Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.255

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.255.1

युधिष्ठिर उवाच ।
पितामह महाप्राज्ञ सर्वशास्त्रविशारद।
किं जप्यं जपतो नित्यं भवेद्धर्मफलं महत् ॥ १३.२५५.१ ॥

坚战说:祖父啊,大智慧者,精通一切经典,经常持诵何种咒语,才能获得大法果?

13.255.2

प्रस्थाने वा प्रवेशे वा प्रवृत्ते वाऽपि कर्मणि ।
दैवे वा श्राद्धकाले वा किं जप्यं कर्मसाधनम् ॥ १३.२५५.२ ॥

出发时、进入时、开始行事时、祭神时或做施食祭祖时,应持诵何种咒语以成就所作之事?

13.255.3

शान्तिकं पौष्टिकं रक्षा शत्रुघ्नं भयनाशनम् ।
जप्यं यद्ब्रह्म समितं तद्भवान्वक्तुमर्हति ॥ १३.२५५.३ ॥

那段简短而值得持诵的神圣咒语(梵咒),能带来平安、增益、护佑,消灭敌人、驱除恐惧——请您宣说。

13.255.4

व्यासप्रोक्तमिमं मन्त्रं शृणुष्वैकमना नृप ।
सावित्र्या विहितं दिव्यं सद्यः पावविमोचनम् ॥ १३.२५५.४ ॥

大王,请专心聆听毗耶娑所宣说的这咒语;此由萨维特丽所规定的神圣咒语,能立即使人脱离罪恶。

13.255.5

शृणु मन्त्रविधिं कृत्स्नं प्रोच्यमानं मयाऽनघ ।
यं श्रुत्वा पाण्डवश्रेष्ठ सर्वपापैः प्रमुच्यते ॥ १३.२५५.५ ॥

无罪者啊,请听我所宣说的咒语全部仪轨;般度子中最优秀者啊,闻此者便脱离一切罪过。

13.255.6

रात्रावहनि धर्मज्ञ जपन्पापैर्न लिप्यते ।
तत्तेऽहं सम्प्रवक्ष्यामि शृणुष्वैकमना नृप ॥ १३.२५५.६ ॥

精通法的人啊,无论夜间或白昼持诵者都不会沾染罪恶;这些我将完整地告诉你,大王,请专心聆听。

13.255.7

आयुष्मान्भवते चैव यं श्रुत्वा पार्थिवात्मज ।
पुरुषस्तु सुसिद्धार्थः प्रेत्य चेह च मोदते ॥ १३.२५५.७ ॥

王子啊,闻此者得享长寿,所求圆满成就,今生与来世皆得喜乐。

13.255.8

सेवितं सततं राजन्पुरा राजर्षिसत्तमैः ।
क्षत्रधर्मपैरर्नित्यं सत्यव्रतपरायणैः ॥ १३.२५५.८ ॥

君王啊,往昔最优秀的王仙们,恪守刹帝利之法、专注于真理之誓,始终奉行此道。

13.255.9

इदमाह्निकमव्यग्रं कुर्वद्भिर्नियतैः सदा ।
नृपैर्भरतशार्दूल प्राप्यते श्रीरनुत्तमा ॥ १३.२५५.९ ॥

婆罗多中的猛虎啊,君王若常怀定心、克己奉行此日常之仪,便可获得无上的吉祥。

13.255.10

नमो वसिष्ठाय महाव्रताय ।
पराशरं वेदनिधइं नमस्ते।
नमोस्त्वनन्ताय महोरगाय ।
नमोस्तु सिद्धेभ्य इहाक्षयेभ्यः ॥ १३.२५५.१० ॥

敬礼大愿者婆悉吒。敬礼吠陀宝藏波罗奢罗。敬礼无限的大蛇。敬礼此处不朽的成就者。

13.255.11

नमोस्त्वृषिभ्यः परमं परेषां ।
देवेषु देवं वरदं वराणाम्।
सहस्रशीर्षाय नमः शिवाय ।
सहस्रनामाय जनार्दनाय ॥ १३.२५५.११ ॥

