摩诃婆罗多 · 章 13.7
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.7.1
श्रूयतां पार्थ तत्त्वेन विश्वामित्रो यथा पुरा ।
ब्राह्मणत्वं गतस्तात् ब्रह्मर्षित्वं तथैव च ॥ १३.७.१ ॥
听着,般度之子啊,正如往昔毗首彌多罗确实获得了婆罗门的身份,也同样获得了梵仙的地位。
13.7.2
भरतस्यान्ववाये वै मिथिलो नाम पार्थिवः ।
बभूव भरतश्रेष्ठ यज्वा धर्मभृतांवरः ॥ १३.७.२ ॥
在婆罗多的家族中有一位名叫弥提罗的国王,婆罗多族中最优秀者啊,他举行祭祀,是奉行法者中最杰出的。
13.7.3
तस्य पुत्रो महानासीञ्जह्नुर्नाम नरेश्वरः ।
दुहितृत्वमनुप्राप्ता गङ्गा यस्य महात्मनः ॥ १३.७.३ ॥
他的儿子是名为遮赫努的伟大国王,那位大德者的女儿便是恒河女神。
13.7.4
तस्यात्मजस्तुल्यगुणः सिन्धुद्वीपो महायशाः ।
सिन्धुद्वीपाच्च राजर्षिर्बलाकाश्वो महाबलः ॥ १३.७.४ ॥
他的儿子是同样有德、大名鼎鼎的信度洲,从信度洲又生出了强大的王仙巴拉迦什瓦。
13.7.5
वल्लभस्तस्य तनयः साक्षाद्धर्म इवापरः ।
कुशिकस्तस्य तनयः सहस्राक्षसमद्युतिः ॥ १३.७.५ ॥
他的儿子是瓦拉巴,真如另一位法神;瓦拉巴之子是俱尸迦,其光辉与千眼因陀罗相等。
13.7.6
कुशिकस्यात्मजः श्रीमान्गाधिर्नाम जनेश्वरः ।
अपुत्रः प्रसवेनार्थी वनवासमुपावसत् ॥ १३.७.६ ॥
俱尸迦之子是名为伽提的光荣国王。他没有儿子,渴望后嗣,便居住在森林中。
13.7.7
कन्या जज्ञे सुतात्तस्य वने निवसतः सतः ।
नाम्ना सत्यवती नाम रूपेणाप्रतिमा भुवि ॥ १३.७.७ ॥
住在森林中的那位贤者,从其子处生下一女,名叫萨蒂亚瓦蒂,在大地上容貌无双。
13.7.8
तां वव्रे भार्गवः श्रीमांश्च्यवनस्यात्मसम्भवः ।
ऋचीक इति विख्यातो विपुले तपसि स्थितः ॥ १३.७.८ ॥
光辉的婆利古后裔、遮耶伐那之子利吉迦,以大苦行闻名,求娶她为妻。
13.7.9
स तां न प्रददौ तस्मै ऋचीकाय महात्मने ।
दरिद्र इति मत्वा वै गाधिः शत्रुनिबर्हणः ॥ १३.७.९ ॥
消灭敌人的伽提认为这位大德的利吉迦贫穷,便没有把女儿许配给他。
13.7.10
प्रत्याख्याय पुनर्यान्तमब्रवीद्राजसत्तप्रः ।
शुल्कं प्रदीयतां मह्यं ततो वत्स्यसि मे सुताम् ॥ १३.७.१० ॥
拒绝他后,他正要离去,那位最优秀的国王又说道:"请先给我聘礼,然后你便可以与我的女儿同住。"
13.7.11
किं प्रयच्छामि राजेन्द्र तुभ्यं शुल्कमहं नृप ।
दुहितुर्ब्रूह्यसंसक्तो माऽभूत्तत्र विचारणा ॥ १३.७.११ ॥
利吉迦说:"王中之王啊,国王!我该给您什么作为聘礼?请毫不犹豫地说出您女儿的事,此事不必再犹豫。"
13.7.12
चन्द्ररश्मिप्रकाशानां हयानां वातरहसाम् ।
एकतः श्यामकर्णानां सहस्रं दाह भार्गव ॥ १३.७.१२ ॥
伽提说:"婆利古后裔啊,请给我一千匹马——如月光般明亮,如风般迅捷,一侧耳朵乌黑。"
13.7.13
