摩诃婆罗多 · 章 13.263
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.263.1
ब्राह्मणानर्चसे राजन्सततं संशितव्रतान् ।
कं तु धर्मोदयं दृष्ट्वा तानर्चसि जनाधिप ॥ १३.२६३.१ ॥
国王啊,你总是尊敬持守严格誓约的婆罗门。人主啊,见到法的何种兴盛,你才尊敬他们?
13.263.2
कां वा ब्राह्मणपूजायां व्युष्टिं दृष्ट्वा महाव्रत ।
तानर्चसि महाबाहो सर्वमेतद्वदस्व मे ॥ १३.२६३.२ ॥
大誓者啊,在敬奉婆罗门中,你见到了何种成果而尊敬他们?大臂者啊,请把这一切都告诉我。
13.263.3
एष ते केशवः सर्वमाख्यास्यति महामतिः ।
व्युष्टिं ब्राह्मणपूजायां दृष्ट्वा व्युष्टिं महाव्रत ॥ १३.२६३.३ ॥
这位大智慧的克沙瓦将把一切告诉你。大誓者啊,他见过敬奉婆罗门的成果,会为你解说。
13.263.4
बलं श्रोत्रे वाङ्मनश्चक्षुषी च ।
ज्ञानं तथा नविशुद्धं ममाद्य।
देहन्यासो नातिचिरान्मतो मे ।
न चातितूर्णं सविताऽद्य याति ॥ १३.२६३.४ ॥
我的力量、双耳、言语、心意、双目和智慧,今日都不再清明。我认为舍弃此身不会相隔太久,今天太阳也并未急速西行。
13.263.5
उक्ता धर्मा ये पुराणे महान्तो ।
राजन्विप्राणां क्षत्रियाणां विशां च।
येये शूद्राणां धर्ममुपासते ते ।
तानेव कृष्णदुपशिक्षस्व पार्थः ॥ १३.२६३.५ ॥
国王啊,古代典籍中伟人所宣说的法,以及婆罗门、刹帝利、吠舍和首陀罗所奉行的法,啊,普利塔之子,请向黑天学习这些。
13.263.6
अहं ह्येनं वेद्मि तत्त्वेन कृष्णं ।
योऽयं हि यच्चास्य बलं पुराणम्।
अमेयात्मा केशवः कौरवेन्द्र ।
सोयं धर्मं वक्ष्यति सर्वमेतत् ॥ १३.२६३.६ ॥
我真实地了解这位黑天,也知道他古老的力量。考鲁王之主啊,无量自我的羯舍婆将宣说这一切法。
13.263.7
कृष्णः पृथ्वीमसृजत्स्वं दिवं च ।
कृष्णस्यि देहान्मेदिनी सम्बभूव।
वराहोऽयं भीमबलः पुराणः ।
स पर्वतान्व्यसृजद्वै दिशश्च ॥ १३.२६३.७ ॥
黑天创造了大地和他自己的天界;大地摩底尼从黑天的身体中诞生。这位力量可怖的古老野猪创造了山脉与方位。
13.263.8
अस्माद्वायुश्चान्तरिक्षं दिवं च ।
दिशश्चतस्रो विदिशश्चतस्रः।
सृष्टिस्तथैवेयमनुप्रसूता ।
स निर्ममे विश्वमिदं पुराणः ॥ १३.२६३.८ ॥
由此生出风、虚空与天界,四方与四隅。这样,此创造依次而生。那位古老者造就了这整个宇宙。
13.263.9
अस्य नाभ्यां पुष्करं सम्प्रसूतं ।
यत्रोत्पन्नः स्वयमेवामितौजाः।
येनाच्छिन्नं तत्तमः पार्थ घोरं ।
यत्र तिष्ठन्त्यर्णवास्तच्छयानाः ॥ १३.२६३.९ ॥
从他的肚脐中生出一朵莲花,无量威力者便自己诞生于其中。那可怖的黑暗因他而被斩断,哦,贝塔之子;在那里,诸海洋躺卧其上而安立。
13.263.10
कृते युगे धर्म आसीत्समग्र-
