摩诃婆罗多 · 章 13.82
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.82.1
सर्वशास्त्रविधानज्ञ राजधर्मविदुत्तम ।
अतीव संशयच्छेत्ता भवान्वै प्रथितः क्षितौ ॥ १३.८२.१ ॥
你精通一切经典的规范,是通晓王法者中最杰出的,你作为断除疑惑的人在大地上极为闻名。
13.82.2
कश्चित्तु संशयो मेऽस्ति तन्मे ब्रूहि पितामह ।
अस्यामापदि कष्टायामन्यं पृच्छाम कं वयम्
जातेऽस्मिन्संशये राजन्नान्यं पृच्छेम कञ्चन ॥ १३.८२.२ ॥
但我心中有一个疑惑;祖父啊,请告诉我。在这痛苦的灾难中,我们还能问谁呢?这个疑惑产生之后,国王啊,我们不会再问任何其他人。
13.82.3
यथा नरेण कर्तव्यं धर्ममार्गानुवर्तिना ।
एतत्सर्वं महाबाहो भवान्व्याख्यातुमर्हति ॥ १३.८२.३ ॥
遵循法道的人应当如何行事,这一切,大臂者啊,你能够详细解说。
13.82.4
चतस्रो विहिता भार्या ब्राह्मणस्य पितामह ।
ब्राह्मणी क्षत्रिया वैश्या शूद्रा च रतिमिच्छतः ॥ १३.८२.४ ॥
祖父啊,为追求欢愉的婆罗门,规定了四位妻子:婆罗门女、刹帝利女、吠舍女和首陀罗女。
13.82.5
तत्र जातेषु पुत्रेषु सर्वासां कुरुसत्तम ।
आनुपूर्व्येण कस्तेषां पित्र्यं दायाद्यमर्हति ॥ १३.८२.५ ॥
库鲁族中最杰出者啊,在她们所生的诸子之中,按照出生次序,他们中谁有资格继承父亲的财产?
13.82.6
केन वा किं ततो हार्यं पितृवित्तात्पितामह ।
एतदिच्छामि कथितं विभागस्तेषु कः स्मृतः ॥ १३.८२.६ ॥
祖父啊,由谁来取、从父亲的财产中取什么?我想听听他们之间的分配是如何被规定的。
13.82.7
ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः ।
एतेषु विहितो धर्मो ब्राह्मणस्य युधिष्ठिर ॥ १३.८२.७ ॥
婆罗门、刹帝利、吠舍——这三个种姓是再生族。其中,婆罗门的法已被规定,युधिष्ठिर啊。
13.82.8
वैषम्यादथवा लोभात्कामाद्वाऽपि परन्तप ।
ब्राह्मणस्य भवेच्छूद्रा न तु दृष्टा न तु स्मृता ॥ १३.८२.८ ॥
无论是因为不平等,或因贪婪,或甚至因欲望,哦,敌人的焚烧者,婆罗门可能有一位首陀罗妻子——但这既未曾见,也未载于圣传之中。
13.82.9
शूद्रां शयनमारोप्य ब्राह्मणि यात्यधोगतिम् ।
प्रायश्चित्तीयते चापि विधिदृष्टेन कर्मणा ॥ १३.८२.९ ॥
婆罗门若让首陀罗女子上床,便堕入下界;而且须以依法规定的仪式来赎罪。
13.82.10
तत्र जातेष्वपत्येषु द्विगुणं स्वाद्युधिष्ठिर ।
अतस्ते नियमं वित्ते सम्प्रवक्ष्यामि भारत ॥ १३.८२.१० ॥
在那里所生的子嗣之中,份额应当加倍,युधिष्ठिर啊。因此,婆罗多的后裔啊,我将为你详细讲述关于财产的规则。
13.82.11
लक्षण्यं गोवृषो यानं यत्प्रधानतमं भवेत् ।
ब्राह्मण्यास्तद्धरेत्पुत्र एकांशं वै पितुर्धनात् ॥ १३.८२.११ ॥
最为上等的财物——公牛、最优良的车乘——应由婆罗门女之子取得,另加父亲财产中的一份。
13.82.12
एषं तु दशधा कार्यं ब्राह्मणस्वं युधिष्ठिर ।
तत्र तेनैव हर्तव्याश्चत्वारोंशाः पितुर्धनात् ॥ १३.८२.१२ ॥
依此,婆罗门的财产应分为十份,युधिष्ठिर啊。其中,婆罗门女之子应从父亲的财产中取四份。
13.82.13
त्रियायास्तु यः पुत्रो ब्राह्मणः सोप्यसंशयः ।
स तु मातुर्विशेषेण त्रीनंशान्हर्तुमर्हति ॥ १३.८२.१३ ॥
若女子所生之子为婆罗门,此亦无疑。他因其母之故,特别有资格取得三份。
13.82.14
वर्णे तृतीये जातस्तु वैश्यायां ब्राह्मणादपि ।
द्विरंशस्तेन हर्तव्यो ब्राह्मणस्वाद्युधिष्ठिर ॥ १३.८२.१४ ॥
