摩诃婆罗多 · 章 13.249
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.249.1
एवं ब्रुवन्त्यां स्त्रीधर्मं देव्यां देवस्य शासनात् ।
ऋषिगन्धर्वयक्षाणां योषितश्चाप्सरोगणाः ॥ १३.२४९.१ ॥
女神如此讲述妇女之法时,依天神之命,仙人、乾闼婆、夜叉的妇女及天女群都来到了这里。
13.249.2
नागभूतस्त्रियश्चैव नद्यश्चैव समागताः ।
श्रुतुकामाः परं वाक्यं सर्वाः पर्यवतस्थिरे ॥ १३.२४९.२ ॥
蛇女与河流也聚集而来;众人都想听闻那至高的言辞,纷纷围立四周。
13.249.3
उमादेवी मुदा युक्ता पुज्यमानाऽङ्गनागणैः ।
आनृशंस्यपरा देवी सततं स्त्रीगणं प्रति ॥ १३.२४९.३ ॥
乌玛女神满怀喜悦,受到众女的敬拜,一心慈悲,始终对女众怀着关切。
13.249.4
स्त्रीगणस्य हितार्थाय भवप्रियचिकीर्षया ।
वक्तुं वचनमारेभे स्त्रीणां धर्माश्रयान्वितम् ॥ १३.२४९.४ ॥
为了女众的福祉,她想让婆婆(湿婆)欢喜,便开始说出以女人之法为根基的言辞。
13.249.5
भगवन्सर्वभूतेश श्रूयतां वचनं मम ।
ऋतुप्राप्ता सुशुद्दा या कन्या सेत्यभिधीयते ॥ १३.२४९.५ ॥
尊主,众生之主,请听我的话:已至月事之时而极为清净的少女,才称为“少女”。
13.249.6
तां तु कन्यां पिता माता भ्राता मातुल एव वा ।
पितृव्यश्चैव पञ्चते दातुं प्रभवतां गताः ॥ १३.२४९.६ ॥
有权将此少女嫁出的人被认为有五位:父亲、母亲、兄长、舅父,或叔伯。
13.249.7
विवाहाश्च तथा पञ्च तासां धर्मार्थकारणात् ।
कामतश्च मिथो दानमितरेतरकाम्यया ॥ १३.२४९.७ ॥
为了法与财富,婚姻有五种;出于欲望,以及彼此相互的愿望,也有相互的赠与。
13.249.8
दत्ता यस्य भवेद्भार्या एतेषां येन केन चित् ।
दातारः सुविमृश्यैव दातुमर्हन्ति नान्यथा ॥ १३.२४९.८ ॥
无论这些人中谁得到妻子,给予者都应当仔细考虑之后才可给予,否则不可。
13.249.9
उत्तमानां तु वर्णानां मन्त्रवत्पाणिसङ्ग्रहः ।
विवाहकारणं चाहुः शूद्राणां सम्प्रयोगतः ॥ १३.२४९.९ ॥
对于高等种姓,婚姻的原因被说为以咒语执手;而对于首陀罗,则为结合。
13.249.10
यदा दत्ता भवेत्कन्या तस्माद्भार्यार्थिने स्वकैः ।
तदाप्रभृति सा नारी दशरात्रं विलज्जया।
मनसा कर्मणा वाचा अनुकूला च सा भवेत् ॥ १३.२४९.१० ॥
当少女被她的亲属许配给求妻之人时,从那时起,这位女子应在十个夜晚中含羞,在心、行、言上都顺从。
13.249.11
इति भर्तृव्रतं कुर्यात्पतिमुद्दिश्य शोभना ।
तदाप्रभृति सा नारी न कुर्यात्पत्युरप्रियम् ॥ १३.२४९.११ ॥
如此,这位美好的女子应以丈夫为念,遵守对丈夫的誓愿;从那时起,这女子不可做任何让丈夫不悦的事。
13.249.12
यद्यदिच्छति वै भर्ता ध्रमकामार्थकारणात् ।
तथैवानुप्रिया भूत्वा तथैवोपचरेत्पतिम्।
पतिव्रतात्वं नारीणामेतदेव सनातनम् ॥ १३.२४९.१२ ॥
无论丈夫为了法、欲与财富想要什么,她都应使他喜悦,并以同样的方式侍奉丈夫;这正是女子对丈夫永恒的忠贞。
13.249.13
तादृशी सा भवेन्नित्यं यादृशस्तु भवेत्पतिः ।
शुभाशुभसमाचार एतद्वृत्तं समासतः ॥ १३.२४९.१३ ॥
