Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.84

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.84.1

ब्रूहि तात कुरुश्रेष्ठ वर्णानां त्वं पृथक् पृथक् ।
कीदृश्यां कीदृशाश्चापि पुत्राः कस्य च के च ते ॥ १३.८४.१ ॥

亲爱的父亲,俱卢中最杰出者,请按种姓分别告诉我:何种妻子生何种儿子,他们归属于谁,他们是什么人。

13.84.2

विप्रवादाः सुबहवः श्रूयन्ते पुत्रकारिणाम् ।
अत्र नो मुह्यतां राजन्संशयं छेत्तुमर्हसि ॥ १३.८४.२ ॥

关于生子之事,人们听到许多学者的说法。大王啊,我们对此感到困惑;您有能力斩断我们的疑惑。

13.84.3

आत्मा पुत्रस्तु विज्ञेयः प्रथमो बहुधा परे ॥ १३.८४.३ ॥

与自己相似的儿子应被视为第一子;其他的则有多种。

13.84.4

स्वे क्षेत्रे संस्कृते यस्तु पुत्रमुत्पादयेत्स्वयम् ।
तमौरसं विजानीयात्पुत्रं प्रथमकल्पितम् ॥ १३.८४.४ ॥

在自己受过净化的田地(妻子)中亲自生子者,应被认作亲生之子,即首先规定的儿子。

13.84.5

अग्निं प्रजापतिं चेष्ट्वा वराय प्रतिपादिता ।
पुत्रिका स्याद्दुहितरि सङ्कल्पे वाऽपि वा सुतः ॥ १३.८४.५ ॥

祭拜阿耆尼与生主之后嫁给新郎的女儿称为“普特利卡”;或者依据约定,儿子的权利存于女儿之中,或者就是儿子本人。

13.84.6

तल्पे जातः प्रमीतस्य क्लीबस्य पतितस्य वा ।
स्वधर्मेण नियुक्तो यः स पुत्रः क्षेत्रजः स्मृतः ॥ १३.८४.६ ॥

在死者、无能者或堕落者的床榻(妻子)上所生,或由自身职责所委派者,被称为“克舍特拉遮”,即田地之子。

13.84.7

माता पिता च दद्यातां यमद्भिः पुत्रमापदि ।
सदृशप्रीतिसंयुक्तो विज्ञेयो दत्रिमः सुतः ॥ १३.८४.७ ॥

若父母在危难中依戒律赠予其子,与之情感相等者,应知为养子(datrima)。

13.84.8

सदृशं तु प्रकुर्याद्यं गुणदोषविचक्षणम् ।
पुत्रं पुत्रगुणैर्युक्तं विज्ञेयः स तु कृत्रिमः ॥ १३.८४.८ ॥

若选取适宜之子、善辨德行与过失、具备子之品德而收为己子,应知其为人造之子(kṛtrima)。

13.84.9

उत्पद्यते यस्य गूढं न च ज्ञायेत कस्यचित् ।
स भवेद्गूढजो नाम तस्य स्याद्यस्य तल्पतः ॥ १३.८४.९ ॥

其子秘密出生而无人得知者,名为“隐生子”(gūḍhaja);他属于那床榻的主人。

13.84.10

मातापितृभ्यामुत्सृष्टस्तयोरन्यतरेण वा ।
यं पुत्रं प्रतिगृह्णीयादपविद्धः स उच्यते ॥ १३.८४.१० ॥

被母亲或父亲,或二者共同遗弃的儿子,若有人收养他,则称之为“弃子”(apaviddha)。

13.84.11

पितृवेश्मनि कन्या तु यं पुत्रं जनयेद्रहः ।
तं कानीनं वदन्नाम्ना वोढुः कन्यासमुद्भवे ॥ १३.८४.११ ॥

少女在父家秘密所生之子,应称为“处女子”(kānīna);由少女所生,则归属其丈夫。

13.84.12

या गर्भिणी संस्क्रियते ज्ञाताऽज्ञातापि वा सती ।
वोढुः स गर्भो भवति सहोढ इति उच्यते ॥ १३.८४.१२ ॥

怀孕之女,无论被人知晓与否,若依礼作为贤妻而受成婚之仪式,其胎儿归丈夫所有,称为“后娶之子”(sahoḍha)。

13.84.13

क्रीणीयाद्यस्त्वपर्यार्थं मातापित्रोर्यमन्तिकात् ।
स क्रीतकः सुतस्तस्य सदृशोऽसदृशोपि वा ॥ १३.८४.१३ ॥

