摩诃婆罗多 · 章 13.62
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.62.1
पित्र्यं वाऽप्यथवा दैवं दीयते यत्पितामह ।
एतदिच्छाम्यहं ज्ञातुं दत्तं केषु महाफलम् ॥ १३.६२.१ ॥
祖父啊,我想知道:奉献给祖先或诸神的布施,施与何人才能获得大果报?
13.62.2
येषां दाराः प्रतीक्षन्ते सुवृष्टिमिव कर्षकाः ।
उच्छेषपरिशेषं हि तान्भोजय युधिष्ठिर ॥ १३.६२.२ ॥
其妻如农夫等待甘霖般盼望其归来者,युधिष्ठिर啊,应以剩余之食供养他们。
13.62.3
चारित्रनिरता राजन्ये कृशाः कृशवृत्तयः ।
अर्थिनश्चोपगच्छन्ति तेषु दत्तं महाफलम् ॥ १३.६२.३ ॥
那些持守德行、清瘦而过着困苦生活的刹帝利,乞求者前往投靠,施与他们的布施获得大果报。
13.62.4
तद्भक्तास्तद्गृहा राजंस्तद्बलास्तदपाश्रयाः ।
अर्थिनश्च भवन्त्यर्थे तेषु दत्तं महाफलम् ॥ १३.६२.४ ॥
大王啊,那些忠于他、居于他家、依仗他的力量与庇护、为求财物而成为乞求者的人,施与他们的布施获得大果报。
13.62.5
तस्करेभ्यः परेभ्यो वा हृतस्वा भयदुःखिताः ।
अर्थिनो भोक्तुमिच्छन्ति तेषु दत्तं महाफलम् ॥ १३.६२.५ ॥
那些财物被盗贼或敌人夺去、饱受恐惧与忧苦的乞求者,想要食物充饥;施与他们的布施获得大果报。
13.62.6
अकल्ककस्य विप्रस्य रौक्ष्यात्करकृतात्मनः ।
वटवो यस्य भिक्षन्ति तेभ्यो दत्तं महाफलम् ॥ १३.६२.६ ॥
那位无过的婆罗门,以严苛苦行与双手劳作而自成其身,年轻的梵行者向他乞食;施与他们的布施获得大果报。
13.62.7
हृतस्वा हृतदाराश्च ये विप्रा देशसम्प्लवे ।
अर्थार्थमभिगच्छन्ति तेभ्यो दत्तं महाफलम् ॥ १३.६२.७ ॥
在国家倾覆之时,财产与妻子被夺、为求财物而奔走的婆罗门,布施于他们便得大福报。
13.62.8
व्रतोनो नियमस्थाश्च ये विप्राः श्रुतसम्मताः ।
तस्मपाप्त्यर्थमिच्छन्ति तेभ्यो दत्तं महाफलम् ॥ १३.६२.८ ॥
那些持守誓愿、安住于戒律、以博学受人敬重并希望获得那一目标的婆罗门,布施于他们便得大福报。
13.62.9
अत्युत्क्रान्ताश्च धर्मेषु पाषण्डस्रमयेषु च ।
कृशप्राणाः कृशघनास्तेभ्यो दत्तं महाफलम् ॥ १३.६२.९ ॥
那些远离法之义务、堕入异端修行、气息衰弱、身体枯瘦的人,布施于他们便得大福报。
13.62.10
कृतसर्वस्वहरणा निर्दोषाः प्रभविष्णुभिः ।
स्पृहयन्ति च भुक्त्वाऽन्नं तेषुदत्तं महाफलम् ॥ १३.६२.१० ॥
所有财物被有权势者夺去、无过失、即便饱食仍渴望食物的人,布施于他们便得大福报。
13.62.11
तपस्विनस्तपोनिष्ठास्तेषां भैक्षचराश्च ये ।
अर्थिनः किञ्चिदिच्छन्ति तेषु दत्तं महाफलम् ॥ १३.६२.११ ॥
