Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.61

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.61.1

श्राद्धकाले च दैवे च पित्र्येऽपि च पितामह ।
इच्छामीह त्वयाऽऽख्यातं विहितं यत्सुरर्षिभिः ॥ १३.६१.१ ॥

祖父啊,在祭祀之时、在天神之祭与祖先之祭中,我愿知道您在此所说的、由诸天神与仙人所规定的内容。

13.61.2

दैवं पौर्वाह्णिके कुर्यादपराह्णे तु पैतृकम् ।
मङ्गलाचारसम्पन्नः कृतशौचः प्रयत्नवान् ॥ १३.६१.२ ॥

应于上午行天神之祭,于下午行祖先之祭;行为吉祥,已行净身,且专心谨慎。

13.61.3

मनुष्याणां तु मध्याह्ने प्रदद्यादुपपत्तिभिः ।
कालहीनं तु यद्दानं तं भागं रक्षसां विदुः ॥ १३.६१.३ ॥

为人而施,应于正午以合宜之法行之;然若失时而施,则此分被知为罗刹之份。

13.61.4

लङ्घितं चावलीढं च लाकपूर्वं च यत्कृतम् ।
रजस्वलाभिदृष्टं च तं भागं रक्षसां विदुः ॥ १३.६१.४ ॥

凡被跨越、被舔食、先被乌鸦触及、以及被经期女子所见而作之物,其分被知为罗刹之份。

13.61.5

अवघुष्टं च यद्भुक्तमव्रतेन च भारत ।
परामृष्टं शुना चैव तं भागं रक्षसां विदुः ॥ १३.६१.५ ॥

婆罗多之后啊,凡高声宣告之物、被无戒者所食之物、以及被狗触碰之物,其分被知为罗刹之份。

13.61.6

केशकीटावपतितं क्षुतं श्वभिरवेक्षितम् ।
रुदितं चावधूतं च तं भागं रक्षसां विदुः ॥ १३.६१.६ ॥

凡落于毛发与虫类之上、被打喷嚏、被狗所视、因哭泣而污、被抖落之物,其分被知为罗刹之份。

13.61.7

निरोङ्कारेण यद्भुक्तं सशस्त्रेण च भारत ।
दुरात्मना च यद्भुक्तं तं भागं रक्षसां विदुः ॥ १३.६१.७ ॥

婆罗多之子啊,无唵声、手持兵器、或被恶心者所食之物,人们知道那是罗刹的份额。

13.61.8

परोच्छिष्टं च यद्भुक्तं परिभुक्तं च यद्भवेत् ।
दैवे पित्र्ये च सततं तं भागं रक्षसां विदुः ॥ १३.६१.८ ॥

食用他人残余之物,已被吃过之物,以及在天神与祖先祭祀中常有之物,人们知道那是罗刹的份额。

13.61.9

मन्त्रहीनं क्रियाहीनं यच्छ्राद्धं परिविष्यते ।
त्रिभिर्वर्णैर्नरश्रेष्ठ तं भागं रक्षसां विदुः ॥ १३.६१.९ ॥

无咒语、无仪轨而由三种姓供奉的祭祀(śrāddha),人中之杰啊,人们知道那是罗刹的份额。

13.61.10

आज्याहुतिं विना चैव यत्किञ्चित्परिविष्यते ।
दुराचारैश्च यद्भुक्तं तं भागं रक्षसां विदुः ॥ १३.६१.१० ॥

未以酥油供奉而随意供上之物,以及恶行者所食之物,人们知道那是罗刹的份额。

13.61.11

ये भागा रक्षसां प्राप्तास्त उक्ता भरतर्षभ ।
अत ऊर्ध्वं विसर्गस्य परीक्षां ब्राह्मणे शृणु ॥ १३.६१.११ ॥

罗刹所得之份额已经说明。婆罗多中之雄牛啊,接下来请听关于婆罗门的 visarga 检验。

13.61.12

यावन्तः पतिता विप्रा जडोन्मत्तास्तथैव च ।
दैवे वाऽप्यथ पित्र्ये वा राजन्नार्हन्ति केतनम् ॥ १३.६१.१२ ॥

凡堕落、愚钝、癫狂的婆罗门,无论有多少,大王啊,他们都不配在天神或祖先的祭祀中居于尊位。

13.61.13

श्वित्री क्लीबश्च कुष्ठी च तता यक्ष्महतश्च यः ।
अपस्मारी च यश्चान्धो राजन्नार्हन्ति केतनम् ॥ १३.६१.१३ ॥