生于第三种姓,由婆罗门与吠舍女子所生者,亦当从婆罗门的财产中取二份,俱卢王子啊。
13.82.15
शूद्रायां ब्राह्मणाज्जातो नित्यादेयधनः स्मृतः ।
अल्पं चापि प्रदातव्यं शूद्रापुत्राय भारत ॥ १३.८२.१५ ॥
由婆罗门与首陀罗女子所生者,被记为应常给予财富之人。婆罗多的后裔啊,即便少许,也应给予首陀罗之子。
13.82.16
दशधा प्रविभक्तस्य धनस्यैव भवेत्क्रमः ।
सवर्णासु तु जातानां समान्भागान्प्रकल्पयेत् ॥ १३.८२.१६ ॥
财产分为十份,其次序应当如此;但在同种姓女子所生的子嗣之间,应当平均分配。
13.82.17
अब्राह्मणं तु मन्यन्ते शूद्रापुत्रमनैपुणात् ।
त्रिषु वर्णेषु जातो हि ब्राह्मणाद्ब्राह्मणो भवेत् ॥ १३.८२.१७ ॥
然而世人因缺乏才能,视首陀罗女子之子为非婆罗门。即便生于三种姓之中,由婆罗门所生者应成为婆罗门。
13.82.18
स्मृताश्च वर्णाश्चत्वारः पञ्चमो नाधिगम्यते ।
हरेच्च दशमं भागं शूद्रापुत्रः पितुर्धनात् ॥ १३.८२.१८ ॥
所记者唯四种姓,第五种姓不可得见。首陀罗女子之子当从父亲的财产中取十分之一。
13.82.19
तत्तु दत्तं हरेत्पित्रा नादत्तं हर्तुमर्हति ।
अवश्यं हि धनं देयं शूद्रापुत्राय भारत ॥ १३.८२.१९ ॥
父亲所给予的,他才可以取得;未给予的,他无权夺取。婆罗多子孙啊,必须将财富给予首陀罗女之子。
13.82.20
आनृशंस्यं परो धर्म इति तस्मै प्रदीयते ।
यत्रतत्र समुत्पन्नं गुणायैवोपपद्यते ॥ १३.८२.२० ॥
慈悲是至高的责任,因此要给予他。无论它生于何处,都只为德行而恰当。
13.82.21
यद्यप्येष सुपुत्रः स्यादपुत्रो यदि वा भवेत् ।
नाधिकं दशमाद्दद्याच्छूद्रापुत्राय भारत ॥ १३.८२.२१ ॥
无论此人是好儿子还是无子,婆罗多子孙啊,给予首陀罗女之子的不应超过十分之一。
13.82.22
स्मृत एकश्चतुर्भागः कन्याभागस्तु धर्मतः ।
अभ्रातृका समग्राहा चार्धास्येत्यपरे विदुः ॥ १३.८२.२२ ॥
依法,女儿的份额被记为四分之一。但没有兄弟的女儿取得全部;另有人认为她取得一半。
13.82.23
त्रैवार्विकाद्यदा भक्तादधिकं स्याद्द्विजस्य तु ।
यजेत तेन द्रव्येण न वृथा साधयेद्धनम् ॥ १३.८२.२३ ॥
当再生族拥有超过三年口粮所需的财富时,应以此财富行祭祀;不可徒然积聚财富。
13.82.24
त्रिसहस्रपरो दायः स्त्रियै देयो धनस्य वै ।
भर्त्रा तच्च धनं दत्तं यथार्हं भोक्तुमर्हति ॥ १३.८२.२४ ॥
应给予女子至多三千的财产份额。丈夫所给予的那份财产,她有权依其应得而享用。
13.82.25
स्त्रीणां तु पतिदायाद्यमुपभोगफलं स्मृतम् ।
नापहारं स्त्रियः कुर्युः पितृवित्तात्कथञ्चन ॥ १३.८२.२५ ॥
对于女子而言,丈夫的遗产被说成是享用之果。女子不可以任何方式侵占父亲的财产。
13.82.26
स्त्रियास्तु यद्भवेद्वित्तं पित्रा दत्तं युधिष्ठिर ।
ब्राह्मण्यास्तद्धरेत्कन्या यथा पुत्रस्तथाऽस्य सा ॥ १३.८२.२६ ॥
युधिष्ठिर啊,父亲所给予女子的财物,婆罗门女的女儿应当取得;正如儿子取得父亲的财产,她也如此取得。
13.82.27
सा हि पुत्रसमा राजन्विहिता कुरुनन्दन ।
एवमेव समुद्दिष्टो धर्मो वै भरतर्षभ।
एवं धर्ममनुस्मृत्य न वृथा साधयेद्धनम् ॥ १३.८२.२७ ॥
王啊,库卢之乐,她被规定与儿子相等。婆罗多之牛啊,此法就是这样宣示的。记住此法,不应徒然谋取财富。
13.82.28
शूद्रायां ब्राह्मणाज्जातो यद्यदेयधनः स्मृतः ।
केन प्रतिविशेषेण दशमोऽप्यस्य दीयते ॥ १३.८२.२८ ॥
婆罗门与首陀罗女所生之子,虽然说应当给予财产,但依何特别区别,只给他十分之一?