敬礼诸仙,超越其他一切者。敬礼诸神中的神,诸赐福者中的赐福者。敬礼千头的湿婆。敬礼千名的生主。

13.255.12

अजैकपादहिर्बुध्न्यः पिनाकी चापराजितः ।
ऋतश्च पितृरूपश्च त्र्यम्बकश्च महेश्वरः ॥ १३.२५५.१२ ॥

不生单足、蛇底、持毗那迦弓者、不败;真实、父形、三眼、大自在天。

13.255.13

वृषाकपिश्च शंभुश्च हवनोऽथेश्वरस्तथा ।
एकादशैते प्रथिता रुद्रास्त्रिभुवनेश्वराः ॥ १३.२५५.१३ ॥

跋 vṛṣākapi、湿婆(Śambhu)、哈瓦那(Havana)以及自在天(Īśvara)——这十一位著名的楼陀罗是三界的主宰。

13.255.14

शतमेतत्समाम्नातं शतरुद्रे महात्मनाम् ॥ १३.२५५.१४ ॥

这一百位大德之神,在《百楼陀罗》中被如此传述。

13.255.15

अंशो भगश्च मित्रश्च वरुणश्च जलेश्वरः ।
तथा धाताऽर्यमा चैव जयन्तो भास्करस्तथा ॥ १३.२५५.१५ ॥

阿姆沙、薄伽、密多罗,以及水之主婆楼那;同样还有提婆、阿耶曼、遮衍多与婆斯卡罗。

13.255.16

त्वष्टा पूषा तथैवेन्द्रो द्वादशो विष्णुरुच्यते ।
इत्येते द्वादशादित्याः काश्यपेया इति श्रुतिः ॥ १३.२५५.१६ ॥

特瓦希塔、普善,同样还有因陀罗,第十二位称为毗湿奴。这十二位阿底提耶是迦叶波之子,天启如是说。

13.255.17

धरो ध्रुवश्च सोमश्च सावित्रोऽथानिलोऽनलः ।
प्रत्यूषश्च प्रभासश्च वसवोष्टौ प्रकीर्तिताः ॥ १३.२५५.१७ ॥

达罗、德鲁瓦和月神,萨维特罗、阿尼罗与阿纳罗,普拉提优沙与波罗跋娑——这八位被称为婆薮。

13.255.18

नासत्यश्चापि दस्रश्च स्मृतौ द्वावश्विनावपि ।
मार्तण्डस्यात्मजावेतौ संज्ञानासाविनिर्गतौ ॥ १३.२५५.१८ ॥

鼻舌(Nāsatya)与达斯罗(Dasra)——这两位也被记为双马童(Aśvin)。他们是太阳神摩呾多(Mārtaṇḍa)之子,自萨姆贾纳(Saṃjñā)而生。

13.255.19

अतः परं प्रवक्ष्यामि लोकानां कर्मसाक्षिणः ।
अपि यज्ञस्य वेत्तारो दत्तस्य सुकृतस्य च ॥ १३.२५५.१९ ॥

此后我将讲述作为业行见证者的世界,以及通晓祭祀、布施与善行的人。

13.255.20

अदृश्याः सर्वभूतेषु पश्यन्ति त्रिदशेश्वराः ।
शुभाशुभानि कर्माणि मृत्युः कालश्च सर्वशः ॥ १३.२५५.२० ॥

隐于一切众生之中,三十三天之主观看善恶之业;死亡与时间也处处观见。

13.255.21

विश्वेदेवाः पितृगणा मूर्तिमन्तस्तपोधनाः ।
मुनयश्चैव सिद्धाश्च तपोमोक्षपरायणाः।
शुचिस्मिताः कीर्तयतां प्रयच्छन्ति शुभं नृणाम् ॥ १३.२५५.२१ ॥

