摩诃婆罗多 · 章 13.60
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.60.1
किमाहुर्भरतश्रेष्ठ पात्रं विप्राः सनातनम् ।
ब्राह्मणं लिङ्गिनं चैव ब्राह्मणं वाऽप्यलिङ्गिनम् ॥ १३.६०.१ ॥
婆罗多之最,婆罗门们称谁为永恒的合适受施者——佩戴苦行标记的婆罗门,还是不佩戴标记的婆罗门?
13.60.2
स्ववृत्तिमभिपन्नाय लिङ्गिने चेतराय च ।
देयमाहुर्महाराज उभावेतौ तपस्विनौ ॥ १३.६०.२ ॥
据说应当布施给因失去生计而陷入困境的人、佩戴标记的人,以及另一种人;大王,这两者都是苦行者。
13.60.3
श्रद्धया परयाऽपूतो यः प्रयच्छेद्द्विजातये ।
हव्यं कव्यं तथा दानं को दोषः स्यात्पितामह ॥ १३.६०.३ ॥
若人以至上的信心而清净,向再生者供奉天神之供、祖先之供及布施,祖父啊,这会有什么过失呢?
13.60.4
श्रद्धापूतो नरस्तात दुर्दान्तोऽपि न संशयः ।
पूतो भवति सर्वत्र किमुत त्वं महाद्युते ॥ १३.६०.४ ॥
孩子,以信心清净的人,即使性情暴烈,毫无疑问也会处处清净;大光明者啊,何况是你。
13.60.5
न ब्राह्मणं परिक्षेत दैवेषु सततं नरः ।
कव्यप्रदाने तु बुधाः परीक्ष्यं ब्राह्मणं विदुः ॥ १३.६०.५ ॥
人在神事中不应时常考察婆罗门;但在祖先供奉中,智者知道应当考察婆罗门。
13.60.6
न ब्राह्मणः साधयते हव्यं दैवात्प्रसिद्ध्यति ।
देवप्रसादादिज्यन्ते यजमानैर्न संशयः ॥ १३.६०.६ ॥
婆罗门并不成就供物;供物是由天神成就的。依靠诸神的恩典,施祭者得以举行祭祀——对此毫无疑问。
13.60.7
ब्राह्मणान्भरतश्रेष्ठ सततं ब्रह्मवादिनः ।
मार्कण्डेयः पुरा प्राह इति लोकेषु बुद्धिमान्।
ब्राह्मणाः पात्रभूताश्च शुद्धा नैवं पितृष्विह ॥ १३.६०.७ ॥
婆罗多之最啊,婆罗门常为梵言的宣说者,昔日智者摩根德耶在诸世界中如此宣示。婆罗门是可受供的器皿,且清净;至于祖先,此处情况并非如此。
13.60.8
अपर्वोऽप्यथवा विद्वान्सम्बन्धी वा यथा भवेत् ।
तपस्वी यज्ञशीलो वा कथं पात्रं भवेत्तु सः ॥ १३.६०.८ ॥
即使他不通晓吠陀,或博学,或是亲属,或是苦行者,或是奉行祭祀者,他又如何能成为可受供的器皿呢?
13.60.9
कुलीनः कर्मकृद्वैद्यस्तथैवाप्यनृशंस्यवान् ।
ह्रीमानृजुः सत्यवादी पात्रं पूर्वे च ये त्रयः ॥ १३.६०.९ ॥
出身高贵者、履行职责者、医者,以及同样慈悲、知羞、正直、诚实者——前面所说的这三类人,都是可受供的器皿。
13.60.10
तत्रेमं शृणु मे पार्थ चतुर्णां तेजसां मतम् ।
पृथिव्याः काश्यपस्याग्नेर्मार्कण्डेयस्य चैव हि ॥ १३.६०.१० ॥
阿周那啊,关于此事,请听我讲四种光明的见解:大地、迦叶波、火神与摩根德耶的见解。
13.60.11
पृथिव्युवाच ।
यथा महार्णवे क्षिप्तः क्षिप्रं नेष्टुर्विनश्यति।
तथा दुश्चरितं सर्वं त्रयीनित्ये निमज्जति ॥ १३.६०.११ ॥
大地说:如同投入大海的祭品很快便消失,一切恶行都沉没于常在的三明(吠陀)之中。
13.60.12
सर्वे च वेदाः सह षङ्भिरङ्गैः ।
साङ्ख्यं पुराणं च कुले च जन्म।
नैतानि सर्वाणि गतिर्भवन्ति ।
शीलव्यपेतस्य नृप द्विजस्य ॥ १३.६०.१२ ॥
一切吠陀及其六支、数论、往世书,以及高贵家族的出生——这些都不能成为缺乏良好品行的再生族之归宿,啊,国王。
13.60.13
अधीयानः पण्डितम्मन्यमानो ।
यो विद्यया हन्ति यशः परेषाम्।
ब्रह्मन्स तेन लभते ब्रह्मवध्यां ।
लोकास्तस्य ह्यन्तवन्तो भवन्ति ॥ १३.६०.१३ ॥
学习之后自认博学,并以其学识毁坏他人名誉的人——婆罗门啊,他因此招致杀害婆罗门之罪,他的诸世界也变得有终。
13.60.14
अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ।
नाभिजानामि यज्ञं तु सत्यस्यार्धमवाप्नुयात् ॥ १३.६०.१४ ॥
千次马祭与真实被放在天平上称量;我不知道祭祀,但人可以获得真实之果的一半。
13.60.15
इत्युक्त्वा ते जग्मुराशु चत्वारोऽमिततेजसः ।
पृथिवी काश्यपोऽग्निश्च प्रकृष्टायुश्च भार्गवः ॥ १३.६०.१५ ॥
说完这些,这四位光辉无量者迅速离去——大地、迦叶波、火神,以及婆迦婆族的普里克利什塔尤。
13.60.16
यदि ते ब्राह्मणा लोके व्रतिनो भुञ्जते हविः ।
दत्तं ब्राह्मणकामाय कथं तत्सुकृतं भवेत् ॥ १३.६०.१६ ॥
若世间持戒的婆罗门食用祭品,那么为婆罗门的欲求而施予之物,又怎能成为善业呢?
