摩诃婆罗多 · 章 13.48
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.48.1
ततः स प्रयतो भूत्वा मम तात युधिष्ठिर ।
प्राञ्जलिः प्राह विप्रर्षिर्नामसङ्ग्रहमादितः ॥ १३.४८.१ ॥
于是,他清净自持,我亲爱的坚战啊,那位婆罗门仙人合掌,从头开始诵说名号的汇编。
13.48.2
उपमन्युरुवाच ।
ब्रह्मप्रोक्तैर्ऋषिप्रोक्तैर्वेदवेदाङ्गसम्भवै।
सर्वलोकेषु विख्यातं स्तुत्यं स्तोष्यामि नामभिः ॥ १३.४८.२ ॥
优波曼尤说:以梵天所宣说、诸仙人所宣说、从吠陀和吠陀支分而生的名号,我将赞颂那在一切世界中闻名、值得赞美的主。
13.48.3
महद्भिर्विहितैः सत्यैः सिद्धैः सर्वार्थसाधकैः ।
ऋषिणा तण्डिना भक्त्या कृतैर्वेदकृतात्मना ॥ १३.४८.३ ॥
由大人所定、真实、诸成就者所立、能成就一切目的,由仙人单迪以虔敬所作,由以吠陀成就自身者所作。
13.48.4
यथोक्तैः साधुभिः ख्यातैर्मुनिभिस्तत्त्वदर्शिभिः ।
प्रवरं प्रथमं स्वर्ग्यं सर्वभूतहितं शुभम् ॥ १३.४८.४ ॥
如善人所说,由名闻遐迩、通达真谛的诸牟尼所宣说:他至高、最初、导向天界、利益一切众生、吉祥。
13.48.5
श्रुतेः सर्वत्र जगति ब्रह्मलोकावतारितैः ।
सत्यैस्तत्परमं ब्रह्मि ब्रह्मप्रोक्तं सनातनम्।
वक्ष्ये यदुकुलश्रेष्ठ शृणुष्वावहितो मम ॥ १३.४८.५ ॥
依吠陀,遍于世间,依自梵天界降下的真理,关于那至高的梵,即梵天所宣说的永恒之法:我将宣说。请专心听我,身为与为最优的雅度族之主。
13.48.6
वरयैनं भवं देवं भक्तस्त्वं परमेश्वरम् ।
तेन ते श्रावयिष्यामि यत्तद्ब्रह्म सनातनम् ॥ १३.४८.६ ॥
向这位神婆婆(湿婆)求一个恩赐吧,因为你是他的信徒,至高的主。我将借他令你听闻那永恒的梵。
13.48.7
न शक्यं विस्तरात्कृत्स्नं वक्तुं सर्वस्य केनचित् ।
युक्तेनापि विभूतीनामपि वर्षशतैरपि ॥ १३.४८.७ ॥
无论详细还是完整,任何人都无法述说他的显现,即便是修习瑜伽者,即便历经百年。
13.48.8
यस्यादिर्मध्यमन्तं च सुरैरपि न गम्यते ।
कस्तस्य शक्नुयाद्वक्तं गुणान्कार्त्स्न्येन माधव ॥ १३.४८.८ ॥
其始、中、末连诸神也无法抵达,谁能完整述说他的德性呢?哦,摩陀婆?
13.48.9
किन्तु देवस्य महतः संक्षिप्तार्थपदाक्षरम् ।
शक्तितश्चरितं वक्ष्ये प्रसादात्तस्य धीमतः ॥ १३.४८.९ ॥
然而,我将以我的能力,依那智者的恩典,简要地述说那位大神的事迹,取其义、词与音节。
13.48.10
अप्राप्य तु ततोऽनुज्ञां न शक्यः स्तोतुमीश्वरः ।
यदा तेनाभ्यनुज्ञातः स्तुतो वै स तदा मया ॥ १३.४८.१० ॥
若未得到他的允许,便不能赞颂主宰;当他允许我时,我才赞颂了他。
13.48.11
अनादिनिधनस्याहं जगद्योनेर्महात्मनः ।
नाम्नां कञ्चित्समुद्देशं वक्ष्याम्यव्यक्तयोनिनः ॥ १३.४८.११ ॥
对于那无始无终、世界之源、大我、其本源不可显现者,我将述说其名号的一部分。
13.48.12
वरदस्य वरेण्यस्य विश्वरूपस्य धीमतः ।
शृणु नाम्नां चयं कृष्ण यदुक्तं पद्मयोनिना ॥ १३.४८.१२ ॥
请听,克里希那,那赐福者、至尊者、宇宙形相、智慧者的名号集,那是莲花生者所宣说的。
13.48.13
दश नामसहस्राणि यान्याह प्रपितामहः ।
तानि निर्मथ्य मनसा दध्नो घृतमिवोद्धृतम् ॥ १३.४८.१३ ॥
在心中搅拌曾祖父所说的一万名号,如从凝乳中提取酥油。
13.48.14
गिरेः सारं यथा हेम पुष्पसारं यथा मधु ।
घृतात्सारं यथा मण्डस्तथैतत्सारमुद्धृतम्। ॥ १३.४८.१४ ॥
犹如金是山的精华,蜜是花的精华,酥油上的浮脂是酥的精华,此精华已被提取。
13.48.15
सर्वपापापहमिदं चतुर्वेदसमन्वितम् ।
प्रयत्नेनाधिगन्तव्यं धार्यं च प्रयतात्मना ॥ १३.४८.१५ ॥
此能除一切罪,与四吠陀相合。应努力获得,应以调伏之心受持。
13.48.16
माङ्गल्यं पौष्टिकं चैव रक्षोघ्नं पावनं महत् ॥ १३.४८.१६ ॥
此吉祥、增益,能摧毁罗刹,且大能清净。
13.48.17
इदं भक्ताय दातव्यं श्रद्दघानास्तिकाय च ।
नाश्रद्दधानरूपाय नास्तिकायाजितात्मने ॥ १३.४८.१७ ॥
此应授予虔诚、有信、信仰者;不应授予无信、无神论者,或未调伏自我者。
13.48.18
यश्चाभ्यसूयते देवं कारणात्मानमीश्वरम् ।
स कृष्ण नरकं याति सहपूर्वैः सहात्मजैः ॥ १३.४८.१८ ॥
凡毁谤以自身为因的主神者,哦黑天,他连同祖先与子嗣一同堕入地狱。
13.48.19
इदं ध्यानमिदं योगमिदं ध्येयमनुत्तममम् ।
इदं जप्यमिदं ज्ञानं रहस्यमिदमुत्तम् ॥ १३.४८.१९ ॥
此即禅定,此即瑜伽,此即无上所观之境。此即持诵,此即智慧,此即最上之秘密。
13.48.20
यं ज्ञात्वा अन्तकालेऽपि गच्छेत परमां गतिम् ।
पवित्रं मङ्गलं मेध्यं कल्याणमिदमुत्तमम् ॥ १३.४८.२० ॥
知此者,即使在临终之时,也能到达最上之归宿。此法清净、吉祥、纯洁、善妙,最为殊胜。
13.48.21
इदं ब्रह्मा पुरा कृत्वा सर्वलोकपितामहः ।
सर्वस्तवानां राजत्वे दिव्यानां समकल्पयत् ॥ १३.४८.२१ ॥
往昔,众世界之祖梵天作此,于诸神圣赞颂之中立之为王。
13.48.22
तदाप्रभृति चैवायमीश्वरस्य महात्मनः ।
स्तवराज इति ख्यातो जगत्यमरपूजितः ॥ १३.४८.२२ ॥