若有人为某种目的从父母处买下孩子,此子名为买来之子(krītaka),无论他与其相似与否。

13.84.14

या पत्या वा परित्यक्ता विधवा वा स्वकेच्छया ।
उत्पादयति पुनर्भूत्वा स पौनर्भव उच्यते ॥ १३.८४.१४ ॥

被丈夫抛弃的女子或寡妇,若出于自愿再嫁并生育子女,此子名为再婚之子(paunarbhava)。

13.84.15

सा चेदक्षतयोनिः स्याद्गतप्रत्याङ्गताऽपि वा ।
पौनर्भवेन भर्त्रा सा पुनसंस्कारमर्हति ॥ १३.८४.१५ ॥

若她是未经破身的处女,或曾离去又归来,则她与再婚之夫可再行一次婚礼(重新受成婚之礼)。

13.84.16

मातापितृहनो यः स्यात्त्यक्तो वा स्यादकारणम् ।
आत्मानं स्पर्शयेद्यस्तु स्वयंदत्तस्तु स स्मृतः ॥ १३.८४.१६ ॥

杀害父母者,或无故被弃者,或自己献身者,都被称为自献之子(svayaṃdatta)。

13.84.17

यं ब्राह्मणस्तु शूद्रायां कामादुत्पादयेत्सुतम् ।
स पावयन्नेव शवस्तस्मात्पारशवः स्मृतः ॥ १३.८४.१७ ॥

婆罗门因贪欲于首陀罗女子所生之子,仿佛能净化尸体,因此被称为婆罗舍婆(pāraśava)。

13.84.18

दास्यां वा दासदास्यां वा यः शूद्रस्य सुतो भवेत् ।
सोऽनुज्ञातो हरेदंशमिति धर्मो व्यवस्थितः ॥ १३.८४.१८ ॥

若为首陀罗之子,所生于奴婢或奴婢之奴婢,经允许即可取得其应得之份,此为既定之法。

13.84.19

क्षेत्रजादीन्सुतानेतानेकादश यथोदितान् ।
पुत्रप्रतिनिधीनाहुः क्रियालोपान्मनीषिणः ॥ १३.८४.१९ ॥

如前所述,这十一个以田生子为首的儿子,因祭仪中断,智者称之为代子。

13.84.20

प्रातॄणामेकजातानामेकश्चेत्पुत्रवान्भवेत् ।
सर्वांस्तांस्तेन पुत्रेण पुत्रिणो मनुरब्रवीत् ॥ १३.८४.२० ॥

若同母所生的兄弟中有一人有子,摩奴说,凭这一子,他们全都被视为有子。

13.84.21

सर्वासामेकपत्नीनामेका चेत्पुत्रिणी भवेत् ।
सर्वास्तास्तेन पुत्रेण प्राह पुत्रवतीर्मनुः ॥ १३.८४.२१ ॥

若同一丈夫的所有妻子中有一人有子,摩奴说,凭这一子,她们全都被称为有子之母。

13.84.22

आत्मा पुत्रश्च विज्ञेयस्तस्यानन्तरजश्च यः ।
निरुक्तजश्च विज्ञेयः सुतः प्रसृतजस्तथा ॥ १३.८४.२२ ॥

应当认作儿子的,有自己之子(ātmaja)及其后所生者;也应认作名定所生(nirukta-ja),同样也应认作送出所生(prasṛta-ja)。

13.84.23

पतितस्य तु भार्याया भर्त्रा सुसमवेतया ।
तथा दत्तकृतौ पुत्रावध्यूढश्च तथाऽपरः ॥ १३.८४.२३ ॥

堕落者之妻在与夫和合时所生之子;同样,授予之子(datta)与造作之子(kṛta);再嫁所生之子(adhyūḍha),以及另一种。

13.84.24

षडपध्वंसजाश्चापि कानीनापसदास्तथा ।
इत्येते वै समाख्यातास्तान्विजानीहि भारत ॥ १३.८४.२४ ॥

六种由堕落所生者(apadhvaṃsa),以及私生子(kānīna)与贱民(apasada)——这些已被宣说;婆罗多之子啊,你当认识他们。

13.84.25

षडपध्वंसजाः के स्युः के वाऽप्यपसदास्तथा ।
एतत्सर्वं यथातत्त्वं व्याख्यातुं मे त्वमर्हसि ॥ १३.८४.२५ ॥

