13.232.35
शकृता भूमिशुद्धिः स्याल्लौहानां भस्मना स्मृतम् ।
तक्षणं घर्षणं चैव दारवाणां विशोधनम् ॥ १३.२३२.३५ ॥
以牛粪净化土地;铁器据说以灰烬净化。刮削与擦拭乃是木器的净化之法。
13.232.36
दहनं मृण्मयानां च मर्त्यानां कृच्छ्रधारणम् ।
शेषाणां देवि सर्वेषामातपेन जलेन च।
ब्राह्मणानां च वाक्येन सदा संशोधनं भवेत् ॥ १३.२३२.३६ ॥
陶器以火烧而得净;对于凡人而言,持守苦行誓(kṛcchra)即是净化。女神啊,其余一切应常以阳光、水以及婆罗门的言语来净化。
13.232.37
अदृष्टमद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते ।
एवमापदि संशुद्धिरेवं शौचं विधीयते। ॥ १३.२३२.३७ ॥
凡有不可见之污秽、以水洗净并为言语所赞美者,即为清净。遭遇危难时,净化便如此;清净之法亦如此规定。
13.232.38
आहारशुद्धिस्तु कथं देवदेव महेश्वर ॥ १३.२३२.३८ ॥
众神之神、摩诃提婆啊,饮食的清净如何得以成就?
13.232.39
अमांसमद्यमक्लेद्यमपर्युषितमेव च ।
अतिकट्वम्ललवणहनं च शुभगन्धि च ॥ १३.२३२.३९ ॥
非肉、非酒、不因潮湿而败坏、不陈腐、不过分苦、酸或咸,且气味宜人的食物,即是清净的食物。
13.232.40
क्रिमिकेशमलैर्हीनं संवृतं शुद्धदर्शम् ।
एवंविधं सदाहार्यं देवब्राह्मणसात्कृतम् ॥ १३.२३२.४० ॥
无虫、无毛发、无污秽,有遮盖,看起来清洁,并已供奉给诸神与婆罗门的食物,应当常常备办此类食物。
13.232.41
श्रुतमित्येव तज्ज्ञेयमन्यथा मन्यसेऽशुभम् ।
ग्राम्यादारण्यकैः सिद्धं श्रेष्ठमित्यवधारय ॥ १३.२३२.४१ ॥
应当知道,这是由传承所闻之法。若你以为不同、认为不吉,那么就须坚定认定:由村居者与林居者所确立的,才是最好的。
13.232.42
अतिमात्रगृहीतात्तु अल्पदत्तं भवेच्छुचि ।
यज्ञशेषं हविःशेषं पितृशेषं च निर्मलम्।
इति ते कथितं देवि भूयः किं श्रोतुमिच्छसि ॥ १३.२३२.४२ ॥
取之过度者,即使少量施予也可成为清净。祭祀的余物、供物的余物以及供奉祖先的余物皆为纯净无垢。女神啊,这已为你宣说,你还想再听什么?