自彼时起,此大德自在天之赞颂以“赞颂之王”之名闻于世间,为诸天所礼拜。
13.48.23
ब्रह्मलोकादयं स्वर्गे स्तवराजोऽवतारितः ।
यतस्तण्डिः पुरा प्राप तेन तण्डिकृतोऽभवत् ॥ १३.४८.२३ ॥
此赞颂之王自梵天界降于天上;因往昔旃底(Taṇḍi)得之,故名“旃底所作”。
13.48.24
स्वर्गाच्चैवात्र भूर्लोकं तण्डिना ह्यवतारितः ।
सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् ॥ १३.४८.२४ ॥
旃底又将其自天界降至此地的人间。此为一切吉祥中之至吉,能灭一切罪业。
13.48.25
निगदिष्ये महाबाहो स्तवानामुत्तमं स्तवम् ।
ब्रह्मणामपि यद्ब्रह्म पराणामपि यत्परम् ॥ १३.४८.२५ ॥
啊,大臂者,我将宣说诸赞歌中最上的赞歌,它在诸梵咒中是梵,在诸至上者中是至上。
13.48.26
तेजसामपि यत्तेजस्तपसामपि यत्तपः ।
शान्तीनामपि या शान्तिर्द्युतीनामपि या द्युतिः ॥ १३.४८.२६ ॥
在诸光明中是光明,在诸苦行中是苦行,在诸寂静中是寂静,在诸光辉中是光辉。
13.48.27
दान्तानामपि यो दान्तो धीमतामपि या च धीः ।
देवानामपि यो देव ऋषीणामपि यस्त्वृषिः ॥ १३.४८.२७ ॥
在诸调伏者中是调伏者,在诸智者中是智慧,在诸天神中是天神,在诸仙人中是仙人。
13.48.28
यज्ञानामपि यो यज्ञः शिवानामपि यः शिवः ।
रुद्राणामपि यो रुद्रः प्रभा प्रभवतामपि ॥ १३.४८.२८ ॥
在诸祭祀中是祭祀,在诸吉祥者中是吉祥者,在诸楼陀罗中是楼陀罗,在诸有力者中是光辉。
13.48.29
योगिनामपि यो योगी कारणानां च कारणम् ।
यतो लोकाः सम्भवन्ति नभवन्ति यतः पुनः ॥ १३.४८.२९ ॥
在诸瑜伽者中是瑜伽者,是诸因之因;诸世界由他而生,也由他而不再复生。
13.48.30
सर्वभूतात्मभूतस्य हरस्यामिततेजसः ।
अष्टोत्तरसहस्रं तु नाम्नां शर्वस्य मे शृणु।
यच्छ्रुत्वा मनुजव्याघ्र सर्वान्कामानवाप्स्यसि ॥ १३.४८.३० ॥
请听我宣说湿婆(Śarva)的一千零八个名号,他是一切众生的自我,具有无量光辉的诃罗(Hara);啊,人中虎,听闻之后你将获得一切所愿。
13.48.31
स्थिरः स्थाणुः प्रभुर्भानुः प्रवरो वरदो वरः ।
सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः ॥ १३.४८.३१ ॥
坚定者、柱石、主宰、光明者、至上者、赐恩者、最好者、一切之我、遍知名者、一切、作一切者、有者。
13.48.32
जटी चर्मीं शिखी खङ्गी सर्वाङ्गः सर्वभावनः ।
हरश्च हरिणाक्षश्च सर्वभूतहरः प्रभुः ॥ १३.४८.३२ ॥
结发者、披皮者、有冠者、持剑者、全身者、生育一切者、哈罗、鹿眼者、夺取一切众生者、主宰。
13.48.33
प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः ।
श्मशानवासी भगवान्खचरो गोचरोऽर्दनः ॥ १३.४८.३३ ॥
行与止、受约束者、永恒者、坚固者、居于火葬场者、世尊、飞行空中者、可被感知者、折磨者。
13.48.34
अभिवाद्यो महाकर्मा तपस्वी भूतभावनः ।
उन्मत्तवेषप्रच्छन्नः सर्वलोकप्रजापतिः ॥ १३.४८.३४ ॥
当受礼敬者、大作为者、苦行者、众生之生者、隐于狂人形相者、一切世界的生主。
13.48.35
महारूपो महाकायो वृषरूपो महायशाः ।
महात्मा सर्वभूतात्मा विश्वरूपो महाहनुः ॥ १३.४८.३५ ॥
大形者、大身者、牛形者、大名者、大我者、一切众生之我、宇宙形相者、大颌者。
13.48.36
लोकपालोऽन्तर्हितात्मा प्रसादो हयगर्दभिः ।
पवित्रं च महांश्चैव नियमो नियमाश्रितः ॥ १३.४८.३६ ॥
世界守护者、隐藏自我者、恩惠、与马和驴同在者、净化者、伟大者,以及禁戒、依托于禁戒者。
13.48.37
सर्वकर्मा स्वयंभूत आदिरादिकरो निधिः ।
सहस्राक्षो विशालाक्षः सोमो नक्षत्रसाधकः ॥ १३.४८.३७ ॥
一切行动者、自生者、始、始之作者、宝藏、千眼者、广眼者、月神苏摩、成就星宿者。
13.48.38
चन्द्रः सूर्यः शनिः केतुर्ग्रहो ग्रहपतिर्वरः ।
अत्रिरत्र्या नमस्कर्ता मृगबाणार्पणोऽनघः ॥ १३.४८.३८ ॥
月、日、土星、彗星、行星、诸行星之主、最胜者、阿特利、与阿特丽共同受礼敬者、发射鹿箭者、无过者。
13.48.39
महातपा घोरतपा अदीनो दीनसाधकः ।
संवत्सरकरो मन्त्रः प्रमाणं परमं तपः ॥ १३.४८.३९ ॥
大苦行者、猛烈苦行者、无畏者、济困者、造岁者、咒语、至上的依据、至上的苦行。
13.48.40
योगी योज्यो महाबीजो महारेता महाबलः ।
सुवर्णरेताः सर्वज्ञः सुबीजो बीजवाहनः ॥ १३.४८.४० ॥
瑜伽士、可被结合者、大种子、大精液、大力、金精者、遍知者、善种子、持种子者。
13.48.41
दशबाहुस्त्वनिमिषो नीलकण्ठ उमापतिः ।
विश्वरूपः स्वयं श्रेष्ठो बलवीरो बलो गणः ॥ १३.४८.४१ ॥
十臂者、不瞬者、青颈者、乌摩之主、具一切形者、自身最胜者、力勇者、力量、群众。
13.48.42
गणकर्ता गणपतिर्दिग्वासाः काम एव च ।
मन्त्रवित्परमो मन्त्रः सर्वभावकरो हरः ॥ १३.४८.४२ ॥
众之造作者、众之主、以方为衣者、亦为欲、知咒者、至上的咒语、造作一切状态者、诃罗。
13.48.43
कमण्डलुधरो धन्वी बाणहस्तः कपालवान् ।
अशनी शतघ्नी खङ्गी पट्टिशी चायुधी महान् ॥ १३.४८.४३ ॥
手持水瓶者,弓箭手,手持箭矢,持颅骨者,持雷杵者,持百杀杖与剑者,持投枪者,伟大的,executed武装者。
13.48.44
स्रुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः ।