毗湿伐提婆、祖灵众、以苦行为财富的具身修行者、圣人与成就者,专注于苦行与解脱,面带清净笑容,赐予赞颂他们的人以福祉。

13.255.22

प्रजापतिकृतानेतान्लोकान्दिव्येन तेजसा ।
वसन्ति सर्वलोकेषु प्रयताः सर्वकर्मसु ॥ १३.२५५.२२ ॥

在这些由生主所造的世界中,他们以神圣的光辉居住于一切世界,在一切行为中都保持克制。

13.255.23

प्राणानामीश्वरानेतान्कीर्तयन्प्रयतो नरः ।
धर्मार्थकामैर्विपुलैर्युज्यते सह नित्यशः ॥ १३.२५५.२३ ॥

克制自身、赞颂这些生气之主的人,总能与丰盛的法、利与欲相应。

13.255.24

लोकांश्च लभते पुण्यान्विश्वेश्वरकृताञ्शुभान् ।
एते देवास्त्रयस्त्रिंशत्सर्वभूतगणेश्वराः ॥ १३.२५५.२४ ॥

他将获得由一切之主所造的功德殊胜之世界。这三十三位神祇是一切众生群的主宰。

13.255.25

नन्दीश्वरो महाकायो ग्रामणीर्वृषभध्वजः ।
ईश्वराः सर्वलोकानां गणेश्वरविनायकाः ॥ १३.२५५.२५ ॥

难提湿伐罗,身躯庞大,众群之长,以牛为旗,是一切世界的主宰——众群之主与毗那夜迦。

13.255.26

सौम्या रौद्रा गणाश्चैव योगभूतगणास्तथा ।
ज्योतींषि सरितो व्योम सुपर्णः पतगेश्वरः ॥ १३.२५५.२६ ॥

柔和与暴烈的众群,同样的瑜伽众生群,星辰、河流、天空,以及群鸟之主金翅鸟(迦娄茶)。

13.255.27

पृथिव्यां तपसा सिद्धाः स्थावराश्च चरास्च ह ।
हिमवान्गिरयः सर्वे चत्वारश्च महार्णवाः ॥ १३.२५५.२७ ॥

大地上以苦行成就者,不动与动者,雪山,一切山岳,以及四大海洋。

13.255.28

भवस्यानुचराश्चैव हरतुल्यपराक्रमाः ।
विष्णुर्देवोथ जिष्णुश्च स्कन्दश्चाम्बिकया सह ॥ १३.२५५.२८ ॥

薄婆(湿婆)的随从,其勇力与诃罗相等;神毗湿奴,其次胜者(阿周那),以及与安毗迦同在的室建陀。

13.255.29

कीर्तयन्प्रयतः सर्वान्सर्वपापैः प्रमुच्यते ।
अत ऊर्ध्वं प्रवक्ष्यामि मानवानृषिसत्तमान् ॥ १३.२५५.२९ ॥

若以自制之心颂扬这一切者,便从一切罪恶中完全解脱。此后,我将讲述人中最优秀的仙人。

13.255.30

यवक्रीतश्च रैभ्यश्च अर्वावसुपरावसू ।
औशिजश्चैव कक्षीवान्बलश्चाङ्गिरसः सुतः ॥ १३.२५५.३० ॥

耶婆葛利多与来毗耶,阿尔瓦婆苏与帕拉婆苏,乌until之子(乌希阇),伽刹波仙,以及安吉罗娑之子婆罗。

13.255.31

ऋषिर्मेधातिथेः पुत्रः कण्वो बर्हिषदस्तथा ।
ब्रह्मतेजोमयाः सर्वे कीर्तिता लोकभावनाः ॥ १३.२५५.३१ ॥

