摩诃婆罗多 · 章 13.245
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.245.1
साङ्ख्यज्ञानं प्रवक्ष्यामि यथावत्ते शुचिस्मिते ।
यज्ज्ञात्वा न पुनर्मर्त्यः संसारेषु प्रवर्तते ॥ १३.२४५.१ ॥
纯净微笑的女神啊,我将如实为你宣说数论之知;知此者,凡人不再流转于轮回之中。
13.245.2
ज्ञानेनैव विमुक्तास्ते साङ्ख्याः संन्यासकोविदाः ।
शरीरं तु तपो घोरं साङ्ख्याः प्राहुर्निरर्थकम्। ॥ १३.२४५.२ ॥
精通出离的数论师唯凭智慧而得解脱;数论师说,以严酷苦行折磨身体是毫无意义的。
13.245.3
पञ्चविंशतिकं ज्ञानं तेषां ज्ञानमिति स्मृतम् ।
मूलप्रकृतिरव्यक्तमव्यक्ताज्जायते महान् ॥ १३.२४५.३ ॥
他们的知识被传为二十五谛;根本自性为未显,由未显生出大(觉)。
13.245.4
महतोऽभूदहङ्कारस्तस्मात्तन्मात्रपञ्चकम् ।
इन्द्रियाणि दशैकं च तन्मात्रेभ्यो भवन्त्युत ॥ १३.२४५.४ ॥
由大生出我慢;由此生五唯;由五唯实生十一根,即十加一。
13.245.5
तेभ्यो भूतानि पञ्चास्य शरीरं यैः प्रवर्तते ।
इति क्षेत्रस्य संक्षेपं चतुर्विंशतिरिष्यते।
पञ्चविंशतित्याहुः पुरुषेणेह सङ्ख्यया ॥ १३.२४५.५ ॥
由此生五大种,身体依之而运作。如是,田的概要被说为二十四;然而在此计入补鲁沙,则说为二十五。
13.245.6
सत्वं रजस्तमश्चेति गुणाः प्रकृतिसम्भवाः ।
तैः सृजत्यखिलं लोकं प्रकृतिः स्वात्मकैर्गुणैः ॥ १३.२४५.६ ॥
善性、激情与暗性——这些德性生于自性;自性以其自身之德,创造整个世界。
13.245.7
इच्छा द्वेषः सुखं दुःखं संघातश्चेतना धृतिः ।
विकाराः प्रकृतेश्चैते वेदितव्या मनीषिभिः ॥ १३.२४५.७ ॥
欲望、憎恶、快乐、痛苦、聚合(身体)、觉知与坚定——这些都是原质(prakṛti)的变化,智者应当知晓。
13.245.8
लक्षणं चापि सर्वेषां विकल्पं चादितः पृथक् ।
विस्तरेणैव वक्ष्यामि तस्य व्याख्यामहं शृणु ॥ १३.२४५.८ ॥
我将从头详细地、逐一地讲述一切事物的特征与分别;请听我的解说。
13.245.9
नित्यमेकमणु व्यापि क्रियाहीनमहेतुकम् ।
अग्राह्यमिन्द्रियैः सर्वैरेतदव्यक्तलक्षणम् ॥ १३.२४५.९ ॥
永恒、唯一、微细、遍在、无作用、无因,为一切感官所不能把握——这就是未显现者(avyakta)的特征。
13.245.10
अव्यक्तं प्रकृतिर्मूलं प्रधानं योनिरव्ययम् ।
अव्यक्तस्यैव नामानि शब्दैः पर्यायवाचकैः ॥ १३.२४५.१० ॥
未显、原质(prakṛti)、根本、主要、胎藏、不朽——这些都是未显现者的名称,以同义词表达。
13.245.11
तत्सूक्ष्मत्वादनिर्देश्यं तत्सदित्यभिधीयते ।
तन्मूलं च जगत्सर्वं तन्मूला सृष्टिरिष्यते ॥ १३.२४५.११ ॥
因其微细而不可指示,故称之为「彼」与「有」。它是整个世界的根本,创造也被认为以它为根。
13.245.12
सत्वादयः प्रकृतिजा गुणास्तान्प्रब्रवीम्यहम् ॥ १३.२४५.१२ ॥
从悦性(sattva)起始、生于原质的诸德,我现在为你宣说。