13.82.29
ब्राह्मण्यां ब्राह्मणाज्जातो ब्राह्मणः स्यान्न संशयः ।
क्षत्रियायां तथैव स्याद्वैश्यायामपि चैव हि ॥ १३.८२.२९ ॥
婆罗门所生之子于婆罗门女中,必定是婆罗门,毫无疑问。刹帝利女亦然,吠舍女亦然。
13.82.30
कस्मात्तु विषमं भागं भजेरन्नृपसत्तम ।
यदा सर्वे त्रयो वर्णास्त्वयोक्ता ब्राह्मणा इति ॥ १३.८२.३० ॥
王中至尊啊,您既然说三个种姓都是婆罗门,那么他们为何要分得不平等的份额?
13.82.31
दारा इत्युच्यते लोके नाम्नैकेन परन्तप ।
प्रोक्तेनि चैव नाम्नाऽयं विशेषः सुमहान्भवेत् ॥ १३.८२.३१ ॥
征服敌人者啊,世上以一个名称称为“妻子”(dārāḥ);然而名称的差别会造成很大的区别。
13.82.32
तिस्रः कृत्वा पुरो भार्याः पश्चाद्विन्देत ब्राह्मणीम् ।
सा ज्येष्ठा सा च पूज्या स्यात्सा च ताभ्यो गरीयसी ॥ १३.८२.३२ ॥
先娶三位妻子,之后应娶一位婆罗门女子;她为长,应受尊敬,且比她们所有人都更尊贵。
13.82.33
स्नानं प्रसाधनं भर्तुर्दन्तधावनमुञ्जनम् ।
हव्यं कव्यं च यच्चान्यद्धर्मयुक्तं गृहे भवेत् ॥ १३.८२.३३ ॥
丈夫的沐浴、装饰、刷牙、涂眼膏,供奉诸神之祭(havya)与祭祀祖先之供物(kavya),以及家中其他合乎法(dharma)的事务——这一切都应由妻子来做。
13.82.34
न तस्यां जातु तिष्ठन्त्यामन्या तत्कर्तुमर्हति ।
ब्राह्मणीत्वेव कुर्याद्वा ब्राह्मणस्य युधिष्ठिर ॥ १३.८२.३४ ॥
只要她在,别的妻子绝不应去做那件事;或者,俟斯多(Yudhiṣṭhira)啊,婆罗门之妻应以婆罗门女的身份去做。
13.82.35
अन्नं पानं च माल्यं च वासांस्याभरणानि च ।
ब्राह्मण्यैतानि देयानि भर्तुः सा हि गरीयसी ॥ १३.८२.३५ ॥
食物、饮料、花环、衣服与首饰,都应由婆罗门之妻交给丈夫;她确实最为尊贵。
13.82.36
मनुनाऽभिहितं शास्त्रं यच्चापि कुरुनन्दन ।
तत्राप्येष महाराज दृष्टो धर्मः सनातनः ॥ १३.८२.३६ ॥
俱卢族的喜悦者啊,在摩奴所宣说的论典中,大王啊,也可见到这永恒的法(dharma)。
13.82.37
अथ चेदन्यथा कुर्याद्यदि कामाद्युधिष्ठिर ।
यथा ब्राह्मणचाण्डालः पूर्वदृष्टस्तथैव सः ॥ १३.८२.३७ ॥
然而,若有人因欲望而行事相反,俞提希蒂拉啊,他便如先前所见的婆罗门与旃陀罗一般。
13.82.38
ब्राह्मण्याः सदृशः पुत्रः क्षत्रियायाश्च यो भवेत् ।
