Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.93

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.93.1

आरामाणां तटाकानां यत्फलं कुरुपुङ्गव ।
तदहं श्रोतुमिच्छामि त्वत्तोऽद्य भरतर्षभ ॥ १३.९३.१ ॥

库鲁之牛啊,婆罗多之牛啊,我今日想从你那里听闻园林与池塘的功德之果。

13.93.2

सुप्रदर्शा बलवती चित्रा धातुविभूषिता ।
उपेता सर्वभूतैश्च श्रेष्ठा भूमिरिहोच्यते ॥ १३.९३.२ ॥

此处称之为最优之地:美丽可观、坚实、多样,以矿物装饰,并容纳一切众生。

13.93.3

तस्याः क्षेत्रविशेषाश्च तटाकानां च बन्धनम् ।
औदकानि च सर्वाणि प्रवक्ष्याम्यनुपूर्वशः ॥ १३.९३.३ ॥

我将依次讲述那片土地的特殊田地、池塘的修建以及一切与水有关之事。

13.93.4

तटाकानां च वक्ष्यामि कृतानां चापि ये गुणाः ।
त्रिषु लोकेषु सर्वत्र पूजनीयस्तटाकवान् ॥ १३.९३.४ ॥

我将讲述池塘的功德,以及修建池塘所得的福报。在三界之中,凡拥有池塘者,处处都值得尊敬。

13.93.5

अथवा मित्रसदनं मैत्रं मित्रविवर्धनम् ।
कीर्तिसंजननं श्रेष्ठं तटाकानां निवेशनम् ॥ १३.९३.५ ॥

或者,建立池塘乃是至上之事:它是朋友的居所,能增进友谊,能生出名声。

13.93.6

धर्मस्यार्थस्य कामस्य फलमाहुर्मनीषिणः ।
तटाकसुकृतं देशे क्षेत्रमेकं महाश्रयम् ॥ १३.९३.६ ॥

智者说,池塘之善功乃法、利、欲之果;在国土之中,它是唯一一块大依靠之地。

13.93.7

चतुर्विधानां भूतानां तटाकमुपलक्षयेत् ।
तटाकानि च सर्वाणि दिशन्ति श्रियमुत्तमाम् ॥ १३.९३.७ ॥

应当把池塘视为四类众生的依托;所有池塘都赐予至高的福祉。

13.93.8

देवा मनुष्यगन्धर्वाः पितरोरगराक्षसाः ।
स्थावराणि च भूतानि संश्रयन्ति जलाशयम् ॥ १३.९३.८ ॥

诸神、人类、乾达婆、祖先、蛇与罗刹,以及不动的众生,都依托于水池。

13.93.9

तस्मात्तांस्ते प्रवक्ष्यामि तटाके ये गुणाः स्मृताः ।
या च तत्र फलावाप्तिर्ऋषिभिः समुदाहृताः ॥ १३.९३.९ ॥

因此,我将把池塘所记载的功德,以及诸仙人所宣说的在那里获得的果报告诉你。

13.93.10

वर्षाकाले तटाके तु सलिलं यस्य तिष्ठति ।
अग्निहोत्रफलं तस्य फलमाहुर्मनीषिणः ॥ १३.९३.१० ॥

智者说,雨季时池中有水的人,便得到阿耆尼霍特拉祭祀的果报。

13.93.11

शरत्काले तु सलिलं तटाके यस्य तिष्ठति ।
गोसहस्रस्य स प्रेत्य लभते फलमुत्तमम् ॥ १३.९३.११ ॥

秋季池中有水的人,死后可得千头牛布施的至高果报。

13.93.12

हेमन्तकाले सलिलं तटाके यस्य तिष्ठति ।
स वै बहुसुवर्णस्य यज्ञस्य लभते फलम् ॥ १३.९३.१२ ॥

冬季池中有水的人,确实得到附有许多金布施的祭祀之果报。

13.93.13

यस्य वै शैशिरे काले तटाके सलिलं भवेत् ।
तस्याग्निष्टोमयज्ञस्य फलमाहुर्मनीषिणः ॥ १३.९३.१३ ॥

凡在寒季其池塘仍有水者,智者说他得阿格尼斯托马祭祀之果。

13.93.14

तटाकं सुकृतं यस्य वसन्ते तु महाश्रयम् ।
अतिरात्रस्य यज्ञस्य फलं स समुपाश्नुते ॥ १३.९३.१४ ॥

凡其所建良好的池塘,即使在春季也是大庇护所者,便full获得阿提拉特拉祭祀之果。

13.93.15

निदाघकाले पानीयं तटाके यस्य तिष्ठति ।
वाजिमेधफलं तस्य फलं वै मुनयो विदुः ॥ १३.९३.१५ ॥

凡在暑季其池塘有饮水者,诸仙人知其得马祭之果。

13.93.16

स कुलं तारयेत्सर्वं यस्य खाते जलाशये ।
गावः पिबन्ति सलिलं साधवश्च नराः सदा ॥ १३.९३.१६ ॥

凡其所凿水池,牛群、善人与众人常饮其水,则能度脱其全族。

13.93.17

तटाके यस्य गावस्तु पिबन्ति तृषिता जलम् ।
मृगपक्षिमनुष्याश्च सोऽश्वमेधफलं लभेत ॥ १३.९३.१७ ॥

