Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.8

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.8.1

श्रुतं मे महदाख्यानमेतत्कुरुकुलोद्वह ।
सुदुष्प्रापं यद्ब्रवीषि ब्राह्मण्यं वदतांवर ॥ १३.८.१ ॥

库鲁族的光荣后裔啊,我已听闻你所讲述的这部伟大史诗,关于婆罗门的境界,它极难获得,言者中的最优秀者啊。

13.8.2

विश्वामिइत्रो महाराज राजा ब्राह्मणतां गतः ।
कथितं भवता सर्वं विस्तरेण पितामह ॥ १३.८.२ ॥

伟大的国王啊,国王毗首弥多罗获得了婆罗门的境界。祖父啊,您已将一切详细讲述。

13.8.3

तच्च राजन्मया सर्वं श्रुतं बुद्धिमतांवर ।
आगमो हि परोऽस्माकं त्वत्तः कौरवनन्दन ॥ १३.८.३ ॥

国王啊,这一切我都听过了。智者中最杰出的啊,从您那里传承下来的这份教诲对我们而言最为珍贵,考拉瓦之喜悦啊。

13.8.4

वीतहव्यश्च नृपतिः श्रुतो मे विप्रतां गतः ।
तदेव तावद्गाङ्गेय श्रोतुमिच्छाम्यहं विभो ॥ १३.८.४ ॥

我也听说国王伐多诃婆获得了婆罗门的境界。恒河之子啊,全能者啊,我现在正想听闻此事。

13.8.5

स केन कर्मणा प्राप्तो ब्राह्मण्यं राजसत्तमः ।
वरेण तपसा वाऽपि तन्मे व्याख्यातुमर्हसि ॥ १३.८.५ ॥

那位最优秀的国王以何种行为获得了婆罗门的境界?是凭借恩赐,还是凭借苦行?您应当为我解说。

13.8.6

शृणु राजन्यथा राजा वीतहव्यो महायशाः ।
राजर्षिर्दुर्लभं प्राप्तो ब्राह्मण्यं लोकसत्कृतम् ॥ १३.८.६ ॥

国王啊,请听:伟大名声的王者伐多诃婆,一位王仙,如何获得了为世人所尊崇的那稀有的婆罗门境界。

13.8.7

मनोर्महात्मनस्तात प्रजा धर्मेण शासतः ।
बभूव पुत्रो धर्मात्मा शर्यातिरिति विश्रुतः ॥ १३.८.७ ॥

亲爱的孩子,当伟大的摩奴依法治理臣民时,生下了一个名为舍耶提的、以法为本的著名儿子。

13.8.8

तस्यान्ववाये द्वौ राजन्राजानौ सम्बभूवतुः ।
हैहयस्तालजङ्घश्च वत्सेषु जयतांवर ॥ १३.८.८ ॥

在他的后裔中,王啊,诞生了两位国王:海哈耶与多罗键迦,胜利者中最优秀的人啊。

13.8.9

हैहयस्य तु राजेन्द्र दशसु स्त्रीषु भारत ।
शतं बभूव पुत्राणां शूराणामनिवर्तिनाम्।
तुल्यरूपप्रभावानां बलिनां युद्धशालिनाम् ॥ १३.८.९ ॥

诸王之主啊,婆罗多之裔啊,哈哈耶从十位妻子那里生下了一百个儿子——他们是英雄,从不后退,容貌与威力相当,强大且精于战阵。

13.8.10

धनुर्वेदे च वेदे च सर्वत्रैव कृतश्रमाः ॥ १३.८.१० ॥

无论在弓箭之术还是吠陀之学,他们在各方面都勤奋苦修。

13.8.11

काशिष्वपि नृपो राजन्दिवोदासपितामहः ।
हर्यश्व इति विख्यातो बभूव जयतांवरः ॥ १३.८.११ ॥

