摩诃婆罗多 · 章 13.268
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.268.1
ये च धर्ममसूयन्ते ये चैनं पर्युपासते ।
ब्रवीतु मे भवानेतत्क्व ते गच्छन्ति तादृशाः ॥ १३.२६८.१ ॥
那些诽谤法(达摩)的人,和那些侍奉法的人,请您告诉我,这样的人往何处去?
13.268.2
रजसा तमसा चैव समवस्तीर्णचेतसः ।
नरकं प्रतिपद्यन्ते धर्मविद्वेषिमो जनाः ॥ १३.२६८.२ ॥
心被激情与昏暗完全遮蔽、憎恶法的人,这些人便堕入地狱。
13.268.3
ये तु धर्मं महाराज सततं पर्युपासते ।
सत्यार्जवपराः सन्तस्ते वै स्वर्गभूजो नराः ॥ १३.२६८.३ ॥
然而,大王,那些常常侍奉法、专注于真实与正直的善人,他们才是享受天界的人。
13.268.4
धर्म एव रतिस्तेषामाचार्योपासनाद्भवेत् ।
देवलोकं प्रपद्यन्ते ये धर्मं पर्युपासते ॥ १३.२६८.४ ॥
他们的喜悦只在于法,由侍奉师长而生。侍奉法的人,便得到天界。
13.268.5
मनुष्या यदि वा देवाः शरीरमुपताप्य वै ।
धर्मिणः सुखमेधन्ते लोभद्वेषविवर्जिताः ॥ १३.२६८.५ ॥
无论是人还是神,以苦行调伏身体、远离贪欲与嗔恨的守法者,都在安乐中兴盛。
13.268.6
प्रथमं ब्रह्म्णः पुत्रं धर्ममाहुर्मनीषिणः ।
धर्मिणः पर्युपासन्ते फलं पक्वमिवाशिनः ॥ १३.२६८.६ ॥
智者称法为梵天的长子。守法者侍奉它,如同品尝熟透的果实。
13.268.7
असाधोः कीदृशं शीलं साधोश्चैव तु कीदृशम् ।
ब्रवीतु मे भवानेतत्सन्तोऽसन्तश्च कीदृशाः ॥ १३.२६८.७ ॥
不善之人的品行如何,善人的品行又如何?请您告诉我,善人与不善之人是什么样的。
13.268.8
दुराधाराश्च दुर्धर्षा दुर्मुखाश्चाप्यसाधवः ।
साधवः शीलसम्पन्नाः शिष्टाचारस्य लक्षणम् ॥ १३.२६८.८ ॥
难以依靠、难以接近、口出恶言的人也是不善之人。善人具备良好的品行;这正是有教养的行为的标志。
13.268.9
राजमार्गे गवां मध्ये जनमध्ये च धर्मिणः ।
नोपसेचन्ति राजेन्द्र सर्गं मूत्रपुरीषयोः ॥ १३.२६८.९ ॥
在王道上、牛群之中以及人群之中,诸王之主啊,有德之人不会排放小便和大便。
13.268.10
पञ्चानां यजनं कृत्वा शेषमश्नन्ति साधवः ।
न जल्पन्ति च भुञ्जाना न निद्रान्त्यार्द्रपाणयः ॥ १३.२६८.१० ॥
向五者献祭之后,善人才吃剩下的食物。进食时不闲谈,也不带着湿手入睡。
13.268.11
चित्रभानुमपां देवं गोष्ठं चैव चतुष्पथम् ।
ब्राह्मणं धार्मिकं वृद्धं ये कुर्वन्ति प्रदक्षिणम् ॥ १३.२६८.११ ॥
凡以右绕之礼敬奉火神、水神、牛栏、十字路口、有德的婆罗门和长者者,即是善人。
13.268.12
वृद्धानां भारतप्रानां स्त्रीणां बालातुरस्य च ।
ब्राह्मणानां गवां राज्ञां पन्थानं ददते च ये ॥ १३.२६८.१२ ॥
婆罗多中最优秀的人啊,凡为长者、妇女、儿童与病人,为婆罗门、牛与国王让路的人,即是善人。
13.268.13
अतिथीनां च सर्वेषां प्रेष्याणां स्वजनस्य च ।
सामान्यं भोजनं कुर्यात्स्वयं नाग्र्यशनं व्रजेत् ॥ १३.२६८.१३ ॥
应与所有宾客、仆役和亲属共同用餐,不可自己取最好的一份。
13.268.14
न सत्यार्जवधर्मस्य तुल्यमन्यच्च विद्यते ।
बहुला नाम गौस्तेन गतिमग्र्यां गता किल ॥ १३.२६८.१४ ॥
没有任何东西能与真实与正直之法相比。的确,名为巴呼拉的母牛因此达到了最高的境界。