仙人迦纳瓦(Kaṇva)是弥陀提的儿子,巴尔希沙德(Barhiṣad)也同样被颂扬;他们都充满梵的光辉,被称为世界的护持者。

13.255.32

लभन्ते हि शुभं सर्वे रुद्रानलवसुप्रभाः ।
भुवि कृत्वा शुभं कर्म मोदन्ते दिवि दैवतैः ॥ १३.२५५.३२ ॥

他们都如楼陀罗、火神与婆苏般光辉,获得吉祥的果报;在大地上行善之后,他们与诸神在天界欢乐。

13.255.33

महेन्द्रगुरवः सप्त प्राचीं वै दिशमाश्रिताः ।
प्रयतः कीर्तयेदेताञ्शक्रलोके महीयते ॥ १३.२५५.३३ ॥

因陀罗的七位导师居于东方,修行者应当以节制之心诵念他们,他将在因陀罗天界受到尊崇。

13.255.34

उन्मुचुः प्रमुचुश्चैव स्वस्त्यात्रेयश्च वीर्यवान् ।
दृढव्यश्चोर्ध्वबाहुश्च तृणसोमाङ्गिरास्तथा ॥ १३.२५५.३४ ॥

乌恩穆卡(Unmuca)与普拉穆卡(Pramuca)、有力的斯瓦斯蒂亚特蕾亚(Svastyātreya)、德里达维亚(Dṛḍhavya)、乌尔德瓦巴呼(Ūrdhvabāhu)及草月安吉罗娑(Tṛṇasoma Āṅgirasa)同样如此。

13.255.35

मित्रावरुणयोः पुत्रस्तथाऽगस्त्यः प्रतापवान् ।
धर्मराजर्त्विजः सप्त दक्षिणां दिशमाश्रिताः ॥ १३.२५५.३५ ॥

密多罗与伐树那之子、威力强大的阿伽斯提亦如此;法王的七位祭司居于南方。

13.255.36

दृढेयुश्च ऋतेयुश्च परिव्याधश्च कीर्तिमान् ।
एकतश्च द्वितश्चैव त्रितश्चादित्यसन्निभाः ॥ १३.२५५.३६ ॥

德里德耶与利特耶、名声显赫的波利维亚达(Parivyādha)、艾卡塔(Ekata)、德维塔(Dvita)与特里塔(Trita),皆如太阳般光辉。

13.255.37

अत्रेः पुत्रश्च धर्मात्मा ऋषिः सारस्वतस्तथा ।
वरुणस्यर्त्विजः सप्त पश्चिमां दिशमाश्रिताः ॥ १३.२५५.३७ ॥

阿特里之正法之子与萨罗室伐多仙人,以及婆罗那的七位祭司,都已依止西方。

13.255.38

अत्रिर्वसिष्ठो भगवान्कश्यपश्च महानृषिः ।
गौतमश्च भरद्वाजो विश्वामित्रोथ कौशिकः ॥ १३.२५५.३८ ॥

阿特里、尊者婆私吒、大仙迦叶波、乔答摩、跋罗堕遮、毗首弥多罗与憍尸迦。

13.255.39

ऋचीकतनयश्चोग्रो जमदग्निः प्रतापवान् ।
धनेश्वरस्य गुरवः सप्तैते उत्तराश्रिताः ॥ १३.२५५.३९ ॥

利质迦之子凶猛仙人与威力强大的遮摩陀那尼,这七位财神俱毗罗的师长已依止北方。

13.255.40

अपरे मुनयः सप्त दिक्षु सर्वास्वधिष्ठिताः ।
कीर्तिस्वस्तिकरा नॄणां कीर्तिता लोकभावनाः ॥ १३.२५५.४० ॥

其余七位仙人安立于一切方位;他们被称颂为赐予世人名誉与吉祥、护持诸世界的仙人。

13.255.41

धर्मः कामश्च कालश्च वसुर्वासुकिरेव च ।
अनन्तः कपिलश्चैव सप्तैते धरणीधराः ॥ १३.२५५.४१ ॥