राजन्विशेषो यस्त्वत्र वर्णयोरुभयोरपि ॥ १३.८२.३८ ॥
婆罗门女所生之子,可能与刹帝利女所生之子相似;大王啊,这里两种种姓之间也有差别。
13.82.39
न तु जात्या समा लोके ब्राह्मण्याः क्षत्रिया भवेत् ।
ब्राह्मण्याः प्रथमः पुत्रो भूयान्स्याद्राजसत्तम ॥ १३.८२.३९ ॥
然而在世间,就出身而言,刹帝利女不能与婆罗门女相等;婆罗门女的长子将更为尊贵,诸王中最杰出者啊。
13.82.40
भूयोभूयोपि संहार्यः पितृवित्ताद्युधिष्ठिर ।
यथा न सदृशी जातु ब्राह्मण्याः क्षत्रिया भवेत् ॥ १३.८२.४० ॥
俞提希蒂拉啊,应一再从父亲的财产等中扣除一份,使刹帝利女永远不能与婆罗门女相等。
13.82.41
क्षत्रियायास्तथा वैश्या न जातु सदृशी भवेत् ।
श्रीश्च राज्यं च कोशश्च क्षत्रियाणां युधिष्ठिर ॥ १३.८२.४१ ॥
同样,吠舍女永远不能与刹帝利女相等。俞提希蒂拉啊,财富、王权与府库属于刹帝利。
13.82.42
विहितं दृश्यते राजन्सागरान्तां च मेदिनीम् ।
क्षत्रियो हि स्वधर्मेण श्रियं प्राप्नोति भूयसीम्।
राजा दण्डधरो राजन्रक्षा नान्यत्र क्षत्रियात् ॥ १३.८२.४२ ॥
大王啊,直至大海的大地被认为是为刹帝利所规定的;刹帝利凭其本分获得极大的繁荣。国王手持刑杖;大王啊,保护只来自刹帝利,别无他处。
13.82.43
ब्राह्मणा हि महाभाग देवानामपि देवताः ।
तेषु राजा प्रवर्तेत पूजया विधिपूर्वकम् ॥ १३.८२.४३ ॥
啊,大福之人,婆罗门甚至是诸神之神。国王应当依照规制,以敬拜之心对待他们。
13.82.44
प्रणीतमृषिभिर्ज्ञात्वा धर्मं शाश्वतमव्ययम् ।
लुप्यमानं स्वधर्मेण क्षत्रियो रक्षति प्रजाः ॥ १३.८२.४४ ॥
知晓诸仙所立的永恒不灭之法,当它因各自本分之失而衰败时,刹帝利便护佑臣民。
13.82.45
दस्युभिर्ह्रियमाणं च धनं दारांश्च सर्वशः ।
सर्वेषामेव वर्णानां त्राता भवति पार्थिवः ॥ १३.८२.४५ ॥
当盗贼从各方掠夺财物与妻子时,唯有国王成为所有种姓的保护者。
13.82.46
भूयान्स्यात्क्षत्रियापुत्रो वैश्यापुत्रान्न संशयः ।
भूयस्तेनापि हर्तव्यं पितृवित्ताद्युधिष्ठिर ॥ १३.८२.४६ ॥
毫无疑问,刹帝利女所生之子胜于吠舍女所生之子。般度之子啊,对他也应从父亲的财产中征取。
13.82.47
उक्तं ते विधिवद्राजन्ब्राह्मणस्य पितामह ।
इतरेषां तु वर्णानां कथं वै नियमो भवेत् ॥ १३.८२.४७ ॥
王啊,祖父啊,您已依法为我讲述了婆罗门的情况。那么其他种姓的规范又当如何呢?