白癜风患者、阉人、癞病患者、患痨病者、癫痫病人与盲人——国王啊,他们不配受邀。

13.61.14

चिकित्सका देवलका वृथा नियमधारिणः ।
सोमविक्रयिणश्चैव श्राद्धे नार्हन्ति केतनम् ॥ १३.६१.१४ ॥

医者、德瓦拉卡(神庙仆役)、徒然持戒者、卖苏摩者——他们也不配受邀参加施拉达祭。

13.61.15

गायना नर्तकाश्चैव प्लवका वादकास्तथा ।
कथका योधकाश्चैव राजन्नार्हन्ति केतनम् ॥ १३.६१.१५ ॥

歌者、舞者、杂技者、乐师、说书人与武士——国王啊,他们不配受邀。

13.61.16

होतारो वृषलानां च वृषलाध्यापकास्तथा ।
तथा वृषलशिष्याश्च राजन्नार्हन्ति केतनम् ॥ १३.६१.१६ ॥

为首陀罗主持祭祀的祭司、为首陀罗授业的师长,以及首陀罗的弟子——国王啊,他们不配受邀。

13.61.17

अनुयोक्ता च यो विप्रो अनुयुक्तश्च भारत ।
नार्हतस्तावपि श्राद्धं ब्रह्मविक्रयिणौ हि तौ ॥ १३.६१.१७ ॥

婆罗多之子啊,提问的婆罗门与被问的婆罗门——这两人都不配受施拉达祭,因为他们都在出卖梵(神圣的知识)。

13.61.18

अग्रणीर्यः कृतः पूर्वं वर्णावरपरिग्रहः ।
ब्राह्मणः सर्वविद्योऽपि राजन्नार्हति केतनम् ॥ १३.६१.१८ ॥

曾被立为低种姓领袖、接纳低种姓者的婆罗门——即便他通晓一切学问,国王啊,他也不配受邀。

13.61.19

अनग्नयश्च ये विप्रा मृतनिर्यातकाश्च ये ।
स्तेनाश्च पतिताश्चैव राजन्नार्हन्ति केतनम् ॥ १३.६१.१९ ॥

不持圣火的婆罗门、搬运死者的人、盗贼和堕落者,啊国王,不配得到荣誉的标记(ketana)。

13.61.20

अपरिज्ञातपूर्वाश्च गणपूर्वाश्च भारत ।
पुत्रिकापूर्वपुत्राश्च श्राद्धे नार्हन्ति केतनम् ॥ १३.६१.२० ॥

世系不明者、行会成员、婆罗多的后裔啊,以及女儿之子的儿子,在祭祀(śrāddha)中不配得到标记。

13.61.21

ऋणकर्ता च यो राजन्यश्च वार्धुषिको नरः ।
प्राणिविक्रयवृत्तिश्च राजन्नार्हन्ति केतनम् ॥ १३.६१.२१ ॥

负债者、刹帝利、放高利贷的人、以买卖生灵为生者,啊国王,不配得到荣誉的标记(ketana)。

13.61.22

स्त्रीपूर्वाः काण्डपृष्ठाश्च यावन्तो भरतर्षभ ।
आजपा ब्राह्मणाश्चैव श्राद्धे नार्हन्ति केतनम् ॥ १३.६१.२२ ॥

受妻子支配者、背上有弓弦痕迹者、所有这样的人,婆罗多中最优秀者啊,以及牧羊的婆罗门,在祭祀(śrāddha)中不配得到标记。

13.61.23

श्राद्धे दैवे च निर्दिष्टो ब्राह्मणो भरतर्षभ ।
दातुः प्रतिग्रहीतुश्च शृणुष्वानुग्रहं पुनः ॥ १३.६१.२३ ॥

婆罗多之牛啊,为祭祀(śrāddha)与天神之祭所指定的婆罗门,属于施者与受者;现在请再听他们的恩惠。

13.61.24

चीर्णव्रता गुणैर्युक्ता भवेयुर्येऽपि कर्षकाः ।
सावित्रीज्ञाः क्रियावन्तस्ते राजन्केतनक्षमाः ॥ १३.६१.२४ ॥