修苦行、专注于苦修的苦行者,其中行乞而行的人,以及有所求的人,布施于他们便得大福报。
13.62.12
महाफलविधिर्दाने श्रुतस्ते भरतर्षभ ।
निरयं येन गच्छन्ति स्वर्गं चैव हि तत्छृणु ॥ १३.६२.१२ ॥
婆罗多族中的雄牛啊,你已听闻布施中大福报的规则;现在请听,人们因何而堕入地狱,又因何而升入天界。
13.62.13
व्रतानां पारणार्थाय गुर्वर्थे यज्ञदक्षिणाम् ।
निर्वेशार्थं च विद्वांसस्तेषां दत्तं महाफलम् ॥ १३.६२.१३ ॥
为结束誓约、为师长、作为祭祀酬金以及为学者的生计而施舍,其果报甚大。
13.62.14
पित्रोश्च रक्षणार्थाय पुत्रदारार्थमेव वा ।
महाव्याधिविमोक्षार्थं तेषु दत्तं महाफलम् ॥ १३.६२.१४ ॥
为保护父母、为妻儿,或为从重病中解脱而施予他们的布施,其果报甚大。
13.62.15
बालाः स्त्रियश्च वाञ्छन्ति सुभक्तं चाप्यसाधनाः ।
स्वर्गमायान्ति दत्त्वैषां निरयान्नोपयान्ति ते॥ ॥ १३.६२.१५ ॥
孩童、妇女以及无所依靠之人也渴望美食。施予他们,便升天而不堕地狱。
13.62.16
गुर्वर्थमभयार्थं वा वर्जयित्वा युधिष्ठिर ।
येऽनृतं कथयन्ति स्म ते वा निरयगामिनः ॥ १३.६२.१६ ॥
般遮罗的尤迪什提拉啊,除为师长或为免于恐惧,凡说谎者皆堕地狱。
13.62.17
परदाराभिहर्तारः परदाराभिमर्शिनः ।
परदारप्रयोक्तास्ते वै निरयगामिनः ॥ १३.६२.१७ ॥
劫掠他人之妻、触碰他人之妻、怂恿他人染指他人之妻者,必堕地狱。
13.62.18
ये परस्वापहर्तारः परस्वानां च नाशकाः ।
सूचकाश्च परेषां ये ते वा निरयगामिनः ॥ १३.६२.१८ ॥
夺取他人财物、毁坏他人财富、告发诽谤他人者,皆堕地狱。
13.62.19
प्रपाणां च सभानां च संक्रमाणां च भारत ।
अगाराणां च भेत्तारो नरा निरयगामिनः ॥ १३.६२.१९ ॥
婆罗多啊,毁坏水站、议会厅、桥梁和房屋的人,将堕入地狱。
13.62.20
अनाथां प्रमदां बालां वृद्धां भीतां तपस्विनीम् ।
वञ्चयन्ति नरा ये च ते वै निरयगामिनः ॥ १३.६२.२० ॥
欺骗无依无靠的妇人、少女、老妇、受惊的女子或苦行女的人,将堕入地狱。
13.62.21
वृत्तिच्छेदं गृहच्छेदं दारच्छेदं च भारत ।
मित्रच्छेदं तथाऽऽशायास्ते वै निरयगामिनः ॥ १३.६२.२१ ॥
婆罗多啊,断绝生计、家室、婚姻、友谊与希望的人,将堕入地狱。
13.62.22
सूचकाः सेतुभेत्तारः परवृत्त्युपजीवकाः ।
अकृतज्ञाश्च मित्राणां ते वै निरयगामिनः ॥ १३.६२.२२ ॥
告密者、破坏信任之桥者、靠他人生计过活者,以及对朋友忘恩负义者,都将堕入地狱。
13.62.23
पाषण्डा दूषकाश्चैव समयानां च दूषकाः ।
ये प्रत्यवसिताश्चैव ते वै निरयगामिनः ॥ १३.६२.२३ ॥
异端者、玷污神圣誓约与约定者,以及执迷而背离者,都将堕入地狱。
13.62.24