王啊,在迦尸国也有一位国王,名为哈里耶什瓦,是提沃达萨之祖父,被誉为胜利者中最优秀的人。

13.8.12

स वीतहव्यदायादैरागत्य पुरुषर्षभ ।
गङ्गायमुनयोर्मध्ये सङ्ग्रामे विनिपातितः ॥ १३.८.१२ ॥

人中雄牛啊,维多哈维耶之后裔来袭,在恒河与朱木那河之间的战斗中将他杀死。

13.8.13

तं तु हत्वा नरपतिं हैहयास्ते महारथाः ।
प्रतिजग्मुः पुरीं रम्यां वत्सानामकुतोभयाः ॥ १३.८.१३ ॥

杀死那位君王之后,大车勇士哈伊哈耶人无所畏惧地返回了跋萨人美丽的城市。

13.8.14

हर्यश्वस्य च दायादः काशिराजोऽभ्यषिच्यत ।
सुदेवो देवसंकाशः साक्षाद्धर्म इवापरः ॥ १३.८.१४ ॥

哈里亚什瓦的后裔、迦尸国王苏提婆受到灌顶;他如同天神,仿佛另一位正法亲临。

13.8.15

स पालयामास महीं धर्मात्मा काशिनन्दनः ।
तैर्वीतहव्यैरागत्य युधि सर्वैर्विनिर्जितः ॥ १३.८.१५ ॥

这位正直的迦尸之子治理大地,然而维多贺婆人前来,在战中将他彻底击败。

13.8.16

तमथाजौ विनिर्जित्य प्रतिजग्मुर्यथागतम् ।
सौदेविस्त्वथ काशीशोदिवोदासोऽभ्यषिच्यत ॥ १३.८.१६ ॥

在战场上击败他之后,他们按原路返回;随后,苏提婆之子、迦尸之主提婆陀娑受到灌顶。

13.8.17

दिवोदासस्तु विज्ञाय वीर्य तेषां यतात्मनाम् ।
वाराणसीं महातेजा निर्ममे शक्रशासनात् ॥ १३.८.१७ ॥

然而,光辉伟大的提婆陀娑了解那些自制的维多贺婆人的力量,遵照帝释天的命令建造了婆罗尼斯城。

13.8.18

विप्रक्षत्रियसम्बाधां वैश्यशूद्रसमाकुलाम् ।
नैकद्रव्योच्चयवतीं समृद्धविपणापणाम् ॥ १३.८.१८ ॥

这座城市里婆罗门和刹帝利众多,吠舍和首陀罗熙熙攘攘,堆满各种货物,市场和店铺繁荣兴旺。

13.8.19

गङ्गाया उत्तरे कूले वप्रान्ते राजसत्तम् ।
गोमत्या दक्षिणे कूले शक्रस्येवामरावतीम्। ॥ १३.८.१९ ॥

诸王中最杰出者啊,在恒河北岸,城墙边,以及戈玛蒂河南岸,宛如因陀罗的阿玛拉瓦蒂城。

13.8.20

तत्र तं राजशार्दूलं निवसन्तं महीपतिम् ।
आगत्य हैहया भूयः पर्यधावन्त भारत ॥ १३.८.२० ॥

当那位王中之虎居住在那里时,哈伊哈耶人再次前来,向那大地之主扑来,包围了他,婆罗多啊。

13.8.21

स निष्क्रम्य ददौ युद्धं तेभ्यो राजा महाबलः ।
देवासुरसमं घोरं दिवोदासो महाद्युतिः ॥ १३.८.२१ ॥

那位大力、大光辉的国王提沃陀娑走出城来与他们交战,那场战斗之惨烈如同诸神与阿修罗之战。

13.8.22

स तु युद्धे महाराज दिनानां दशतीर्दश ।
हतवाहनभूयिष्ठस्ततो दैन्यमुपागमत् ॥ १३.८.२२ ॥

大王啊,他在那场战斗中战斗了十个十日;随后,他的大部分坐骑被杀,他陷入了困顿。

13.8.23

हतयोधस्ततो राजन्क्षीणकोशश्चक भूमिपः ।
दिवोदासः पुरीं त्यक्त्वा पलायनपरोऽभवत् ॥ १३.८.२३ ॥