持守誓愿、具足德行者,即使是耕作者,通晓萨维特利咒并行祭仪者,啊国王,都配得上这标记。

13.61.25

क्षात्रधर्मिणमप्याजौ केतयेत्कुलजं द्विजम् ।
न त्वेव वणिजं तात श्राद्धे च परिकल्पयेत् ॥ १३.६१.२५ ॥

即使是遵行刹帝利法的良家再生族,也可在战场上被任命为旗手;但,孩子,不可在祭祖礼中任命商人。

13.61.26

अग्निहोत्री च यो विप्रो ग्रामवासी च यो भवेत् ।
अस्तेनश्चातिथिज्ञश्च स राजन्केतनक्षमः ॥ १३.६१.२६ ॥

奉行火祭、居住村中、不偷盗且懂得待客之道的婆罗门,王啊,他才堪任旗手。

13.61.27

सावित्रीं जपते यस्तु त्रिकालं भरतर्षभ ।
भिक्षावृत्तिः क्रियावांश्च स राजन्केतनक्षमः ॥ १३.६१.२७ ॥

于三时诵持萨维特里咒、以乞食为生、勤修祭仪的人,婆罗多族的雄牛啊,王啊,他才堪任旗手。

13.61.28

उदितास्तमितो यश्च तथैवास्तमितोदितः ।
अहिंस्रश्चाल्पदोषश्च स राजन्केतनक्षमः ॥ १३.६१.२८ ॥

日出之前、日落之后行晨昏之礼,不杀生且过失甚少的人,王啊,他才堪任旗手。

13.61.29

अकल्कको ह्यतर्कश्च ब्राह्मणो भरतर्षभ ।
संसर्ग भैक्ष्यवृत्तिश्च स राजन्केतनक्षमः ॥ १३.६१.२९ ॥

无污无垢、不好辩论、交往有节、以乞食为生的婆罗门,婆罗多族的雄牛啊,王啊,他才堪任旗手。

13.61.30

अव्रती कितवः स्तेनः प्राणिविक्रयिको वणिक् ।
सनिष्कृतिः पुनः सोमं पीतवान्केतनक्षमः ॥ १३.६१.३० ॥

不持戒者、赌徒、盗贼、贩卖生灵的商人,或经赎罪后仍再饮苏摩者——这些人都不堪任旗手。

13.61.31

अर्जयित्वा धनं पूर्वं दारुणैरपि कर्मभिः ।
भवेत्सर्वातिथिः पश्चात्स राजन्केतनक्षमः ॥ १३.६१.३१ ॥

他先以残酷的行为获取财富,之后可以成为一切客人的款待者;国王啊,他可以有资格作证或接受布施。

13.61.32

ब्रह्मविक्रयनिर्दिष्टं स्त्रिया यच्चार्जितं धनम् ।
अदेयं पितृविप्रेभ्यो यच्च क्लैब्यादुपार्जितम् ॥ १३.६१.३२ ॥

被说成是出卖婆罗门所得的财富,女人所获得的财富,以及因怯懦而获得的财富,都不应当供奉给祖先和婆罗门。

13.61.33

क्रियमाणेऽपवर्गे च यो द्विजो भरतर्षभ ।
न व्याहरति यद्युक्तं तस्याधर्मो गवानृतम् ॥ १३.६१.३३ ॥

婆罗多中的雄牛啊,当仪式将结束时,若再生者不说应当说的话,他的罪过就如同关于牛的谎言。

13.61.34

श्राद्धस्य ब्राह्मणः कालः प्राप्तं दधि घृतं तथा ।
सोमक्षयश्च मांसं च यदारण्यं युधिष्ठिर ॥ १३.६१.३४ ॥

施罗陀的时间属于婆罗门;凝乳与酥油同样可得,还有苏摩的消减,以及林中的肉,啊,坚战。

13.61.35

मुहूर्तानां त्रयं पूर्वमह्नः प्रातरिति स्मृतम् ।
जपध्यानादिभिस्तस्मिन्विप्रैः कार्यं शुभव्रतम् ॥ १३.६१.३५ ॥

白天最初的三个牟呼栗多被称为清晨;在那时,婆罗门应当进行诵念、禅修等吉祥的誓行。

13.61.36

सङ्गवाख्यं त्रिभागं तु मध्याह्नस्त्रिमुहूर्तकः ।
लौकिकं सङ्गवेऽर्धं च स्नानादि ह्यथ मध्यमे ॥ १३.६१.३६ ॥

