摩诃婆罗多 · 章 13.234
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.234.1
एतदर्थमवाप्नोति नरः प्रेत्य शुभेक्षणे ॥ १३.२३४.१ ॥
美目的女神啊,人为此目的,死后得到(果报)。
13.234.2
लोकसिद्धं तु यद्द्रव्यं सर्वसाधारणं भवेत् ।
तददत्सर्विसामान्यं कथं धर्मं लभेन्नरः।
एवं साधारणे द्रव्ये तस्य स्वत्वं कथं भवेत् ॥ १३.२३४.२ ॥
若世间公认为众人共有之财物,不施与则仍归众人,人何以得福?如此共有之财,其所有权又如何归属于他?
13.234.3
लोके भूतमयं द्रव्यं सर्वसाधारणं तथा ।
तथैव तद्ददन्मर्त्यो लभेत्पुण्यं स तच्छृणु ॥ १३.२३४.३ ॥
世间万物之实体亦为众人所共有;同样,凡人施与之,便得福德。请听。
13.234.4
दाता प्रतिग्रहीता च देयं सोपक्रमं तथा ।
देशकालौ च यत्त्वेतद्दानं षङ्गुणमुच्यते।
तेषां सम्पद्विशेषांश्च कीर्त्यमानान्निबोध मे ॥ १३.२३४.४ ॥
施者、受者、所施之物、起始之供养,以及处所与时间——这些被称为布施的六种功德。我将宣说它们的殊胜之处,请从我这里听。
13.234.5
आदिप्रभृति यः शुद्धो मनोवाक्कायकर्मभिः। ॥ १३.२३४.५ ॥
自始以来,意、语、身三业清净者——
13.234.6
शुद्रो दान्तो जितक्रोधस्तथा दीनकुलोद्भवः ।
श्रुतचारित्रसम्पन्नस्तथा बहुकलत्रवान् ॥ १३.२३४.६ ॥
首陀罗,克制自己,已战胜愤怒,出身贫寒之家,具足学问与德行,并有众多妻室——
13.234.7
पञ्चयज्ञपरो नित्यं निर्विकारशरीरवान् ।
एतान्पात्रगुणान्विद्धि तादृक्पात्रं प्रशस्यते ॥ १३.२३४.७ ॥
常行五大祭祀,身体无有残缺——应知这些是受施者的品德;如此受施者才值得称赞。
13.234.8
पितृदेवाग्निकार्येषु तस्य दत्तं महाफलम् ।
यद्यदर्हति यो लोके पात्रं तस्य भवेच्च सः। ॥ १३.२३४.८ ॥
在祭祀祖先、诸神与火的仪式中施予他的布施,会结出巨大的果报;世间谁配得某物,谁便是其应受之人。
13.234.9
अन्नस्य क्षुधितं पात्रं तृषितस्तु जलस्य वै ।
एवं पात्रेषु नानात्वमिष्यते पुरुषं प्रति ॥ १३.२३४.९ ॥
食物的合适受施者是饥饿者,饮水的合适受施者是口渴者;因此,依每个人的不同,受施者亦有多种之别。
13.234.10
जारश्चोरश्च षण्डश्च हिंस्रः समयभेदकः ।
लोकविघ्नकराश्चान्ये वर्जितव्याः सर्वशः प्रिये ॥ १३.२३४.१० ॥
奸夫、盗贼、阉人、暴戾之人、背弃誓约者,以及其他在世间制造障碍的人——爱人啊,应当全然避开这些人。
13.234.11
परोपघाताद्यद्द्रव्यं चौर्याद्वा लभ्यते नृभिः ।
निर्दयाल्लभ्यते यच्च धूर्तभावेन वै तथा ॥ १३.२३४.११ ॥
人们因伤害他人或偷窃而获得的财物,以及凭残忍与狡诈之心所得的财物,同样如此。
13.234.12