उष्णीषी च सुवक्त्रश्च उदग्रो विनतस्तथा ॥ १३.४८.४४ ॥
手持斯如伐勺者,相貌端正,光明及造光者,宝藏,戴头巾者,面容俊美者,崇高而谦卑者。
13.48.45
दीर्घश्च हरिकेशश्च सुतीर्थः कुष्ण एव च ।
शृगालरूपः सिद्धार्थो मुण्डः सर्वशुभंकरः ॥ १३.४८.४५ ॥
高大的,淡黄发的,有善渡口的,即焚烧者,具豺狼之形的,成就目标者,剃光头的,带来一切吉祥者。
13.48.46
अजश्च बहुरूपश्च गन्धधारी कपर्द्यपि ।
ऊर्ध्वरेता ऊर्ध्वलिङ्ग ऊर्ध्वशायी नभःस्थलः ॥ १३.४८.४६ ॥
不生者,多形者,持香者,亦为发髻者,上行精液者,上行阳具者,向上卧者,居于虚空者。
13.48.47
त्रिजटी चीरवासाश्च रुद्रः सेनापतिर्विभुः ।
अहश्चरो नक्तंचरस्तिग्ममन्युः सुवर्चसः ॥ १३.४८.४७ ॥
三绺发髻者,身穿树皮衣者,楼陀罗,军队统帅,遍在者,昼行者,夜行者,怒火猛烈者,光辉美好者。
13.48.48
गजहा दैत्यहा कालो लोकधाता गुणाकरः ।
सिंहशार्दूलरूपश्चि आर्द्रचर्माम्बरावृतः ॥ १३.४८.४८ ॥
杀象者,杀提迪亚者,时间,持世者,德性之宝藏,具狮虎之形者,以湿皮为衣者。
13.48.49
कालयोगी महानादः सर्वकामश्चतुष्पथः ।
निशाचरः प्रेतचारी भूतचारी महेश्वरः ॥ १३.४८.४९ ॥
时之瑜伽行者,大吼之主,满足一切欲望者,居于四岔路口者,夜行者,游荡于亡灵之间者,游行于众生之间者,大主宰。
13.48.50
बहुभूतो बहुधरः स्वर्भिनुरमितो गतिः ।
नृत्यप्रियो नित्यनर्तो नर्तकः सर्वलालसः ॥ १३.४८.५० ॥
乃众生之多者,众物之持者,破天界者,无量者,归宿,喜爱舞蹈者,永恒的舞者,舞者,贪求一切者。
13.48.51
घोरो महातपाः पाशो नित्यो गिरिरुहो नभः ।
सहस्रहस्तो विजयो व्यवसायो ह्यतन्द्रितः ॥ १३.४८.५१ ॥
可畏者,大苦行者,索套,永恒者,居于山上者,天空,千手者,胜利者,决意精进者,诚然不倦者。
13.48.52
अधर्षणो धर्षणात्मा यज्ञहा कामनाशकः ।
दक्षयागापहारी च सुसहो मध्यमस्तथा ॥ १३.४८.५२ ॥
不可侵犯者,以侵犯为本性者,杀害祭祀者,摧毁欲望者,夺取达刹祭祀者,极能忍耐者,中间者,亦复如是。
13.48.53
तेजोपहारी बलहा मुदितोऽर्थोऽजितो वरः ।
गम्भीरघोषो गम्भीरो गम्भीरबलवाहनः ॥ १३.४८.५३ ॥
夺取光辉者,摧毁力量者,欢喜者,目的,不可征服者,最上者,声音深远者,深邃者,力量与乘物深邃者。
13.48.54
न्यग्रोधरूपो न्यग्रोधो वृक्षकर्णस्थितिर्विभुः ।
सुतीक्ष्णदशनश्चैव महाकायो महाननः ॥ १३.४८.५४ ॥
具榕树之形者,榕树,居于树洞之中者,遍在者,獠牙极利者,亦是大身者,大面者。
13.48.55
विष्वक्सेनो हरिर्यज्ञः संयुगापीडवाहनः ।
तीक्ष्णतापश्च हर्यश्वः सहायः कर्मकालवित् ॥ १३.४८.५५ ॥
毗湿伐克塞那、诃利、祭祀、战斗中碾压之车者、炽热之热者、哈利亚什瓦、伴侣、知行动之时者。
13.48.56
विष्णुप्रसादितो यज्ञः समुद्रो वडवामुखः ।
हुताशनसहायश्च प्रशान्तात्मा हुताशनः ॥ १३.४८.५६ ॥
祭祀,为毗湿奴所喜;马口海;火之伴侣;心境寂静者;供物之火。
13.48.57
उग्रतेजा महातेजा जन्यो विजयकालवित् ।
ज्योतिषामयनं सिद्धिः सर्वविग्रह एव च ॥ १३.४८.५७ ॥
威光猛烈,大威光,战士,知胜利之时者,群光之归宿,成就,一切之形体。
13.48.58
शिंखी मुण्डी जटी ज्वाली मूर्तिजो मूर्धगो बली ।
वेणवी पणवी ताली खली कालकटंकटः ॥ १३.४८.५८ ॥
有冠者,剃头者,结发者,燃烧者,生于形体者,行于头顶者,有力者,吹笛者,击鼓者,奏钹者,曲者,时间之恶者。
13.48.59
नक्षत्रविग्रहमतिर्गुणबुद्धिर्लयो गमः ।
प्रजापतिर्विश्वबाहुर्विभागः सर्वगोमुखः ॥ १३.४८.५९ ॥
以星宿与形体为心者,以德性为智者,灭,行,生主,遍臂者,分,四面向者。
13.48.60
विमोचनः सुसरणो हिरण्यकवचोद्भवः ।
मेढ्रजो बलचारी च महीचारी स्रुतस्तथा ॥ १३.४८.६० ॥
解脱者,善护者,生于金甲者,生于生殖者,行于力者,行于地者,被勺所赞者。
13.48.61
सर्वतूर्यनिनादी च सर्वातोद्यपरिग्रहः ।
व्यालरूपो गुहावासी गुहो माली तरङ्गवित् ॥ १३.४८.६१ ॥
能发出一切乐器之声、执持一切乐器者,蛇形者,居于洞穴者,句诃,戴花环者,知波浪者。
13.48.62
त्रिदशस्त्रिकालधृक्कर्मसर्वबन्धविमोचनः ।
बन्धनस्त्वसुरेन्द्राणां युधि शत्रुविनाशनः ॥ १३.४८.६२ ॥
三十三天之一,持三时者,解脱一切业缚者,缚诸阿修罗王者,阵中摧灭敌人者。
13.48.63
साङ्ख्यप्रसादो दुर्वासाः सर्वसाधुनिषेवितः ।
प्रस्कन्दनो विभागज्ञो अतुल्यो यज्ञभागवित् ॥ १३.४८.६३ ॥
对数论者施恩者,杜尔婆娑,为一切善人所奉事者,普罗斯坎达那,知分别者,无可比拟者,知祭分者。
13.48.64
सर्ववासः सर्वचारी दुर्वासा वासवोऽमरः ।
हैमो हेमकरो यज्ञः सर्वंधारी धरोत्तमः ॥ १३.४८.६४ ॥
居于一切者,行于一切处者,杜尔婆娑,婆娑,不死者,金色者,作金者,祭祀,持一切者,最上持者。
13.48.65
लोहिताक्षो महाक्षश्च विजयाक्षो विशारदः ।
सङ्ग्रहो निग्रहः कर्ता सर्पचीरनिवासनः ॥ १३.४८.६५ ॥
赤眼者,大眼者,胜眼者,善巧者,摄聚者,制伏者,作者,以蛇皮为衣者。
13.48.66
मुख्योऽमुख्यश्च देहश्च काहलिः सर्वकामदः ।
सर्वकासप्रसादश्च सुबलो बलरूपधृत् ॥ १३.४८.६६ ॥
