Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.38

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.38.1

क्लिश्यमानेषु भूतेषु जातीमरणसागरे ।
यत्प्राप्य क्लेशं नाप्नोति तन्मे ब्रूहि पितामह ॥ १३.३८.१ ॥

众生在生死之海中受苦之时,请告诉我,祖父,获得何物便不会陷入痛苦?

13.38.2

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
सनत्कुमारस्य सतः संवादं नारदस्य च ॥ १३.३८.२ ॥

关于此事,人们也讲述这段古老的故事:尊者萨那库玛拉与那罗陀的对话。

13.38.3

सनत्कुमारो भगवान्ब्रह्मपुत्रो महायशाः ।
पूर्वजातास्त्रयस्तस्य कथ्यन्ते ब्रह्मवादिनः ॥ १३.३८.३ ॥

尊贵的萨那库玛拉,梵天之子,大名远扬。人们讲述他之前出生的三位梵言者。

13.38.4

सनकः सनन्दनश्चैव तृतीयश्च सनातनः ।
जातमात्राश्च ते सर्वे प्रतिबुद्धा इति श्रुतिः ॥ १३.३८.४ ॥

萨那卡、萨南达那,以及第三位萨那坦那——他们一出生便都觉醒了,这是天启之言。

13.38.5

चतुर्थश्चैव तेषां स भगवान्योगवित्तमः ।
सनत्कुमार इति वै कथयन्ति महर्षयः ॥ १३.३८.५ ॥

他们之中的第四位是尊贵的萨那库玛拉,最杰出的瑜伽士——大仙们如此称呼他。

13.38.6

हैरण्यगर्भः स मुनिर्वसिष्ठः पञ्चमः स्मृतः ।
षष्ठः स्थाणुः स भगवानमेयात्मा त्रिशूलधृत् ॥ १३.३८.६ ॥

那位出于金胎的仙人婆悉瑟吒被认为是第五位;第六位是尊贵的湿婆(Sthāṇu),无量的自性,手持三叉戟者。

13.38.7

ततोऽपरे समुत्पन्नाः पावकादारुणे क्रतौ ।
मनसा स्वयंभुवो हीमे मरीचिप्रमुखास्तथा ॥ १३.३८.७ ॥

随后,其他人从火中、在赤色祭祀中生出,而从自生者的心意中生出的,则是以摩里芝为首的诸仙。

13.38.8

भुगुर्मरीचेरनुजो भृगोरप्यङ्गिरास्तथा ।
अनुजोङ्गिरसोऽथात्रिः पुलस्त्योत्रेस्तथाऽनुजः ॥ १३.३८.८ ॥

婆利古是摩里芝的幼弟;婆利古的幼弟是安吉罗;安吉罗的幼弟是阿低利;阿低利的幼弟是补罗斯底耶。

13.38.9

पुलस्त्यस्यानुजो विद्वान्पुलहो न महाद्युतिः ।
पठ्यन्ते ब्रह्मजा ह्येते विद्वद्बिरमितौजसः ॥ १३.३८.९ ॥

补罗斯底耶的幼弟是博学的补罗诃,他并不十分光辉。智者称这些为梵天之子,具有无量威力。

13.38.10

सर्वमेतन्महाराज कुर्वन्नादिगुरुर्महान् ।
प्रभुर्विभुरनन्तश्रीर्ब्रह्मा लोकपितामहः ॥ १३.३८.१० ॥

大王啊,这一切都是由原初之师、伟大的主宰、遍在者、具无尽光辉的梵天所作,他是世界的祖父。

13.38.11

मूर्तिमन्तोऽमृतीभूतास्तेजसाऽतितपोन्विताः ।
सनकप्रभृतयस्तत्र ये च प्राप्ताः परं पदम्।
कृत्स्नं क्षयमनुप्राप्य विमुक्ता मूर्तिबन्धनात् ॥ १३.३८.११ ॥

那些具有形体、因光辉而成为不死、具足大苦行的萨那卡等人,在那里达到了至上之境。他们达到了完全的消融,从形体的束缚中解脱出来。

13.38.12

सनत्कुमारस्तु विभुर्योगमास्थाय योगवित् ।
त्रीँल्लोकानचरच्छश्वदैर्येण परेण हि ॥ १३.३८.१२ ॥