大王啊,战士被杀、府库耗尽,大地之主提沃陀娑弃城而去,一心逃亡。

13.8.24

गत्वाऽऽश्रमपदं रम्यं भरद्वाजस्य धीमतः ।
जगाम शरणं राजा कृताञ्जलिररिंदम् ॥ १३.८.२४ ॥

降伏敌人者啊,国王来到智者跋罗堕遮的可爱修行处,合掌寻求庇护。

13.8.25

तमुवाच भरद्वाजो ज्येष्ठः पुत्रो बृहस्पतेः ।
पुरोधाः शीलसम्पन्नो दिवोदासं महीपतिम् ॥ १३.८.२५ ॥

布利诃萨蒂的长子、品行高尚的祭司婆罗堕遮对大地之主提婆陀娑说道。

13.8.26

किमागमनकृत्यं ते सर्वं प्रबूहि मे नृप ।
यत्ते प्रियं तत्करिष्ये न मेऽत्रास्ति विचारणा ॥ १३.८.२६ ॥

国王啊,请把你来此的全部缘由告诉我。凡你所喜爱的,我都会去做,在此我没有任何犹豫。

13.8.27

भगवन्वैतहव्यैर्मे युद्धे वंशः प्रणाशितः ।
अहमेकः परिद्यूनो भवन्तं शरणं गतः ॥ १३.८.२७ ॥

尊者啊,维多诃婆人在战斗中毁灭了我的家族。我孤身一人,深受困苦,前来向您求庇护。

13.8.28

शिष्यस्नेहेन भगवंस्त्वं मां रक्षितुमर्हसि ।
एकशेषः कृतो वंशो मम तैः पापकर्मभिः ॥ १३.८.२८ ॥

尊者啊,出于对弟子的爱,您应当保护我。那些作恶者只在我的家族中留下了一个人。

13.8.29

तमुवाच महाभागो भरद्वाजः प्रतापवान् ।
न भेतव्यं न भेतव्यं सौदेव व्येतु ते भयम् ॥ १३.८.२९ ॥

大福德、威力强大的婆罗堕遮对他说:"不要害怕,不要害怕,苏提婆之子啊!愿你的恐惧消散。"

13.8.30

अहमिष्टिं करिष्यामि पुत्रार्थं ते विशाम्पते ।
वीतहव्यसहस्राणि येन त्वं प्रहरिष्यसि ॥ १३.८.३० ॥

人民之主啊,我将为你举行祭祀以求得子嗣,由此你将击杀成千上万的维多诃婆人。

13.8.31

तत इष्टिं चकारर्षिस्तस्य वै पुत्रकामिकीम् ।
अथास्य तनयो जज्ञे दैवोदासः प्रतर्दनः ॥ १३.८.३१ ॥

于是仙人为他举行了求子祭祀,之后提婆达萨之子普罗塔丹那降生。

13.8.32

स जातमात्रो ववृधे समाः सद्यस्त्रयोदश ।
वेदं चापि जगौ कृत्स्नं धनुर्वेदं च भारत ॥ १३.८.३२ ॥

他一出生便如同十三岁般成长,并且诵习了全部吠陀以及射术之学,婆罗多之子啊。

13.8.33

योगेन च समाविष्टो भरद्वाजेन धीमता ।
कृत्स्नं हि तेजो यल्लोके तदेतद्देहमाविशत् ॥ १३.८.३३ ॥

他借瑜伽与智者婆罗堕遮相合,世间全部的光辉便进入了那身体。

13.8.34

ततः स कवची धन्वी स्तूयमानः सुरर्षिभिः ।
बन्दिभिर्वन्द्यमानश्च बभौ सूर्य इवोदितः ॥ १३.८.३४ ॥

那时,他身披铠甲、手持弓箭,受到天神仙人的赞颂,又被说唱者礼敬,光辉如同初升的太阳。

13.8.35

स रथी बद्धनिस्त्रिंशो बभौ दीप्त इवानलः ।
प्रययौ स धनुर्धुन्वन्विवर्षिषुरिवाम्बुदः ॥ १३.८.३५ ॥