विषमव्यवहाराश्च विषमाश्चैव वृद्धिषु ।
लाभेषु विषमाश्चैव ते वै निरयगामिनः ॥ १३.६२.२४ ॥
交易不公、在利息与利润上欺诈者,将堕入地狱。
13.62.25
दूतसंव्यवहाराश्च निष्परीक्षाश्च मानवाः ।
प्राणिहिंसाप्रवृत्ताश्चि ते वै निरयगामिनः ॥ १३.६२.२५ ॥
与使者交往者、不加审察而行者、以伤害众生为业者——他们必定堕入地狱。
13.62.26
कृताशं कृतनिर्देशं कृतभक्तं कृतश्रमम् ।
भेदैर्ये व्यपकर्षन्ति ते वै निरयगामिनः ॥ १३.६२.२६ ॥
以离间之计损害那些被许以希望、受命、得以供养并被驱使劳作之人者——他们必定堕入地狱。
13.62.27
पर्यश्नन्ति च ये दारानग्निभृत्यातिथींस्तथा ।
उत्सन्नपितृदेवेज्यास्ते वै निरयगामिनः ॥ १३.६२.२७ ॥
在妻子、火祭侍者和客人之前先进食者,以及废弃对祖先和诸神的祭祀者——他们必定堕入地狱。
13.62.28
वेदविक्रयिणश्चैव वेदानां चैव दूषकाः ।
वेदानां लेखकाश्चैव ते वै निरयगामिनः ॥ १३.६२.२८ ॥
出卖吠陀者、玷污吠陀者,以及虚假抄写吠陀者——他们必定堕入地狱。
13.62.29
चातुराश्रम्यबाह्याश्च श्रुतिबाह्याश्च ये नराः ।
विकर्मभिश्च जीवन्ति ते वै निरयगामिनः ॥ १३.६२.२९ ॥
游离于四种人生阶段之外、游离于吠陀启示之外,并以邪恶之行谋生的人——他们必定堕入地狱。
13.62.30
केशविक्रयिका राजन्विषविक्रयिकाश्च ये ।
क्षीरविक्रयिकाश्चैव ते वै निरयगामिनः ॥ १३.६२.३० ॥
国王啊!卖发者、卖毒者,以及卖奶者——他们必定堕入地狱。
13.62.31
ब्राह्मणानां गवां चैव कन्यानां च युधिष्ठिर ।
येऽन्तरायान्ति कार्येषु ते वै निरयगामिनः ॥ १३.६२.३१ ॥
般度之子啊,凡阻碍婆罗门、牛和少女之事者,必堕地狱。
13.62.32
शस्त्रविक्रयिकाश्चैव कर्तारश्च युधिष्ठिर ।
शल्यानां धनुषां चैव ते वै निरयगामिनः ॥ १३.६२.३२ ॥
般度之子啊,贩卖兵器者以及制作箭矢与弓者,必堕地狱。
13.62.33
शिलाभिः शङ्कुभिर्वाऽपि श्वर्भ्रैर्वा भरतर्षभ ।
ये मार्गमनुरुन्धन्ति ते वै निरयगामिनः ॥ १३.६२.३३ ॥
婆罗多族中的雄牛啊,凡以石头、木桩或陷坑阻断道路者,必堕地狱。
13.62.34
उपाध्यायांश्च भृत्यांश्च भक्तांश्च भरतर्षभ ।
ये त्यजन्त्यविकारांस्त्रींस्ते वै निरयगामिनः ॥ १३.६२.३४ ॥
婆罗多族中的雄牛啊,凡遗弃师长、仆役、依附者以及坚贞女子者,必堕地狱。
13.62.35
अप्राप्तदमकाश्चैव नासानां वेधकाश्च ये ।
बन्धकाश्च पशूनां ये ते वै निरयगामिनः ॥ १३.६२.३५ ॥
凡不驯化牲畜、穿刺其鼻、或捆绑之者,必堕地狱。
13.62.36
अगोप्तारश्च राजानो बलिषड्भागतस्कराः ।