ततः स भृगुशार्दूलश्च्यवनस्यात्मजः प्रभुः ।
अब्रवीद्वरुणं देवमादित्यं पतिमम्भसाम् ॥ १३.७.१३ ॥
于是,婆利古族的猛虎、遮耶伐那之子、那位有力者,对水之主、阿底提之子神婆楼那说道。
13.7.14
एकतः श्यामकर्णानां हयानां चन्द्रवर्चसाम् ।
सहस्रं वातवेगानां भिक्षे त्वां देवसत्तम ॥ १३.७.१४ ॥
众神中最杰出者啊,我向你求取一千匹马:它们如月光般明亮,疾如风,一侧耳朵呈黑色。
13.7.15
तथेति वरुणो देव आदित्यो भृगुसत्तमम् ।
उवाच यत्र ते च्छन्दस्तत्रोत्थास्यन्ति वाजिनः ॥ १३.७.१५ ॥
婆楼那神、阿底提之子对婆利古族最杰出者说:“就这样吧。你心之所向之处,那些马便会涌现。”
13.7.16
ध्यातमात्रे ऋचीकेन हयानां चन्द्रवर्चसाम् ।
गङ्गाजलात्समुत्तस्थौ सहस्रं विपुलौजसाम् ॥ १३.७.१६ ॥
仙人遮那伽一经冥想,恒河之水中便涌出一千匹如月光般明亮、力量强大的马。
13.7.17
अदूरे कान्यकुब्जस्य गङ्गायास्तीरमुत्तमम् ।
अश्वतीर्थं तदद्यापि मानवाः परिचक्षते ॥ १३.७.१७ ॥
离羯尼耶古遮不远,恒河有一处上好的河岸,至今人们仍称之为“马津”(阿什瓦提尔塔)。
13.7.18
ततो वै गाधये तात सहस्रं वाजिनां शुभम् ।
ऋचीकः प्रददौ प्रीतः शुल्कार्थं तपतां वरः ॥ १३.७.१८ ॥
亲爱的,于是苦行者中最杰出的遮那伽欢喜地把一千匹吉祥的马作为聘礼交给了伽提。
13.7.19
ततः स विस्मितो राजा गाधिः शापभयेन च ।
ददौ तां समलङ्कृत्य कन्यां भृगुसुताय वै ॥ १३.७.१९ ॥
于是迦提王既惊讶又畏惧诅咒,便将那少女盛装打扮,交给了婆利古之子。
13.7.20
जग्राह विधिवत्पाणिं तस्या ब्रह्मर्षिसत्तमः ।
सा च तं पतिमासाद्य परं हर्षमवाप ह ॥ १३.७.२० ॥
最好的梵仁依礼执其手,她得到夫婿,便获得了至上的喜悦。
13.7.21
स तुतोष च ब्रह्मर्षिस्तस्या वृत्तेन भारत ।
छन्दयामास चैवैनां वरेण वरवर्णिनीम् ॥ १३.७.२१ ॥
婆罗多啊,那位梵仁因她的品行而满意,便想赐予这位容貌美好的女子一个恩惠。
13.7.22
मात्रे तत्सर्वमाचख्यौ सा कन्या राजसत्तम ।
अथतामब्रवीन्माता सुतां किञ्चिदवाङ्मुखीम् ॥ १३.७.२२ ॥
王中之最,那少女把一切都告诉了母亲;母亲便对略低着头的女儿说道。
13.7.23
ममापि पुत्रि भर्ता ते प्रसादं कर्तुमर्हति ।
अपत्यस्य प्रदानेन समर्थश्च महातपाः ॥ १३.७.२३ ॥
女儿啊,你的丈夫也应当为我施恩;那位大苦行者有能力赐予子嗣。
13.7.24
ततः सा त्वरितं गत्वा तत्सर्वं प्रत्यवेदयत् ।
मातुश्चिकीर्षितं राजन्ऋचीकस्तामथाब्रवीत् ॥ १३.७.२४ ॥
于是她急忙前去,把一切都报告了;国王啊,里其迦听了母亲的心愿,便对她说道。
13.7.25
गुणवन्तं च पुत्रं वै त्वं च साऽथ जनिष्यथ ।
जनन्यास्तव कल्याणि मा भूद्वै प्रणयोऽन्यथा ॥ १३.७.२५ ॥
你与她将生下一个有德的儿子。吉祥的女子啊,愿你对母亲的情意不要改变。
