Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.96

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.96.1

दानं यज्ञः क्रिया चेह किंस्वित्प्रेत्य महाफलम् ।
कस्य ज्यायः फलं प्रोक्तं कीदृशेभ्यः कथं कदा ॥ १३.९६.१ ॥

在此,布施、祭祀与仪轨行为之中,何者在死后结出大果?谁的果报被说为最殊胜,应施于何种人,如何施,何时施?

13.96.2

एतदिच्छामि विज्ञातुं याथातथ्येनि भारत ।
विद्वञ्जिज्ञासमानाय दानधर्मान्प्रचक्ष्व मे ॥ १३.९६.२ ॥

婆罗多之后,我想如实地了解此事。博学者啊,请为求知的我讲述布施之法。

13.96.3

अन्तर्वेद्यां च यद्दत्तं श्रद्धया चानृशंस्यतः ।
किंस्विन्नैःश्रेयसं तात तन्मे ब्रूहि पितामह ॥ १३.९६.३ ॥

在祭坛之内以信心与慈悲所施之物,究竟引向至善吗?亲爱的祖父,请告诉我。

13.96.4

रौद्रं कर्म क्षत्रियस्य सततं तात वर्तते ।
नास्य वैतानिकफलं विना दानं सुपावनम् ॥ १३.९६.४ ॥

亲爱的,刹帝利的行为总是凶猛的。若无极为清净的布施,他便得不到祭火的果报。

13.96.5

न तु पापकृतां राज्ञां याजका द्विजसत्तमाः ।
धने सत्यप्रदातॄणां प्रतिगृह्णन्ति साधवः ॥ १३.९६.५ ॥

然而,作恶之王的祭司并非最殊胜的再生者。善人只从真正施舍财物的人那里接受布施。

13.96.6

प्रतिगृह्णन्ति न तु चेद्यद्रोषादाप्तदक्षिणैः ।
एतस्मात्कारणाद्यज्ञैर्यजेद्राजाऽऽप्तदक्षिणैः ॥ १३.९६.६ ॥

若以愤怒给予布施金,他们便不接受。因此,国王应以适当的布施金举行祭祀。

13.96.7

अथ चेत्प्रतिगृह्णीयुर्दद्यादहरहर्नृपः ।
श्रद्धामास्थाय परमां पावनं ह्येतुदुत्तमम् ॥ १३.९६.७ ॥

若他们接受,国王应当以至高的信心每日布施;这确实是最殊胜的清净之行。

13.96.8

ब्राह्मणांस्तर्पयन्द्रव्यैः स वै यज्ञोऽनुपद्रवः ।
मैत्रान्साधून्वेदविदः शीलवृत्ततपोर्जितान् ॥ १३.९६.८ ॥

以财物令婆罗门满足的那场祭祀,确实无所妨害;友善、善良、精通吠陀、以德行、操守与苦行获得的人。

13.96.9

यत्ते ते न करिष्यन्ति कृतं ते न भविष्यति ।
यज्ञान्साधय साधुभ्यः स्वाद्वन्नान्दक्षिणावतः ॥ १३.९६.९ ॥

他们不为你做的,便不算是你所做的;为善人完成祭祀,备以甘美之食与施礼。

13.96.10

इष्टं दत्तं च मन्येथा आत्मानं दानकर्मणा ।
पूजयेथा यायजूकांस्तवाप्यंशो भवेद्यथा ॥ १३.९६.१० ॥

以布施之行,视自己为已行祭祀与布施之人;尊敬行祭之人,使其福分也归于你。

13.96.11

विद्वद्भ्यः सम्प्रदानेन तत्राप्यंशोऽस्य पूजया ।
यज्वभ्यश्चाथ विद्वद्भ्यो दत्त्वा लोकं प्रदापयेत्।
प्रदद्याज्ज्ञानदातॄणां ज्ञानदानांशभाग्यभवेत् ॥ १३.९६.११ ॥

以布施并尊敬学者,其中也有此分;施与祭祀者与学者,使世界得以布施;应施与传授知识之人,便成为知识布施之分享者。

13.96.12

प्रजावतो भरेथाश्च ब्राह्मणान्बहुभारिणः ।
प्रजावांस्तेन भवति यथा जनयिता तथा ॥ १३.९६.१२ ॥

应供养有子嗣、承担诸多重担的婆罗门;如此人便有子嗣,如同生育者一般。

13.96.13

यावतः साधुधर्मान्वै सन्तः संवर्धयन्त्युत ।
सर्वस्वैश्चापि भर्तव्या नरा ये बहुकारिणः ॥ १३.९६.१३ ॥

贤善之人所增进的善法有多少,那些多作事业的人,就应当以全部财富加以供养。

13.96.14

समृद्धः सम्प्रयच्छ त्वं ब्राह्म्णेभ्यो युधिष्ठिर ।
धेनूरनडुहोऽन्नानि च्छत्रं वासांस्युपानहौ ॥ १३.९६.१४ ॥