上者与非上者,身,号角者,满足一切欲者,于一切呼声中施恩者,大力者,持力与形者。
13.48.67
सर्वकामवरश्चैव सर्वदः सर्वतोमुखः ।
आकाशनिर्विरूपश्च निपाती ह्यवशः खगः ॥ १३.४८.६७ ॥
他是赐予一切所愿之恩者,施与一切者,面向一切方向;如虚空般无形,下落者,实是不受约束者,乃是飞鸟。
13.48.68
रौद्ररूपोंऽशुरादित्यो बहुरश्मिः सुवर्चसी ।
वसुवेगो महावेगो मनोवेगो निशाचरः ॥ १३.४८.६८ ॥
他形貌猛烈,是光线与太阳,光芒万丈,光辉灿烂;速度如诸婆苏,速度极大,速度如意念,是夜行者。
13.48.69
सर्ववासी श्रियावासी उपदेशकरोऽकरः ।
मुनिरात्मनिरालोकः सम्भग्नश्च सहस्रदः ॥ १३.४८.६९ ॥
他遍在一切,安住于吉祥,施以教导,是无为者,圣贤,自明者,破碎者,赐予千倍者。
13.48.70
पक्षी च पक्षरूपश्च अतिदीप्तो विशाम्पतिः ।
उन्मादो मदनः कामो ह्यश्वत्थोऽर्थकरो यशः ॥ १३.४८.७० ॥
他是飞鸟,具有羽翼之形,极其光辉,是众生之主;是狂乱、摩达那、迦摩;实为菩提树,赐予财富,也是名声。
13.48.71
वामदेवश्च वामश्च प्राग्दक्षिणश्च वामनः ।
सिद्धयोगी महर्षिश्च सिद्धार्थः सिद्धसाधकः ॥ १३.४८.७१ ॥
他是婆摩提婆与婆摩,东与南,侏儒婆摩那;成就的瑜伽行者,大仙,成就义者,成就圆满者的成就者。
13.48.72
भिक्षुश्च भिक्षुरूपश्च विपणो मृदुरव्ययः ।
महासेनो विशाखश्च षष्टिभागो गवांपतिः ॥ १३.४८.७२ ॥
他是比丘,具比丘之相,是商贾,柔和而不朽;是大军、毗舍迦,六十分之一,牛群之主。
13.48.73
वज्रहस्तश्च विष्कम्भी चमूस्तम्भन एव च ।
वृत्तावृत्तकरस्तालो मधुर्मधुकलोचनः ॥ १३.४८.७३ ॥
手持金刚杵者、柱支者、止军者、手转动者、多罗、蜜、蜜目者。
13.48.74
वाचस्पत्यो वाजसनो नित्यमाश्रमपूजितः ।
ब्रह्मचारी लोकचारी सर्वचारी विचारवित् ॥ १३.४८.७४ ॥
言语之主、婆阇那、常为修行处所敬奉者、梵行者、行于世界者、遍行者、知辨析者。
13.48.75
ईशान ईश्वरः कालो निशाचारी पिनाकवान् ।
निमित्तस्थो निमित्तं च नन्दिर्नन्दिकरो हरिः ॥ १३.४८.७५ ॥
自在者、主宰者、时间、夜行者、持毗那迦弓者、住于征兆者、征兆本身、难提、作喜者、诃利。
13.48.76
नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्धनः ।
भगहारी निहन्ता च कालो ब्रह्मा पितामहः ॥ १३.४८.७६ ॥
难提自在者、难提、难陀、增喜者、夺运者、杀者、时间、梵天、祖父。
13.48.77
चतुर्मुखो महालिङ्गश्चारुलिङ्गस्तथैव च ।
लिङ्गाध्यक्षः सुराध्यक्षो योगाध्यक्षो युगावहः ॥ १३.४८.७७ ॥
四面者、大林伽、美林伽、亦复如是、林伽监、诸天监、瑜伽监、带来时代者。
13.48.78
बीजाध्यक्षो बीजकर्ता अव्यात्माऽनुगतो बलः ।
इतिहासः सकल्पश्च गौतमोऽथ निशाकरः ॥ १३.४८.७८ ॥
种子监、种子主、未显者、自我、随行者、力、传说、有决心者、乔达摩,然后是月亮。
13.48.79
दम्भो ह्यदम्भो वैदम्भो वश्यो वशकरः कलिः ।
लोककर्ता पशुपतिर्महाकर्ता ह्यनौषधः ॥ १३.४८.७९ ॥
他是欺诈,也是无欺;是欺骗者,也是被欺骗者;是可被制服者,也是制服者,即迦利;是世界的创造者,众生之主,伟大的创造者;实在没有药石可治。
13.48.80
अक्षरं परमं ब्रह्मि बलवच्छक्र एव च ।
नीतिर्ह्यनीतिः शुद्धात्मा शुद्धो मान्यो गतागतः ॥ १३.४८.८० ॥
他是不灭者、至高的梵,是强大者、因陀罗;他是正道,也是非道;纯净其心,清净,值得尊敬,往来不息。
13.48.81
बहुप्रसादः सुस्वप्नो दर्पणोऽथ त्वभित्रजित् ।
वेदकारो मन्त्रकारो विद्वान्समरमर्दनः ॥ १३.४८.८१ ॥
极其仁慈,有吉梦,又是明镜,是战胜敌人者;是吠陀的作者,咒语的作者,博学者,是战场上摧毁敌人的人。
13.48.82
महामेघनिवासी च महाघोरो वशीकरः ।
अग्निज्वालो महाज्वालो अतिधूम्रो हुतो हिवः ॥ १३.४८.८२ ॥
居于大云之中,极其可怖,是降服者;是火焰,是大火焰,极为烟火,是所献之供和祭品。
13.48.83
वृषणः शंकरो नित्यं वर्चस्वी धूमकेतनः ।
नीलस्तथाङ्गलुब्धश्च शोभनो निरवग्रहः ॥ १३.४८.८३ ॥
公牛,吉祥的赐予者,恒常光耀,以烟为旗;深蓝色,爱恋肢体,光彩夺目,无所拘束。
13.48.84
स्वस्तिदः स्वस्तिभावश्च भागी भागकरो लघुः ।
उत्सङ्गश्च महाङ्गश्चि महागर्भपरायणः ॥ १३.४८.८४ ॥
赐予吉祥者,具吉祥之性,分享者与分配者,轻捷;怀抱,大肢体,专注于大胎藏。
13.48.85
कृष्णवर्णः सुवर्णश्च इन्द्रियं सर्वदेहिनाम् ।
महापादो महाहस्तो महाकायो महायशाः ॥ १३.४८.८५ ॥
他有黑色和金色,是一切有身众生的感官;足大、手大、身大,且有大名声。
13.48.86
महामूर्धा महाभात्रो महानेत्रो निशालयः ।
महान्तको महाकर्णो महोष्ठश्चि महाहनुः ॥ १३.४८.८६ ॥
大头、大腹、大眼,居于夜中,大终结者,大耳、大唇、大颌。
13.48.87
महानासो महाकम्बुर्महाग्रीवः श्मशानभाक् ।
महावक्षा महोरस्को ह्यन्तरात्मा मृगालयः ॥ १३.४८.८७ ॥
大鼻、大颈、大喉,分享火葬场者,大胸、宽胸;实为内在自我,并居于森林之中。
13.48.88
लम्बनो लम्बितोष्ठश्च महामायः पयोनिधिः ।
महादन्तो महादंष्ट्रो महाजिह्वो महामुखः ॥ १३.४८.८८ ॥
悬垂者,唇垂者,大幻力者,水之府(大海),大齿、大獠牙、大舌、大面。