13.7.26
तव चैव गुणश्लाघी पुत्र उत्पत्स्यते महान् ।
अस्मद्वंशकरः श्रीमांस्तव भ्राता च वंशकृत् ॥ १३.७.२६ ॥
你的儿子以美德著称,将生为伟大之人。他将延续我们的家族,光荣显赫,也将延续你兄弟的世系。
13.7.27
ऋतुस्नाता च साऽश्वत्थं त्वं च वृक्षमुदुम्बरम् ।
परिष्वजेतं कल्याणि तत इष्टमवाप्स्यथः ॥ १३.७.२७ ॥
吉祥的女子啊,待她经期沐浴之后,让她拥抱菩提树,你拥抱优昙树;那时你们便会获得所愿之果。
13.7.28
चरुद्वयमिदं चैव मन्त्रपूतं शुचिस्मिते ।
त्वं च सा चोपभुञ्जीतं ततः पुत्राववाप्स्यथः ॥ १३.७.२८ ॥
纯净微笑的女子啊,这两份经咒净化的米饭供品,你与她应当食用;然后你们便会获得儿子。
13.7.29
ततः सत्यवती हृष्टा मातरं प्रत्यभाषत ।
यदृचीकेन कथितं तच्चाचख्यौ चरुद्वयम् ॥ १३.७.२९ ॥
于是萨蒂亚瓦蒂欢喜地对母亲说,把里奇卡所说的一切,以及两份供品的事,全都告诉了她。
13.7.30
तामुवाच ततो माता सुतां सत्यवतीं तदा ।
पुत्रि पूर्वोपपन्नायाः कुरुष्व वचनं मम ॥ १३.७.३० ॥
那时母亲对女儿萨蒂亚瓦蒂说:‘女儿啊,为了先前所得之事,请听从我的话。’
13.7.31
भर्त्रा य एष दत्तस्ते चरुर्मन्त्रपुरस्कृतः ।
एनं प्रयच्छ मह्यं त्वं मदीयं त्वं गृहाण च ॥ १३.७.३१ ॥
把丈夫给你的这份以咒语制成的羹饭给我,你拿去我的那一份。
13.7.32
व्यत्यासं वृक्षयोश्चापि करवाव शुचिस्मिते ।
यदि प्रमाणं वचनं मम मातुरनिन्दिते ॥ १३.७.३२ ॥
纯洁微笑的无瑕者啊,若我的话与你母亲的话有权威,我们就交换这两棵树吧。
13.7.33
स्वमपत्यं विशिष्टं हि सर्व इच्छत्यनाविलम् ।
व्यक्तं भगवता चात्र कृतमेवं भविष्यति ॥ १३.७.३३ ॥
每个人都希望自己的子孙优秀而纯净;而尊者在此明确决定了将会如此。
13.7.34
ततो मे त्वच्चरौ भावः पादपे च समुध्यमे ।
कथं विशिष्टो भ्राता मे भवेदित्येव चिन्तय ॥ १३.७.३४ ॥
那么,我的心愿便在你的羹饭和树中;你只需思量如何让我的兄弟变得优秀。
13.7.35
तथाच कृतवत्यौ ते माता सत्यवती च सा ।
अथ गर्भावनुप्राप्ते उभे ते वै युधिष्ठिर ॥ १३.७.३५ ॥
如此,你的母亲萨蒂亚瓦蒂与她便照做了;然后,啊,坚战,她们二人都怀孕了。
13.7.36
दृष्ट्वा गर्भमनुप्राप्तां भार्यां स च महानृषिः ।
उवाच तां सत्यवतीं दुर्मना भृगुसत्तमः ॥ १३.७.३६ ॥
那位大仙,婆利古族中最优秀者,见妻子已怀孕,心中忧烦,便对萨蒂亚瓦蒂说道。
13.7.37
व्यत्यासेनोपयुक्तस्ते चरुर्व्यक्तं भविष्यति ।
व्यत्यासः पादपे चापि सुव्यक्तं ते कृतः शुभे ॥ १३.७.३७ ॥
通过交换,你所享用的祭饭必将显明。吉祥的女子啊,你在树上也明确地进行了那次交换。
13.7.38
मया हि विश्वं यद्ब्राह्म त्वच्चरौ सन्निवेशितम् ।