什么是六种邪合所生者?什么又是低贱者?请你如实地为我解说这一切。

13.84.26

त्रिषु वर्णेषु ये पुत्रा ब्राह्मणस्य युधिष्ठिर ।
वर्णयोश्च द्वयोः स्यातां यौ राजन्यस्य भारत ॥ १३.८४.२६ ॥

般度之子,婆罗门在三个种姓中所生的儿子;婆罗多后裔,刹帝利在两个种姓中所生的两个儿子。

13.84.27

एको द्विवर्ण एवाथ तथाऽत्रैवोपलक्षितः ।
षडपध्वंसजास्ते हि तथैवापसदाञ्शृणु ॥ १३.८४.२७ ॥

有一种是两个种姓所生者;此处也如此指明。他们是六种邪合所生者。关于低贱者,也请如此听来。

13.84.28

चाण्डालो व्रात्यवर्णौ तु ब्राह्मण्यां क्षत्रियासु च ।
वैश्यायां चैव शूद्रस्य लक्ष्यास्तेऽपसदास्त्रयः ॥ १३.८४.२८ ॥

旃陀罗与废梵行者,由婆罗门女、刹帝利女、吠舍女及首陀罗所生;这三者被称为低贱者。

13.84.29

मागधो वामकश्चैव द्वौ वैश्यस्योपलक्षितौ ।
ब्राह्मण्यां क्षत्रियायां च क्षत्रियस्यैक एव तु ॥ १३.८४.२९ ॥

摩揭陀与婆摩迦,是由吠舍所生的两者;由婆罗门女与刹帝利女所生,以及由刹帝利所生,各只有一个。

13.84.30

ब्राह्मण्यां लक्ष्यते सूत इत्येतेऽपसदाः स्मृताः ।
पुत्रा ह्येते न शक्यन्ते मिथ्या कर्तुं नराधिप ॥ १३.८४.३० ॥

由婆罗门女所生者被称为苏陀;这些人被记为低贱者。人主啊,这些儿子不能被当作虚假。

13.84.31

क्षेत्रजं केचिदेवाहुः सुतं केचित्तु शुक्रजम् ।
तुल्यावेतौ सुतौ कस्य तन्मे ब्रूहि पितामह ॥ १३.८४.३१ ॥

有人称田生者为子,有人称精生者为子。这两者同为谁之子?祖父啊,请告诉我。

13.84.32

रेतजो वा भवेत्पुत्रः पुत्रो वा क्षत्रेजो भवेत् ।
अध्यूढः समयं भित्त्वेत्येतदेव निबोध मे ॥ १३.८४.३२ ॥

儿子可以是精生的,也可以是田生的,或是违背约定而生的已嫁之子——请从我这里理解的正是这些。

13.84.33

रेतजं विद्म वै पुत्रं क्षत्रेजस्यागमः कथम् ।
अध्यूढं विद्म वै पुत्रं भित्त्वा तु समयं कथम् ॥ १३.८४.३३ ॥

精生之子我们知道;但田生之子是如何产生的?已嫁之子我们也知道;但违背约定又是如何?

13.84.34

आत्मजं पुत्रमुत्पाद्य यस्त्यजेत्कारणान्तरे ।
न तत्र कारणं रेतः स क्षेत्रस्वामिनो भवेत् ॥ १३.८४.३४ ॥

若有人生下自己的亲生之子,却因别的缘故而抛弃他——那里精血并非原因;这个儿子应属于田的主人。

13.84.35

पुत्रकामो हि पुत्रार्थे यां वृणीते विशाम्पते ।
तत्र क्षेत्रं प्रमाणं स्यान्न वै तत्रात्मजः सुतः ॥ १३.८४.३५ ॥

渴望儿子的人为了儿子而选择某女子,人主啊——那里田地才是准绳;那里自己所生的儿子并非准绳。

13.84.36

अन्यत्र क्षेत्रजः पुत्रो लक्ष्यते भरतर्षभ ।
न ह्यात्मा शक्यते हन्तुं दृष्टान्तोपगतो ह्यसौ ॥ १३.८४.३६ ॥