13.268.15
मुनिशापाद्द्विजः कश्चिद्व्याघ्रतां समुपागतः ।
बहुलां भक्षणरुचिरास्वाद्य शपथेन तु ॥ १३.२६८.१५ ॥
因一位仙人的诅咒,某位婆罗门变成了老虎。他想吃她,尝了巴呼拉之后,便在誓言之下放了她。
13.268.16
विमुच्य पीतवत्सां तां दृष्ट्वा स्मृत्वा पुरातनम् ।
जगाम लोकानमलान्सा स्वराष्ट्रं तथा पुनः ॥ १३.२६८.१६ ॥
她的小牛曾吮过乳,被放走后,她回忆往事,前往清净的世界,之后又回到了自己的国土。
13.268.17
तस्मात्सत्यार्जवरतो राजन्राष्ट्रं समानवम् ।
तारयित्वा सुखं स्वर्गं गन्तासि भरतर्षभ ॥ १३.२६८.१७ ॥
因此,国王啊,你若专心于真实与正直,使你的国家与百姓得以度脱,婆罗多的雄牛啊,你将轻松地升往天界。
13.268.18
तथा शरणकामानां गोप्ता स्यात्स्वागतप्रदः ।
सायं प्रातर्मनुष्याणामशनं देवनिर्मितम्। ॥ १३.२६८.१८ ॥
同样,应当庇护寻求庇护者,并热情迎接。人类的食物,无论早晚,都是诸神所制定的。
13.268.19
नान्तरा भोजनं दृष्टमुपवासविधिर्हि सः ।
होमकाले यथा वह्निः काले होमं प्रतीक्षते। ॥ १३.२६८.१९ ॥
中间进食不被视为可行;那是斋戒的规定,正如火在祭祀之时等待供物于恰当的时刻。
13.268.20
ऋतुकाले तथाऽऽधानं पितरश्च प्रतीक्षते ।
नान्यदा गच्छते यस्तु ब्रह्मचर्यं च तत्स्मृतम् ॥ १३.२६८.२० ॥
在恰当的季节,祖先同样等待圣火的建立;在其他时候不亲近者,即被称为梵行。
13.268.21
अमृतं ब्राह्मणा गाव इत्येतत्त्रयमेकतः ।
तस्मादोब्राह्मणान्नित्यमर्चयेत यथाविधि ॥ १३.२६८.२१ ॥
甘露、婆罗门与牛,此三者被一同宣说;因此应当总是依规则恭敬婆罗门。
13.268.22
यजुषां संस्कृतं मांसमुपभुञ्जत दुष्यति ।
पृष्ठमांसं वृथामांसं पुत्रमांसं च तत्समम् ॥ १३.२६८.२२ ॥
食用经祭祀真言所供献的肉,仍会受污染;脊背肉、无用之肉与子之肉,与此相同。
13.268.23
स्वदेशे परदेशे वाऽप्यतिथिं नोपवासयेत् ।
कर्म वै सफलं कृत्वा गुरुणां प्रतिपादयेत् ॥ १३.२६८.२३ ॥
无论在本国还是异乡,都不应使客人挨饿;使仪式成就之后,应将其献给长者。
13.268.24
गुरुभ्यस्त्वासनं देयमभिवाद्याभिपूज्य च ।
गुरुमभ्यर्च्य वर्धन्ते आयुषा यशसा श्रिया ॥ १३.२६८.२४ ॥
应先向长者行礼并尊敬之,然后奉上座位;尊敬老师者,寿命、名望与福德都会增长。
13.268.25
वृद्धान्नाभिभवेज्जातु न चैतान्प्रेषयेदिति ।
नासीनः स्यात्स्थितेष्वेवमायुरस्य न रिष्यते ॥ १३.२६८.२५ ॥
不可轻慢长者,也不可让他们跑腿。在站立者面前不可自己坐着;如此,其寿命便不会减损。
13.268.26
न नग्रामीक्षते नारीं न नग्रान्पुरुषानपि ।
मैथुनं सततं गुप्तं तपश्चैव समाचरेत् ॥ १३.२६८.२६ ॥
不可看裸体女子,也不可看裸体男子。应始终秘密行房事,并且修习苦行。
13.268.27
तीर्थानां गुरवस्तीर्थं शुचीनां हृदयं शुचि ।
दर्शनानां परं ज्ञानं सन्तोषः परमं सुखम् ॥ १३.२६८.२७ ॥
师长是圣地中的圣地,心是清净中最清净者。智慧是诸见中最上者;知足是至上的快乐。
13.268.28
सायं प्रातश्च वृद्धानां शृणुयात्पुष्कला गिरः ।
श्रुतमाप्नोति हि नरः सततं वृद्धसेवया ॥ १३.२६८.२८ ॥
早晚应当聆听长者的丰富言语。人通过恒常侍奉长者,便能获得学识。
13.268.29