युधिष्ठिर,你富足,应当充分布施给婆罗门牛、公牛、食物、伞、衣服和鞋子。

13.96.15

आज्यानि यजमानेभ्यस्तथाऽन्नानि च भारत ।
अश्ववन्ति च यानानि वेश्मानि शयनानि च ॥ १३.९६.१५ ॥

婆罗多的后裔啊,应把酥油和食物施给行祭者,也施给带马的车辆、房屋和床褥。

13.96.16

एते देयाः पुष्टिमद्भिर्लघूपायाश्च भारत ।
अजुगुप्सांश्च विज्ञाय ब्राह्मणान्वृत्तिकर्शितान् ॥ १३.९६.१६ ॥

婆罗多的后裔啊,富足者应当施予这些,也有简便的办法;知道那些因缺乏生计而憔悴的婆罗门并不可鄙,就应当帮助他们。

13.96.17

उपच्छन्नं प्रकाशं वा वृत्त्या तान्प्रतिपालय ।
राजसूयाश्वमेधाभ्यां श्रेयस्तत्क्षत्रियान्प्रति ॥ १३.९६.१७ ॥

无论暗中或公开,都要以生计来供养他们;对刹帝利而言,这甚至胜过王祭和马祭。

13.96.18

एवं पापैर्विनिर्मुक्तस्त्वं पूतः स्वर्गमाप्स्यसि ।
सञ्चयित्वा पुनः कोशं यद्राष्ट्रं पालयिष्यसि ॥ १३.९६.१८ ॥

这样,你将脱离罪恶、得到清净,并获得天界;再次积聚财库之后,你将守护这个王国。

13.96.19

तेन त्वं ब्रह्मभूयत्वमवाप्स्यसि धनानि च ।
आत्मनश्च परेषां च वृत्तिं संरक्ष भारत ॥ १३.९६.१९ ॥

借此,你将获得梵的境界与财富。婆罗多啊,守护你自己与他人的生计。

13.96.20

पुत्रवच्चापि भृत्यान्स्वान्प्रजाश्च परिपालय ।
योगः क्षेमश्च ते नित्यं ब्राह्मणेष्वस्तु भारत ॥ १३.९६.२० ॥

也要像爱子一样庇护你的仆从与臣民。婆罗多啊,愿你的安稳与福祉永远依靠婆罗门。

13.96.21

तदर्थं जीवितं तेऽस्तु मा तेभ्योऽप्रतिपालनम् ।
अनर्थो ब्राह्मणस्यैष यद्वित्तनिचयो महान् ॥ १३.९६.२१ ॥

愿你的生命为此而存在,不可在保护他们上有所失。对婆罗门而言,这便是大祸:积聚巨大的财富。

13.96.22

क्षिया ह्यभीक्ष्णं संवासो दर्पयेत्सम्प्रमोहयेत् ।
ब्राह्मणेषु प्रमूढेषु धर्मो विप्रणशेद्धुवम्।
धर्मप्रणाशे भूतानामभावः स्यान्न संशयः ॥ १३.९६.२२ ॥

若长久相处,它便会耗损,并生出骄慢与大迷惑。婆罗门若陷入迷惑,法必然灭亡。法灭,众生便不复存在,此无疑问。

13.96.23

यो रक्षिभ्यः सम्प्रदाय राजा राष्ट्रं विलुम्पति ।
यज्ञे राष्ट्राद्धनं तस्मादानयध्वमिति ब्रुवन् ॥ १३.९६.२३ ॥

国王将此委托给守卫者,却以“为祭祀从国中取来财富”为名而劫掠国家——

13.96.24

यच्चादाय तदाज्ञप्तं भीतं दत्तं सुदारुणम् ।
यजेद्राजा न तं यज्ञं प्रशंसन्त्यस्य साधवः ॥ १३.९६.२४ ॥

若国王以因恐惧而献出、又以极其残酷的命令所取的财富举行祭祀,善人不会赞扬他的那场祭祀。

13.96.25

अपीडिताः सुसंवृद्धा ये ददत्यनुकूलतः ।
तादृशेनाप्युपायेन यष्टव्यं नोद्यमाहृतैः ॥ १३.९६.२५ ॥

凡不受压迫、富足的人乐意布施,应以这样的方式行祭,而不是用辛苦所得之物。

13.96.26

यदा परिनिषिच्येत निहितो वै यथाविधि ।
तदा राजा महायज्ञैर्यजेत बहुदक्षिणैः ॥ १३.९६.२६ ॥

当(所积之物)依法安置、妥善确立之后,国王应以拥有丰厚酬金的大祭来行祭。

13.96.27

वृद्धबालधनं रक्ष्यमन्धस्य कृपणस्य च ।
न खातपूर्वं कुर्वीत न रुदन्तीधनं हरेत् ॥ १३.९६.२७ ॥