法、欲、时、婆苏、婆苏吉、无限与迦毗罗——这七者承载大地。

13.255.42

रामो व्यासस्तथा द्रौणिरश्वत्थामा च लोमशः ।
इत्येते मुनयो दिव्या एकैकः सप्तसप्तधा ॥ १३.२५५.४२ ॥

罗摩、毗耶娑、德罗纳之子马嘶摩与罗摩夏——这些是天上的仙人,他们每位都以七七四十九种形态显现。

13.255.43

शान्तिस्वस्तिकरा लोके दिशांपालाः प्रतीर्तिताः ।
यस्यांयस्यां दिशि ह्येते तन्मुखः शरणं व्रजेत् ॥ १३.२५५.४३ ॥

能为世间带来平安与吉祥的方位守护神被世人称颂。无论他们在哪个方向,人们都应面向那个方向寻求庇护。

13.255.44

स्रष्टारः सर्वभूतानां कीर्तिता लोकपावनाः ।
संवर्तो मेरुसावर्णो मार्कण्डेयश्च धार्मिकः ॥ १३.२५५.४४ ॥

众生的创造者,被称为净化世界者:参婆多、弥卢萨瓦尔尼,以及正法的摩根德耶。

13.255.45

साङ्ख्ययोगौ नारदश्च दुर्वासाश्च महानृषिः ।
अत्यन्ततपसो दान्तास्त्रिषु लोकेषु विश्रुताः ॥ १३.२५५.४५ ॥

数论与瑜伽、那罗陀,以及大仙杜尔婆娑——苦行至极、自制、名闻三界。

13.255.46

अपरे रुद्रसङ्काशाः कीर्तिता ब्रह्मलौकिकाः ।
अपुत्रो लभते पुत्रं दरिद्रो लभते धनम् ॥ १३.२५५.४६ ॥

另有一些如楼陀罗般、属于梵界的贤者也被提及。无子者得子,贫穷者得财。

13.255.47

तथा धर्मार्थकामेषु सिद्धिं च लभते नरः ।
पृथुं वैन्यं नृपवरं पृथ्वी यस्याभवत्सुता ॥ १३.२५५.४७ ॥

同样,人在法、利、欲中都能获得成就。毗佗之子、最优秀的国王补利图,大地成为了他的女儿。

13.255.48

प्रजापतिं सार्वभौमं कीर्तयेद्वसुधाधिपम् ।
आदित्यवंशप्रभवं महेन्द्रसमविक्रमम् ॥ १३.२५५.४८ ॥

应当颂扬万民之主、普世的君主、大地之王——生于日种,其威勇堪比因陀罗。

13.255.49

पुरूरवसमैलं च त्रिषु लोकेषु विश्रुतम् ।
बुधस्य दयितं पुत्रं कीर्तयेद्वसुधाधिपम् ॥ १३.२५५.४९ ॥

应当颂扬旃罗之子补卢罗婆斯,他闻名三界,是槃陀(Budha)所钟爱的儿子,大地的主宰。

13.255.50

त्रिलोकविश्रुतं वीरं भरतं च प्रकीर्तयेत् ।
गवामयेन यज्ञेन येनेष्टं वै कृते युगे ॥ १३.२५५.५० ॥

也应颂扬英雄婆罗多,他闻名三界,在圆满时代以牛祭(Gavāmayana)供奉祭祀。

13.255.51

रन्तिदेवं महादेवं कीर्तयेत्परमद्युतिम् ।
विश्वजित्तपसोपेतं लक्षण्यं लोकपूजितम् ॥ १३.२५५.५१ ॥

应当颂扬大神罗提提婆(Rantideva),他光辉至上,具备征服一切的苦行,有吉祥之相,受世界所尊敬。

13.255.52

तथा श्वेतं च राजर्षिं कीर्तयेत्परमुद्यतिम् ।
सगरस्यात्मजा येन प्लावितास्तारितास्तथा ॥ १३.२५५.५२ ॥

