Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.261

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.261.1

इत्युक्तस्त्वर्जुनस्तूष्णीमभूद्वायुस्तमब्रवीत् ।
शृणु मे हैहयश्रेष्ठ कर्मात्रेः सुमहात्मनः ॥ १३.२६१.१ ॥

如此被问之后,阿周那沉默不语;于是伐由对他说:海哈耶人中最优秀者啊,请听伟大心灵的阿特里之事。

13.261.2

घोरे तमस्ययुध्यन्त सहिता देवदानवाः ।
अविद्यत शरैस्तत्र स्वर्भानुः सोमभास्करौ ॥ १३.२६१.२ ॥

在可怕的黑暗中,诸神与阿修罗共同作战;斯瓦尔跋努在那里用箭射穿了月亮与太阳。

13.261.3

अथ ते तमसा ग्रस्ता निहन्यन्ते स्म दानवैः ।
देवा नृपतिशार्दूल सहैव बलिभिस्तदा ॥ १३.२६१.३ ॥

那时他们被黑暗所困,被檀那婆杀戮;人中之虎啊,那时诸神与勇士们一同被杀。

13.261.4

असुरेर्वध्यमानास्ते क्षीणप्राणा दिवौकसः ।
अपश्यन्त तपस्यन्तमत्रिं विप्रं तपोधनम् ॥ १३.२६१.४ ॥

被阿修罗击打、气息渐弱的天界众神,看见了以苦行为财富的婆罗门阿特里正在修苦行。

13.261.5

अथैनमब्रुवन्देवाः शान्तक्रोधं जितेन्द्रियम् ।
असुरेरिषुभिर्विद्धौ चन्द्रादित्याविमावुभौ ॥ १३.२६१.५ ॥

于是诸神对这位怒气已息、诸根已调伏的人说:这两者——月亮与太阳,已被阿修罗的箭射穿。

13.261.6

वयं वध्यामहे चापि शत्रुभिस्तमसा वृते ।
नाधिगच्छाम शान्तिं च भयात्त्रायस्व नः प्रभो ॥ १३.२६१.६ ॥

我们也被黑暗所围,被敌人杀戮,找不到安宁。主啊,请救我们脱离恐惧。

13.261.7

कथं रक्षामि भवतस्तेऽब्रुवंश्चन्द्रमा भव ।
तिमिरघ्नश्च सविता दस्युहन्ता च नो भव ॥ १३.२६१.७ ॥

阿特里说:我如何保护你们?他们说:“你成为月亮,并成为驱散黑暗的萨维特里,也成为我们的敌人的屠杀者。”

13.261.8

एवमुक्तस्तदात्रिर्वै तमोनुदभवच्छशी ।
अपश्यत्सौम्यभावाच्च सोमवत्प्रियदर्शनः ॥ १३.२६१.८ ॥

如此被告知后,阿特里便成为驱散黑暗的月亮;因其温和的本性,他如月亮般令人赏心悦目。

13.261.9

दृष्ट्वा नातिप्रभं सोमं तथा सूर्यं च पार्थिव ।
प्रकाशमकरोदत्रिस्तपसा स्वेन संयुगे ॥ १३.२६१.९ ॥

国王啊,阿特里见月亮和太阳不甚明亮,便在战斗中凭借自身的苦行创造出光明。

13.261.10

जगद्वितिमिरं चापि प्रदीप्तमकरोत्तदा ।
व्यजयच्छत्रुसङ्घांश्च देवानां स्वेन तेजसा ॥ १३.२६१.१० ॥

于是他使世界远离黑暗而光辉灿烂,并以自身的光芒战胜了敌人的军队和诸神的敌人。

13.261.11

अत्रिणा दह्यमानांस्तान्दृष्ट्वा देवा महासुरान् ।
पराक्रमैस्तेऽपिं तदा व्यघ्नन्नत्रिसुरक्षिताः।
उद्भासितश्च सविता देवास्त्राता हतासुराः ॥ १३.२६१.११ ॥