婆罗多之雄牛啊,在别处,田生之子被视为儿子;自身之我不可被摧毁,因为那人已作为例证而出现。

13.84.37

क्वचिच्च कुतकः पुत्रः सङ्ग्रहादेव लक्ष्यते ।
न तत्र रेतः क्षेत्रं वा प्रमाणं स्याद्युधिष्ठिर ॥ १३.८४.३७ ॥

有时收养之子仅凭接纳而被认可。持国之子啊,那里种子或田地不能作为证明。

13.84.38

कीदृशः कृतकः पुत्रः सङ्ग्रहादेव लक्ष्यते ।
शुक्रं क्षेत्रं प्रमाणं वा यत्र लक्ष्यं न भारत ॥ १३.८४.३८ ॥

被接纳而认可的收养之子是怎样的?婆罗多之后啊,在种子与田地都不能作为证明、也没有标志的地方,又当如何?

13.84.39

मातापितृभ्यां यस्त्यक्तः पथि यस्तं प्रकल्पयेत् ।
न चास्य मातापितरौ ज्ञायेतां स हि कृत्रिमः ॥ १३.८४.३९ ॥

被父母抛弃、在路上被人收养、且父母不可知的,那才是收养之子。

13.84.40

अस्वामिकस्य स्वामित्वं यस्मिन्सम्प्रतिलक्ष्यते ।
यो वर्णः पोषयेत्तं च तद्वर्णस्तस्य जायते ॥ १३.८४.४० ॥

若无主之人被看出有了主人,而养育他的那一种姓,他便属于那种姓。

13.84.41

कथमस्य प्रयोक्तव्यः संस्कारः कस्य वा कथम् ।
देया कन्या कथं चेति तन्मे ब्रूहि पितामह ॥ १३.८४.४१ ॥

他的礼仪应当如何举行、由谁举行?女儿应当如何嫁出?祖父啊,请告诉我。

13.84.42

आत्मवत्तस्य कुर्वीत संस्कारं स्वामिवत्तथा ।
त्यक्तो मातापितृभ्यां यः सवर्णं प्रतिपद्यते ॥ १३.८४.४२ ॥

应当为他举行礼仪,如同为自己的儿子,也如同为主人之子;对于被父母抛弃而得到同等种姓者,亦是如此。

13.84.43

तद्गोत्रबन्धुजं तस्य कुर्यात्संस्कारमच्युत ।
अथ देया तु कन्या स्यात्तद्वर्णस्य युधिष्ठिर ॥ १३.८४.४३ ॥

阿周那啊,他的仪式应由出身于其种姓与亲族的人举行。而且,坚战啊,应当把与他同一种姓的少女嫁给他。

13.84.44

संस्कर्तुं वर्णगोत्रं च मातृवर्णविनिश्चये ।
कानीनाध्यूढजौ वाऽपि विज्ञेयौ पुत्रकिल्बिषौ ॥ १३.८४.४४ ॥

在确定母亲的种姓时,便确定了应当举行仪式的种姓与gotra。由未婚少女所生(kānīna)或由被娶之妻所生(adhyūḍha)的儿子,也应被视为有过失的儿子。

13.84.45

कानीनाध्यूढजौ वाऽपि विज्ञेयौ पुत्रकिल्बिषौ ।
तावपि स्वाविव सुतौ संस्कार्याविति निश्चयः। ॥ १३.८४.४५ ॥

由未婚少女或被娶之妻所生的儿子,也应被视为有过失的儿子。他们也应像自己的儿子一样举行仪式,这就是定论。

13.84.46

क्षेत्रजो वाऽप्यपसदो येऽध्यूढास्तेषु चाप्युत ।
आत्मवद्वै प्रयुञ्जीरन्संस्कारान्ब्राह्मणादयः। ॥ १३.८४.४६ ॥

在由田地所生(kṣetraja)或属于低贱者(apasada)的人,以及被娶之妻所生的人之中,婆罗门等人也应像对自己的儿子一样举行仪式。

13.84.47

स्वं जन्मे मातृगोत्रेण संस्कारं ब्राह्मणादयः ।
धर्मशास्त्रेषु वर्णानां निश्चयोऽयं पदृश्यते। ॥ १३.८४.४७ ॥

依出生,婆罗门等人应依母亲的gotra举行仪式。关于种姓的这一决定见于法论之中。

13.84.48

एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ॥ १३.८४.४८ ॥

这一切我都已经告诉你了。你还想听什么?