स्त्रेताकाले यज्ञमनुप्रपन्नः।
बलं त्वासीद्द्वापरे पार्थ कृष्णः ।
कलौ त्वधर्मः क्षितिमेवाजगाम ॥ १३.२६३.१० ॥
在克尔塔时代,法是完满的;在特雷塔时代,它依托于祭祀。啊,般度之子,在德瓦帕拉时代有力量;但在迦利时代,非法降临大地。
13.263.11
स एव पूर्वं निजघान दैत्या-
न्स एव देवश्च बभूव सम्राट्।
स भूतानां भावनो भूतभव्यः ।
स विश्वस्यास्य जगतश्चाभिगोप्ताः ॥ १३.२६३.११ ॥
往昔正是他杀死了达提耶;正是他成为神与至上的君主。他是众生的生成者,过去与未来;他是这整个宇宙与世界的守护者。
13.263.12
यदा धर्मो ग्लाति वंशे सुराणां ।
तदा कृष्णो जायते मानुषेषु।
धर्मे स्थित्वा स तु वै भावितात्मा ।
परांश्च लोकानपराश्च पाति ॥ १३.२६३.१२ ॥
当法在诸神的族系中衰微时,克里希那便降生于人间。安住于法的那位净化了自我的神,确实守护着上界与下界。
13.263.13
त्याज्यांस्त्यक्त्वा चासुराणां वधेन ।
कार्याकार्ये कारणं चैव पाति।
कृतं करिष्यत्क्रियते च देवो ।
राहुं सोमं विद्धि च शक्रमेनम् ॥ १३.२६३.१३ ॥
他诛灭阿修罗,舍弃应当舍弃之物,作为可为与不可为之因而加以守护。已作、将作、正作者即是天神;应当知他是罗睺、月神与帝释。
13.263.14
स विश्वकर्मा स हि विश्वरूपः ।
स विश्वबुग्विश्वसृग्विश्वजिच्च।
स शूलभृच्छोणितभृत्कराल-
स्तं कर्मभिर्विदितं वै स्तुवन्ति ॥ १३.२६३.१४ ॥
他是毗首羯摩,他是一切形相。他知一切,创造一切,征服一切;他持三叉戟,持血,令人恐惧。人们依其事业而知之,故确实赞颂他。
13.263.15
तं गन्धर्वाणामप्सरसां च नित्य-
मुपतिष्ठन्ते विबुधानां शतानि।
तं राक्षसाश्च परिसंवदन्ति ।
राजन्यानां स विजिगीषुरेकः ॥ १३.२६३.१५ ॥
乾闼婆与阿普萨拉斯以及成百上千的众天神群体常常侍奉于他。罗刹们也谈论他;在诸王之中,唯有他一人志在征服。
13.263.16
तमध्वरे शंसितारः स्तुवन्ति ।
रथन्तरे सामगाश्च स्तुवन्ति।
तं ब्राह्मणा ब्रह्ममन्त्रैः स्तुवन्ति ।
तस्मै हविरध्वर्यवः कल्पयन्ति ॥ १३.२६३.१६ ॥
在祭祀中,赞颂者称扬他;在《罗他恒罗》赞歌中,诵唱娑摩的歌者也赞颂他。婆罗门以梵咒赞颂他;行祭司们为他准备供品。
13.263.17
स पौराणीं ब्रह्मगुहां प्रविष्टो ।
महीसत्रं भारताग्रे ददर्श।
स चैव गामुद्दधाराग्र्यकर्मा ।
विक्षोभ्य दैत्यानुरगान्दानवांश्च ॥ १३.२६३.१७ ॥
他进入古老的梵穴,看见了作为婆罗多族之首的大地祭祀。那位行无上之业者举起了大地,并震动了提亚、龙蛇与檀那婆。
13.263.18
तं घोषार्थे गीर्भिरिन्द्राः स्तुवन्ति ।
स चापीशो भारतैकः पशूनाम्।
तस्य भक्षान्विविधान्वेदयन्ति ।
तमेवाजौ वाहनं वेदयन्ति ॥ १३.२६३.१८ ॥