然而,遍在的瑜伽行者萨那特鸠摩罗,依靠瑜伽,以至上而永恒的方式,常在三界中游行。

13.38.13

रुद्रश्चाप्यष्टगुणितं योगं प्राप्तो महायशाः ।
सूक्ष्ममष्टगुणं राजन्नितरे नृपसत्तम ॥ १३.३८.१३ ॥

伟大光荣的楼陀罗也获得了八重瑜伽。王中之王啊,其他人获得了微妙的八重(瑜伽)。

13.38.14

मरीचिप्रमुखास्तात सर्वे सृष्ट्यर्थमेव ते ।
नियुक्ता राजशार्दूल तेषां सृष्टिं शृणुष्व मे ॥ १३.३८.१४ ॥

亲爱的儿子,以摩利吉为首的他们,都是专为创造而被任命的。王中之虎啊,请听我讲他们的创造。

13.38.15

सप्त ब्रह्मण इत्येते पुराणे निश्चयं गताः ।
सर्वे वेदेषु चैवोक्ताः खिलेषु च न संशयः ॥ १३.३८.१५ ॥

这七位在往世书中被确定为梵天之子。他们都在吠陀中,也在补遗中被提及;毫无疑问。

13.38.16

इतिहासपुराणे च श्रुतिरेषा सनातनी ।
ब्राह्मणा वरदानेतान्प्राहुर्वेदान्तपारगाः ॥ १३.३८.१६ ॥

在史诗与往世书中,此天启亦是永恒的。精通吠檀多的婆罗门在赐予恩惠的语境中如此称述他们。

13.38.17

एतेषां पितरस्तात पुत्रा इत्यनुचक्षते ।
गणाः सप्त महाराज मूर्तयोऽमूर्तयस्तथा ॥ १३.३८.१७ ॥

亲爱的儿子,他们的父亲被称为他们的儿子。伟大的王啊,七组,既有形体的,也有无形体的。

13.38.18

पितृणां चैव राजेन्द्र पुत्रा देवा इति श्रुतिः ।
देवैर्व्याप्ता इमे लोका इत्येवमनुशुश्रुम ॥ १३.३८.१८ ॥

王中之主啊,天启说祖先的子孙即是诸神。我们如此听闻:这些世界都被诸神所遍布。

13.38.19

कृष्णद्वैपायनाच्चैव देवस्थानात्तथैव त ।
देवलाच्च नरश्रेष्ठ काश्यपाच्च मया श्रुतम् ॥ १३.३८.१९ ॥

人中最上者啊,我从黑毗耶娑、提婆斯塔纳、提婆罗以及迦叶那里也听闻了此事。

13.38.20

गौतमादपि कौण्डिन्याद्बारद्वाजात्तथैव च ।
मार्कण्डेयात्तथैवैतदृषेर्देवमतादपि ॥ १३.३८.२० ॥

也从乔达摩、憍尸迦、婆罗堕阇、摩根德耶以及仙人提婆摩多那里听闻了同样的话。

13.38.21

पित्रा च मम राजेन्द्र श्राद्धकाले प्रभाषितम् ।
परं रहस्यं वेदान्तं प्रियं हि परमात्मनः ॥ १३.३८.२१ ॥

王中之王啊,在行祭祖(施拉达)之时,我的父亲也宣说了至高的秘密吠檀多,它确实为至上我所喜爱。

13.38.22

अतः परं प्रवक्ष्यामि यन्मां पृच्छसि भारतः ।
तदिहैकमनोबुद्धिः शृणुष्वावहितो नृप।
स्वायंभुवस्य संवादं नारदस्य च धीमतः ॥ १३.३८.२२ ॥

现在我要说出你所问的,婆罗多啊。国王啊,请以专一的心智专注倾听——自生者(摩奴)与智者那罗陀的对话。

13.38.23

सनत्कुमारो भगवान्दिव्यं जज्वाल तेजसा ।
अङ्गुष्ठमात्रो भूत्वा वै विचचार महाद्युतिः ॥ १३.३८.२३ ॥

尊者萨那特库玛拉以神圣光辉照耀;他化作拇指大小,大光明者便四处行走。

13.38.24

स कदाचिन्महाभागो मेरुपृष्ठं समागमत् ।
नारदेन नरश्रेष्ठ मुनिना ब्रह्मवादिना ॥ १३.३८.२४ ॥