13.60.17
आदिष्टिनो ये राजेन्द्र ब्राह्मणा वेदपारगाः ।
भुञ्जते ब्रह्मकामाय व्रतलुप्ता भवन्ति ते ॥ १३.६०.१७ ॥
啊,诸王之主,那些受命、精通吠陀的婆罗门,若为求梵而进食,便会失去其誓戒。
13.60.18
अनेकान्तं बहुद्वारं धर्ममाहुर्मनीषिणः ।
किं निमित्तं भवेदत्र तन्मे ब्रूहि पितामह ॥ १३.६०.१८ ॥
智者称法为不一端、多门。其原因是什么?祖父,请告诉我。
13.60.19
अहिंसा सत्यमकोध आनृशंस्यं दमस्तथा ।
आर्जवं चैव राजेन्द्र निश्चितं धर्मलक्षणम् ॥ १३.६०.१९ ॥
不杀生、真实、无怒、慈悲、克制与正直,哦,王中之王,这些确定无疑是法的标志。
13.60.20
ये तु धर्मं प्रशंसन्तश्चरन्ति पृथिवीमिमाम् ।
अनाचरन्तस्तद्धर्म सङ्करेऽभिरता प्रभो ॥ १३.६०.२० ॥
然而,那些赞美法却不奉行此法、沉溺于混乱之中,在这大地上行走的人,哦,主上——
13.60.21
तेभ्यो हिरण्यं रत्नं वा गामश्वं वा ददाति यः ।
दशवर्षाणि विष्ठां स भुङ्क्ते निरयमास्थितः ॥ १३.६०.२१ ॥
凡向他们施予黄金、宝石、牛或马者,将食粪十年,住于地狱。
13.60.22
धनेन पुल्कसानां च तथैवान्तेवसायिनाम् ।
कृतं कर्माकृतं वाऽपि रागमोहेन जल्पताम् ॥ १३.६०.२२ ॥
以财物施予补尔卡萨与安特瓦辛,无论所作之业是做了还是没做,以及那些因贪爱与迷妄而妄言之人——
13.60.23
वैश्वदेवं च ये मूढा विप्राय ब्रह्मचारिणे ।
न ददन्तीह राजेन्द्र ते लोकान्भुञ्जतेऽशुभान् ॥ १३.६०.२३ ॥
那些愚痴之人,在此不向婆罗门与梵行者供奉毗湿伐提婆之食,哦,王中之王,他们将享受不吉的世界。
13.60.24
किं परं ब्रह्मचर्यं च किं परं धर्मलक्षणम् ।
किञ्च श्रेष्ठतमं शौचं तन्मे ब्रूहि पितामह ॥ १३.६०.२४ ॥
什么是最高的梵行?什么是法的最高特征?什么是最殊胜的清净?祖父,请告诉我。
13.60.25
ब्रह्मचर्यं परं तात मधुमांसस्य वर्जनम् ।
मर्यादायां स्थितो धर्मः शमः शौचस्य लक्षणम् ॥ १३.६०.२५ ॥
梵行是最高的,孩子,远离蜂蜜与肉食也是如此。安住于规范之内即是法;寂静是清净的特征。
13.60.26
कस्मिन्काले चरेद्धर्म कस्मिन्कालेऽर्थमाचरेत् ।
कस्मिन्काले सुखी च स्यात्तन्मे ब्रूहि पितामह ॥ १३.६०.२६ ॥
何时应当修行法,何时应当求取财富,何时人才会快乐?祖父,请告诉我。
13.60.27
काल्यमर्थं निषेवेत ततो धर्ममनन्तरम् ।
पश्चात्कामं निषेवेत न च गच्छेत्प्रसङ्गिताम् ॥ १३.६०.२७ ॥
清晨应先务实求利,其次行法,之后才是享乐;不可陷入执着。
13.60.28
ब्राह्मणांश्चैव मन्येत गुरूंश्चाप्यभिपूजयेत् ।
सर्वभूतानुलोमश्च मृदुशीलः प्रियंवदः ॥ १३.६०.२८ ॥
应尊敬婆罗门,也应好好供奉师长;对一切众生和顺,性情柔和,言语悦人。
13.60.29
अधिकारे यदनृतं यच्च राजसु पैशुनम् ।
गुरोश्चालीकनिर्बन्धः समानि ब्रह्महत्यया ॥ १३.६०.२९ ॥