妻子应当始终与丈夫相称;简言之,这便是善与恶的行为准则。
13.249.14
दैवतं सततं साध्वी भर्तारं या तु पश्यति ।
दैवमेव भवेत्तस्याः पतिरित्यवगम्यते ॥ १३.२४९.१४ ॥
贤德的妇人若始终将丈夫视为神明,丈夫便成为她的神;人们因此而明白此理。
13.249.15
एतस्मिन्कारणं देव पौराणी श्रूयते श्रुतिः ।
कथयामि प्रसादात्ते शृणु देव समासतः ॥ १३.२४९.१५ ॥
神啊,此事的缘由见于古老的经典。承蒙您的恩典,我简要道来;请听,神啊。
13.249.16
कस्य चित्त्वथ विप्रस्य भार्ये द्वे हि बभूवतुः ।
तयोरेका धर्मकामा देवानुद्दिश्य भक्तितः ॥ १३.२४९.१६ ॥
某婆罗门有两位妻子。其中一人渴求法,怀着虔诚向诸神致敬。
13.249.17
भर्तारमवमत्यैव देवतासु समाहिता ।
चकार विपुलं धर्मं पूजयानाऽर्चयाऽन्वितम् ॥ १३.२४९.१७ ॥
她轻慢丈夫,一心专注于诸神,行了广大的法事,充满礼拜与供奉。
13.249.18
अपरा धर्मकामा च पतिमुद्दिश्य शोभना ।
भर्तारं दैवतं कृत्वा चकार किल तत्प्रियम् ॥ १३.२४९.१८ ॥
另一位美貌而渴求法的妻子,以丈夫为目标,视丈夫为神明,并确实做他所喜爱的事。
13.249.19
एवं विवर्तमाने तु युगपन्मरणेऽध्वनि ।
गते किल महादेव तत्रैका या पतिव्रता।
देवप्रियायां तिष्ठन्त्यां पुण्यलोकं जगाम सा ॥ १३.२४९.१९ ॥
于是,当众人一同在死亡之路上返回,大天神已离去时,那里唯一的一位贞洁妻子,在天爱女仍站立之际,前往了功德之界。
13.249.20
देवप्रिया च तिष्ठन्ती विललाप सुदुःखिता ।
तां यमो लोकपालस्तु बभाषे पुष्कलं वचः ॥ १३.२४९.२० ॥
天爱女站立着,极其悲伤地哀叹;那时世界守护者阎摩向她说了深重的话。
13.249.21
मा शुचस्त्वं निवर्तस्व न लोकाः सन्ति तेऽनघे ।
स्वधर्मविमुखा सा त्वं तस्माल्लोका न सन्ति ते ॥ १३.२४९.२१ ॥
不要悲伤,回去吧。无垢的女子啊,那些世界不属于你。你背离了自己的法,所以那些世界不属于你。
13.249.22
देवता हि पतिर्नार्याः स्थापिता सर्वदैवतैः ।
अवमत्य शुभे तत्त्वं कथं लोकान्गमिष्यसि ॥ १३.२४९.२२ ॥
对女子而言,丈夫即是神明;这是诸神所立。吉祥的女子啊,你轻慢了它,如何能前往那些世界呢?
13.249.23
मोहेनि त्वं वरारोहे न जानीषे स्वदैवतम् ।
पतिमत्या स्त्रिया कार्यो धर्मः पत्यर्पणस्त्विति ॥ १३.२४९.२३ ॥
美腰的女子啊,你因迷惑而不识自己的神明。忠贞妻子的法,是托付于丈夫;这才是应当做的。
13.249.24
तस्मात्त्वं हि निवर्तस्व कुरु पत्याश्रितं हितम् ।
तदा गन्तासि लोकांस्तान्यान्गच्छन्ति पतिव्रताः।
नान्यथा शक्यते प्राप्तुं पतीनां लोकमुत्तमम् ॥ १३.२४९.२४ ॥
所以你应当回去,依靠丈夫行善。那样你就会前往贞洁妻子所去的那些世界。否则,不可能得到丈夫们的至上世界。
13.249.25
यमेनैवंविधं चोक्ता निवृत्ता पुनरेव सा ।
बभूव पतिमालम्ब्य पतिप्रियपरायणा ॥ १३.२४९.२५ ॥
阎摩如此说后,她再次返回;紧握丈夫,全心专注于取悦丈夫之事。
13.249.26
एवमेतन्महगादेव दैवतं हि स्त्रियाः पतिः ।
तस्मात्पतिपरा भूत्वा पतीनुपचरेदिति ॥ १३.२४९.२६ ॥
的确如此:对于女子而言,丈夫就是神明。因此,应专一于丈夫,侍奉丈夫。