13.48.89
महानखो महारोमा महाकेशो महाजटः ।
प्रसन्नश्च प्रसादश्च प्रत्ययो गिरिसाधनः ॥ १३.४८.८९ ॥
大爪、大毛、大发、大髻;喜悦、恩惠、信心,成就山中修法者。
13.48.90
स्नेहनोऽस्नेहनश्चैव अजितश्च महामुनिः ।
वृक्षाकारो वृक्षकेतुरनलो वायुवाहनः ॥ १३.४८.९० ॥
爱者与不爱者,实为无敌大仙;树形,树旗,火,以风为乘者。
13.48.91
गण्डली मेरुधामा च देवाधिपतिरेव च ।
अथर्वशीर्षः सामास्य ऋक्सहस्रामितेक्षणः ॥ १३.४८.९१ ॥
甘达里,居于须弥山,亦为诸神之主;以《阿闼婆》为首,以《娑摩》为体,具千颂与无量之眼。
13.48.92
यजुःपादभुजो गुह्यः प्रकाशो जङ्गमस्तथा ।
अमोघार्थः प्रसादश्च अभिगम्यः सुदर्शनः ॥ १३.४८.९२ ॥
以《夜柔》为足与臂;隐秘而显现,亦能动;其意从不落空;慈悯、可亲近、易见。
13.48.93
उपकारः प्रियः सर्वः कनकः काञ्चनच्छविः ।
नाभिर्नन्दिकरो भावः पुष्करस्थपतिः स्थिरः ॥ १३.४८.९३ ॥
施惠者、可爱者、一切;金色、如金光者;脐、喜乐的施予者、存在;建立莲池者、坚定者。
13.48.94
द्वादशस्त्रासनश्चाद्यो यज्ञो यज्ञसमाहितः ।
नक्तं कलिश्च कालश्च मकरः कालपूजितः ॥ १३.४८.९४ ॥
令十二阿提亚惊惧者,元始,祭祀,专注于祭祀;夜、争乱、时、摩伽罗;为时间所礼拜。
13.48.95
सगणो गणकारश्च भूतवाहनसारथिः ।
भस्मशयो भस्मगोप्ता भस्मभूतस्तरुर्गणः ॥ १३.४८.९५ ॥
与诸众俱,诸众之造者,载诸有情之御者;卧于灰中,守护灰者,化为灰者;树木之众。
13.48.96
लोकपालस्तथा लोको महात्मा सर्वपूजितः ।
शुक्लस्त्रिशुक्लः सम्पन्नः शुचिर्भूतनिषेवितः ॥ १३.४८.९६ ॥
世界之守护者,亦为世界,大我,为一切所礼拜;白者、三重白者、圆满、清净,为诸有情所奉事。
13.48.97
आश्रमस्थः क्रियादस्थो विश्वकर्ममतिर्वरः ।
विशालशाखस्ताम्रोष्ठो ह्यम्बुजालः सुनिश्चलः ॥ १३.४८.९७ ॥
居于修行林,安住于祭仪,心如毗首羯磨,最为殊胜;枝叶广大,唇色如铜赤,莲网覆身,极为坚定。
13.48.98
कपिलः कपिशः शुक्ल आयुश्चैवि परोऽपरः ।
गन्धर्वो ह्यदितिस्तार्क्ष्यः सुविज्ञेयः सुशारदः ॥ १३.४८.९८ ॥
迦毗罗、迦毗舍、白、寿命亦然;上与下;乾闼婆,确为阿底提,迦叶;易于知晓,极为智慧。
13.48.99
परश्वधायुधो देव अनुकारी सुबान्धवः ।
तुम्बवीणो महाक्रोध ऊर्ध्वरेता जलेशयः ॥ १३.४८.९९ ॥
以斧为武器的神,模仿者,善亲族;持吞布琵琶,大怒,上行精者,卧于水中。
13.48.100
उग्रो वंशकरो वंशो वंशनादो ह्यनिन्दितः ।
सर्वाङ्गरूपो मायावी सुहृदो ह्यनिलोऽनलः ॥ १३.४८.१०० ॥
猛烈者,造族者,竹,竹笛之声;确为无可非议者;形貌遍及肢体,幻术者,善友,确为风与火。
13.48.101
बन्धनो बन्धकर्ता च सुबन्धनविमोचनः ।
स यज्ञारिः स कामारिर्महादंष्ट्रो महायुधः ॥ १३.४८.१०१ ॥
束缚者,造缚者,解脱善缚者;他是祭祀之敌,他是欲望之敌,大牙者,大兵器者。
13.48.103
बहुधा निन्दितः शर्वः शङ्करः शङ्करोऽधनः ।
अहिर्बुध्न्योऽनिलाभश्च चेकितानो हविस्तथा।
अजैकपाच्च कापाली त्रिशङ्कुरजितः शिवः ॥ १३.४८.१०३ ॥
多方受讥,湿婆、商羯罗、商羯罗、无财者;深渊之蛇,如风之相,遮柯吉坦那,及祭品亦然;不生的单足者,持骷髅者,三曲,不胜者,吉祥天神湿婆。
13.48.104
धन्वन्तरिर्धूमकेतुः स्कन्दो वैश्रवणस्तथा ।
धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः ॥ १३.४८.१०४ ॥
陀那梵多利、烟幡、塞建陀与毗沙门;创造者、帝释与毗湿奴;密多罗、特瓦湿多、德鲁瓦与达罗。
13.48.105
प्रभावः सर्वगो वायुरर्यमा सविता रविः ।
उषङ्गुश्च विधाता च मांधाता भूतभावनः ॥ १३.४८.१०५ ॥
普罗婆婆、遍在的风神、阿里耶曼、萨维德利与罗维;乌尚古与毗陀陀;曼陀多,众生的造化者。
13.48.106
विभुर्वर्णविभावी च सर्वकामगुणावहः ।
पद्मनाभो महागर्भश्चन्द्रवक्त्रोऽनिलोऽनलः ॥ १३.४८.१०६ ॥
毗卜陀,彰显诸色并赐予一切所愿功德者;莲华脐、大胎、月面、风与火。
13.48.107
बलवांश्चोपशान्तश्च पुराणः पुण्यचञ्चुरी ।
कुरुकर्ता कुरुवासी कुरुभूतो गुणौषधः ॥ १३.४८.१०७ ॥
强者与寂静者;古老者,圣喙者;库鲁的创造者、库鲁的居住者、库鲁所化者;众德之药。
13.48.108
सर्वाशयो दर्भचारी सर्वेषां प्राणिनां पतिः ।
देवदेवः सुखासक्तः सदसत्सर्वरत्नवित् ॥ १३.४८.१०८ ॥
一切心之所住者,行于吉祥草间;一切有情之主;神中之神,乐着于福;通晓有无一切宝藏者。
13.48.109
कैलासगिरिवासी च हिमवद्भिरिसंश्रयः ।
कूलहारी कूलकर्ता बहुविद्यो बहुप्रदः ॥ १३.४८.१०९ ॥
居于凯拉斯山,依止喜马拉雅山;夺岸者、造岸者,多知者,多施者。
13.48.110
वणिजो वर्धकी वृक्षो बकुलश्चन्दनश्छदः ।
सारग्रीवो महाजत्रुरलोलश्च महौषधः ॥ १३.४८.११० ॥
他是商人、木匠、树木、拔枸树、檀香、遮蔽者、强颈者、大锁骨者、不动者,以及大药。
13.48.111
सिद्धार्थकारी सिद्धार्थश्छदो व्याकरणोत्तरः ।
सिंहनादः सिंहदंष्ट्रः सिंहगः सिंहवाहनः ॥ १३.४८.१११ ॥
他是成就目标者、目标已成就者、遮蔽者、超越语法者、狮吼、狮牙者、行如狮者,以及骑狮者。