13.82.48
क्षत्रियस्यापि भार्ये द्वे विहिते कुरुनन्दन ।
तृतीया च भवेच्छूद्रा न तु दृष्टा न तु स्मूता ॥ १३.८२.४८ ॥
俱卢族的欢喜者啊,刹帝利可娶二妻。第三位或许是首陀罗女,但未曾见过,也未载于圣典之中。
13.82.49
एष एव क्रमो हि स्यात्क्षत्रियाणां युधिष्ठिर ।
अष्टधा तु भवेत्कार्यं क्षत्रियस्वं जनाधिप ॥ १३.८२.४९ ॥
judhiṣṭhira,这确实应是刹帝利的规则。人主啊,刹帝利的财产应分为八份。
13.82.50
क्षत्रियाया हरेत्पुत्रश्चतुरोंशान्पितुर्धनात् ।
युद्धावहारिकं यच्च पितुः स्वात्स हरेत्तु तत् ॥ १३.८२.५० ॥
刹帝利女子所生之子应从父亲的财产中取四份。而战争所得之物属于父亲自己,应由他来取。
13.82.51
वैश्यापुत्रस्तु भागांस्त्रीञ्शूद्रापुत्रस्तथाष्टमम् ।
एकैव हि भवेद्भार्या वैश्यस्य कुरुनन्दन। ॥ १३.८२.५१ ॥
吠舍女子之子应取三份,首陀罗女子之子应取第八份。库卢之喜,吠舍应只有一位妻子。
13.82.52
द्वितीया तु भवेच्छूद्रा न तु दृष्टा न तु स्मृता ।
वैश्यस्य वर्तमानस्य वैश्यायां भरतर्षभ। ॥ १३.८२.५२ ॥
第二位妻子可以是首陀罗女子,但此事既未见于惯例,也未载于圣典。婆罗多中的雄牛啊,吠舍在世时,由吠舍女子所生。
13.82.53
शूद्रायां चापि कौन्तेय तयोर्विनियमः स्मृतः ।
पञ्चधा तु भवेत्कार्यं वैश्यस्वं भरतर्षभ। ॥ १३.८२.५३ ॥
贡蒂之子啊,对于此二者的规则,在圣典中也为首陀罗女子而定。婆罗多中的雄牛啊,吠舍的财产应分为五份。
13.82.54
तयोरपत्ये वक्ष्यामि विभागं च जनाधिप ।
वैश्यापुत्रेण हर्तव्याश्चत्वारोंशाः पितुर्धनात्। ॥ १३.८२.५४ ॥
我将讲述那两者后代的分配。人主啊,吠舍女子之子应从父亲的财产中取四份。
13.82.55
पञ्चमस्तु स्मृतोः भागः शूद्रापुत्राय भारत ।
सोपि दत्तं हरेत्पित्रा नादत्तं हर्तुमर्हति। ॥ १३.८२.५५ ॥
婆罗多啊,第五份财产规定给首陀罗女所生的儿子。他也只能取得父亲所给的;未给的,他无权拿取。
13.82.56
त्रिमिर्वर्णैः सदा जातः शूद्रो देयधनो भवेत् ॥ १३.८२.५६ ॥
凡常由三个种姓所生者为首陀罗;其财产应当给予他人。
13.82.57
शूद्रस्य स्यात्सवर्णैव भार्या नान्या कथञ्चन ।
समभागाश्च पुत्राः स्युर्यदि पुत्रशतं भवेत् ॥ १३.८२.५७ ॥
首陀罗的妻子必须是同等种姓的女子,绝不能是别的。即使有一百个儿子,他们也应有平等的份额。
13.82.58
जातानां समवर्णायाः पुत्राणामविशेषतः ।
सर्वेषामेव वर्णानां समभागो धनात्स्मृतः ॥ १३.८२.५८ ॥
在同等种姓女子所生的儿子之间没有区别;对于所有种姓的儿子,财产应当平均分配。
13.82.59
ज्येष्ठस्य भागो ज्येष्ठः स्यादेकांशो यः प्रधानतः ।
एष दायविधिः पार्थ पूर्वमुक्तः स्वयंभुवा ॥ १३.८२.५९ ॥
长子的份额属于长子,主要是一份。帕尔沙啊,这一继承规则从前由自生者(梵天)所宣示。
13.82.60
समवर्णासु जातानां विशेषोऽस्त्यपरो नृप ।
विवाहवैशिष्ट्यकृतः पूर्वपूर्वो विशिष्यते ॥ १३.८२.६० ॥
国王啊,在同等种姓女子所生的儿子中还有另一种区别,由婚姻的差别所造成:先娶之妻所生的儿子被视为更为尊贵。
13.82.61
हरेज्ज्येष्ठः प्रधानांशमेकभार्यासुतेष्वपि ।
मध्यमो मध्यमं चैव कनीयांस्तु कनीयसम् ॥ १३.८२.६१ ॥
即使在同一妻子所生的儿子之中,长子应取主要份额,次子取中等份额,幼子取最少的份额。
13.82.62
एवं जातिषु सर्वासु सवर्णः श्रेष्ठतां गतः ।
महर्षिरपि चैतद्वै मारीचः काश्यपोऽब्रवीत् ॥ १३.८२.६२ ॥
如此,在所有种姓之中,同一瓦尔纳者便获得了优越。大仙人摩利主迦叶波也如此说。