为了牛群的安乐,因陀罗们以颂歌赞颂他。他是牲畜之主,婆罗多族中唯一的一位。人们宣说他的种种食物;在战斗中,他被认作战车本身。
13.263.19
तस्यान्तरिक्षं पृथिवी दिवं च ।
सर्वं वशे तिष्ठति शाश्वतस्य।
स कुम्भे रेतः ससृजे सुराणां ।
यत्रोत्पन्नमृषिमाहुर्वसिष्ठम् ॥ १३.२६३.१९ ॥
天空、大地、天界及一切,皆在那永恒者的掌控之下。他将诸神的精液注入瓮中,在其中诞生的仙人被称为婆私吒。
13.263.20
स मातरिश्वा विभुरश्ववाजी ।
स रश्मिवान्सविता चादिदेवः।
तेनासुरा विजिताः सर्व एव ।
तद्विक्रान्तैर्विजितानीह त्रीणि ॥ १३.२६३.२० ॥
他是摩多利奢(Mātariśvan),遍在者,迅如骏马;他是有光芒的娑维陀利(Savitṛ),也是原初之神。众阿修罗皆被他征服,而凭借他的威勇,三界在此被征服。
13.263.21
स देवानां मानुषाणां पितॄणां ।
तमेवाहुर्यज्ञविदां वितानम्।
स एव कालं विभजन्नुदेति ।
तस्योत्तरं दक्षिणं चायने द्वे ॥ १३.२६३.२१ ॥
他属于诸神、人类与祖先;通晓祭祀者称他为祭祀之帷幕。他分割时间而升起;他的两条道路,是北行与南行。
13.263.22
तस्यैवोर्ध्वं तिर्यगधश्चरन्ति ।
गभस्तयो मेदिनीं भासयन्तः।
तं ब्राह्मणा वेदविदो जुषन्ति ।
तस्यादित्यो गामुपयुज्य भाति ॥ १३.२६३.२२ ॥
他的光线向上、向侧、向下运行,照亮大地。通晓吠陀的婆罗门敬奉他;他的阿迭多与大地相合而光耀。
13.263.23
स मासिमास्यध्वरकृद्विधत्ते ।
तमध्वरे वेदविदः पठन्ति।
स एवोक्तश्चक्रमिदं त्रिनाभि ।
सप्ताश्वयुक्तं वहते वै त्रिधामा ॥ १३.२६३.२३ ॥
他是逐月安排祭祀者,通晓吠陀者在祭祀中诵念他。他被称为这三轴之轮,以七匹马驾着而运行——他便是三住者。
13.263.24
कृष्णं सदा पार्थ कर्तारमेहि ॥ १३.२६३.२४ ॥
帕尔塔啊,常将黑天视为作者,前来亲近他。
13.263.25
स एकदा कक्षगतो महात्मा ।
तुष्टो विभुः खाण्डवे धूमकेतुः।
स राक्षसानुरगांश्चावजित्य ।
सर्वत्रगः सर्वमग्नौ जुहोति ॥ १३.२६३.२५ ॥
那位大心者曾入林中;满足的遍在者、烟幡之神(阿耆尼),在呼兰陀婆林中征服了罗刹与蛇众,遍行一切,于火中献祭一切。
13.263.26
स एव पार्थाय श्वेतमश्वं प्रायच्छ-
त्स एवाश्वानथ सर्वांश्चकार।
सबन्धुरस्तस्य रथस्त्रिचक्र-
स्त्रिवृच्छिराश्चतुरश्वस्त्रिनाभिः ॥ १३.२६३.२६ ॥
他亲自将白马赐予Pārtha,也亲自造出了所有的马。他的战车有三轮、三分的车顶、四匹马和三个轮毂,并带有车轭带。
13.263.27
स विहायो व्यदधात्पञ्चनाभिः ।
स निर्ममे गां दिवमन्तरिक्षम्।
सोऽरण्यानि व्यसृजत्पर्वतांश्च ।
हृषीकेशोऽमितदीप्ताग्नितेजाः ॥ १३.२६३.२७ ॥
他以五个轮毂安立天空;他创造了大地、天界与虚空。他生出森林与山岳;他是Hṛṣīkeśa,拥有无量燃烧之火的光辉。
13.263.28
अलङ्घयद्वै सरितो जिघांस-