13.245.13
सुखं तुष्टिः प्रकाशश्च त्रयस्ते सात्विका गुणाः ।
रागद्वेषौ सुखं दुःखं स्तम्भश्च रजसो गुणाः।
अप्रकाशो भयं मोहस्तन्द्री च तमसो गुणाः ॥ १३.२४५.१३ ॥
喜乐、满足与光明,这三者是悉多(萨埵)的德性。爱憎、苦乐与僵滞,是罗阇的德性。晦暗、恐惧、迷惑与昏沉,是答磨的德性。
13.245.14
श्रद्धा प्रहर्षो विज्ञानमसंमोहो दया धृतिः ।
सत्वे प्रवृत्ते वर्धन्ते विपरीते विपर्ययः ॥ १३.२४५.१४ ॥
信心、喜悦、智慧、无惑、慈悲与坚定,在悉多(萨埵)活跃时增长;反之则生起其相反之物。
13.245.15
कामक्रोधौ मनस्तापो लोभो मोहस्तथामृषा ।
प्रवृद्धे परिवर्धन्ते रजस्येतानि सर्वशः ॥ १३.२४५.१५ ॥
欲望与愤怒、心之烦恼、贪婪、迷惑与虚妄,在罗阇增盛时全部增长。
13.245.16
विषादः संशयो मोहस्तन्द्री निद्रा भयं तथा ।
तमस्येतानि वर्धन्ते प्रवृद्धे हेत्वहेतुकम् ॥ १३.२४५.१६ ॥
忧伤、疑惑、迷惑、昏沉、睡眠与恐惧,在答磨增盛时增长,无论有无因由。
13.245.17
एवमन्योन्यमेतानि वर्धन्ते च पुनःपुनः ।
हीयन्ते च तथा नित्यमभिभूतानि भूरिशः ॥ १३.२४५.१७ ॥
如此,这些德性彼此相助,反复增长;当一方被另一方压倒时,便不断大量地减少。
13.245.18
तत्र यत्प्रीतिसंयुक्तं कायेन मनसाऽपि वा ।
वर्तते सात्विको भाव इत्युपेक्षेत तत्तथा ॥ १३.२४५.१८ ॥
在那里,凡以身或心生起、伴随喜悦的状态,即是悉多(萨埵)之境,应当如此看待。
13.245.19
यदा सन्तापसंयुक्तं चित्तक्षोभकरं भवेत् ।
वर्तते रज इत्येव तदा तदभिचिन्तयेत् ॥ १३.२४५.१९ ॥
当与忧患相伴、扰动心意的状态出现时,应知这是罗阇(激情),并如此思维它。
13.245.20
यदा सम्मोहसंयुक्तं यद्विषादकरं भवेत् ।
अप्रतार्क्यमविज्ञेयं तमस्तदुपधारयेत् ॥ १३.२४५.२० ॥
当与迷惑相伴、引起沮丧,超出推理且不可知的状态出现时,应当认识为他摩(黑暗)。
13.245.21
समासात्सात्विको धर्मः समासाद्राजसं धनम् ।
समासात्तामसः कामस्त्रिवर्गे त्रिगुणाः क्रमात् ॥ १३.२४५.२१ ॥
简言之,法属于善性(萨埵),财属于激情(罗阇),欲属于暗性(他摩);在三大目标中,这三种德性依次出现。
13.245.22
ब्रह्मादिदेवसृष्टिर्या सात्विकीति प्रकीर्त्यते ।
राजसी मानवी सृष्टिस्तिर्यग्योनिस्तु तामिसी ॥ १३.२४५.२२ ॥
以梵天为首的诸神之创造被称为善性(萨埵);人类之创造为激情(罗阇);畜生之胎则属暗性(他摩)。
13.245.23
ऊर्ध्वं गच्छन्ति सत्वस्था मध्ये तिष्ठन्ति राजसाः ।
जघन्यगुणवृतच्तिस्था अधो गच्छन्ति तामसाः ॥ १३.२४५.२३ ॥
安住于善性(萨埵)者升向上方;激情(罗阇)者留于中间;暗性(他摩)者,其行为随低劣之德,则沉向下方。
13.245.24
देवमानुषतिर्यक्षु यद्भूतं सचराचरम् ।
आदिप्रभृति संयुक्तं व्याप्तमेभिस्त्रिभिर्गुणैः ॥ १३.२४५.२४ ॥
凡在诸神、人类与畜生之中存在的一切众生,无论动与不动,自始相连,皆为这三德所遍。
13.245.25