他乘车,佩剑在身,光辉如燃烧的火焰;挥动着弓,他前进如将降雨的云。

13.8.36

तं दृष्ट्वा परमं हर्षं सुदेवतनयो ययौ ।
मेने च मनसा दग्धान्वैतहव्यान्स पार्थिवः ॥ १३.८.३६ ॥

见到他,苏提婆之子怀着至高的喜悦离去;那位君王心中以为,韦塔哈维耶人已经被烧毁了。

13.8.37

ततोसौ यौवराज्ये च स्थापयित्वा प्रतर्दनम् ।
कृतकृत्यं तदाऽऽत्मानं स राजा प्रत्यपद्यत ॥ १३.८.३७ ॥

于是,他立普罗塔尔丹那为太子,自认为已完成使命,那位国王心满意足。

13.8.38

ततस्तु वैतहव्यानां वधाय स महीपतिः ।
पुत्रं प्रस्थापयासास प्रतर्दनमरिंदमम् ॥ १३.८.३८ ॥

于是那位国王派遣他的儿子、征服敌人的普罗塔尔丹那去诛杀吠陀哈维亚人。

13.8.39

सरथः स तु संतीर्य गङ्गामाशु पराक्रमी ।
प्रययौ वीतहव्यानां पुरीं परपुरंजयः ॥ १३.८.३९ ॥

这位骁勇、攻占敌城的勇士乘车迅速渡过恒河,朝吠陀哈维亚人的城市进发。

13.8.40

वैतहव्यास्तु संश्रुत्य रथघोषं समुद्धतम् ।
निर्ययुर्नगराकारै रथैः पररथारुजैः ॥ १३.८.४० ॥

吠陀哈维亚人听到汹涌的战车轰鸣,便乘着如城池般庞大、能摧毁敌车的战车冲了出来。

13.8.41

निष्क्रम्य ते नरव्याघ्रा दंशिताश्चित्रयोधिनः ।
प्रतर्दनं समाजग्मुः शरवर्षैरुदायुधाः ॥ १३.८.४१ ॥

那些人中猛虎般的战士披甲而出,身怀奇妙的武艺,高举兵器,以箭如雨点般的攻势迎向普罗塔尔丹那。

13.8.42

शस्त्रैश्च विविधाकारै रथौघैश्च युधिष्ठिर ।
अभ्यवर्षन्त राजानं हिमवन्तमिवाम्बुदाः ॥ १३.८.४२ ॥

游陀提罗啊,他们以各式兵器和成群的战车,如乌云倾注于喜马拉雅那般,向那国王倾泻而下。

13.8.43

अस्त्रैरस्त्राणि संवार्य तेषां राजा प्रतर्दनः ।
जघान तान्महातेजा वज्रानलसमैः शरैः ॥ १३.८.४३ ॥

国王波罗呾那以武器挡开他们的武器,大光明者以如雷电与火焰般的箭将他们射杀。

13.8.44

कृत्तोत्तमाङ्गास्ते राजन्भल्लैः शतसहस्रशः ।
अपतन्रुधिरार्द्राङ्गा निकृत्ता इव किंशुकाः ॥ १३.८.४४ ॥

大王啊,他们被钺箭斩去头颅,成百上千,浑身浸透鲜血,像被砍倒的金翼树一样倒下。

13.8.45

हतेषु तेषु सर्वेषु वीतहव्यः सुतेष्वथ ।
प्राद्रवन्नगरं हित्वा भृगोराश्रममप्युत ॥ १३.८.४५ ॥

当毗多诃婆的诸子全部被杀后,毗多诃婆离开城市,逃往婆利古的修行林。

13.8.46

ययौ भृगुं च शरणं वीतहव्यो नराधिपः ।
अभयं च ददौ तस्मै वीतहव्याय भार्गवः।
आसनं शिष्यमध्ये च भृगुरन्यत्समादिशत् ॥ १३.८.४६ ॥