同样应颂扬王仙白(Śveta),他精力至上,因他的缘故,萨伽罗之子被水冲走,随后又得以解救。

13.255.53

हुताशनसमानेतान्महारूपान्महौजसः ।
उग्रकायान्महासत्वान्कीर्तयेत्कीर्तिवर्धनान् ॥ १३.२५५.५३ ॥

应当颂扬这些人:他们如祭火般光耀,相貌庄严,力量强大,身形威猛,勇气非凡,能增添荣耀。

13.255.54

देवानृषिगणांश्चैव नृपांश्च जगतीश्वरान् ।
साङ्ख्यं योगं च परमं हव्यं कव्यं तथैव च ॥ १३.२५५.५४ ॥

应当颂扬诸神、众仙、诸王与世界的主宰,也应颂扬至上的数论(Sāṅkhya)与瑜伽,以及献给神的供物(havya)与献给祖先的供物(kavya)。

13.255.55

कीर्तितं परमं ब्रह्म सर्वश्रुतिपरायणम् ।
मङ्गल्यं सर्वभूतानां पवित्रं बहु कीर्तितम् ॥ १३.२५५.५५ ॥

至高的梵被宣说,是一切吠陀的最终归依。它对一切众生吉祥、清净;它被广泛颂扬。

13.255.56

व्याधिप्रशमनं श्रेष्ठं पौष्टिकं सर्वकर्मणाम् ।
प्रयतः कीर्तयेच्चैतान्कल्यं सायं च भारत ॥ १३.२५५.५६ ॥

这是平息疾病、增益一切事业的最佳方法。婆罗多之子啊,应自制地于清晨和黄昏诵念这些名号。

13.255.57

एते वै यान्ति वर्षन्ति भान्ति वान्ति सृजन्ति च ।
एते विनायकाः श्रेष्ठा दक्षाः क्षान्ता जितेन्द्रियाः ॥ १३.२५५.५७ ॥

这些运行、降雨、照耀、吹拂并创造。这些毗那夜迦是最优秀的,灵巧、忍耐,且已制伏诸根。

13.255.58

नराणामशुभं सर्वे व्यपोहन्ति प्रकीर्तिताः ।
साक्षिभूता महात्मानः पापस्य सुकृतस्य च ॥ १३.२५५.५८ ॥

当被颂扬时,他们都能消除人们的不吉。这些大德是罪与福的见证者。

13.255.59

एतान्वै कल्यमुत्थाय कीर्तयञ्शुभमश्नुते ।
नाग्निचोरभयं तस्य न मार्गप्रतिरोधनम् ॥ १३.२५५.५९ ॥

若清晨起身诵念这些名号,便能得吉祥。他不惧火灾与盗贼,行路也无阻碍。

13.255.60

एतान्कीर्तयतां नित्यं दुःस्वप्नो नश्यते नृणाम् ।
मुच्यते सर्वपापेभ्यः स्वस्तिमांश्च गृहान्व्रजेत् ॥ १३.२५५.६० ॥

凡常常诵念这些名号的人,恶梦便会消除。他脱离一切罪业,平安吉祥地回到家中。

13.255.61

दीक्षाकालेषु सर्वेषु यः पठेन्नियतो द्विजः ।
न्यायवानात्मनिरतः क्षान्तो दान्तोऽनसूयकः ॥ १३.२५५.६१ ॥

在一切受戒之时,若以克制之心诵读此篇,即为正直、乐于内修、忍辱、自制、不妒之再生者。

13.255.62

रोगार्तो व्याधियुक्तो वा पठन्पापात्प्रमुच्यते ।
वास्तुमध्ये तु पठतः कुले स्वस्त्ययनं भवेत् ॥ १३.२५५.६२ ॥

