摩诃婆罗多 · 章 13.257
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.257.1
कां तु ब्राह्मणपूजायां व्युष्टिं दृष्ट्वा जनाधिप ।
कं वा धर्मोदयं मत्वा तानर्चसि महामते ॥ १३.२५७.१ ॥
人主啊,您在礼敬婆罗门之中见到了何种果报,或认为何种法的兴起而尊敬他们,大智者啊?
13.257.2
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
पवनस्य च संवादमर्जुनस्य च भारत ॥ १३.२५७.२ ॥
此处人们也讲述这段古老的历史:风神 Pavana 与阿周那之间的对话,婆罗多啊。
13.257.3
सहस्रभुजभृच्छ्रीमान्कार्तवीर्योऽभवत्प्रभुः ।
अस्य लोकस्य सर्वस्य माहिष्मत्यां महाबलः ॥ १३.२५७.३ ॥
手持千臂的光荣的迦尔塔维利亚,曾是这整个世界的主宰;大力的他在摩醯湿摩蒂城统治。
13.257.4
स तु रत्नाकरवतीं सप्तद्वीपां ससागराम् ।
शशास पृथिवीं सर्वां हैहयः सत्यविक्रमः ॥ १३.२५७.४ ॥
那位真正勇武的海诃耶,统治着整个大地——这大地富有宝藏,有七洲与四海。
13.257.5
स्ववित्तं तेन दत्तं तु दत्तात्रेयाय कर्मणे ।
क्षत्रधर्मं पुरस्कृत्य विनयं श्रुतमेव च ॥ १३.२५७.५ ॥
他为那件事将自己的财富施予了达塔特来耶,以刹帝利之法为先,同时也以谦逊与学问为念。
13.257.6
आराधयामास च तं कृतवीर्यात्मजो मुनिम् ।
न्यमन्त्रयत संतुष्टो द्विजश्चैनं वरैस्त्रिभिः ॥ १३.२५७.६ ॥
克尔塔维利亚之子侍奉并取悦了那位仙人;那位再生者心满意足,以三项恩惠予以褒奖。
13.257.7
स वरैश्छन्दितस्तेन नृपो वचनमब्रवीत् ।
सहस्रबाहुता मेऽस्तु यूपमध्ये ग्रहो यथा ॥ १३.२५७.७ ॥
国王受他以恩赐所请,便说道:愿我有千臂,如祭柱中央之持握。
13.257.8
मम बाहुसहस्रं तु पश्यन्तां सैनिका रणे ।
विक्रमेणि महीं कृत्स्नां जयेयं संशितव्रत ॥ १३.२५७.८ ॥
愿我的士兵在战场上看见我的千臂,愿我以勇力征服整个大地,坚守誓愿者啊。
13.257.9
तां च धर्मेण सम्प्राप्य पालयेयमतन्द्रितः ।
चतुर्थं तु वरं याचे त्वामहं द्विजसत्तम ॥ १३.२५७.९ ॥
我以正法得之,便不懈地守护它;至上的婆罗门啊,我向你求第四个恩赐。
13.257.10
तं ममानुग्रहकृते दातुमर्हस्यनिन्दित ।
अनुशाशन्तु मां सन्तो मिथ्यावृत्तं त्वदाश्रयम् ॥ १३.२५७.१० ॥
无过者啊,你理应出于恩惠将它赐给我;愿善人教导我,我行为虚妄,依赖于你。
13.257.11
इत्युक्तः स द्विजः प्राह तथास्त्विति नराधिपम् ।
एवं समभवंस्तस्य वरास्ते दीप्ततेजसः ॥ १३.२५७.११ ॥
婆罗门听后对国王说:就这样吧。于是那位光辉炽盛者的恩赐便成就了。
13.257.12
गतः स रथमास्थाय ज्वलनार्कसमद्युतिम् ।
अब्रवीद्वीर्यसंमोहात्को वाऽस्ति सदृशो मम ॥ १३.२५७.१२ ॥
他登上光辉如燃烧太阳的战车离去,因自身勇力而迷乱,说道:谁能与我相比?