अतः परं प्रवक्ष्यामि महदादीनि लिङ्गतः ।
विज्ञानं च विवेकश्च महतो लक्षणं भवेत् ॥ १३.२४५.२५ ॥
接下来我将依其特征说明大(mahat)等。知与辨别即是大(mahat)的特征。
13.245.26
महान्बुद्धिर्मतिः प्रज्ञा नामानि महतो विदुः ।
अहङ्कारः स विज्ञेयो लक्षणेन समासतः ॥ १३.२४५.२६ ॥
应知大(mahān)、觉(buddhi)、思(mati)、慧(prajñā)皆为大(mahat)之名。简言之,应依其特征认识它为我慢(ahaṅkāra)。
13.245.27
अहङ्कारेण भूतानां सर्गो नानाविधो भवेत् ।
अहङ्कारनिवृत्तिर्हि निर्वाणायोपपद्यते ॥ १३.२४५.२७ ॥
由于我慢,众生的创造呈现种种形态。唯有我慢止息,方能趣向涅槃(nirvāṇa)。
13.245.28
खं वायुरग्निः सलिलं पृथिवी चेति पञ्चमी ।
महाभूतानि भूतानां सर्वेषां प्रभवाप्ययौ ॥ १३.२४५.२८ ॥
空、风、火、水、地——此为五大元素。它们是一切众生的生起与灭尽之因。
13.245.29
शब्दः श्रोत्रं तथा खानि त्रयमाकाशसम्भवम् ।
स्पर्शवत्प्राणिनां चेष्टा पवनस्य गुणाः स्मृताः ॥ १३.२४५.२९ ॥
声、听觉与身体的孔窍,此三者生于虚空。触及与众生的活动,被称为风的特性。
13.245.30
रूपं पाकोक्षिणी ज्योतिश्चत्वारस्तेजसो गुणाः ।
रसः स्नेहस्तथा जिह्वा शैत्यं च जलजा गुणाः ॥ १३.२४५.३० ॥
色、熟(热)、消化与光明,此四者为火之德。味、润、舌与凉,此为水所生之德。
13.245.31
गन्धो घ्राणं शरीरं च पृथिव्यास्ते गुणास्त्रयः ।
इति सर्वगुणा देवि विख्याताः पाञ्चभौतिकाः ॥ १३.२४५.३१ ॥
气味、嗅觉与身体,这三者是地的性质。如此,女神啊,五大所生的一切性质都已广为人知。
13.245.32
गुणान्पूर्वस्यपूर्वस्य प्राप्नुवन्त्युत्तराणि तु ।
तस्मान्नैकगुणाश्चेह दृश्यन्ते बूतसृष्टयः ॥ १३.२४५.३२ ॥
每一先前的元素也获得后面元素的性质;因此,这里众生的创造并非只具单一性质。
13.245.33
उपलभ्याप्सु ये गन्धं केचिद्ब्रूयुरनैपुणाः ।
अपां गन्धगुणं प्राज्ञा नेच्छन्ति कमलेक्षणे ॥ १३.२४५.३३ ॥
有些不明智的人在水中感知到气味,便说气味是水的性质;莲花眼的女子啊,智者并不接受这一说法。
13.245.34
तद्गन्धत्वमपां नास्ति पृथिव्या एव तद्गुणः ।
भूमिर्गन्धे रसे स्नेहो ज्योतिश्चक्षुषि संस्थितम्।
प्राणापानाश्रयोः वायुः खेष्वाकाशः शरीरिणां ॥ १३.२४५.३४ ॥
气味不是水的性质,而只是地的性质。地存在于气味与味道之中,水存在于湿润之中,光明确立于眼睛之中。风居于气与下行气的所在,虚空则在有身众生的孔窍之中。
13.245.35
केशास्थिनखदन्तत्वक्पाणिपादशिरांसि च ।
पृष्ठोदरकटिग्रीवाः सर्वं भूम्यात्मकं स्मृतम् ॥ १३.२४५.३५ ॥
毛发、骨头、指甲、牙齿、皮肤、手、脚、头、背、腹、腰与颈——这一切都被称为地的本性。
13.245.36
यत्किञ्चिदपि कायेऽस्मिन्धातुदोषमलाश्रितम् ।
तत्सर्वं भौतिकं विद्धि देहैरेवास्य स्वामिकम् ॥ १३.२४५.३६ ॥