有一次,那位大福德者来到须弥山之背,人中最上者啊,与宣说梵的仙人那罗陀同行。

13.38.25

जिज्ञासमानावन्योन्यं सकाशे ब्रह्मणस्ततः ।
ब्रह्म भागवतौ तात परमार्थार्थचिन्तकौ ॥ १३.३८.२५ ॥

亲爱的,二人彼此渴望相知,随后在梵天面前,那两位虔信者思索至高真理的意义,沉思梵。

13.38.26

मतिमान्मतिमच्छ्रेष्ठं बुद्धिमान्बुद्धिमत्तरम् ।
क्षेत्रवित्क्षेत्रविच्छ्रेष्ठं ज्ञानविज्ज्ञानमत्तमम् ॥ १३.३८.२६ ॥

智者中最智者,比智者更智慧;知场者中之最优,知识者中最有知识者。

13.38.27

सनत्कुमारं तत्वज्ञं भगवन्तमरिंदम ।
लोकविल्लोकविच्छ्रेष्ठमात्मविच्चात्मवित्तमम्।
सर्ववेदार्थकुशलं सर्वशास्त्रविशारदम् ॥ १३.३८.२७ ॥

萨那特昆摩罗,通晓真理,尊贵,降伏敌人;知世界者中的最优者,知自我者中最为殊胜者,精通一切吠陀之义,精通一切经典。

13.38.28

साङ्ख्ययोगं च यो वेद पाणावामलकं यथा ।
नारदोऽथ नरश्रेष्ठ तं पप्रच्छ महाद्युतिः ॥ १३.३८.२८ ॥

他通晓数论与瑜伽,如同掌中之庵摩勒果;人中之最优者啊,于是大光明的那罗陀向他发问。

13.38.29

त्रयोविंशतितत्वस्य अव्यक्तस्य महामुने ।
प्रभवं चाप्ययं चैव श्रोतुमिच्छामि तत्वतः ॥ १३.३८.२९ ॥

大仙啊,我想如实听闻二十三谛与未显现者的生起与灭尽。

13.38.30

अध्यात्ममधिभूतं च अधिदैवं तथैव च ।
कालसङ्ख्याश्च सर्गं च स्रष्टारं पुरुषं प्रभुम्। ॥ १३.३८.३० ॥

内我、外物、以及神,时间的计算,创造,以及作为创造者的主宰补噜沙。

13.38.31

यं विस्वमुपजीवन्ति येन सर्वमिदं ततम् ।
यं प्राप्य न निवर्तन्ते तद्भवान्वक्तुमर्हति ॥ १३.३८.३१ ॥

你有资格谈论那位——世界依他而生存,此一切由他遍布,得之者不再返回。

13.38.32

यं विश्वमुपजीवन्ति यमाहुः पुरुषं परम् ।
तं वै शृणु महाबुद्धे नारायणमनामयम् ॥ १३.३८.३२ ॥

大智者啊,请听那位——世界依他而生、人称至高补鲁沙的无垢那罗延。

13.38.33

एष नारायणो नाम यं विश्वमुपजीवति ।
एष स्रष्टा विधाता च भर्ता पालयिता प्रभुः ॥ १३.३८.३३ ॥

此名那罗延者,世界依他而生。他是创造者、安排者、维持者、守护者、主宰。

13.38.34

प्राप्यैनं न निवर्तन्ते यतयोऽध्यात्मचिन्तकाः ।
एतावदेव वक्तव्यं मया नारद पृच्छते ॥ १३.३८.३४ ॥

得之者,专注于内在自我的苦行者不再返回。我只需对你这位发问者说这些,那罗陀。

13.38.35

परं न वेद्मि तत्सर्गं यावांश्चायं यथाप्यहम् ।
श्रूयतामानुपूर्व्येण न च सर्गः प्रयत्नतः ॥ १३.३८.३५ ॥

那创造以及它有多广大,我并不完全知晓,只知我所知的程度。请依次听来;创造不是靠努力就能把握的。

13.38.36

यथा कालपरीमाणं तत्वानामृषिसत्तम ।
अध्यात्ममधिभूतं च अधिदैवं तथैव च।
कालसंख्यां च सर्गं च सर्वमेव महामुने ॥ १३.३८.३६ ॥

最优秀的仙人啊,正如诸原理的时间量度,内在自我、物质世界与神性亦如是;还有时间的计算与创造——大仙啊,这一切我都将讲述。

13.38.37

तमसः कुर्वतः सर्गं तामसो ह्यभिधीयते ।
ब्रह्मविद्भिर्द्विजैर्नित्यं नित्यमध्यात्मचिन्तकैः ॥ १३.३८.३७ ॥