众神见伟大的阿修罗被阿特里焚烧,便在阿特里的良好护佑下,以勇武将他们击倒;萨维特里闪耀,诸神得救,阿修罗被杀。

13.261.12

अत्रिणा त्वथ सोमत्वं कृतमुत्तमतेजसा ।
द्विजेनाग्निद्वितीयेनि जपता चर्मवाससा ॥ १३.२६१.१२ ॥

于是阿特里——至高光辉的再生者,以火为第二念诵,身披兽皮——获得了月神(苏摩)之性。

13.261.13

फलभक्षेण राजर्षे पश्य कर्मात्रिणा कृतम् ।
तस्यापि विस्तरेणोक्तं कर्मात्रेः सुमहात्मनः।
ब्रवीम्यन्यं ब्रूहि वा त्वमत्रितः क्षत्रियं वरम् ॥ १३.२६१.१३ ॥

王仙啊,请看阿特里以果实为食所做的功业。那位大心的阿特里之事已经详细讲述过了。我来讲另一则,或者你,最好的刹帝利,向阿特里请求另一则故事。

13.261.14

इत्युक्तस्त्वर्जुनस्तूष्णीमभूद्वायुस्ततोऽब्रवीत् ।
शृणु राजन्महत्कर्म च्यवनस्य महात्मनः ॥ १३.२६१.१४ ॥

这样被问之后,阿周那沉默了。于是风神说:大王,请听大心的遮婆那的伟大功业。

13.261.15

अश्विनोः प्रतिसंश्रुत्य च्यवनः पाकशासनम् ।
प्रोवाच सहितो देवैः सोमपावश्विनौ कुरु ॥ १३.२६१.१५ ॥

遮婆那答应了双马童,与众天神一同对帝释天(破城者)说:请使双马童成为饮用苏摩的人。

13.261.16

अस्माभिर्निन्दितावेतौ भवेतां सोमपौ कथम् ।
देवैर्न सम्मितावेतौ तस्मान्मैवं वदस्व नः ॥ १३.२६१.१६ ॥

被我们所谴责的这两人,怎能成为饮用苏摩的人呢?天神们并不接受他们,所以不要这样对我们说。

13.261.17

अश्विभ्यां सह नेच्छामः सोमं पातुं महाव्रत ।
यदन्यद्वक्ष्यसे विप्र तत्करिष्याम ते वचः ॥ १३.२६१.१७ ॥

啊,大誓者,我们不愿与双马童一同饮用苏摩。婆罗门啊,你若说别的,我们将依你的话去做。

13.261.18

पिबेतामश्विनौ सोमं भवद्भिः सहिताविमौ ।
उभावेतावपि सुरौ सूर्यपुत्रौ सुरेश्वर ॥ १३.२६१.१८ ॥

愿这两位双马童与你们一同饮用苏摩。啊,诸神之主,这二人也是天神,是太阳之子。

13.261.19

क्रियतां मद्वचो देवा यथा वै समुदाहृतम् ।
एतद्वः कुर्वतां श्रेयो भवेन्नैतदकुर्वताम् ॥ १३.२६१.१९ ॥

诸神啊,请照我所说的去做。做此事者将获福祉,不做者则不然。

13.261.20

अश्विभ्यां सह सोमं वै न पास्यामि द्विजोत्तम ।
पिबन्त्वन्ये यथाकामं नाहं पातुमिहोत्सहे ॥ १३.२६१.२० ॥

最好的再生者啊,我不会与双马童一同饮用苏摩。让别人随意饮用吧,我在此不愿饮用。

13.261.21

न चेत्करिष्यसि वचो मयोक्तं बलसूदन ।
मया प्रमथितः सद्यः सोमं पास्यसि वै मखे ॥ १३.२६१.२१ ॥

诛灭波罗者啊,若你不遵从我所说的话,你将立即被我击败,并在祭祀中饮用苏摩。

13.261.22

ततः कर्म समारब्धं हिताय सहसाऽश्विनोः ।
च्यवनेनि ततो मन्त्रैरभिभूताः सुराऽभवन् ॥ १३.२६१.२२ ॥