国王毗多诃婆投奔婆利古寻求庇护,婆利古赐予毗多诃婆无畏;婆利古又吩咐另外一事:让他在弟子之中有一个座位。

13.8.47

अथानुपदमेवाशु तत्रागच्छत्प्रतर्दनः ।
स प्राप्य चाश्रमपदं दिवोदासात्मजोऽब्रवीत् ॥ १३.८.४७ ॥

随后,波罗呾那紧随其后迅速来到那里。到达修行林后,提婆陀娑之子说道。

13.8.48

भोभो केऽत्राश्रमे सन्ति भृगोः शिष्या महात्मनः ।
द्रष्टुमिच्छे मुनिमहं तस्याचक्षत मामिति ॥ १३.८.४८ ॥

喂喂!这修行林中,谁是大德婆利古的弟子?我想见这位仙人。他们对我说:

13.8.49

स तं विदित्वा तु भृगुर्निश्चक्रामाश्रमात्तदा ।
पूजयामास च ततो विधिना नृपसत्तमम् ॥ १३.८.४९ ॥

婆利古认出他后,便走出修行处,依照礼仪敬奉这位最优秀的国王。

13.8.50

उवाच चैनं राजेन्द्र किं कार्यं ब्रूहि पार्थिव ।
स चोवाच नृपस्तस्मै यदागमनकारणम् ॥ १३.८.५० ॥

他说:「王中之王啊,请说吧,要做什么?」国王便向他说明了来意。

13.8.51

अयं ब्रह्मन्नितो राजा वीतहव्यो विसर्ज्यताम् ।
अस्य पुत्रैर्हि मे कृत्स्नो ब्रह्मन्वंशः प्रणाशितः ॥ १३.८.५१ ॥

婆罗门啊,请让这位国王毗多诃婆从此处释放。他的儿子们已灭绝了我全部的家族。

13.8.52

उत्सादितश्च विषयः काशीनां रत्नसञ्चयः ।
एतस्य वीर्यदृप्तस्य हतं पुत्रशतं मया।
अस्येदानीं वधादद्य भविष्याम्यनृणः पितुः ॥ १३.८.५२ ॥

迦尸的国土被摧毁,其珠宝库被劫掠。因他恃勇自负,我杀了他的一百个儿子。今天杀了他,我便可以偿还对父亲的债务。

13.8.53

तमुवाच कृपाविष्टो भृगुर्धर्मभृतांवरः ।
नेहास्ति क्षत्रियः कश्चित्सर्वे हीमे द्विजातयः ॥ १३.८.५३ ॥

婆利古满怀怜悯,乃持法者中的最优者,对他说:「这里没有刹帝利,这些人都是再生族。」

13.8.54

एतत्तु वचनं श्रुत्वा भृगोस्तथ्यं प्रतर्दनः ।
पादावुपस्पृश्य शनैः प्रहृष्टो वाक्यमब्रवीत् ॥ १३.८.५४ ॥

闻听婆利古这句真实的话,毗尔达那触碰了他的双足,心中欢喜,缓缓说出了这番话。

13.8.55

एवमप्यस्मि भगवन्कृतकृत्यो न संशयः ।
य एष राजा वीर्येण स्वजातिं त्याजितो मया ॥ १३.८.५५ ॥

如此,我已完成使命,毫无疑问;此王凭我的威力,已被迫舍弃自己的种姓。

13.8.56

अनुजानीहि मां ब्रह्मन्ध्यायस्व च शिवेन माम् ।
त्याजितो हि मया जातिमेव राजा भृगूद्वह ॥ १३.८.५६ ॥

婆罗门啊,请允许我离去,并以善意思念我。婆罗门中最优秀的婆里古之子啊,我确实使这位国王舍弃了他的种姓。

13.8.57

ततस्तेनाभ्यनुज्ञातो ययौ राजा प्रतर्दनः ।
यथागतं महाराज मुक्त्वा विषमिवोरगः ॥ १३.८.५७ ॥