身受疾病或患有顽疾者,诵读此篇即可脱离罪过;在屋宇中央诵读者,其家族将得吉祥护佑。

13.255.63

क्षेत्रमध्ये तु पठतः सर्वं सस्यं प्ररोहति ।
गच्छतः क्षेममध्वानं ग्रामान्तरगतः पठन् ॥ १३.२५५.६३ ॥

在田中诵读者,一切庄稼皆得生长;行路者及至他村诵读者,路途平安。

13.255.64

आत्मनश्च सुतानां च दाराणां च धनस्य च ।
बीजानामोषधीनां च रक्षामेतां प्रयोजयेत् ॥ १३.२५५.६४ ॥

为护持自身、子嗣、妻室、财富、种子与药草,应当施用此篇。

13.255.65

एतान्सङ्ग्रामकाले तु पठतः क्षत्रियस्य तु ।
व्रजन्ति रिपवो नाशं क्षेमं च परिवर्तते ॥ १३.२५५.६५ ॥

战时诵读此篇的刹帝利,其敌人必遭毁灭,吉祥亦回归于他。

13.255.66

एतान्दैवे च पित्र्ये च पठतः पुरुषस्य हि ।
भुञ्जते पितरः कव्यं हव्यं च त्रिदिवौकसः ॥ १३.२५५.६६ ॥

在祭神与祭祖之礼中,诵读此篇之人,其祖灵享用“迦婆”供品,三界居民享用“哈婆”供品。

13.255.67

न व्याधिश्वापदभयं न द्विपान्न हि तस्करात् ।
कश्मलं लघुतां याति पाप्मना च प्रमुच्यते ॥ १३.२५५.६७ ॥

无病,无猛兽之惧,无象之惧,亦无盗贼之惧。迷惑消散,身心轻安,人得脱离罪恶。

13.255.68

यानपात्रे च याने च प्रवासे राजवेश्मनि ।
परां सिद्धिमवाप्नोति सावित्रीं ह्युत्तमां पठन् ॥ १३.२५५.६८ ॥

在船上、车中、旅途或王宫中,诵读至上的萨维特丽者,获得最高的成就。

13.255.69

न च राजभयं तेषां न पिशाचान्न राक्षसात् ।
नाग्न्यम्बुपवनव्यालाद्भयं तस्योपजायते ॥ १३.२५५.६९ ॥

他们无惧君王,无惧毕舍遮与罗刹;火、水、风、蛇也不会使他生起恐惧。

13.255.70

चतुर्णामपि वर्णानामाश्रमस्य विशेषतः ।
करोति सततं शान्तिं सावित्रीमुत्तमां पठन् ॥ १३.२५५.७० ॥

对于四种姓,尤其对于四行期,诵读至上的萨维特丽者,常使人得安宁。

13.255.71

नाग्निर्दहति काष्ठानि सावित्री यत्र पठ्यते ।
न तत्र बालो म्रियते न च तिष्ठन्ति पन्नगाः ॥ १३.२५५.७१ ॥

凡诵读萨维特丽之处,火不焚薪;彼处无幼子夭亡,蛇也不会留驻。

13.255.72

न तेषां विद्यते दुःखं गच्छन्ति परमां गतिम् ।
ये शृण्वन्ति महद्ब्रह्म सावित्रीगुणकीर्तनम् ॥ १३.२५५.७२ ॥

凡听闻赞颂萨维特丽德性之伟大梵者,无有苦恼;他们达到至高之境。

13.255.73

गवां मध्ये तु पठतो गावोऽस्य बहुवत्सलाः ।
प्रस्थाने वा प्रवासे वा सर्वावस्थां गतः पठेत् ॥ १३.२५५.७३ ॥

若在牛群中诵读,他的牛会有许多小牛。无论是在出发时还是在远行之中,无论处于何种境况,都应当诵读。

13.255.74

जपतां जुह्वतां चैव नित्यं च प्रयतात्मनाम् ।
ऋषीणां परमं जप्यं गुह्यमेतन्नराधिप ॥ १३.२५५.७४ ॥