समर्थाश्चाप्यदातारस्ते वै निरयगामिनः ॥ १३.६२.३६ ॥
不护佑臣民的君王、窃取赋税六分之一者、有能力却不布施者,必堕地狱。
13.62.37
क्षान्तान्दान्तांस्तथा प्राज्ञान्दीर्घकालं सहोषितान् ।
त्यजन्ति कृतकृत्या ये ते वै निरयगामिनः ॥ १३.६२.३७ ॥
那些事情办成之后,便抛弃与自己长期相处的、能忍让、克己而有智慧的人,他们必定堕入地狱。
13.62.38
बालानामथ वृद्धानां दासानां चैव ये नराः ।
अदत्त्वा भक्षयन्त्यग्रे ते वै निरयगामिनः ॥ १३.६२.३८ ॥
那些不先分给孩童、长者和仆人,自己先吃的人,他们必定堕入地狱。
13.62.39
एते पूर्वं विनिर्दिष्टाः प्रोक्ता निरयगामिनः ।
भागिनः स्वर्गलोकस्य वक्ष्यामि भरतर्षभ ॥ १३.६२.३९ ॥
前面所说的这些人被宣告将堕入地狱。婆罗多的雄牛啊,现在我要讲述那些能分享天界之人。
13.62.40
सर्वेष्वेव तु कार्येषु दैवपूर्वेषु भारत ।
हन्ति पुत्रान्पशून्कृत्स्नान्ब्राह्मणातिक्रमः कृतः ॥ १३.६२.४० ॥
婆罗多啊,在一切以祭神为先的事务中,若冒犯婆罗门,便会毁灭儿子和所有牲畜。
13.62.41
दानेन तपसा चैव सत्येन च युधिष्ठिर ।
ये धर्ममनुवर्तन्ते ते नराः स्वर्गगामिनः ॥ १३.६२.४१ ॥
尤帝希提啊,以布施、苦行与真实而遵循法之人,他们必往天界。
13.62.42
शुश्रूषाभिस्तपोभिश्च विद्यामादाय भारत ।
ये प्रतिग्रहनिःस्नेहास्ते नराः स्वर्गगामिनः ॥ १३.६२.४२ ॥
婆罗多啊,以侍奉与苦行获得学问,并对受施毫无贪恋之人,他们必往天界。
13.62.43
भयात्पाषात्तथा बाधाद्दारिद्र्याद्व्याधिधर्षणात् ।
तत्कृते धनमीप्सन्ते ते नराः स्वर्गगामिनः ॥ १३.६२.४३ ॥
那些因恐惧、因罪过、同样因压迫、因贫穷,或因疾病所侵而为此求取财富的人,他们是升往天界者。
13.62.44
क्षमावन्तश्च धीराश्च धर्मकार्येषु चोत्थिताः ।
मङ्गलाचारसम्पन्नाः पुरुषाः स्वर्गगामिनः ॥ १३.६२.४४ ॥
那些能忍耐、坚定,积极从事法事,具备吉祥行止的人,他们是升往天界者。
13.62.45
निवृत्ता मधुमांसेभ्यः परदारेभ्य एव च ।
निवृत्ताश्चैव मद्येभ्यस्ते नराः स्वर्गगामिनः ॥ १३.६२.४५ ॥
那些戒除蜂蜜与肉食、戒除他人之妻,也戒除酒类的人,他们是升往天界者。
13.62.46
आश्रमाणां च कर्तारः कुलानां चैव भारत ।
देशानां नगराणां च ते नराः स्वर्गगामिनः ॥ १३.६२.४६ ॥
婆罗多啊,那些建立修行林、家族、国土与城市的人,他们是升往天界者。
13.62.47
वस्त्राभरणदातारो भक्ष्यपानान्नदास्तथा ।
कुटुम्बानां च भर्तारः पुरुषाः स्वर्गगामिनः ॥ १३.६२.४७ ॥
那些施予衣饰、施予饮食与粮食,并且是家庭之养护者的人,他们是升往天界者。
13.62.48