ञ्शक्रं वज्रं प्रहरन्तं निरास।
स महेन्द्रः स्तूयते वै महाध्वरे ।
विप्रैरेको ऋक्सहस्रैः पुराणैः ॥ १३.२६३.२८ ॥
他渡过河流,欲杀持金刚杵攻击的帝释(Śakra);他将其驱走。这位大因陀罗在大祭祀中,由婆罗门以千首梨俱颂与古老的诗歌独自被赞颂。
13.263.29
दुर्वासा वै तेन नान्येन शक्यो ।
गृहे राजन्वासयितुं महौजाः।
तमेवाहुर्ऋषिमेकं पुराणं ।
स विश्वकृद्विदधात्यात्मभावान् ॥ १३.२६३.२९ ॥
大王啊,除他之外,无人能让杜尔婆娑在家中停留;他具有大力。人们称他为唯一的古老仙人;这位宇宙的创造者建立他自身的存在状态。
13.263.30
वेदांश्च यो वेदयतेऽधिदेवो ।
विधींश्च यश्चाश्रयते पुराणान्।
कामे वेदे लौकिके यत्फलं च ।
विष्वक्सेनः सर्वमेतत्प्रतीहि ॥ १३.२६३.३० ॥
揭示吠陀的至上神,依托古老法则的那一位;无论欲望中、吠陀中还是世俗生活中之果,皆是毗湿伐科色那。请当了解这一切。
13.263.31
ज्योतींषि शुक्लानि हि सर्वलोके ।
त्रयो लोका लोकपालास्त्रयश्च।
त्रयोऽग्रयो व्याहृतयश्च तिस्रः ।
सर्वे देवा देवकीपुत्र एव ॥ १३.२६३.३१ ॥
在一切世界中有纯净的光明:三界、三位世界守护者、三位首领和三种语咒——这一切诸神都只是提婆基之子。
13.263.32
स क्त्सरः स ऋतुः सोऽर्धमासः ।
सोऽहोरात्रः स कला वै स काष्ठाः।
मात्रा मुहूर्ताश्च लवाः क्षणाश्च ।
विष्वक्सेनः सर्वमेतत्प्रतीहि ॥ १३.२६३.३२ ॥
他是年,他是季节,他是半月;他是昼夜,他是迦罗与迦湿陀。量、牟呼多、刹那与瞬间也都是他——应知毗湿伐克shena即是这一切。
13.263.33
चन्द्रादित्यौ ग्रहनक्षत्रताराः ।
सर्वाणि दर्शान्यथ पौर्णमासम्।
चन्द्रादित्यौ ग्रहनक्षत्रताराः ।
सर्वाणि दर्शान्यथ पौर्णमासम्। ॥ १३.२६३.३३ ॥
月与日,行星、星宿与星辰;一切新月祭,然后是满月祭——月与日,行星、星宿与星辰;一切新月祭,然后是满月祭。
13.263.34
सर्व कृष्णादृषयश्चैव सप्त ॥ १३.२६३.३४ ॥
一切皆出于黑天——诸仙,以及七者。
13.263.35
वायुर्भूत्वा विक्षिपते च विश्व-
मग्निर्भूत्वा दहते विश्वरूपः।
आपो भूत्वा मज्जयते च सर्वं ।
ब्रह्म भूत्वा सृजते विश्वसङ्घान् ॥ १३.२६३.३५ ॥
化为风,他吹散宇宙;化为万相之火,他焚烧;化为水,他淹没一切;化为梵,他创造宇宙的众集合。
13.263.36
वेद्यं च यद्वेदयते च वेद्यं ।
विधिश्च यश्च श्रयते विधेयम्।
धर्मे च वेदे च बले च सर्वं ।
चराचरं केशवं त्वं प्रतीहि ॥ १३.२६३.३६ ॥
使可知者显现、自身即是可知者的,是他;作为规则并依托于所当行者的,是他;在法、在吠陀、在力量之中,一切动与不动之物——你应当知道那是羯indicates 凯沙婆。
13.263.37
ज्योतिर्भूतः परमोसौ पुरस्ता-