13.48.112
प्रभावात्मा जगत्कालस्थालो लोकहितस्तरुः ।
सारङ्गो नवचक्राङ्गः केतुमाली सभावनः ॥ १३.४८.११२ ॥
他是以力量为本质者、世界与时间的容器、利益众生者、树、鹿、具新轮肢者、冠以旗幡者,以及使万物存在者。
13.48.113
भूतालयो भूतपतिरहोरात्रमनिन्दितः ॥ १३.४८.११३ ॥
他是众生的居所、众生之主、昼夜,以及无可非议者。
13.48.114
वाहिता सर्वभूतानां निलयश्च विभुर्भवः ।
अमोघः संयतो ह्यश्वो भोजनः प्राणधारणः ॥ १३.४८.११४ ॥
他是一切众生的承载者与居所、遍在者、存在之源、不空者、自制者、实为马、食者,以及维持生命之气者。
13.48.115
धृतिमान्मतिमान्दक्षः सत्कृतश्च युगाधिपः ।
गोपालिर्गोपतिर्ग्रामो गोचर्मवसनो हरिः। ॥ १३.४८.११५ ॥
他坚毅、明智、灵巧、受人尊敬,为诸时代之主;是牧人、牛主、村落、身着牛皮者,以及诃梨。
13.48.116
हिरण्यबाहुश्च तता गुहापालः प्रवेशिनाम् ।
प्रकृष्टारिर्महाहर्षो जितकामो जितेन्द्रियः ॥ १३.४८.११६ ॥
金臂者,又为入洞穴者的守护者,最卓越的敌人摧毁者,大喜悦者,征服欲望者,control诸根者。
13.48.117
गान्धारश्च सुवासस्च तपःसक्तो रतिर्नरः ।
महागीतो महानृत्यो ह्यप्सरोगणसेवितः ॥ १३.४८.११७ ॥
犍陀罗与苏婆沙,专注苦行,喜乐之人,大歌者,大舞者,实为诸阿普萨拉斯群所侍奉者。
13.48.118
महाकेतुर्महाधातुर्नैकसानुचरश्चलः ।
आवेदनीय आदेशः सर्वगन्धसुखावहः ॥ १३.४८.११८ ॥
大幡,大持者,有众多峰巅随从者,行动者,应被知晓者,发号施令者,以一切香气带来喜乐者。
13.48.119
तोरणस्तारणो वातः वरिधी पतिखेचरः ।
संयोगो वर्धनो वृद्धो अतिवृद्धो गुणाधिकः ॥ १३.४८.११९ ॥
门户,救度者,风,海洋之主,行于天空者,结合,增长者,古老者,至古者,德性超胜者。
13.48.120
नित्य आत्मसहायश्च देवासुरपतिः पतिः ।
युक्तश्च युक्तबाहुश्च देवो दिवि सुपर्वणः ॥ १३.४८.१२० ॥
常住者,自我之助伴,天神与阿修罗之主,主宰,相应者,有力臂者,天上的神,属于苏波尔范者。
13.48.121
आषाढश्च सुषांढश्च ध्रुवोऽथ हरिणो हरः ।
वपुरावर्तमानेभ्यो वसुश्रेष्ठो महापथः ॥ १३.४८.१२१ ॥
阿沙陀与苏沙陀,又有坚固者德鲁婆,如鹿者,夺取者,身,诸转动者中之婆苏最上者,大道。
13.48.122
शिरोहारी विमर्शश्च सर्वलक्षणलक्षितः ।
अक्षश्च रथयोगी च सर्वयोगी महाबलः ॥ १३.४८.१२२ ॥
首饰者、思辨者、具足一切吉祥相者、轴、战车瑜伽士与一切瑜伽士,大力者。
13.48.123
समाम्नायोऽसमाम्नायस्तीर्थदेवो महारथः ।
निर्जीवो जीवनो मन्त्रः शुभाक्षो बहुकर्कशः ॥ १३.४८.१२३ ॥
传承者与非传承者,圣渡之神,大车夫,无生者与生命赋予者,神咒,吉目者,极为严厉者。
13.48.124
रत्नप्रभूतो रत्नाङ्गो महार्णवनिपानवित् ।
मूलं विशालो ह्यमृतो व्यक्ताव्यक्तस्तपोनिधिः ॥ १३.४८.१२४ ॥
多宝者,身如宝者,通晓大海深处者,根本,广大,实为不死者,显与隐者,苦行的宝库。
13.48.125
आरोहणोऽधिरोहश्च शीलधारी महायशाः ।
सेनाकल्पो महाकल्पो योगो युगकरो हरिः ॥ १३.४८.१२५ ॥
升起者与至高升起者,持德者,大名者,布列军阵者,大劫,瑜伽,造时代者,哈里。
13.48.126
युगरूपो महारूपो महानागहनो वधः ।
न्यायनिर्वपणः पादः पण्डितो ह्यचलोपमः ॥ १३.४८.१२६ ॥
以时代为形者,大形者,杀大蛇者,毁灭,施行正义者,一分,博学者,实如不动之山。
13.48.127
बहुमालो महामालः शशी हरसुलोचनः ।
विस्तारो लवणः कूपस्त्रियुगः सफलोदयः ॥ १३.४८.१२७ ॥
多花环者,大花环者,月亮,哈拉之美目者,广大,盐,井,三时代者,升起而有果者。
13.48.128
त्रिलोचनो विषष्णाङ्गो मणिविद्धो जटाधरः ।
बिन्दुर्विसर्गः सुमुखः शरः सर्वायुधः सहः ॥ १३.४८.१२८ ॥
三眼者,肢体涂毒者,嵌宝者,持结发者,滴,流溢,美面者,箭,持一切武器者,忍耐者。
13.48.129
निवेदनः सुखाजातः सुगन्धारो महाधनुः ।
गन्धपाली च भगवानुत्थानः सर्वकर्मणाम् ॥ १३.४८.१२९ ॥
宣告者,生于欢喜者,香气纯美者,大弓者,香气守护者,世尊,一切行动的兴起者。
13.48.130
मन्थानो बहुलो वायुः सकलः सर्वलोचनः ।
तलस्तालः करस्थाली ऊर्ध्वसंहननो महान् ॥ १३.४८.१३० ॥
搅拌者,丰盛者,风,全体者,全眼者,掌,棕榈,手掌之器,身形高昂者,大者。
13.48.131
धत्रं सुच्छत्रो विख्यातो लोकः सर्वाश्रयः क्रमः ।
मुण्डो विरूपो विकृतो दण्डी कुण्डी विकुर्वणः। ॥ १३.४८.१३१ ॥
持者,善华盖者,著名者,世界,一切依止者,步,剃头者,丑陋者,变形者,持杖者,持环者,变化者。
13.48.132
हर्यक्षः ककुभो वज्रो शतजिह्वः सहस्रपात् ।
सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः ॥ १३.४८.१३२ ॥
棕眼者,顶峰,金刚杵,百舌者,千足者,千头者,诸天之主,由一切神组成者,上师。
13.48.133
सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वलोककृत् ।
पवित्रं त्रिककुन्मन्त्रः कनिष्ठः कृष्णपिङ्गलः। ॥ १३.४८.१३३ ॥
千臂者,具全身者,依止者,造一切世界者,清净者,三峰者,咒,最年幼者,黑中带黄者。
13.48.134
ब्रह्मदण्डविनिर्माता शतघ्नीपाशशक्तिमान् ।
पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः ॥ १३.४८.१३४ ॥
梵杖的创造者,持百杀、套索与长矛者;莲花胎、大胎、梵胎,生于水中。
13.48.135
गभस्तिर्ब्रह्मकृद्ब्रह्मी ब्रह्मविद्ब्राह्मणो गतिः ।
अनन्तरुपो नैकात्मा तिग्मतेजाः स्वयंभुवः ॥ १३.४८.१३५ ॥
持光者,梵的创造者,属梵者,知梵者,婆罗门,归趣;形相无尽,多我,光芒锐利,自生者。
13.48.136
ऊर्ध्वगात्मा पशुपतिर्वातरंहा मनोजवः ।
चन्दनी पद्मनालाग्रः सुरभ्युत्तरणो नरः ॥ १३.४८.१३६ ॥
上升之我,众生之主,疾如风,速如意;涂檀香,居莲茎之端,越过香气者,人。
13.48.137
कर्णिकारमहास्रग्वी नीलमौलिः पिनाकधृत् ।
उमापतिरुमाकान्तो जाह्नवीधृगुमाधवः ॥ १३.४८.१३७ ॥
佩戴大迦尼迦罗花鬘,青冠,持毗那迦弓,乌玛之主,乌玛之爱,持恒河者,乌玛的摩陀婆。
13.48.138
वरो वराहो वरदो वरेण्यः सुमाहास्वनः ।
महाप्रसादो दमनः शत्रुहा श्वेतपिङ्गलः ॥ १३.४८.१३८ ॥
尊贵者,野猪,赐恩者,最值得选择者,声音宏大而美妙,大恩者,调伏者,杀敌者,白而带黄褐色。
13.48.139
पीतात्मा परमात्मा च प्रयतात्मा प्रधानधृत् ।
सर्वपार्श्वमुखस्त्र्यक्षो धर्मसाधारणो वरः ॥ १३.४८.१३९ ॥
金色之我,至上之我,自制之我,持原理者,面向四方者,三目者,与法共通者,尊贵者。
13.48.140
चराचरात्मा सूक्ष्मात्मा अमृतो गोवृषेश्वरः ।
साध्यर्षिर्वसुरादित्यो विवस्वान्सविताऽमृतः
व्यासः सर्गः सुसंक्षेपो विस्तरः पर्ययो नरः ।
ऋतु संवत्सरो मासः पक्षः सङ्ख्यासमापनः ॥ १३.४८.१४० ॥
他是动与不动者之我,微妙之我,不死者,牛与公牛之主。他是萨特亚的仙人、婆苏、阿底提亚、毗婆伽、娑维特利、不死者;是毗耶娑、创造、完美收摄、广延、循环、原人;是季节、年、月、半月以及计数的终结。
13.48.142
कला काष्ठा लवा मात्रा मुहूर्ताहःक्षपाः क्षणाः ।
विश्वक्षेत्रं प्रजाबीजं लिङ्गमाद्यस्तु निर्गमः ॥ १३.४८.१४२ ॥
时(kalā)、时分(kāṣṭhā)、刹那(lava)、度(mātrā)、牟呼栗多、昼夜、瞬间(kṣaṇa);宇宙之田,众生之种,标记,原始者与出离。
13.48.143
सदसद्व्यक्तमव्यक्तं पिता माता पितामहः ।
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ॥ १३.४८.१४३ ॥
有与无,显与隐;父、母、祖父;天界之门、众生之门、解脱之门,以及三界。
13.48.144
निर्वाणं ह्लादनश्चैव ब्रह्मलोक परा गतिः ।
देवासुरविनिर्माता देवासुरपरायणः ॥ १३.४८.१४४ ॥
涅槃与喜悦,梵界,至上之归宿;创造诸天与阿修罗者,诸天与阿修罗的依归。
13.48.145
देवासुरगुरुर्देवो देवासुरनमस्कृतः ।
देवासुरमहामात्रो देवासुगणाश्रयः ॥ १३.४८.१४५ ॥
诸天与阿修罗的导师,天神;为诸天与阿修罗所礼敬;诸天与阿修罗的大臣;诸天与阿修罗众的依归。
13.48.146
देवासुरगणाध्यक्षो देवासुरगणाग्रणीः ।
देवातिदेवो देवर्षिर्देवासुरवरप्रदः ॥ १३.४८.१४६ ॥
诸天与阿修罗众的总管;诸天与阿修罗众的首领;超越诸天的天神;天中之仙;赐予诸天与阿修罗恩惠者。
13.48.147
देवासुरेश्वरो विश्वो देवासुरमहेश्वरः ।
सर्वदेवमयोचिन्त्यो देवतात्माऽत्मसम्भवः ॥ १३.४८.१४७ ॥
诸天与阿修罗之主,遍在者,诸天与阿修罗之大主;由诸天所成,不可思议,诸天之自我,自生者。
13.48.148
उद्भित्त्रिविक्रमो वैद्यो विरजो नीरजोऽमरः ।
ईड्यो हस्तीश्वरो व्याघ्रो देवसिंहो नरर्षभः ॥ १३.४८.१४८ ॥
破土者,三步者,医者,无垢者,离尘者,不死者;值得赞颂者,象王,虎,诸天中的狮子,人中之牛。
13.48.149
विबुधोऽग्रवरः सूक्ष्मः सर्वदेवस्तपोमयः ।
सुयुक्तः शोभनो वज्री प्रासानां प्रभवोऽव्ययः ॥ १३.४८.१४९ ॥
觉者,最胜者,微妙者,一切神,由苦行所成;善合者,光辉者,持金刚者,矛之源,不坏者。
13.48.150
गुहः कान्तो निजः सर्गः पवित्रं सर्वपावनः ।
शृङ्गी शृङ्गप्रियो बभ्रू राजराजो निरामयः ॥ १३.४८.१५० ॥
隐者,可爱者,自有者,创造,净化之物,一切的净化者;有角者,喜山峰者,赤褐者,王中之王,无病者。
13.48.151
अभिरामः सुरगणो विरामः सर्वसाधः ।
ललाटाक्षो विश्वदेवो हरिणो ब्रह्मवर्चसः ॥ १३.४८.१५१ ॥
可乐者,诸天之众,寂止,成就一切者;额上有眼者,一切神,如鹿般赤褐者,以梵之光辉而耀者。
13.48.152
स्थावराणां पतिश्चैव नियमन्द्रियवर्धनः ।
सिद्धार्थः सिद्धभूतार्थोऽचिन्त्यः सत्यव्रतः शुचिः ॥ १३.४८.१५२ ॥
不动者之主,增长戒律与诸根者;成就其义,以已成之众生为义,不可思议,誓言真实,清净。
13.48.153
व्रताधिपः परं ब्रह्म भक्तानां परमा गतिः ।
विमुक्तो मुक्ततेजाश्च श्रीमाञ्श्रीवर्धनो जगत् ॥ १३.४८.१५३ ॥
誓愿之主,至上梵,信徒的最高归宿;已解脱、光明已放出者,吉祥之主,增益世界吉祥者。
13.48.154
यथा प्रधानं भगवानिति भक्त्या स्तुतो मया ।
यन्न ब्रह्मादयो देवा विदुस्तत्त्वेन नर्षयः।
स्तोतव्यमर्च्यं वन्द्यं च कः स्तोष्यति जगत्पतिम् ॥ १३.४८.१५४ ॥
如世尊乃是原初之本,我以虔信如是赞颂他;然梵天等诸神与仙人,也并不真正知晓他。那应当赞颂、礼拜、敬礼的世界之主,谁能赞颂?
