Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 14.104

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

14.104.1

विप्रयोगे शरीरस्य सेन्द्रियस्य विशेषतः ।
अन्तरा वर्तमानस्य गतिः प्राणस्य कीदृशी ॥ १४.१०४.१ ॥

身体与诸根分离之时,尤其是在中间阶段停留的命气(prāṇa),其去向如何?

14.104.2

शुभाशुभकृतं सर्वं प्राप्नोतीह फलं नरः ।
न तु सर्वस्य भूतस्य पञ्चत्वं विद्यते नृप ॥ १४.१०४.२ ॥

人在此世承受所行善恶的全部果报;然而,大王,并非每一众生都有五大离散(死亡)之事。

14.104.3

पञ्चत्वं पाण्डवश्रेष्ठ भूरिभूतिकरं नृणाम् ।
तेषां पञ्च महायज्ञान्ये कुर्वन्ति द्विजोत्तम ॥ १४.१०४.३ ॥

般度子中最优秀者啊,五大离散(死亡)为人带来极大的福祉;再生者中最优秀者啊,对于行五大祭祀的人来说正是如此。

14.104.4

पञ्चत्वं पञ्चभिर्भूतैर्वियोगं संप्रचक्षते ।
न जायते न म्रियते पुरुषः शाश्वतः सदा ॥ १४.१०४.४ ॥

五大离散被称为五要素的分离;补鲁沙不生不死,他是永恒、常在的。

14.104.5

प्रायेण मरणं नाम पापिनामेव पाण्डव ।
येषां तु न गतिः पुण्या तेषां मरणमुच्यते ॥ १४.१०४.५ ॥

一般说来,死亡只属于罪人,般度子啊;对于那些道途不具功德的人,才称之为死亡。

14.104.6

प्रायेणाकृतकृत्यस्तु मृत्योरुद्विजते जनः ।
कृतकृत्याः प्रतीक्षन्ते मृत्युं प्रियमिवातिथिम् ॥ १४.१०४.६ ॥

一般说来,未完成职责的人惧怕死亡;而已完成职责的人则像等待亲爱的客人一样等待死亡。

14.104.7

पञ्च यज्ञाः कथं देव क्रियन्तेऽत्र द्विजातिभिः ।
तेषां नाम च देवेश वक्तुमर्हस्यशेषतः ॥ १४.१०४.७ ॥

神啊,此地再生者如何举行五种祭祀?天神之主啊,您应当完整地说出它们的名称。

14.104.8

शृणु पञ्च महायज्ञान्कीर्त्यमानान्युधिष्ठिर ।
यैरेव ब्रह्मसालोक्यं लभ्यते गृहमेधिना ॥ १४.१०४.८ ॥

般度之子坚战啊,请听所宣说的五大祭祀,居家者唯有借此方能获得梵界的同住。

14.104.9

ऋभुजज्ञं ब्रह्मयज्ञं भूतयज्ञं च पाण्डव ।
नृयज्ञं पितृयज्ञं च पञ्च यज्ञान्प्रचक्षते ॥ १४.१०४.९ ॥

般度之子啊,人们宣说五种祭祀:利布祭、梵祭、献给众生之祭、献给人之祭,以及献给祖先之祭。

14.104.10

तर्पणं ऋभुयज्ञः स्यात्स्वाध्यायो ब्रह्मयज्ञकः ।
भूतयज्ञो बलिर्यज्ञो नृयज्ञोऽतिथिपूजनम्।
पितॄनुद्दिश्य यत्कर्म पितृयज्ञः प्रकीर्तितः ॥ १४.१०४.१० ॥

奉水(tarpaṇa)即利布祭;诵习经典即梵祭。供品即献给众生之祭;礼敬客人即献给人之祭。为祖先而行的仪式,被称为祖先之祭。

14.104.11

हुतं चाप्यहुतं चैव तथा प्रहुतमेव च ।
प्राशितं बलिदानं च पाकयज्ञान्प्रचक्षते ॥ १४.१०४.११ ॥

献入火中者、未献入火中者、倾注为供者、食其余者,以及布施供品——这些被称为熟食祭。

14.104.12

वैश्वदेवादयो होमा हुतमित्युच्यते बुधैः ।
अहुतं च भवेद्दत्तं प्रहुतं ब्राह्मणाशितम् ॥ १४.१०४.१२ ॥

智者称以毗湿伐提婆等为首的火供为「已献」(huta)。所施予者为「未献」(ahuta),婆罗门所食者为「倾注」(prahuta)。

14.104.13

प्राणाग्निहोत्रहोमं च प्राशितं विधिवद्विदुः ।
बलिकर्म च राजेन्द्र पाकयज्ञाः प्रकीर्तिताः ॥ १४.१०४.१३ ॥

依规则,人们知道命火祭(prāṇāgnihotra)的供奉与食用圣分。帝王之主啊,供养仪式(bali)与烹饪祭被宣说。

14.104.14

केचित्पञ्च महायज्ञान्पाकयज्ञान्प्रचक्षते ।
अपरे ब्रह्मयज्ञादीन्महायज्ञविदो विदुः ॥ १४.१०४.१४ ॥