त्प्रकाशते यत्प्रभया विश्वरूपः।
अपः सृष्ट्वा सर्वभूतात्मयोनिः ।
पुराऽकरोत्सर्वमेवाथ विश्वम् ॥ १३.२६३.३७ ॥
成为光明的那位至上者在前方照耀;凭借他的光辉,众形之宇宙闪耀。创造了水之后,他——一切有情自我之源——往昔造作了整个宇宙。
13.263.38
ऋतूनुत्पातान्विविधान्यद्भुतानि ।
मेघान्विद्युत्सर्वमैरावतं च।
सर्वं कृष्णात्स्थावरं जङ्गं च ।
विश्वात्मानं विष्णुमेनं प्रतीहि ॥ १३.२६३.३८ ॥
四季、种种凶兆与奇迹、云、闪电,一切,以及象王爱罗婆多;从黑天而来,是一切不动与可动之物。应当这样认识这位宇宙之我毗湿奴。
13.263.39
विश्वावासं निर्गुणं वासुदेवं ।
सङ्कर्षणं जीवभूतं वदन्ति।
ततः प्रद्युम्नमनिरुद्धं चतुर्थ-
माज्ञापयत्यात्मयोनिर्महात्मा ॥ १३.२६३.३९ ॥
人们称宇宙之居所、无德的婆苏提婆为化为众生之有情的桑迦尔沙那。然后,自生的大我下令了普拉杜姆纳,以及第四位阿尼卢达。
13.263.40
स पञ्चधा पञ्चगुणोपपन्नं ।
सञ्चोदयन्विश्वमिदं सिसृक्षुः।
ततश्चकारावनिमारुतौ च ।
खं ज्योतिरम्भश्चि तथैव पार्थ ॥ १३.२६३.४० ॥
他以五种形态,具备五种属性,推动这宇宙,欲要创造,随后造作了地与风,虚空、光明与水,亦复如是,阿周那啊。
13.263.41
स स्थावरं जङ्गमं चैवमेत-
च्चतुर्विधं लोकमिमं च कृत्वा।
ततो भूमिं व्यदधात्पञ्चबीजां ।
द्यावापृथिव्यग्निरथाम्बुवायू ॥ १३.२६३.४१ ॥
他创造了这四重世界,包括静止与运动之物,然后确立了具有五种种子的大地,以及天与地、火、车轮、水和风。
13.263.42
न्सर्वान्सदा भूतपतिः सिसृक्षुः ॥ १३.२६३.४२ ॥
……众生之主,始终欲要创造……
13.263.43
शुभाशुभं स्थावरं जङ्गमं च ।
विष्वक्सेनात्सर्वमेतत्प्रतीहि।
यद्वर्तते यच्च भविष्यतीह ।
सर्वं ह्येतत्केशवं त्वं प्रतीहि ॥ १३.२६३.४३ ॥
当知善与不善、静止与运动,皆出自毗湿伐色那。当知此间所有、未来将有之物,皆属于羯沙婆。
13.263.44
मृत्युश्चैव प्राणिनामन्तकाले ।
साक्षात्कृष्णः केशवो देहभाजाम्।
भूतं च यच्चेह न विद्म किञ्चि-
द्विष्वक्सेनात्सर्वमेतत्प्रतीहि ॥ १३.२६३.४४ ॥
众生临终之时的死亡,也直接就是黑天羯沙婆。凡此间已发生之事,我们一无所知;当知这一切皆出自毗湿伐色那。
13.263.45
यत्प्रशस्तं च लोकेषु पुण्यं यच्च शुभाशुभम् ।
तत्सर्वं केशवोऽचिन्त्यो विपरीतमतः परम् ॥ १३.२६३.४५ ॥
凡世间所赞叹者、有功德者、善与不善者,皆是不可思议的羯沙婆;超越于此及其相反者,也都是他。
13.263.46
एतादृशः केशवोऽतश्च भूयो ।
नारायणः परमश्चाव्ययश्च।
मध्याद्यन्तस्य जगतस्तस्तुषश्च ।
बुभूषतां प्रभवश्चाव्ययश्च ॥ १३.२६३.४६ ॥
如此的羯沙婆,又是那至上不灭的那罗延;他是世界的始、中、终,也是欲有生者的本源,亦是不灭者。