老人、孩童、盲人和穷人的财物应当保护;不应挖掘先前已挖过的(埋藏之物),也不应夺取哭泣者的财富。

13.96.28

हृतं कृपणवित्तं हि राष्ट्रं हन्ति नृप श्रियम् ।
दद्याच्च महतो भोगान्क्षुद्भयं प्रणुदेत्सताम् ॥ १३.९६.२८ ॥

国王啊,夺取贫者的财物会毁灭国家及其繁荣。应当给予丰厚的享受,并驱除善人对饥饿的恐惧。

13.96.29

येषां स्वादूनि भोज्यानि समवेक्ष्यन्ति बालकाः ।
नाश्नन्ति विधिवत्तानि किन्नु पापतरं ततः ॥ १३.९६.२९ ॥

若有人的美味食物,孩子们渴望地看着,而他却不依规矩去吃,还有什么罪过比这更大呢?

13.96.30

यदि ते तादृशो राष्ट्रे विद्वान्त्सीदेत्क्षुधा द्विजः ।
भ्रूणहत्यां च गच्छेथाः कृत्वा पापमिवोत्तमम् ॥ १३.९६.३० ॥

如果在你的国家里,像这样的学者婆罗门因饥饿而受苦,你将犯下杀害胎儿的罪,那是最大的罪过。

13.96.31

धिक्तस्य जीवितं राज्ञो राष्ट्रे यस्यावसीदति ।
द्विजोऽन्यो वा मनुष्योपि शिबिराह वचो यथा ॥ १३.९६.३१ ॥

在其国中,婆罗门或其他人若陷于困顿,那位国王的生命便该受唾弃;尸毗如是说。

13.96.32

यस्य स्म विषये राज्ञः स्नातकः सीदति क्षुधा ।
अवृद्धिमेति तद्राष्ट्रं विन्दते सह राजकम् ॥ १३.९६.३२ ॥

在其国中若有学成的修行人饥饿受苦,那国便衰败,并与王族一同走向毁灭。

13.96.33

क्रोशन्त्यो यस्य वै राष्ट्राद्ध्रियन्ते तरसा स्त्रियः ।
क्रोशतां पतिपुत्राणां मृतोऽसौ न च जीवति ॥ १३.९६.३३ ॥

若其国中妇女哭喊着被强行掳走,夫与子也哭号不止,那位国王便是死人,并非活着。

13.96.34

अरक्षितारं हर्तारं विलोप्तारमनायकम् ।
तं वै राजकलिं हन्युः प्रजाः सन्नह्य निर्घृणं ॥ १३.९६.३४ ॥

臣民披甲而不怜悯,应诛杀那不护佑、为盗贼劫掠者、且无首领的王家之祸(Kali)。

13.96.35

अहं वो रक्षितेत्युक्त्वा यो न रक्षति भूमिपः ।
स संहत्य निहन्तव्यः श्वेव सोन्माद आतुरः ॥ १३.९६.३५ ॥

那自称“我为你们的护卫”却不护卫的君主,应当众人一齐将其诛杀,如同发狂患病之狗。

13.96.36

पापं कुर्वन्ति यत्किञ्चित्प्रजा राज्ञा ह्यरक्षिताः ।
चतुर्थं तस्य पापस्य राजा विन्दति भारत ॥ १३.९६.३६ ॥

臣民若因君王不护而作恶,婆罗多子孙啊,君王便承受该罪的四分之一。

13.96.37

अथाहुः सर्वमेवैति भूयोऽर्धमिति निश्चयः ।
चतुर्थं मतमस्माकं मनोः श्रुत्वानुशासनम् ॥ १३.९६.३७ ॥

于是他们断言,一切再次只返回一半,这是确定的。但听了摩奴的教诲,我们的看法是四分之一。

13.96.38

शुभं वा यच्च कुर्वन्ति प्रजा राज्ञा सुरक्षिताः ।
चतुर्थं तस्य पुण्यस्य राजा चाप्नोति भारत ॥ १३.९६.३८ ॥

百姓在国王良好保护下所做的任何善行,婆罗多啊,国王获得其功德的四分之一。

13.96.39

जीवन्तं त्वानुजीवन्तु प्रजाः सर्वा युधिष्ठिर ।
पर्जन्यमिव भूतानि महाद्रुममिवाण्डजाः ॥ १३.९६.३९ ॥

愿所有臣民依靠活着的国王而生活,犹如众生依靠云雨,群鸟依靠大树,啊,坚战。

13.96.40

कुबेरमिव रक्षांसि शतक्रतुमिवामराः ।
ज्ञातयस्त्वाऽनुजीवन्तु सुहृदश्च परन्तप ॥ १३.९६.४० ॥

如罗刹依赖俱毗罗,天神依赖百祭(因陀罗),愿你的亲族与朋友依赖于你,啊,焚烧敌人者。