凡其池中渴饮之牛、鹿、鸟与人,愿其得马祭之果。

13.93.18

यत्पिबन्ति जलं तत्र स्नायन्ते विश्रमन्ति च ।
तटाके यस्य तत्सर्वं प्रेत्यानन्त्याय कल्पते ॥ १३.९३.१८ ॥

在彼处饮水、沐浴、休息,凡其池中一切皆具者,此一切于死后便宜得无尽之果。

13.93.19

दुर्लभं सलिलं तात विशेषेण परत्र वै ।
पानीयस्य प्रदानेन प्रीतिर्भवति शाश्वती ॥ १३.९३.१९ ॥

亲爱的孩子,水是难得的,尤其在来世。以布施饮水,便生起永久的满足。

13.93.20

तिलान्ददत पानीयं दीपान्ददत जागृत ।
ज्ञातिभिः सह मोदध्वमेतत्प्रेत्य सुदुर्लभम् ॥ १३.९३.२० ॥

施芝麻,施水,施灯;保持清醒。与亲族同乐,因为这在来世极为难得。

13.93.21

सर्वदानैर्गुरुतरं सर्वदानैर्विशिष्यते ।
पानीयं नरशार्दूल तस्माद्दातव्यमेव हि ॥ १३.९३.२१ ॥

人中之虎,饮水之施胜过一切布施,超越一切布施。因此,必须施予水。

13.93.22

एवमेतत्तटाकस्य कीर्तितं फलमुत्तमम् ।
अत ऊर्ध्वं प्रवक्ष्यामि वृक्षाणामवरोपणम् ॥ १३.९३.२२ ॥

如是已说池塘的殊胜果报。此后我将讲述种植树木。

13.93.23

स्थावराणां च भूतानां जातयः षट् प्रकीर्तिताः ।
वृक्षगुल्मलतावल्ल्यस्त्वक्सारास्तृणजातयः ॥ १३.९३.२३ ॥

不动众生之类有六种被宣说:树木、灌木、攀藤、蔓草、有心之植物与草类。

13.93.24

एता जात्यस्तु वृक्षाणां तेषां रोपे गुणास्त्विमे ।
कीर्तिश्च मानुषे लोके प्रेत्य चैव फलं शुभम् ॥ १३.९३.२४ ॥

这些是树木的种类。种植它们的功德是:在人间获得名声,在来世也得殊胜的果报。

13.93.25

लभते नाम लोके च पितृभिश्च महीयते ।
देवलोके गतस्यापि नाम तस्य न नश्यति ॥ १३.९३.२५ ॥

他在世间获得名声,并受到祖先的尊崇。即使他已升入天界,他的名声也不会消失。

13.93.26

अतीतानागते चोभे पितृवंशं च भारत ।
तारयेद्वृक्षरोपी च तस्माद्वृक्षांश्च रोपयेत् ॥ १३.९३.२६ ॥

婆罗多啊,种树之人能拯救过去与未来的祖先世系。因此应当种树。

13.93.27

तस्य पुत्रा भवन्त्येते पादपा नात्र संशयः ।
परलोकगतः स्वर्गं लोकांश्चाप्नोति सोऽव्ययान् ॥ १३.९३.२७ ॥

毫无疑问,这些树木便成为他的儿子。他往生彼世后,得到天界和不灭的诸世界。

13.93.28

पुष्णैः सुरगणान्वृक्षाः फलैश्चापि तथा पितॄन् ।
धायया चातिथिं तात पूजयन्ति महीरुहः ॥ १३.९३.२८ ॥

亲爱的,树木以花朵敬奉诸神众,以果实敬奉祖先,以树荫敬奉客人。

13.93.29

किन्नरोरगरक्षांसि देवगन्धर्वमानवाः ।
तथा ऋषिगणाश्चैव संश्रयन्ति महीरुहान् ॥ १३.९३.२९ ॥

紧那罗、蛇众、罗刹、天神、乾闼婆、人类,以及诸仙人众,都依止于树木。

13.93.30

पुष्पिताः फलवन्तश्च तर्पयन्तीह मानवान् ।
वृक्षदं पुत्रवद्वृक्षास्तारयन्ति परत्र तु ॥ १३.९३.३० ॥

开花结果的树木在此使人欢喜;而树木在彼世救度种树之人,如同救度自己的儿子。

13.93.31

तस्मात्तटाके सद्वृक्षा रोप्याः श्रेयोर्थिना सदा ।
पुत्रवत्परिपाल्याश्च पुत्रास्ते धर्मतः स्मृताः ॥ १३.९३.३१ ॥

因此,追求福祉的人应当常在池塘边栽种良树,像养育儿子一样保护它们,因为依照法,它们被视为儿子。

13.93.32

तटाककृद्वृक्षरोपी इष्टयज्ञश्च यो द्विजः ।
एते स्वर्गे महीयन्ते ये चान्ये सत्यवादिनः ॥ १३.९३.३२ ॥

建造池塘、种植树木并举行愿望之祭的再生者,以及其他说真话的人,在天界受到尊敬。

13.93.33

तस्मात्तटाकं कुर्वीत आरामांश्चैव रोपयेत् ।
यजेच्च विविधैर्यज्ञैः सत्यं च सततं वदेत् ॥ १३.९३.३३ ॥

因此应当修建池塘,也应种植园林;应以种种祭祀供奉,并且始终说真话。