凡此身中依附于体液、过失与秽物的一切,都应知为物质所成;它只属于此身,并以此身为其主。
13.245.37
बुद्धीन्द्रियाणि कर्णत्वक्चक्षुर्जिह्वाऽथ नासिका ।
कर्मेन्द्रियाणि वाक्पाणिपादौ मेढ्रं गुदस्तथा ॥ १३.२४५.३७ ॥
知觉器官是耳、皮、眼、舌、鼻;行动器官是言语、手、足、生殖器与肛门。
13.245.38
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः ।
बुद्धीन्द्रियार्थाञ्जानीयाद्भूतेभ्यस्त्वभिनिःसृतान् ॥ १३.२४५.३८ ॥
声、触、色、味,第五为香——应知这些是知觉器官的对象,由诸大生起。
13.245.39
वाक्यं क्रिया गतिः प्रीतिरुत्सर्गश्चेति पञ्चधा ।
कर्मेन्द्रियार्थाञ्जानीयात्ते च भूतोद्भवा मताः ॥ १३.२४५.३९ ॥
言语、作为、行走、欢愉、排泄——此五者是行动器官的五种对象,它们也被认为由诸大所生。
13.245.40
इन्द्रियाणां तु सर्वेषामीश्वरं मन उच्यते ।
प्रार्थनालक्षणं तच्च इन्द्रियं तु मनः स्मृतम् ॥ १३.२४५.४० ॥
在一切根中,意被称为主宰;其特征为希求,意也被说为一根。
13.245.41
नियुङ्क्ते च सदा तानि भूतानि मनसा सह ।
नियमे च विसर्गे च मनसः कारणं प्रभुः ॥ १३.२४५.४१ ॥
它常与意一起驱使那些根与诸大;在收摄与散发之中,意是其因,它即是主宰。
13.245.42
इन्द्रियाणीन्द्रियार्थाश्च स्वभावश्चेतना धृतिः ।
भूताभूतविकारश्च शरीरमिति संस्मृतम् ॥ १३.२४५.४२ ॥
诸根、根之境、自性、觉知、坚定,以及显与未显之变化——这被称为身体。
13.245.43
शरीराच्च परो देही शरीरं च व्यपाश्रितः ।
शरीरिणः शरीरस्य सोऽन्तरं वेत्ति वै मुनिः ॥ १३.२४५.४३ ॥
超越身体而依托于身体的有身者,智者确实知道有身者与身体之间的区别。
13.245.44
रसः स्पर्शस्च गन्धश्च रूपं शब्दविवर्जितम् ।
अशरीरं शरीरेषु दिदृक्षेत निरिन्द्रियम्। ॥ १३.२४५.४४ ॥
无味、无触、无香、无色、无声,在众身中却无身,无根——人应当希望见到他。
13.245.45
अव्यक्तं सर्वदेहेषु मर्त्येष्वमरमाश्रितम् ।
यः पश्येत्परमात्मानं बन्धनैः स विमुच्यते ॥ १३.२४५.४५ ॥
见到至上我——它在一切身体中不显现,在凡人中作为不死者而安住——此人便从束缚中解脱。
13.245.46
नैवायं चक्षुषां ग्राह्यो नापरैरिन्द्रियैरपि ।
मनसैव प्रदीप्तेन महानात्मा प्रदृश्यते ॥ १३.२४५.४६ ॥
他不为眼所把握,也不为其他诸根所把握;唯以光明之心,这伟大的自我方才显现。
13.245.47
स हि सर्वेषु भूतेषु स्थावरेषु चरेषु च ।
वसत्येको महावीर्यो नानाभावसमन्वितः ॥ १३.२४५.४७ ॥
那位大力的唯一者,居于一切众生之中,无论不动者还是动者,具足种种存在之相。
13.245.48
नैव चोर्ध्वं न तिर्यक्च नाधस्तान्न कदाचन ।
इन्द्रियैरिव बुद्ध्या वा न दृश्येत कदाचन ॥ १३.२४५.४८ ॥
他不在上,不在旁,也不在下被见到;无论以诸根还是以智慧,他都永远不会被见到。
13.245.49
नवद्वारं पुरं गत्वा स्थितोऽसौ नियतो वशी ।