名为桑伽瓦的第三部分;正午持续三个牟呼栗多;世俗之事在桑伽瓦时段中占一半,沐浴等则属于正午。

13.61.37

चतुर्थमपराह्णं तु त्रिमुहूर्तं तु पित्र्यकम् ।
सायाह्नस्त्रिमुहूर्तं च मध्यमं कविभिः स्मृतम् ॥ १३.६१.३७ ॥

第四部分是午后(aparāhṇa),持续三个牟呼多(muhūrta),属于祖先。傍晚(sāyāhna)也持续三个牟呼多;智者如此称中间时段。

13.61.38

चतुर्थ त्वपराह्णाख्ये श्राद्धं कुर्यात्सदा नृप ॥ १३.६१.३८ ॥

君王啊,在第四部分,即名为午后(aparāhṇa)的时段,应当始终举行祭祀(śrāddha)。

13.61.39

प्रागुदीचीमुखा विप्राः विश्वेदेवे च दक्षिणाः ।
श्रावितेषु सुतृप्तेषु पिण्डं दद्यात्सदक्षिणम् ॥ १३.६१.३९ ॥

在毗湿伐提婆(Viśvedeva)祭中,婆罗门应面向东或北,以及面向南而坐;待咒语诵毕、他们完全满足后,应连同布施(dakṣiṇā)奉上团饭(piṇḍa)。

13.61.40

श्राद्धापवर्गे विप्रस्य दातारो वोस्त्वितीरयेत् ।
क्षत्रियस्यापि यो ब्रूयात्प्रीयन्तां पितरस्त्विति ॥ १३.६१.४० ॥

在祭祀(śrāddha)结束时,应对婆罗门说:“愿施主们平安吉祥”;对刹帝利也应说:“愿祖先欢喜。”

13.61.41

अपवर्गे तु वैश्यस्य श्राद्धकर्मणि भारत ।
अक्षय्यमभिधातव्यं स्वस्ति शूद्रस्य भारत ॥ १३.६१.४१ ॥

在祭祀仪式结束时,应对吠舍宣告“不朽”;对首陀罗,哦,婆罗多的后裔,应说“愿平安”。

13.61.42

पुण्याहवाचनं दैवं ब्राह्मणस्य विधीयते ।
एतदेव निरोङ्कारं क्षत्रियस्य विधीयते ॥ १३.६१.४२ ॥

对婆罗门而言,规定以吉日诵读(puṇyāhavācana)作为神圣之仪;对刹帝利则规定同样的仪式,但不念音节“唵”(oṃ)。

13.61.43

वैश्यस्य दैवे वक्तव्यं प्रीयन्तां देवता इति ।
गोर्हिसायां चतुर्भागं पूर्वं विप्रातिकेतिनः ॥ १३.६१.४३ ॥

吠舍在神事中应说:“愿诸神欢喜。”杀牛时,先分给被请来的婆罗门一份四分之一。

13.61.44

वर्णावरेषु भुञ्जानं क्रमाच्छूद्रे चतुर्गुणम् ।
नान्यत्र ब्राह्मणो ब्रूयात्पूर्वं विप्रेण केतितः ॥ १३.६१.४४ ॥

对于在低种姓中进食者,依次在首陀罗处为四倍。在别处婆罗门不应说,若先由婆罗门邀请。

13.61.45

अभोजने च दोषः स्याद्वर्जयेच्छूद्रकेतनम् ।
शूद्रान्नरसपुष्टाङ्गो द्विजो नोर्ध्वां गतिं लभेत् ॥ १३.६१.४५ ॥

不吃也有过失;应避开首陀罗的邀请。以首陀罗食物之精气滋养肢体的再生者,不能获得上升之道。

13.61.46

अशुचिर्नैव चाश्नीयान्नास्तिको मानवर्जितः ।
न पूर्वं लङ्घयेल्लोभादेकवर्णोऽपि पार्थिव ॥ १३.६१.४६ ॥

不净者、无神论者、无尊严者不应进食。出于贪欲,不应违反先前的规则,国王啊,即使是同种姓之人。

13.61.47

विप्राः स्मृता भूमिदेवा उपकुर्वाणवर्जिताः ।
कर्मणामानुपूर्व्येण विदिपूर्वं कृतं शृणु ॥ १३.६१.४७ ॥

