摩诃婆罗多 · 章 13.239
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.239.1
एवं कृतस्य धर्मस्य श्रोतुमिच्छाम्यहं प्रभो ।
प्रमाणं फलमानानां तन्मे शंसितुमर्हसि ॥ १३.२३९.१ ॥
乌摩说:主啊,我想听听如此行持的法之量度与果报;请您为我宣说。
13.239.2
प्रमाणकल्पनां देवि दानस्य शृणु भामिनि ॥ १३.२३९.२ ॥
摩醯首罗说:天女啊,美人啊,请听布施之量的推算。
13.239.3
यत्सारस्तु नरो लोके तद्दानं चोत्तमं स्मृतम् ।
सर्वदानविधिं प्राहुस्तदेव भुवि शोभने ॥ १३.२३९.३ ॥
世间人之所贵重者,其布施即被认为是最上的;人们说,这正是大地上一切布施的规则,光辉的女神啊。
13.239.4
प्रस्थं सारं दरिद्रस्य शतं कोटिधनस्य च ।
प्रस्थसारस्तु तत्प्रस्थं ददन्महदषाप्नुयात् ॥ १३.२३९.४ ॥
贫者之布施之量为一普罗斯塔,富至千万者为一百普罗斯塔;但以一普罗斯塔之份而施者,以此一普罗斯塔之施,得大果报。
13.239.5
कोटिसारस्तु तां कोटिं ददान्महदवाप्नुयात् ।
उभयं तन्महत्तच्च फलेनैव समं स्मृतम् ॥ १३.२३९.५ ॥
然以一俱胝之份而施者,以此一俱胝之施,得大果报;此二者——那大者与此者——于果报上被认为是相等的。
13.239.6
धर्मार्थकामभोगेषु शक्त्यभावस्तु मध्यमम् ।
स्वद्रव्यादतिहीनं तु तद्दानमधमं स्मृतम् ॥ १३.२३९.६ ॥
若于法、利、欲、享受中力有所不足,则为中等之施;然以自己财物而施,过于微薄者,被认为是下等之施。
13.239.7
शृणु दत्तस्य वै देवि पञ्चधा फलकल्पनाम् ।
आनन्त्यं च महच्चैव समं हीनं हि पातकम् ॥ १३.२३९.७ ॥
女神啊,听我讲述布施之果的五种计算:无尽、广大、相等、低劣与罪过。
13.239.8
तेषां विशेषं वक्ष्यामि शृणु देवि समाहिता ।
दुस्त्यजस्य च वै दानं पात्र आनन्त्यमुच्यते ॥ १३.२३९.८ ॥
我将说明它们的区别,女神请专心听。施舍难以舍弃之物,以及施给有德之人,据说会带来无穷的果报。
13.239.9
दानं षङ्गुणयुक्तं तु महदित्यभिधीयते ।
यथाश्रद्धं तु वै दानं यथार्हं सममुच्यते ॥ १३.२३९.९ ॥
具备六种德性的布施称为大施。依信心而施,依所应而施,称为等施。
13.239.10
गुणतस्तु तथा हीनं दानं हीनमिति स्मृतम् ।
दानं पातकमित्याहुः षड्गुणानां विपर्यये ॥ १३.२३९.१० ॥
在品质上欠缺的布施被称为劣施。当六种德性相反时,人们说这布施就是罪过。
13.239.11
देवलोके महत्कालमान्त्यस्य फलं विदुः ।
महतस्तु तथा कालं स्वर्गलोके तु पूज्यते ॥ १३.२३९.११ ॥
他们知道,在天界,无尽布施的果报持续很久。大施在天界同样被尊崇很久。
13.239.12
समस्य तु तदा दानं मानुष्यं भोगमावहेत् ।
दानं निष्फलमित्याहुर्विहीनं क्रियया शुभे ॥ १३.२३९.१२ ॥
等同之施便带来人身与享受。吉祥者啊,不伴随正行的布施被说成是无果的。
13.239.13
अथवा म्लेच्छदेशेषु तत्र तत्फलतां व्रजेत् ।
नरकं प्रेत्य तिर्यक्षु गच्छेदशुभदानतः ॥ १३.२३९.१३ ॥
或者在蛮夷之地,他在那里获得其果报;因不吉之施舍,死后堕入地狱或转生为畜生。
13.239.14
अशुभस्यापि दानस्य शुभं स्याच्च फलं कथम् ॥ १३.२३९.१४ ॥
不吉的施舍怎能也有吉祥的果报?