在职权之事上撒谎,向国王进谗言,在师长面前固执于谎言——这些都等同于杀害婆罗门。
13.60.30
प्रहरेन्न नरेन्द्रेषु न हन्याद्गां तथैव च ।
भ्रूणहत्यासमं चैतदुभयं ये निषेधते ॥ १३.६०.३० ॥
不应打击国王,也不应杀牛;禁止这两者的人,便远离与杀害胎儿相等的罪过。
13.60.31
नाग्निं परित्यजेज्जातु न च वेदान्परित्यजेत् ।
न च ब्राह्मणमाक्रोशेत्समं तद्ब्रह्महत्यया ॥ १३.६०.३१ ॥
永不可舍弃圣火,不可背弃吠陀,也不可辱骂婆罗门;这等同于杀害婆罗门。
13.60.32
कीदृशाः साधवो विप्राः केभ्यो दत्तं महाफलम् ।
कीदृशानां च भोक्तव्यं तन्मे ब्रूहि पितामह ॥ १३.६०.३२ ॥
什么样的贤善婆罗门?布施给谁能得大果报?应当供养什么样的人?祖父,请告诉我。
13.60.33
अक्रोधना धर्मपराः सत्यनित्या दमे रताः ।
तादृशाः साधवो विप्रास्तेभ्यो दत्तं महाफलम् ॥ १३.६०.३३ ॥
不怒、虔奉正法、恒住真实、乐于自制之人,便是贤善的婆罗门;布施给他们,能得大果报。
13.60.34
अमानिनः सर्वसहा दृढार्था विजितेन्द्रियाः ।
सर्वभूतहिता मैत्रास्तेभ्यो दत्तं महाफलम् ॥ १३.६०.३४ ॥
无慢、能忍一切、志坚、调伏诸根、利益一切众生、慈爱之人,布施给他们能得大果报。
13.60.35
अलुब्धाः शुचयो वैद्या ह्रीमन्तः सत्यवादिनः ।
स्वकर्मनिरता ये च तेभ्यो दत्तं महाफलम् ॥ १३.६०.३५ ॥
无贪、清净、有学识、知惭愧、说真实语、精勤本分之业的人,布施给他们能得大果报。
13.60.36
साङ्गांश्च चतुरो वेदानधीते यो द्विजर्षभः ।
षड्भ्यः प्रवृत्तः कर्मभ्यस्तं पात्रमृषयो विदुः ॥ १३.६०.३६ ॥
精通四吠陀及其支分、致力于六种职责的婆罗门中的雄牛,被圣人视为值得接受布施的人。
13.60.37
ये त्वेवंगुणजातीयास्तेभ्यो दत्तं महाफलम् ।
सहस्रगुणमाप्नोति गुणार्हाय प्रदायकः ॥ १३.६०.३७ ॥
然而,布施给具有此等德行与出身者,结出大果;布施给配得德行之人的施主,获得千倍之报。
13.60.38
प्रज्ञाश्रुताभ्यां वृत्तेन शीलेन च समन्वितः ।
तारयेत कुलं सर्वमेकोऽपीह द्विजर्षभः।
तृप्ते तृप्ताः सर्वदेवाः पितरो मुनयोपि च ॥ १३.६०.३८ ॥
具备智慧、学问、德行与品性的婆罗门中的雄牛,即使独自一人,也能救度全族;他满足之时,诸神、祖先与圣人也都得到满足。
13.60.39
गामश्वं वित्तमन्नं वा तद्विधे प्रतिपादयेत् ।
द्रव्याणि चान्यानि तथा प्रेत्यभावे न शोचति ॥ १३.६०.३९ ॥
应将牛、马、财物或食物,或其他此类物品,施予此等人;如此布施者,在来世不会悲伤。
13.60.40
तारयेत कुलं सर्वमेकोपि ह द्विजोत्तमः ।
किमङ्ग पुनरेवैते तस्मात्पात्रं समाचरेत् ॥ १३.६०.४० ॥
最优秀的婆罗门,即使独自一人,也能救度全族;何况这些人呢!因此应当寻求配得布施的人。
13.60.41
निशाम्य च गुणोपेतं ब्राह्मणं साधुसम्मतम् ।
दूरादानाय्य सत्कृत्य सर्वतश्चापि पूजयेत् ॥ १३.६०.४१ ॥
若见到具备德行、为善人所推许的婆罗门,应从远处请来,恭敬礼遇,并以各种方式供养。