13.257.13
धैर्यैर्वीर्यैर्यशःशौर्यौर्विक्रमेणौजसाऽपि वा ।
तद्वाक्यान्ते चान्तरिक्षे वागुवाचाशरीरिणी ॥ १३.२५७.१३ ॥
以坚毅、勇力、名声、英勇、威武或力量——在他话语的末尾,天空中传来一个无形的声音。
13.257.14
न त्वं मूढ विजानीषे ब्राह्मणं क्षत्रियाद्वरम् ।
सहितो ब्राह्मणेनेह क्षत्रियः शास्ति वै प्रजाः ॥ १३.२५७.१४ ॥
愚人啊,你不明白:婆罗门胜过刹帝利。在这里,刹帝利正是与婆罗门一同统治臣民。
13.257.15
कुर्यां भूतानि तुष्टोऽहं क्रुद्धो नाशं तथा नये ।
कर्म्णा मनसा वाचा न मत्तोस्ति वरो द्विजः ॥ १३.२५७.१५ ॥
我若喜悦,便能创造众生;若愤怒,便能使其毁灭。论行为、心思与言语,没有比我更优胜的再生者。
13.257.16
पूर्वो ब्रह्मोत्तरो वादो द्वितीयः क्षत्रियोत्तरः ।
त्वयोक्तौ हेतुयुक्तौ तौ विशेषस्तत्र दृश्यते ॥ १३.२५७.१६ ॥
第一种论辩以婆罗门为终,第二种以刹帝利为终。你所陈述的这两者都有理据,并且其间可见区别。
13.257.17
ब्राह्मणाः संश्रिताः क्षत्रं न क्षत्रं ब्राह्मणाश्रितम् ।
श्रिता ब्रह्मोपधा विप्राः खादन्ति क्षत्रियान्भुवि ॥ १३.२५७.१७ ॥
婆罗门依赖刹帝利之力,刹帝利并不依赖婆罗门。那些借梵之名寄身的毗吒,在大地上吞噬着刹帝利。
13.257.18
क्षत्रियेष्वाश्रितो धर्मः प्रजानां परिपालनम् ।
क्षत्राद्वृत्तिर्ब्राह्मणानां तैः कथं ब्राह्मणो वरः ॥ १३.२५७.१८ ॥
法存于刹帝利之中,即保护臣民。婆罗门的生计来自刹帝利。那么,婆罗门怎么会比他们更优胜呢?
13.257.19
सर्वभूतप्रधानांस्तान्भैक्षवृत्तीनहं सदा ।
आत्मसम्भावितान्विप्रान्स्थापयाम्यात्मनो वशे ॥ १३.२५७.१९ ॥
那些在一切众生中居首、以乞食为生、自重自尊的婆罗门,我永远把他们置于我的掌控之下。
13.257.20
कथितं त्वनयाऽसत्यं गायन्त्या कन्यया दिवि ।
विजेष्याम्यवशान्सर्वान्ब्राह्मणांश्चर्मवाससः ॥ १३.२५७.२० ॥
那位在天上歌唱的少女所说的话是假的。我将征服所有那些身穿兽皮、不受控制的婆罗门。
13.257.21
न च मां च्यावयेद्राष्ट्रात्त्रिषु लोकेषु कश्चन ।
देवो वा मानुषो वाऽपि तस्माज्ज्येष्ये द्विजानहम् ॥ १३.२५७.२१ ॥
三界之中,无论神还是人,都不能把我逐出我的国土;因此我将征服再生者。
13.257.22
अद्य ब्रह्मोत्तरं लोकं करिष्ये क्षत्रियोत्तरम् ।
नहि मे संयुगे कश्चित्सोढुमुत्सहते बलम् ॥ १३.२५७.२२ ॥
今天我要让这个世界以刹帝利高于婆罗门;在战场上,无人敢抵挡我的力量。
13.257.23
अर्जुनस्य वचः श्रुत्वा वित्रस्ताऽभून्निशाचरी ।
अथैनमन्तरिक्षस्थस्ततो वायुरभाषत ॥ १३.२५७.२३ ॥
听到阿周那的话,那夜行女鬼惊恐万分;这时,立于空中的风神对她说话了。
13.257.24
त्यजैनं कलुषं भावं ब्राह्मणेभ्यो नमस्कुरु ।
एतेषां कुर्वतः पापं राष्ट्रक्षोभो भविष्यति ॥ १३.२५७.२४ ॥
舍弃这污浊的心念,向婆罗门致敬;若你对他们行恶,国家将陷入动荡。
13.257.25
अथ च त्वां महीपाल शमयिष्यन्ति वै द्विजाः ।
निरसिष्यन्ति ते राष्ट्राद्धतोत्साहा महाबलाः ॥ १३.२५७.२५ ॥
啊,大地的守护者,婆罗门将平息你,而失去锐气的大力者将把你逐出国土。
13.257.26
तं राजा कस्त्वमित्याह ततस्तं प्राह मारुतः ।
वायुर्वै देवदूतोस्मि हितं त्वां प्रब्रवीम्यहम् ॥ १३.२५७.२६ ॥
国王问他:“你是谁?”于是摩禄多对他说:“我是风神伐由,诸神的使者,我为你的利益而说。”
13.257.27
अहो त्वयाऽयं विप्रेषु भक्तिरागः प्रदर्शितः ।
यादृशं पृथिवीभूतं तादृशं ब्रूहि मे द्विजम् ॥ १३.२५७.२७ ॥
啊,你对婆罗门表现出了这份虔诚的敬爱。请告诉我一位如大地一般的再生者。
13.257.28
वायोर्वा सदृशं किञ्चिद्ब्रूहि त्वं ब्राह्मणोत्तमम् ।
अपां वै सदृशं वह्नेः सूर्यस्य नभसोऽपि वा ॥ १३.२५७.२८ ॥
请告诉我某位如风、如水、如火、如日、或如天空一般的优秀婆罗门。