13.239.15
मनसा तत्वतः शुद्धमानृशंस्यपुरःसरम् ।
प्रीत्या तु सर्वदानानि दत्त्वा फलमवाप्नुयात् ॥ १३.२३९.१५ ॥
心地真正清净,以不残忍为先,怀着爱心施予一切布施,便可获得果报。
13.239.16
रहस्यं सर्वदानानामेतद्विद्धि शुभेक्षणे ।
अन्यानि धर्मकार्याणि शृणु सद्भिः कृतानि च ॥ १३.२३९.१६ ॥
善目者啊,你应知这是一切布施的秘密。现在听听善人所行的其他法行。
13.239.17
आरामदेवगोष्ठानि संक्रमाः कूप एव च ।
गोवाटश्च तटाकश्च सभा शाला च सर्वशः ॥ १३.२३९.१७ ॥
园林、神庙与牛栏,桥梁,水井,牛圈,池塘,议事厅与殿堂——这些在各方面都是法行。
13.239.18
पाषण्डावसथश्चैव पानीयं गोतृणानि च ।
व्याधितानां च भैषज्यमनाथानां च पोषणम् ॥ १३.२३९.१८ ॥
为异端苦行者设立的居所,饮水,牛的草料,为病人提供药物,以及供养孤苦无依之人。
13.239.19
अनाथशवसंस्कारस्तीर्थमार्गविशोधनम् ।
व्यसनाभ्यवपत्तिश्च सर्वेषां च स्वशक्तितः ॥ १३.२३९.१९ ॥
为无人照料者举行葬礼、清净圣地之路,并在众人遭难时施以援助,各随自己的能力。
13.239.20
एतत्सर्वं समासेन धर्मकार्यमिति स्मृतम् ।
तत्कर्तव्यं मनुष्येण स्वशक्त्या श्रद्धया शुभे ॥ १३.२३९.२० ॥
简言之,这一切都被视为法行。人应当以自己的力量和信心去做,吾之吉祥者啊。
13.239.21
प्रेत्यभावे लभेत्पुण्यं नास्ति तत्र विचारणा ।
रूपं सौभाग्यमारोग्यं बलं सौख्यं लभेन्नरः।
स्वर्गो वा मानुषे वाऽपि तैस्तैराप्यायते हि सः ॥ १३.२३९.२१ ॥
死后可获得功德,此事毫无疑问。人可得容貌、福运、健康、力量与快乐;无论在天界还是人间,他都由这些所滋养。
13.239.22
भगवन्लोकपालेश धर्मस्तु कतिभेदकः ।
दृश्यते परितः सद्भिस्तन्मे शंसितुमर्हसि ॥ १३.२३९.२२ ॥
尊贵的主,世界守护者之主啊!善人之中处处可见的法,有多少种类?请您为我宣说。
13.239.23
शृणु देवि समुद्देशान्नानात्वं धर्मसङ्कटे ।
धर्मा बहुविधा लोके श्रुतिभेदमुखोद्भवाः ॥ १३.२३९.२३ ॥
请听,女神,简述法的困境中的多样性。世间的法有多种,它们出自各种不同的吠陀经文之口。
13.239.24
स्मृतिधर्मश्च बहुधा सद्भिराचार इष्यते ॥ १३.२३९.२४ ॥
记忆传承之法(圣传之法)亦有多种,善人所认可的行为也有多种方式。
13.239.25
देशधर्माश्च दृश्यन्ते कुलधर्मास्तथैव च ।
जातिधर्माश्च वै धर्मा गणधर्माश्च शोभने ॥ १३.२३९.२५ ॥
地方之法可见,家族之法亦然;种姓之法与行会之法亦然,美丽的女子啊。
13.239.26
शरीरकालवैषम्यादापद्धर्मश्च दृश्यते ।
एतद्धर्मस्य नानात्वं क्रियते लोकवासिभिः ॥ १३.२३९.२६ ॥
因身体与时代的差异,亦可见危难之法;此法的多样性由世间居民所造。
13.239.27
कारणात्तत्रतत्रैव फलं धर्मस्य चेष्यते ।
तत्कारणसमायोगे लभेत्कुर्वन्फलं नरः ॥ १३.२३९.२७ ॥
依因缘之故,法之果报处处可求;因缘相合时,行事之人便得其果。
13.239.28
अन्यथा न लभेत्पुण्यमतदर्हः समाविशेत् ।
एवं धर्मस्य नानात्वं फलं कुर्वल्लँभेन्नरः ॥ १३.२३९.२८ ॥
否则人不能得福;不配之人不应进入其中。如此,法之多样性生出果报,人因此而得之。
13.239.29
श्रौतस्मार्तस्तु धर्माणां प्राकृतो धर्म उच्यते ।
इति ते कथितं देवि भूयः श्रोतुं किमिच्छसि ॥ १३.२३९.२९ ॥
在天启法与传承法之中,被称为寻常之法者即此。女神啊,此已告诉你;你还想再听什么?