अधर्मादर्थमोहाद्वा बहूनामुपरोधनात् ।
यल्लभ्यते धनं देवि तदत्यन्तविगर्हितम् ॥ १३.२३४.१२ ॥
凭不义、因迷恋财富,或压迫众人而得的财物,女神啊,那是极其应受谴责的。
13.234.13
तादृशेन कृतं धर्मं निष्फलं विद्धि भामिनि ।
तस्मान्न्यायागतेनैव दातव्यं शुभमिच्छता ॥ १३.२३४.१३ ॥
女士,你应知道,此等人所行的法是无果的。因此,求善者应只以正当得来之财施舍。
13.234.14
यद्यदात्मप्रियं नित्यं तत्तद्देयमिति स्थितिः ।
उपक्रममिमं विद्धि दातॄणां परमं हितम् ॥ १३.२३४.१४ ॥
凡自己所常珍爱之物,便应施舍,这便是准则。应知此开端乃施者的至高利益。
13.234.15
पात्रभूतं तु दूरस्थमभिगम्य प्रसाद्य च ।
दाता दानं तथा दद्याद्यथा तुष्येत तेन सः। ॥ १३.२३४.१५ ॥
若受施之人身在远处,施者应前往拜见,使其欢喜,然后以令其满意的方式施舍。
13.234.16
पूर्वं च पात्रतां ज्ञात्वा समाहूय निवेद्य च ।
शौचाचमनसंयुक्तं दातव्यं श्रद्धया प्रिये ॥ १३.२३४.१६ ॥
先知其是否合格,召请并告知之,然后怀着信心,伴以洁净与漱水之礼施舍,爱妻啊。
13.234.17
याचितॄणां तु परममाभिमुख्यं पुरस्कृतम् ।
संमानपूर्वं सङ्ग्राह्यं दातव्यं देशकालयो ॥ १३.२३४.१७ ॥
对于求乞之人,应给予最大的关注。以尊敬之礼接待,依地点与时机施舍。
13.234.18
अपात्रेभ्योपि चान्येभ्यो दातव्यं भूतिमिच्छता ।
पात्राणि सम्परीक्ष्यैव दात्रा वै नाममात्रया। ॥ १३.२३४.१८ ॥
求福之人也可施予不配之人及其他人;但施者应仔细考察有德者之后再施予,而不是徒具虚名地施予。
13.234.19
अतिशक्तया परं दानं यथाशक्ति तु मध्यमम् ।
तृतीयं चापरं दानं नानुरूपमिवात्मनः ॥ १३.२३४.१९ ॥
超出自身力量的施舍最为殊胜;依自身力量的施舍居中;而不合于自己的第三种施舍则是另一类。
13.234.20
यथा सम्भाषितं पूर्वं दातव्यं तत्तथैव च ।
पुण्यिक्षेत्रेषु यद्दत्तं पुण्यकालेषु वा यथा। ॥ १३.२३४.२० ॥
应当依照先前所许诺的那样施舍;在圣地或吉时所施舍之物,也是如此。
13.234.21
यश्च पुण्यतमो देशस्तथा कालश्च शंस मे ॥ १३.२३४.२१ ॥
请告诉我,何处与何时最为圣洁。
13.234.22
कुरुक्षेत्रं महानन्यो यश्च देवर्षिसेवितः ।
गिरिर्वरश्च तीर्थानि देशभागेषु पूजितः।
ग्रहीतुमीप्सितो यत्र तत्र दत्तं महाफमल् ॥ १३.२३४.२२ ॥
俱卢之野广大无比,为天仙圣人所奉侍;殊胜的山峰与圣渡之处,在各地受人敬奉——在有愿意接受者的地方所施舍之物,结出大果。
13.234.23
शरद्वसन्तकालश्च पुण्यमासस्तथैव च ।
शुक्लपक्षश्च पक्षाणां पौर्णमासी च पर्वसु ॥ १३.२३४.२३ ॥
秋季与春季,吉祥之月亦然;白半月,半月中的满月日,以及节日之日。
13.234.24