ईश्वरः सर्वलोकेषु स्थावरस्य चरस्य च ॥ १३.२४५.४९ ॥
进入九门之城后,他安住其中,克制而自持;他是一切世界中不动与动者的主宰。
13.245.50
तमेवाहुरणुभ्योऽणुं तु महद्भ्यो महत्तरम् ।
बहुधा सर्वभूतानि व्याप्य तिष्ठति शाश्वतम् ॥ १३.२४५.५० ॥
人们称他比最小者更小,比最大者更大;这永恒者以多种方式遍布一切众生而安住。
13.245.51
क्षेत्रज्ञमेकतः कृत्वा सर्वं क्षेत्रमथैकतः ।
एवं स विमृशेज्ज्ञानी संयतः सततं हृदि ॥ १३.२४५.५१ ॥
把知场者置于一边,把整个场置于另一边,智者应当如此在心中常常收摄地思惟。
13.245.52
पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् ।
अकर्ता लेपको नित्यो मध्यस्थः सर्वकर्मणाम् ॥ १३.२४५.५२ ॥
神我安住于自性之中,享受由自性所生的诸德;他是不作者、不染污、常住的,对一切行为保持中立。
13.245.53
कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते ।
पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥ १३.२४५.५३ ॥
在作为因果的作者这一点上,自性被说为因;在经历苦乐这一点上,神我被说为因。
13.245.54
अजय्योऽयमचिन्त्योऽयमव्यक्तोऽयं सनातनः ।
देही तेजोमयो देहि तिष्ठतीत्यपरे विदुः ॥ १३.२४५.५४ ॥
此者不可战胜、不可思议、未显现且永恒;由光明构成的有身者安住于身体之中,其他人如此认为。
13.245.55
ज्ञानमूष्मा च वायुश्च शरीरे जीवसंज्ञकः ।
इत्येते निश्चिता बुद्ध्या तत्रैते बुद्धिचिन्तकाः ॥ १३.२४५.५५ ॥
知识、热力与气息,在身体中称为生命体——此乃以理智所确定者;在此,他们是理智的思辨者。
13.245.56
अपरे सर्वलोकांश्च व्याप्य तिष्ठन्तमीश्वरम् ।
ब्रुवते केचिदत्रैव तिलतैलवदास्थितम् ॥ १३.२४५.५६ ॥
有人说主宰遍满一切世界而住;也有人说他就在此处,如芝麻油一般存在。
13.245.57
अपरे नास्तिका मूढा हीनत्वात्स्थूललक्षणैः ।
नास्त्यात्मेति विनिश्चित्याप्रज्ञास्ते निरयालयाः ॥ १३.२४५.५७ ॥
其他无信的愚痴者,因缺乏粗显的征象,断定没有自我;这些无智者居住于地狱。
13.245.58
एवं नानाविधा नैव विमृशन्ति महेश्वरम् ॥ १३.२४५.५८ ॥
如此种种之人,实际上并不思量大自在天。
13.245.59
भगवन्ब्राह्मणो लोके नित्यमक्षरमव्ययम् ।
अस्त्यात्मा सर्वभूतेषु हेतुस्तत्र सुदुर्गमः ॥ १३.२४५.५९ ॥
世尊啊,世间有常恒、不灭、不变的梵,即一切众生中的自我;其因在那里极难达到。
13.245.60
ऋषिभिश्चापि देवैश्च व्यक्तमेष न दृश्यते ।
दृष्ट्वा तु तं महात्मानं पुनस्तु न निवर्तते ॥ १३.२४५.६० ॥
即使诸仙与诸天,也不能明见此主;然而见到那位大我的人,便不再回转。
13.245.61
तस्मात्तद्दर्शनादेव विन्दते परमां गतिम् ।
इति ते कथितो देवि साङ्ख्यधर्मः सनातनः।
कपिलादिभिराचार्यैः सेवितः परमर्षिभिः ॥ १३.२४५.६१ ॥
因此,仅仅见到他,便能获得最高的归宿。女神啊,我已这样向你讲述了永恒的数论法,它为迦毗罗等导师和大仙所奉行。