सर्वहिंसानिवृत्ताश्च नराः सर्वसहाश्च ये ।
सर्वस्याश्रयभूताश्च ते नराः स्वर्गगामिनः ॥ १३.६२.४८ ॥
那些远离一切暴力、能忍受一切,并且作为众生依靠的人,他们是升往天界者。
13.62.49
मातरं पितरं चैव शुश्रुषन्ति जितेन्द्रियाः ।
भ्रातॄणां चैव सस्नेहास्ते नराः स्वर्गगामिनः ॥ १३.६२.४९ ॥
那些克制感官、侍奉父母、并对兄弟充满慈爱的人,他们会升入天界。
13.62.50
आढ्याश्च बलवन्तश्च यौवनस्थाश्च भारत ।
ये वै जितेन्द्रिया धीरास्ते नराः स्वर्गगामिनः ॥ १३.६२.५० ॥
婆罗多之子啊,那些富有、强壮、正值青春,却能克制感官、意志坚定的人,他们会升入天界。
13.62.51
अपराधिषु सस्नेहा मृदवो मृदुवत्सलाः ।
आराधनसुखाश्चापि पुरुषाः स्वर्गगामिनः ॥ १३.६२.५१ ॥
那些即使对犯错的人也充满慈爱、温和、体贴,并以使他人欢喜为乐的人,也会升入天界。
13.62.52
सहस्रपरिवेष्टारस्तथैव च सहस्रदाः ।
त्रातारश्च सहस्राणां ते नराः स्वर्गगामिनः ॥ १३.६२.५२ ॥
那些为千人布食、施舍千人、保护千人的人,他们会升入天界。
13.62.53
सुवर्णस्य च दातारो गवां च भरतर्षभ ।
यानानां वाहनानां च ते नराः स्वर्गगामिनः ॥ १३.६२.५३ ॥
婆罗多族中的雄牛啊,那些施予黄金、牛、车辆与乘骑的人,他们会升入天界。
13.62.54
वैवाहिकानां द्रव्याणां प्रेष्याणां च युधिष्ठिर ।
दातारो वाससां चैव ते नराः स्वर्गगामिनः ॥ १३.६२.५४ ॥
坚战啊,那些施予婚礼礼物、仆人与衣物的人,他们会升入天界。
13.62.55
विहारावसथोद्यानकूपारामसभाप्रपा ।
वप्राणां चैव कर्तारस्ते नराः स्वर्गगामिनः ॥ १३.६२.५५ ॥
那些建造游憩之所、居所、园林、水井、林苑、会堂、施水亭与城墙的人,都会升往天界。
13.62.56
निवेशनानां क्षेत्राणां वसतीनां च भारत ।
दातारः प्रार्थितानां च ते नराः स्वर्गगामिनः ॥ १३.६२.५६ ॥
婆罗多之子啊,那些把住宅地、田地与居所施予求乞者的人,都会升往天界。
13.62.57
रसानां चाथ बीजानां धान्यानां च युधिष्ठिर ।
स्वयमुत्पाद्य दातारः पुरुषाः स्वर्गगामिनः ॥ १३.६२.५७ ॥
युधिष्ठिर啊,那些亲手培育出汁液、种子与谷物而施予他人的人,都会升往天界。
13.62.58
यस्मिंस्तस्मिन्कुले जाता बहुपुत्राः शतायुषः ।
सानुक्रोशा जितक्रोधाः पुरुषाः स्वर्गगामिनः ॥ १३.६२.५८ ॥
无论生于何族,多子、享寿百岁、怀有慈悲并战胜愤怒的人,都会升往天界。
13.62.59
एतदुक्तममुत्रार्थं दैवं पित्र्यं च भारत ।
दानधर्मं च दानस्य यत्पूर्वमृषितिः कृतम् ॥ १३.६२.५९ ॥
婆罗多之子啊,这已讲述:为来世而行的施舍之法,有天神与祖先的部分,是古代仙人所制定的。