पितृदैवतनक्षत्रनिर्मलो दिवसस्तथा ।
तच्छोभनतरं विद्धि चन्द्रसूर्यग्रहे तथा ॥ १३.२३४.२४ ॥
在祖灵与诸天之宿所照的清净之日亦然;当知此更为殊胜——日月蚀之时也是如此。
13.234.25
प्रतिग्रहीतुर्यः कालो मनसा कीर्तितः शुभे ।
एवमादिष्टकालेषु दत्तं दानं महद्भवेत् ॥ १३.२३४.२५ ॥
吉祥者啊,受者之时已由心中宣示;于此规定之时所施的布施便成为广大的。
13.234.26
दाता देयं च पात्रं च उपक्रमयुता क्रिया ।
देशकालं तथा तेषां सम्पच्छुद्धिः प्रकीर्तिता ॥ १३.२३४.२६ ॥
施者、所施之物、受者、有始的仪式、处所与时间,以及他们财物的清净,都已宣说。
13.234.27
यथैव युगपत्सम्पत्तत्र दानं महद्भवेत् ॥ १३.२३४.२७ ॥
如同财富在同一时间聚集,那里的布施便成为广大的。
13.234.28
अत्यल्पमपि यद्दानमेभिः षड्भिर्गुणैर्युतम् ।
भूत्वाऽनन्तं नयेत्स्वर्गं दातारं दोषवर्जितम् ॥ १३.२३४.२८ ॥
即使极其微小的布施,若具足这六种德性,便成为无尽,引导无过的施者升入天界。
13.234.29
सुमहद्वाऽपि यद्दानं गुणैरेभिर्विनाकृतम् ।
अत्यल्पफलनिर्योगमफलं वा फलोद्धतम् ॥ १३.२३४.२९ ॥
即使极其广大的布施,若无这些德性,只能得到极少的果报,或者无果,或者因果报而生骄慢。
13.234.30
एवंगुणयुतं दानं दत्तं च फलतां व्रजेत् ।
तदस्ति चेन्महद्देयं तन्मे शंसितुमर्हसि ॥ १३.२३४.३० ॥
具备这些德性所施之布施便能结果。若有应当施予的大布施,你应当向我宣说。
13.234.31
तदप्यस्ति महाभागे नराणां भावदोषतः ॥ १३.२३४.३१ ॥
大福之人啊,这也因人心之过而有。
13.234.32
कृत्वा धर्मं तु विधिवत्पश्चात्तापं करोति चेत् ।
श्लाघया वा यदि ब्रूयाद्वृथा संसदिं यत्कृतम् ॥ १३.२३४.३२ ॥
若依法行施之后又生悔恨,或为求赞誉而在大众中徒然宣说所作之事,
13.234.33
प्रकल्पयेच्च मनसा तत्फलं प्रेत्यभावतः ।
कर्म धर्मकृतं यच्च सततं फलकाङ्क्षया। ॥ १३.२३४.३३ ॥
并在心中期望其在来世的果报;以及常怀求果之心所行的法事,
13.234.34
एते दोषा विवर्ज्याश्च दातृभिः पुण्यकाङ्क्षिभिः ।
सनातनमिदं वृत्तं सद्भिराचरितं तथा ॥ १३.२३४.३४ ॥
求福的施者应当远离这些过失;这是永恒的德行,为善人所奉行。
13.234.35
अनुग्रहात्परेषां तु गृहस्थानामृणं हि तत् ।
इत्येवं मन आविश्य दातव्यं सततं बुधैः ॥ १३.२३४.३५ ॥
因他人之恩,这对居家者而言确是一种债务;心中如此确立后,智者应当常常布施。
13.234.36
एवमेव कृतं नित्यं सुकृतं तद्भवेन्महत् ।
सर्वसाधारणं द्रव्यमेवं दत्त्वा महत्फलम् ॥ १३.२३४.३६ ॥
如此常常行之,那善行便成为大功德;以这种方式布施共有之财,便得大果报。