造作黑暗之创造者,被称为“多摩”(tāmasa);此乃知梵的再生者及常思内在自我者所恒常所说。

13.38.38

पर्यायनामान्येतस्य कथयन्ति मनीषिणः ।
तानि ते सम्प्रवक्ष्यामि तदिहैकमनाः शृणु ॥ १३.३८.३८ ॥

智者宣说其同义之名;我将为你说明,你当一心在此聆听。

13.38.39

महार्णवोऽर्णवश्चैव सलिलं च गुणास्तथा ।
वेदास्तपांसि यज्ञाश्च धर्माश्च भगवान्विभुः।
प्राणः सांवर्तकोग्निश्च व्योम कालस्तथैव च ॥ १३.३८.३९ ॥

大海、海洋、水、诸德、吠陀、苦行、祭祀与法,以及遍在的世尊、气息、劫末之火、虚空与时间,亦复如是。

13.38.40

नामान्येतानि ब्रह्मर्षे शरीरस्येश्वरस्य वै ।
कीर्तितानि द्विजश्रेष्ठ मया शास्त्रानुसारतः ॥ १३.३८.४० ॥

婆罗门仙啊,这些乃是主之身体的名称;再生者中最殊胜者啊,我已依据圣典宣说了它们。

13.38.41

चतुर्युगसहस्राणि चतुर्युगमरिंदम ।
प्राहुः कल्पसहस्रं वै ब्राह्मणास्तत्वदर्शिनः ॥ १३.३८.४१ ॥

降伏敌人者啊,见真实之婆罗门称千个四时代为一个四时代,并说它等同于千劫。

13.38.42

दशकल्पसहस्राणि अव्ययस्य महानिशा ।
तथैव दिवसं प्राहुर्योगाः सांख्याश्च तत्वतः ॥ १३.३८.४२ ॥

不灭者之大夜为万劫;同样,瑜伽行者与数论者依真实而言,称之为一日。

13.38.43

निशासुप्तोथ भगवान्क्षपान्ते प्रत्यबुध्यत ।
पश्चाद्बुद्ध्वा ससर्जापस्तासु वीर्यमवासृजत् ॥ १३.३८.४३ ॥

睡于夜中的世尊在夜末醒来。醒后,他创造了水,并将自己的精力注入其中。

13.38.44

तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् ।
अहंकृत्वा ततस्तस्मिन्ससर्ज प्रभुरीश्वरः ॥ १३.३८.४४ ॥

它变成了金色的卵,光辉如千日。之后,主宰者自在天取得我慢之性,在其中创造。

13.38.45

हिरण्यगर्भं विस्वात्मा ब्रह्माणां जलवन्मुनिम् ।
भूतभव्यभविष्यस्य कर्तारमनघं विभुम्।
मूर्तिमन्तं महात्मानं विश्वशभुं स्वयंभुवम् ॥ १३.३८.४५ ॥

宇宙之我生出金胎,他是诸梵中如水般的牟尼,是过去、现在、未来的创造者,无垢、遍在、具形、大我,对世界吉祥,自生。

13.38.46

अणिमा लघिमा प्राप्तिरीशानो ज्योतिषां नरम् ।
चक्रे तिरोधां भगवानेत्कृत्वा महायशाः ॥ १३.३८.४६ ॥

自在主(伊舍那)掌握小、轻、得等神通,创造了光明中的人;大名的世尊做完此事后,又将其隐藏起来。

13.38.47

एतस्यापि निशामाहुर्वेदवेदाङ्गपारगाः ।
पञ्चकल्पसहस्राणि अहरेतावदेव च ॥ १३.३८.४७ ॥

精通吠陀及其支分的人说,他的夜也是五千劫;他的昼亦同样长。

13.38.48

स सर्गं कुरुत ब्रह्मा तामसश्चानुपूर्व्यशः ।
सृजतेऽहं त्वहंकारं परमेष्ठिनमव्ययम् ॥ १३.३८.४८ ॥

那梵天依次创造黑暗性的造化;而我则创造我慢之性——至上、不灭的主宰。

13.38.49

अहङ्कारेणैव लोका व्याप्ताः साहंकृतेन वै ।
येनाविष्टानि भूतानि मज्जन्त्यव्यक्तसागरे ॥ १३.३८.४९ ॥