于是为双马童的利益,仪式突然开始。随后,车修以咒语制服了诸神。

13.261.23

तत्तु कर्म समारब्धं दृष्ट्वेन्द्रः क्रोधमूर्च्छितः ।
उद्यम्य विपुलं शैलं च्यवनं समुपाद्रवत् ॥ १३.२६१.२३ ॥

因子见仪式已经开始,因陀罗怒极几近昏厥,举起一座巨大的山峰,冲向车修。

13.261.24

तथा वज्रेम भगवानमर्षाकुललोचनः ।
तमापतन्तं दृष्ट्वैव च्यवनस्तपसाऽन्वितः ॥ १३.२६१.२४ ॥

于是,眼中满含愤怒的世尊因陀罗手持金刚杵冲去;车修见他扑来,便凭苦行之力屹立不动。

13.261.25

अद्भिः सिक्त्वाऽस्तम्ययतं सवज्रं सहपर्वतम् ।
अथेन्द्रस्य महाघोरं सोऽसृजच्छत्रुमेव हि ॥ १३.२६१.२५ ॥

他以水洒之,创造出那个被与金刚杵及山一同投掷的因陀罗的可怕敌人。

13.261.26

मदं नामाहुतिमयं व्यादितास्यं महामुनिः ।
तस्य दन्तसहस्रं तु बभूव शतयोजनम् ॥ १३.२६१.२६ ॥

大仙人以祭供之物造出一个名为‘摩陀’的存在,张着大口;它有一千颗牙齿,身长百由旬。

13.261.27

द्वियोजनशतास्तस्य दंष्ट्राः परमदारुणाः ।
हनुस्तस्याभवद्भूमावास्यं चास्यास्पृशद्दिवम् ॥ १३.२६१.२७ ॥

它的獠牙长二百由旬,极为可怖;下颌落在地上,口却触及天空。

13.261.28

जिह्वामूले स्थितास्तस्य सर्वे देवाः सवासवाः ।
तिमेरास्यमनुप्राप्ता यथा मत्स्या महार्णवे ॥ १३.२६१.२८ ॥

所有天神连同婆薮(因陀罗)都站在它的舌根处,如同大海中的鱼游入鲸鲨之口。

13.261.29

ते सम्मन्त्र्य ततो देवा मदस्यास्य समीपगाः ।
अब्रुवन्सहिताः शक्रं प्रणमास्मै द्विजातये ॥ १३.२६१.२९ ॥

于是,站在摩陀身旁的众神共同商议后对释迦说:“向这位再生者致敬吧。”

13.261.30

अश्विभ्यां सह सोमं च पिबाम विगतज्वराः ।
ततः स प्रणतः शक्रश्चकार च्यवनस्य तत् ॥ १३.२६१.३० ॥

“让我们与双马神一起饮用苏摩,摆脱苦恼。”于是释迦俯首,为遮耀那做了此事。

13.261.31

च्यवनः कृतवानेतावश्विनौ सोमपायिनौ ।
ततः प्रत्याहरत्कर्म मदं च व्यभजन्मुनिः ॥ १३.२६१.३१ ॥

车耀使这两位双马童成为饮用苏摩者。随后仙人收回了那一行为,并分配了那醉意。

13.261.32

अक्षेषु मृगयायां च पाने स्त्रीषु च वीर्यवान् ।
एतैर्दोषैर्नरा राजन्क्षयं यान्ति न संशयः ॥ १३.२६१.३२ ॥

大王啊,勇武之人沉溺于掷骰、狩猎、饮酒与女色;因这些过失,人们必定走向毁灭,此无疑问。

13.261.33

तस्मादेतान्नरो नित्यं दूरतः परिवर्जयेतद् ॥ १३.२६१.३३ ॥

因此,人应当始终远离这些。

13.261.34

एतत्ते च्यवनस्यापि कर्मि राजन्प्रकीर्तितम् ।
ब्रवीम्यन्यं ब्रूहि वा त्वं क्षत्रियं ब्राह्मणाद्वरम् ॥ १३.२६१.३४ ॥

大王啊,车耀的这件事已经讲给你听了。我再讲另一则,或者你来说:刹帝利是否胜过婆罗门?