क्षत्रवीर्यं च सकलं चरौ तस्या निवेशितम् ॥ १३.७.३८ ॥
我将全部婆罗门之力置于你的祭饭中,并将全部刹帝利之力置于她的祭饭中。
13.7.39
त्रैलोक्यविख्यातगुणं त्वं विप्रं जनयिष्यसि ।
सा च क्षत्रं विशिष्टं वै तत एतत्कृतं मया ॥ १३.७.३९ ॥
你将生下一位在三界中以德行闻名的婆罗门,而她将生下一位卓越的刹帝利;因此我这样做了。
13.7.40
व्यत्यासस्तु कृतो यस्मात्त्वया मात्रा च ते शुभे ।
तस्मात्सा ब्राह्मणं श्रेष्ठं माता ते जनयिष्यति ॥ १३.७.४० ॥
吉祥的女子啊,因为你和你的母亲进行了交换,你的母亲将生下一位卓越的婆罗门。
13.7.41
क्षत्रियं तूग्रकर्माणं त्वं भद्रे जनयिष्यसि ।
न हि ते तत्कृतं साधु मातृस्नेहेन भामिनि ॥ १३.७.४१ ॥
但是,善良的女子啊,你将生下行事猛烈的刹帝利;光彩照人的女子啊,你出于对母亲的爱所做的,并不好。
13.7.42
सा श्रुत्वा शोकसंतप्ता पपात वरवर्णिनी ।
भूमौ सत्यवती राजंश्छिन्नेव रुचिरा लता ॥ १३.७.४२ ॥
她听后,被忧愁折磨的这位肤色白皙的优秀女子萨蒂亚瓦蒂倒在地上,大王啊,如同被割断的美丽藤蔓。
13.7.43
प्रतिलभ्य च सा सञ्ज्ञां शिरसा प्रणिपत्य च ।
उवाच भार्या भर्तारं गाधेयी भार्गवर्षभम् ॥ १३.७.४३ ॥
她恢复知觉,低首行礼,伽提之女对婆利古族中的雄牛丈夫说道。
13.7.44
प्रसादयन्त्यां भार्यायां मयि ब्रह्मविदांवर ।
प्रसादं कुरु विप्रर्षे न मे स्यात्त्रत्रियः सुतः ॥ १३.७.४४ ॥
梵知者中的至上者啊,当妻子向我恳求时,婆罗门仙人啊,请施恩:愿我的儿子不是刹帝利。
13.7.45
कामं ममोग्रकर्मा वै पौत्रो भवितुमर्हति ।
न तु मे स्यात्सुतो ब्रह्मन्नेष मे दीयतां वरः ॥ १३.७.४५ ॥
我的孙子即便行事凶猛,也值得尊重;但我不要儿子。婆罗门啊,请赐我这项恩典。
13.7.46
एवमस्त्विति होवाच स्वां भार्यां सुमहातपाः ।
ततः सा जनयामास जमदग्निं सुतं शुभम् ॥ १३.७.४६ ॥
这位大苦行者对妻子说:“就这样吧。”于是她生下了吉祥的儿子,名叫阇摩达格尼。
13.7.47
विश्वामित्रं चाजनयद्गाधिभार्या यशस्विनी ।
ऋषेः प्रसादाद्राजेन्द्र ब्रह्मर्षि ब्रह्मवादिनम् ॥ १३.७.४७ ॥
伽提那位名声显赫的妻子生下了毗首密多罗。国王之主啊,由于仙人的恩典,他成为了梵仙,宣说梵的人。
13.7.48
ततो ब्राह्मणतां यातो विश्वामित्रो महातपाः ।
क्षत्रियः सोऽप्यथ तथा ब्रह्मवंशस्य कारकः ॥ १३.७.४८ ॥
于是大苦行者毗首密多罗获得了婆罗门身份。他虽是刹帝利,却成为婆罗门世系的创立者。
13.7.49
तस्य पुत्रा महात्मानो ब्रह्मवंशविवर्धनाः ।
तपस्विनो ब्रह्मविदो गोत्रकर्तार एव च ॥ १३.७.४९ ॥
他的伟大的儿子们使婆罗门族繁盛,他们是苦行者、梵知者,也是族姓的创立者。
13.7.50
मधुच्छन्दश्च भगवान्देवरातश्च वीर्यवान् ।
अक्षीणश्च शकुन्तश्च बभ्रुः कालपथस्तथा ॥ १३.७.५० ॥