世界确实被我慢所充满,被那具有自我意识者所充满。众生为其所附,沉没于未显的大海之中。

13.38.50

देवर्षिदानवनरा यक्षगन्धर्वकिन्नराः ।
उन्मज्जन्ति निमज्जन्ति ऊर्ध्वाधस्तिर्यगेव च ॥ १३.३८.५० ॥

天神、仙人、阿修罗、人类、夜叉、乾闼婆与紧那罗,或升或沉,向上、向下,也向侧面。

13.38.51

एतस्यापि निशामाहुस्तृतीयामथ कुर्वतः ।
त्रीणि कल्पसहस्राणि अहरेतावदेव तु ॥ १३.३८.५१ ॥

他们称其第三个为夜。对于创造者而言,三千劫便是白昼,正是如此。

13.38.52

अहङ्कारस्तु सृजति महाभूतानि पञ्च वै ।
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ॥ १३.३८.५२ ॥

而我慢创造五大元素:地、风、空、水,以及第五的光明火。

13.38.53

एतेषां गुणतत्वानि पञ्च प्राहुर्द्विजातयः ।
शब्दे स्पर्शे च रूपे च रसे गन्धे तथैव च ॥ १३.३८.५३ ॥

再生者(婆罗门)说,这些的德性本原有五:声、触、色、味,以及同样的香。

13.38.54

गुणेष्वेतेष्वभिरताः पङ्कलग्ना इव द्विपाः ।
नोत्तिष्ठन्त्यवशीभूताः सक्ता अव्यक्तसागरे ॥ १३.३८.५४ ॥

沉溺于这些德性之中,如陷泥的象,被制伏而不能站起,执著于未显的大海之中。

13.38.55

एतेषामिह वै सर्वं चतुर्थमिह कुर्वतः ।
चतुर्युगसहस्रे वै अहोरात्रास्तथैव च ॥ १३.३८.५५ ॥

对于在此行第四者而言,一切发生于千个四时代的周期之中,昼夜亦然。

13.38.56

अनन्त इति विख्यातः पञ्चमः सर्ग उच्यते ।
इन्द्रियाणि दशैकं च यथाश्रुतिनिदर्शनात् ॥ १३.३८.५६ ॥

第五创造名为无尽,据吠陀传统所示,它包括十根感官与一(心意)。

13.38.57

मनः सर्वमिदं तात विश्वं सर्वमिदं जगत् ।
न तथान्यानि भूतानि बलवन्ति यथा मनः ॥ १३.३८.५७ ॥

孩子,心便是这整个宇宙、整个世界;其余诸元素不如心那样强大。

13.38.58

एतस्यापि ह वै सर्गं षष्ठमाहुर्द्विजातयः ।
अहः कल्पसहस्रं वै रात्रिरेतावती तथा ॥ १३.३८.५८ ॥

二生者也说它的第六创造:其白昼为千劫,黑夜同样长。

13.38.59

ऊर्ध्वस्रोतस्तु वै सर्गं सप्तमं ब्रह्मणो विदुः ।
अष्टमं चाप्यधःस्रोतस्तिर्यक्तु नवमः स्मृतः ॥ १३.३८.५९ ॥

人们知梵天的第七创造为上流,第八为下流,横流则被记为第九。

13.38.60

एतानि नव सर्गाणि तत्वानि च महामुने ।
चतुर्विंशतितत्वानि तत्वसंख्यानि तेऽनघ ॥ १३.३८.६० ॥

大仙啊,这些是九种创造与诸原理;无垢者啊,二十四原理即是诸原理的计数。

13.38.61

सर्वस्य प्रभवः पूर्वमुक्तो नारायणः प्रभुः ।
अव्ययः प्रभवश्चैव अव्यक्तस्य महामुने।
प्रवक्ष्याम्यपरं तत्वं यस्य यस्येश्वरश्च यः ॥ १३.३८.६१ ॥

此前已说,主宰那罗延是一切的本源。大仙啊,他是不灭的,也是未显者的本源。现在我将讲述另一项原理:谁是谁的主宰,以及谁是主宰。

13.38.62

अध्यात्ममधिभूतं च अधिदैवं तथैव च ।
यथाश्रुतं यथादृष्टं तत्वतो वै निबोध मे ॥ १३.३८.६२ ॥

内我、万物元素与神力,同样,如所闻与所见,请从我这里如实领会。