婆罗门被称为地神,免于upakurvāṇa礼。请听依吠陀所行诸礼的次第,先说。

13.61.48

जातकर्मादिकाः सर्वास्त्रिषु वर्णेषु भारत ।
ब्रह्मक्षत्रे हि मन्त्रोक्ता वैश्यस्य च युधिष्ठिर ॥ १३.६१.४८ ॥

自诞生礼以下的一切礼仪,婆罗多之后,存在于三个种姓之中。婆罗门与刹帝利以咒语规定,吠舍也是,坚战啊。

13.61.49

विप्रस्य रशना मौञ्जी मौर्वी राजन्यगामिनी ।
बाल्वजी ह्येव वैश्यस्य धर्म एष युधिष्ठिर ॥ १३.६१.४९ ॥

婆罗门的腰带用茅草编成,刹帝利的用麻纤维,吠舍的用巴尔瓦加草。般度之子啊,这就是法。

13.61.50

पालाशो द्विजदण्डः स्यादश्वत्थः क्षत्रियस्य तु ।
औदुम्बरश्च वैश्यस्य धर्म एष युधिष्ठिर ॥ १३.६१.५० ॥

再生族的杖应当用紫檀(palāśa)木,刹帝利的用毕钵树(aśvattha),吠舍的用优昙钵树(udumbara)。般度之子啊,这就是法。

13.61.51

दातुः प्रतिग्रहीतुश्च धर्माधर्माविमौ शृणु ।
ब्राह्मणस्यानृतेऽधर्मः प्रोक्तः पातकसंज्ञितः।
चतुर्गुणः क्षत्रियस्य वैश्यस्याष्टगुणः स्मृतः ॥ १३.६१.५१ ॥

请听施者与受者的法与非法。婆罗门因虚妄而生的非法,被称为罪业;刹帝利加倍四倍,吠舍加倍八倍。

13.61.52

नान्यत्र ब्राह्मणोऽश्नीयात्पूर्वं विप्रेण केतितः ।
यवीयान्पशुहिंसायां तुल्यधर्मा भवेत्स हि ॥ १३.६१.५२ ॥

婆罗门不应在别处进食,除非先被另一位婆罗门邀请。若次一等者参与杀生,他便与之承担同样的法责。

13.61.53

तथा राजन्यवैश्याभ्यां यद्यश्नीयात्तु केतितः ।
यवीयान्पशुहिंसायां भागार्धं समवाप्नुयात् ॥ १३.६१.५३ ॥

同样,若受刹帝利或吠舍之邀而进食,则次一等者在杀生中承受一半的责任。

13.61.54

दैवं वाऽप्यथवा पित्र्यं योऽश्नीयाद्ब्राह्मणादिषु ।
अस्नातो ब्राह्मणो राजंस्तस्याधर्मोऽनृतं स्मृतम् ॥ १३.६१.५४ ॥

婆罗门未沐浴便食用供奉给诸神或祖先的食物,或食用婆罗门等人家中的食物,大王啊,他的非法被说成是虚妄。

13.61.55

आशौचो ब्राह्मणो राजन्योऽश्नीयाद्ब्राह्मणादिषु ।
ज्ञानपूर्वमथो लोभात्तस्याधर्मो गवानृतम् ॥ १३.६१.५५ ॥

若不净的婆罗门或刹帝利与婆罗门等人同食,无论明知或出于贪婪,其非法被认为等同于杀牛或说谎。

13.61.56

अर्थेनान्येन यो लिप्सेत्कर्मार्थं चैव भारत ।
आमन्त्रयति राजेन्द्र तस्याधर्मोऽनृतं स्मृतम् ॥ १३.६१.५६ ॥

婆罗多的后裔啊,若有人以财物或其他物品为仪式之故而欲求得之并加以邀请,王中之王啊,其非法被认为是谎言。

13.61.57

अवेदव्रतचारित्रास्त्रिभिर्वर्णैर्युधिष्ठिर ।
मन्त्रवत्परिविष्यन्ते तस्याधर्मो गवानृतम् ॥ १३.६१.५७ ॥

坚战啊,那些缺少吠陀与戒行的人,若由三个种姓以咒语供奉,其非法被认为等同于杀牛或说谎。