对于诵经者、献祭者,以及心常自制者而言,这是诸仙人所应诵持的至上之咒。此乃秘密,人主啊。

13.255.75

याथातथ्येन सिद्धस्य इतिहासं पुरातनम् ।
पराशरमतं दिव्यं शक्राय कथितं पुरा ॥ १३.२५५.७५ ॥

这段古老的历史,得自一位成就者的真实传授,是婆罗奢罗的神圣学说,往昔曾讲与帝释天(因陀罗)。

13.255.76

तदेतत्ते समाख्यातं तथ्यं ब्रह्म सनातनम् ।
हृदयं सर्वभूतानां श्रुतिरेषा सनातनी ॥ १३.२५५.७६ ॥

此事已向你宣说:真实而永恒的梵。它是一切众生的心;这便是永恒的天启(吠陀)。

13.255.77

सोमादित्यान्वयाः सर्वे राघवाः कुरवस्तथा ।
पठन्ति शुचयो नित्यं सावित्रीं प्राणिनां गतिं ॥ १३.२५५.७७ ॥

出自月神(Soma)与日神(Āditya)的诸罗伽婆(Rāghava)与俱卢(Kuru)诸族,皆以清净之身常诵萨维德丽咒,此咒乃众生的归宿。

13.255.78

अभ्यासे नित्यं देवानां सप्तर्षीणां ध्रुवस्य च ।
मोक्षणं सर्वकृच्छ्राणां मोचयत्यशुभात्सदा ॥ १३.२५५.७८ ॥

常精勤修习诸天、七仙与北极星(Dhruva)者,可脱离一切苦难;此咒常能使人脱离不吉。

13.255.79

वृद्धैः काश्यपगौतमप्रभृतिभिर्भृग्वङ्गिरोत्र्यादिभिः ।
शुक्रागस्त्यबृहस्पतिप्रभृतिभिर्ब्रह्मह्मर्षिभिः सेवितम्।
भारद्वाजमतं ऋचीकतनयैः प्राप्तं वसिष्ठात्पुनः ।
सावित्रीमधिगम्य शक्रवसुभिः कृत्स्ना जिता दानवाः ॥ १३.२५५.७९ ॥

长者迦叶波、乔答摩等,婆利古、安耆罗、阿特利等,以及大婆罗门仙人室克罗、阿伽斯提耶、勃利哈斯波蒂等都修习了它。跋罗堕阇之说由黎质迦之子从婆悉瑟吒处重新获得。因领会萨维德丽,因陀罗与婆素们征服了全部檀那婆。

13.255.80

यो गोशतं कनकशृङ्गमयं ददाति ।
विप्राय वेदविदुषे च बहुश्रुताय।
दिव्यां च भारतकथां कथयेच्च नित्यं ।
तुल्यं फलं भवति तस्य च तस्य चैव ॥ १३.२५५.८० ॥

向精通吠陀、博学的婆罗门布施一百头金角母牛的人,与日日讲述神圣的婆罗多故事的人,二者所得的福果相同。

13.255.81

धर्मो विवर्धति भृगोः परिकीर्तनेन ।
वीर्यं विवर्धति पसिष्ठनमोनतेन।
सङ्ग्रामजिद्भवति चैव रघुं नमस्य-
न्स्यादश्विनौ च परिकीर्तयतो न रोगः ॥ १३.२५५.८१ ॥

因称颂婆利古而法增长;因礼敬婆悉瑟吒而威力增长。礼敬罗吉的人在战斗中获胜;称颂双马神者不会生病。

13.255.82

एषा ते कथिता राजन्सावित्री ब्रह्मशाश्वती ।
विवक्षुरसि यच्चान्यत्तत्ते वक्ष्यामि भारत ॥ १३.२५५.८२ ॥

大王啊,这永恒的梵——萨维德丽——已经讲给你听了。婆罗多啊,你还想说的其他事,我也会告诉你。