स्वाध्याये भोजने चैव दक्षिणं पाणिमुद्धरेत् ।
यच्छेद्वाङ्मनसी नित्यमिन्द्रियाणि तथैव च ॥ १३.२६८.२९ ॥
在诵习与饮食时,应举起右手。应当始终约束言语、心意与诸根,亦复如此。
13.268.30
संस्कृतं पायसं नित्यं यावकं कृसरं हविः ।
अष्टकाः पितृदैवत्या ग्रहाणामभिपूजनम् ॥ १३.२६८.३० ॥
每日供奉经过净化的牛奶粥、大麦粥、米与豆的混合饭及祭品;供奉祖先与天神的八日祭;敬拜诸星。
13.268.31
श्मश्रुकर्मणि मङ्गल्यं क्षुतानामभिनन्दनम् ।
व्याधितानां च सर्वेषामायुषामभिनन्दनम् ॥ १३.२६८.३१ ॥
在剃须之礼中,吉祥的是向打喷嚏者致意,并向所有病人致意,祝愿他们长寿。
13.268.32
न जातु त्वमिति ब्रूयादापन्नोपि महृत्तरम् ।
त्वंकारो वा वधो वेति विद्वत्सु न विशिष्यते।
अवराणां समानानां शिष्याणां च समाचरेत् ॥ १३.२६८.३२ ॥
即便身处困境,也不可对更尊贵之人称“你”;在智者之中,称“汝”或杀戮并无区别。对待晚辈、同辈与弟子,也应如此行事。
13.268.33
पापमाचरते नित्यं हृदयं पापकर्मणाम् ।
ज्ञानपूर्वकृतं कर्म च्छादयन्ते ह्यसाधवः ॥ १३.२६८.३३ ॥
作恶者之心时常造作罪恶;恶人也会隐瞒明知而为之的行为。
13.268.34
ज्ञानपूर्वं विनश्यन्ति गूहमाना महाजने ।
न मां मनुष्याः पश्यन्ति न मां पश्यन्ति देवताः ॥ १३.२६८.३४ ॥
明知故犯之罪,若在众贤者面前隐瞒,便会灭亡。人不见我,诸神也不见我。
13.268.35
पापेनाभिहितः पापः पापमेवाभिजायते ॥ १३.२६८.३५ ॥
被罪恶驱使的罪人,只会生出更多罪恶。
13.268.36
यथा वार्धुषिको वृद्धिं दिनभेदे प्रतीक्षते ।
धर्मेण पिहितं पापं धर्ममेवाभिवर्धयेत् ॥ १३.२६८.३६ ॥
如同放贷者等待日期更替以使利息增长,被法(达摩)所掩盖的罪恶也在等待;因此应当增长法本身。
13.268.37
यथा लवणमम्भोभिराप्लुतं प्रविलीयते ।
प्रायश्चित्तहतं पापं तथा सद्यः प्रणश्यति ॥ १३.२६८.३७ ॥
如盐浸入水中便会溶化,因赎罪而被消除的罪恶也立刻消失。
13.268.38
तस्मात्पापं न गूहेत गूहमानं विवर्धते ।
कृत्वा तु सादुष्वाख्यायाधर्मं प्रशमयन्त्युत ॥ १३.२६८.३८ ॥
因此不应隐瞒罪过,因为被隐瞒的罪过会增长。若将所做的不义向善人坦白,他们便会使之平息。
13.268.39
आशया सञ्चितं द्रव्यं स्वकाले नोपभुज्यते ।
अन्ये चैतत्प्रद्यन्ते वियोगे तस्य देहिनः ॥ १३.२६८.३९ ॥
怀着希望积聚的财富,不能在其应享之时享用;在有身者离世之时,它却被他人取走。
13.268.40
तद्धर्मसाधनं नित्यं सङ्कल्पाद्धनमार्जयेत् ।
मननं सर्वभूतानां धर्ममाहुर्मनीषिणः। ॥ १३.२६८.४० ॥
作为法之手段的财富,应当始终以坚定的志向去获取。智者称,对一切众生的深思善念便是法。
13.268.41
तस्मात्सर्वाणि भूतानि धर्ममेव समासते ।
एक एव चरेद्धर्मं न धर्मध्वजिको भवेत्। ॥ १३.२६८.४१ ॥
因此一切众生都依止于法。人应独自行法,而不可做一个打着法旗的人。
13.268.42
धर्मवाणिजका ह्येते ये धर्ममुपभुञ्जते ।
अर्चेद्देवानदम्भेन सेवेताऽमायया गुरून्। ॥ १३.२६८.४२ ॥
那些靠法来谋取享受的人,实际上就是法的商贩。应当不带傲慢地礼拜诸神,不带欺诈地侍奉师长。
13.268.43
धनं निदध्यात्पात्रेषु परत्रार्थं समावृतम् ॥ १३.२६८.४३ ॥
应将财富托付给有德的受者,为来世之利益而妥善隐藏保管。