摩图刹陀、尊者提婆罗多、有力的阿叉那、沙昆多、跋布卢,以及迦罗跋陀。
13.7.51
याज्ञवल्क्यश्च विख्यातस्तथा स्थूणो महाव्रतः ।
उलूको यमदूतश्च तथर्षिः सैन्धवायनः ॥ १३.७.५१ ॥
著名的耶若婆佉、持大誓的斯图那、阎摩使者乌陆迦,以及仙人信度衍那。
13.7.52
पर्णजङ्घश्च भगवान्गावलश्च महानृषिः ।
ऋषिर्वज्रस्तथा ख्यातः सालङ्कायन एव च ॥ १३.७.५२ ॥
尊者叶足、大仙䌽婆罗、著名的仙人金刚,以及娑攞建陀衍那。
13.7.53
लीलाढ्यो नारदश्चैव तथा कूर्चामुखः स्मृतः ।
वादुलिर्मुसलश्चैव वक्षोग्रीवस्तथैव च। ॥ १३.७.५३ ॥
游戏富足者、仙人那罗陀亦在其中,库尔恰穆卡被记述;还有跋陀利、穆萨拉和胸颈者。
13.7.54
आङ्घ्रिको नैकदृक्चैव शिलायूपः सितः शुचिः ।
चक्रको मारुतन्तव्यो वातघ्नोऽथाश्वलायनः ॥ १३.७.५४ ॥
阿伽利迦与独目者亦在其中,石柱者、白净清净者;轮者、风线者、风杀者,以及马车仙阿湿婆衍那。
13.7.55
श्यामायनोऽथ गार्ग्यश्च जाबालिः सुश्रुतस्तथा ।
कारीषिरथ संश्रुत्यः परपौरवतन्तवः ॥ १३.७.५५ ॥
沙摩衍那、伽尔伽、阇跋利、苏submit舍鲁多、迦利什、三闻耶,以及波罗家族的婆罗婆(Paurava)诸系。
13.7.56
महानृषिश्च कपिलस्तथर्षिस्ताडकायनः ।
तथैव चोपगहनस्तथर्षिश्चासुरायणः ॥ १३.७.५६ ॥
大仙迦毗罗、仙人多陀迦衍那、优婆伽诃那,以及仙人阿苏罗衍那。
13.7.57
मार्दमर्षिर्हिरण्याक्षो जङ्गारिर्बाभ्रवायणिः ।
भूतिर्विभूतिः सूतश्च सुरकृत्तु तथैव च ॥ १३.७.५७ ॥
仙人摩陀、希兰耶叉、冈迦利、跋不罗衍尼、菩提、毗菩提、苏陀,以及苏罗伽利。
13.7.58
अरालिर्नाचिकश्चैव चाम्पेयोज्जयनौ तथा ।
नवतन्तुर्बकनखः सेयनो यतिरेव च ॥ १३.७.५८ ॥
阿罗林、那吉迦、战婆耶、乌阇衍那、那婆檀图、跋迦那迦、塞衍那,以及苦行者耶提。
13.7.59
अम्भोरुदश्चारुमत्स्यः शिरीषी चाथ गार्दभिः ।
ऊर्जयोनिरुदापेक्षी नारदी च महानृषिः।
विश्वामित्रात्मजाः सर्वे मुनयो ब्रह्मवादिनः ॥ १३.७.५९ ॥
阿菩嘞陀、遮卢摩特耶、尸利史、伽尔达毗、乌遮约尼、乌陀毗克史、那罗陀,以及大仙——皆为毗首弥多罗之子,宣说梵的诸牟尼。
13.7.60
तथैव क्षत्रियो राजन्विश्वामित्रो महातपाः ।
ऋचीकेनाहितं ब्रह्म परमेतद्युधिष्ठिर ॥ १३.७.६० ॥
同样,大王,苦行甚大的刹帝利毗首弥多罗从阿梨伽处获得了这至上的梵,阿育底斯塔啊。
13.7.61
एतत्ते सर्वमाख्यातं तत्वेन भरतर्षभ ।
विश्वामित्रस्य वै जन्म सोमसूर्याग्नितेजसः ॥ १३.७.६१ ॥
毗湿摩:婆罗多之牛啊,我已将这一切如实告诉你——具有月神、日神与火神光辉的毗奢弥多罗的诞生。
13.7.62
यत्रयत्र च सन्देहो भूयस्ते राजसत्तम ।
तत्रतत्र च मां ब्रूहि च्छेत्ताऽस्मि तव संशयान् ॥ १३.७.६२ ॥
毗湿摩:诸王中最优秀的,无论你何处再有疑惑,便向我询问;我将斩断你的疑团。