13.48.155
भक्तिं त्वेवं पुरस्कृत्य मया यज्ञपतिर्विभुः ।
ततोऽभ्यनुज्ञां सम्प्राप्य स्तुतो मतिमतां वरः ॥ १३.४८.१५५ ॥
如是以虔信为先,我赞颂了祭祀之主、遍在者;随后得其允许,智者中最殊胜者也赞颂了他。
13.48.156
शिवमेभिः स्तुवन्देवं नामभिः पुष्टिवर्धनैः ।
नित्ययुक्तः शुचिर्भक्तः प्राप्नोत्यात्मानमात्मना ॥ १३.४८.१५६ ॥
以此增益福祉之名颂赞吉祥之神者,恒常专注、清净而虔诚,便以自己而证得自我。
13.48.157
एतद्धि परमं ब्रह्म परं ब्रह्माधिगच्छति ॥ १३.४८.१५७ ॥
此即至上梵;由此便得至上梵。
13.48.158
ऋषयश्चैव देवाश्च स्तुवन्त्येतेन तत्परम् ॥ १३.४८.१५८ ॥
诸仙与诸神也以此赞颂那至上者。
13.48.159
स्तूयमानो महादेवस्तष्यते नियतात्मभिः ।
भक्तानुकम्पी भगवानात्मसंस्थाकरो विभुः ॥ १३.४८.१५९ ॥
被自制之人赞颂时,大天神便欢喜;慈悲于信徒、使众生安住于自我的遍在世尊,便欢喜。
13.48.160
तथैव च मनुष्येषु ये मनुष्याः प्रधानतः ।
आस्तिकाः श्रद्धधानाश्च बहुभिर्जन्मभिः स्तवैः ॥ १३.४८.१६० ॥
同样,人类中主要是信奉圣典、充满信心的人,经过多次轮回,借由赞颂(而趋向于他)。
13.48.161
भक्त्या ह्यनन्यमीशानं परं देवं सनातनम् ।
कर्मणा मनसा वाचा भावेनामिततेजसः ॥ १३.४८.१६१ ॥
唯以专一的虔信,方能证得那自在者、至上永恒之神、无量光明者——以行为、意念、言语与内心之情。
13.48.162
शयाना जाग्रमाणाश्च व्रजन्नुपविशंस्तथा ।
उन्मिषन्निमिषंश्चैव चिन्तयन्तः पुनःपनः ॥ १३.४८.१६२ ॥
卧时、醒时、行时、坐时,如此开眼闭眼之际,反复思念他。
13.48.163
शृण्वन्तः श्रावयन्तश्च कथयन्तश्च ते भवम् ।
स्तुवन्तः स्तूयामानाश्च तुष्यन्ति च रमन्ति च ॥ १३.४८.१६३ ॥
听闻、使人听闻、讲说薄婆(湿婆);赞颂与被赞颂,他们欢喜,也得安乐。
13.48.164
जन्मकोटिसहस्रेषु नानासंसारयोनिषु ।
जन्तोर्विगतपापस्य भवे भक्तिः प्रजायते ॥ १३.४८.१६४ ॥
经过千万亿次的轮回,历经轮回中的种种胎生之道,若众生罪业已消,对薄婆的虔信便会生起。
13.48.165
उत्पन्ना च भवे भक्तिरनत्या सर्वभावतः ।
भाविनः कारणे चास्य सर्वयुक्तस्य सर्वथा ॥ १३.४८.१६५ ॥
对婆伐所生的虔敬,在一切存在状态中都是专一不二的;对那作为未来之因、以一切方式与万有相连者亦然。
13.48.166
एतद्देवेषु दुष्प्रापं मनुष्येषु न लभ्तते ।
निर्विघ्रा निश्चला रुद्रे भक्तिरव्यभिचारिणी ॥ १३.४८.१६६ ॥
此事即便在诸神之中也难以获得,在人类之中更不可得:对楼陀罗无阻、坚定、不二的虔敬。
13.48.167
तस्यैव च प्रसादेन भक्तिरुत्पद्यते नृणाम् ।
येन यान्ति परां सिद्धिं तद्भागवतचेतसः ॥ १३.४८.१६७ ॥
唯因他的恩典,人们心中才生起虔敬;凭此,心意归向世尊者便达到至上成就。
13.48.168
ये सर्वभावानुगताः प्रपद्यन्ते महेश्वरम् ।
प्रपन्नवत्सलो देवः संसारात्तान्समुद्धरेत् ॥ १३.४८.१६८ ॥
凡以一切方式追随他、皈依大自在天者,那慈爱皈依者的神祇,必将他们全然拔出轮回。
13.48.169
एवमन्ये विकुर्वन्ति देवाः संसारमोचनम् ।
मनुष्याणामृते देवं नान्या शक्तिस्तपोबलम्
इति तेनेन्द्रकल्पेन भगवान्सदसत्पतिः ।
कृत्तिवासाः स्तुतः कृष्ण तण्डिना शुभबुद्धिना ॥ १३.४८.१६९ ॥
如此,其他神祇扭曲了脱离轮回的解脱;对于世人而言,除那位神祇之外,并无别的力量与苦行之力。因此,与因陀罗相等、心地善良的檀底,以善念赞颂了那位有与无的主宰、身披兽皮的世尊,哦,黑天。
13.48.171
स्तवमेतं भगवतो ब्रह्मा स्वयमधारयत् ।
गीयते च स बुद्ध्येत ब्रह्म शंकरसन्निधौ ॥ १३.४८.१७१ ॥
梵天亲自持守此赞歌以颂世尊;它在湿婆的面前被歌唱——愿他领会梵。
13.48.172
इदं पुण्यं पवित्रं च सर्वदा पापनाशनम् ।
योगदं मोक्षदं चैव स्वर्गदं तोषदं तथा ॥ १३.४८.१७२ ॥
此颂有功德且清净,常能消除罪业。它赐予瑜伽、解脱、天界与满足。
13.48.173
एवमेतत्पठन्ते य एकभक्त्या तु शङ्करम् ।
या गतिः साङ्ख्ययोगानां व्रजन्त्येतां गतिं तदा ॥ १३.४८.१७३ ॥
若有人以专一之心如此诵念湿婆(Śaṅkara)的这首颂,则他们将得到数论与瑜伽行者所达到的那种归宿。
13.48.174
स्तवमेतं प्रयत्नेन सदा रुद्रस्य सन्निधौ ।
अब्धमेकं चरेद्भक्तः प्राप्नुयादीप्सितं फलम् ॥ १३.४८.१७४ ॥
信徒应在楼陀罗(Rudra)之前,常以精进之心诵此颂满一年;他将获得所求的果报。
13.48.175
एतद्रहस्यं परमं ब्रह्मणो हृदि संस्थितम् ।
ब्रह्मा प्रोवाच शक्राय शक्रः प्रोवाच मृत्यवे ॥ १३.४८.१७५ ॥
此至高秘密原存于梵天之心。梵天告诉帝释天,帝释天又告诉死神。
13.48.176
मृत्युः प्रोवाच रुद्रेभ्यो रुद्रेभ्यस्तण्डिमागमत् ।
महता तपसा प्राप्तस्तण्डिना ब्रह्मसद्मानि ॥ १३.४८.१७६ ॥
死神告诉楼陀罗们,此秘密从楼陀罗们传至丹迪(Taṇḍi)。丹迪以大苦行,得以到达梵天的住所。
13.48.177
तण्डिः प्रोवाच शुक्राय गौतमाय च भार्गवः ।
वैवस्वताय मनवे गौतमः प्राह माधव ॥ १३.४८.१७७ ॥
丹迪告诉了输羯罗(Śukra)和乔答摩(Gautama),婆利古后裔亦然;乔答摩又告诉了毗婆娑特之子摩奴。哦,摩陀婆!
13.48.178
नारायणाय साध्याय समाधिष्ठाय धीमते ।
यमाय प्राह भगवान्साध्यो नारायणोच्युतः ॥ १३.४८.१७८ ॥
对那罗延、萨adhya诸神、住于三昧的智者(他说)。对阎摩,尊贵的萨adhya,不朽的那罗延说道。
13.48.179
नाचिकेताय भगवानाह वैवस्वतो यमः ।
मार्कण्डेयाय वार्ष्णेय नाचिकेतोऽभ्यभाषत ॥ १३.४८.१७९ ॥
对那基刻多,尊贵的毗婆娑特之子阎摩说道。对摩根德耶,哦,婆利什尼之裔,那基刻多开口说道。
13.48.180
मार्कण्डेयान्मय प्राप्तो नियमेन जनार्दन ।
तवाप्यहममित्रघ्न स्तवं दद्यां ह्यविश्रुतम्। ॥ १३.४८.१८० ॥
我以持戒之功从摩根德耶处获得此法。哦,遣送者(生主)、摧敌者,我也将把这不为人知的赞歌交给你。
13.48.181
स्वर्ग्यमारोग्यमायुष्यं धन्यं वेदेनि संमितम् ।
नास्य विघ्रं विकुर्वन्ति दानवा यक्षराक्षसाः ॥ १३.४८.१८१ ॥
它通往天界,赐予健康、长寿与财富,符合吠陀。檀那婆、夜叉与罗刹不会对其施加阻碍。
13.48.182
पिशाचा यातुधाना वा गुह्यका भुजगा अपि ।
यः पठेत शुचिः पार्थ ब्रह्मचारी जितेन्द्रियः।
अभग्रयोगो वर्षं तु सोऽश्वमेधफलं लभेत् ॥ १३.४८.१८२ ॥
皮舍遮、食人鬼、古耶迦,甚至蛇类,都不伤害以纯净、梵行、调伏诸根而诵读之人。哦,普利塔之子,一年中以不断的修持诵读者,可获得马祀之果。