于是,经他允许,国王婆罗底那便照来时的路离去,大王啊,如同蛇放下毒液一般。

13.8.58

भृगोर्वचनमात्रेण स च ब्रह्मर्षितां गतः ।
वीतहव्यो महाराज ब्रह्मवादित्वमेव च ॥ १३.८.५८ ॥

仅凭婆里古的一句话,他便成为梵仙,大王啊;而婆罗迦的维多诃婆耶也获得了梵言者的地位。

13.8.59

तस्य गृत्समदः पुत्रो रूपेणेन्द्र इवापरः ।
शक्रस्त्वमिति यो दैत्यैर्निगृहीतः किलाभवत् ॥ १३.८.५९ ॥

他的儿子是伽特萨玛达,外貌上犹如另一位因陀罗;他曾被群魔捉住,他们说:“你就是帝释天。”

13.8.60

ऋग्वेदे वर्तते चाग्र्या श्रुतिर्यस्य महात्मनः ।
यत्र गृत्समदो राजन्ब्राह्मणैः स महीयते ॥ १३.८.६० ॥

《梨俱吠陀》中保存着那位大德的至上圣典,大王啊,在那里伽特萨玛达受到婆罗门的尊崇。

13.8.61

स ब्रह्मचारी विप्रर्षिः श्रीमान्गृत्समदोऽभवत् ।
पुत्रो गृत्समदस्यापि विप्रः सावैनसोऽभवत् ॥ १३.८.६१ ॥

他成为了光荣的仙人之首、婆罗门格尔特萨玛达,一位梵行学生。格尔特萨玛达之子也成为婆罗门,名为萨伊瓦伊纳萨。

13.8.62

सावैनसस्य पुत्रो वै वितस्त्यस्तस्य चात्मजः ।
वितस्त्यस्य सुतस्तस्य शिवस्तश्चात्मजोऽभवत् ॥ १३.८.६२ ॥

萨伊瓦伊纳萨之子为维塔斯蒂,其子亦然。维塔斯蒂之子为湿婆,湿婆也生了一子。

13.8.63

श्रवास्तस्य सुतश्चर्षिः श्रवसश्चाभवत्तमः ।
तमसश्च प्रकाशोऽभूत्तनयो द्विजसत्तमः ॥ १३.८.६३ ॥

其子为仙人室罗婆,室罗婆之子为多摩斯。多摩斯之子为普拉卡沙,是再生者中最优秀的。

13.8.64

प्रकाशस्य च वागिन्द्रो बभूव जयतांवरः ।
तस्यात्मजश्च प्रमितिर्वेदवेदाङ्गपारगः ॥ १३.८.६४ ॥

普拉卡沙之子为胜者中最优秀的婆伽因德罗。其子为普拉米迪,精通吠陀及其支分。

13.8.65

घृताच्यां तस्य पुत्रस्तु रुरुर्नामोदपद्यत ।
प्रमद्वरायां तु रुरोः पुत्रः समुदपद्यत।
शुनको नाम विप्रर्षिर्यस्य पुत्रोऽथ शौनकः ॥ १३.८.६५ ॥

他与天女格里塔奇生下一子名为卢鲁。卢鲁与普拉玛德瓦拉生下一子,即婆罗门仙人舜那迦,其子为舍那迦。

13.8.66

एवं विप्रत्वमगमद्वीतहव्यो नराधिपः ।
भृगोः प्रसादाद्राजेन्द्र क्षत्रियः क्षत्रियर्षभ ॥ १३.८.६६ ॥

就这样,人主毗多诃婆因婆利古的恩典而获得了婆罗门身份,啊,王中之王,啊,刹帝利中的雄牛,他本是刹帝利。

13.8.67

एष ते कथितो वंशो राजन्गार्त्समदो मया ।
विस्तरेण महाराज किमन्यदनुपृच्छसि ॥ १३.८.६७ ॥

国王啊,我已为你详细讲述了伽尔察摩陀的这一世系。大王啊,你还要问什么?