有人称五大祭为烹饪祭,也有人称梵祭等为烹饪祭;大祭的知者如此知晓。

14.104.15

सर्व एते महायज्ञाः सर्वथा परिकीर्तिताः ।
बुभुक्षितान्ब्राह्मणांस्तु यथाशक्ति न हापयेत् ॥ १४.१०४.१५ ॥

这些大祭都已被完整宣说。对饥饿的婆罗门,应依自己的能力,不可有所怠慢。

14.104.16

अहन्यहनि ये त्वेतानकृत्वा भुञ्जते स्वयम् ।
केवलं मलमश्नन्ति ते नार न च संशयः ॥ १४.१०४.१६ ॥

若有人每日不行这些祭祀而自己先食用,他们只吃污秽,不是人,此事毫无疑问。

14.104.17

तस्मात्स्नात्वा द्विजो विद्वान्कुर्यादेतान्दिनेदिने ।
अतोऽन्यथा तु भुञ्जन्वै प्रायश्चित्ती भवेद्द्विजः ॥ १४.१०४.१७ ॥

因此,有智慧的再生族应沐浴后每日行这些祭祀;反之,先食用的再生族便须行赎罪。

14.104.18

देवदेवेशक दैत्यघ्न त्वद्भक्तस्य जनार्दन ।
वक्तुमर्हसि देवेश स्नानस्य च विधिं मम ॥ १४.१०४.१८ ॥

天神之神、自在者、诛杀阿修罗的遍入天啊,耕覆者!您应当向您的信徒我,天神之主啊,宣说沐浴的规则。

14.104.19

शृणु पाण्डव तत्सर्व पवित्रं पापनाशनम् ।
स्नात्वा येन विधानेन मुच्यन्ते किल्बिषाद्द्विजाः ॥ १४.१०४.१९ ॥

般度之子啊,请听这一切,它能净化并消除罪恶:二生者依此规则沐浴后便能脱离罪过。

14.104.20

मृदं च गोमयं चैव तिलं दर्भांस्तथैव च ।
पुष्पाण्यपि यथान्यायमादाय तु जलं व्रजेत् ॥ १४.१०४.२० ॥

按规矩取了泥土、牛粪、芝麻、吉祥草,以及鲜花,然后应当前往水边。

14.104.21

नद्यां स्नात्वा न च स्नायदन्यत्र द्विजसत्तम ।
सति प्रभूते पयसि नाल्पे स्नायात्कदाचन ॥ १४.१०४.२१ ॥

二生者中最优秀的人啊,在河中沐浴之后,不应在别处沐浴;水量充足时,决不可在少量水中沐浴。

14.104.22

गत्वोदकसमीपं तु शुचौ देशे मनोरमे ।
ततो मृद्गोमयादीनि तत्र विप्रो विनिक्षिपेत् ॥ १४.१०४.२२ ॥

来到水边一处洁净而令人愉悦的地方,婆罗门便应在那里放下泥土、牛粪等物。

14.104.23

बहिः प्रक्षाल्य पादौ च द्विराचम्य प्रयत्नतः ।
प्रदक्षिणं समावृत्य नमस्कुर्यात्तु तज्जलम् ॥ १४.१०४.२३ ॥

在外面洗净双脚,小心地漱水两次,向右绕行,然后应向那水致敬。

14.104.24

न च प्रक्षालयेद्विद्वांस्तीर्थमद्भिः कदाचन ।
न च पादेन वा हन्याद्धस्तेनान्येन तज्जलम् ॥ १४.१०४.२४ ॥

智者绝不可用水洗净圣地(渡口),也不可用脚、手或其他任何东西击打那水。

14.104.25

सर्वदेवमया ह्यापो मन्मयाः पाण्डुनन्दन ।
तस्मात्तास्तु न हन्तव्यास्त्वद्भिः प्रक्षालयेत्स्थलं ॥ १४.१०४.२५ ॥

般度之子啊,水充满了一切诸神,也充满了我。因此不可击打水,应当用水洗涤所在之处。

14.104.26

केवलं प्रथमं मज्जेन्नाङ्गानि विमृशेद्बुधः ।
तत्तु तीर्थं समासाद्य कुर्यादाचमनं पुनः ॥ १४.१०४.२६ ॥

智者应先只是沉入水中,不可触碰肢体。到达那圣渡之后,应再次行洁净漱口礼。

14.104.27

गोकर्णाकृतिवत्कृत्वा करं त्रिः प्रपिबेज्जलम् ।
द्विस्तत्परिमृजेद्वक्त्रं पादावभ्युक्ष्य चात्मनः।
शीर्षण्यांस्तु ततः प्राणान्सकृदेवतु संस्पृशेन ॥ १४.१०४.२७ ॥

将手作成牛耳之形,应三次饮水。然后两次擦拭口部,洒水于双足,再一次触摸头部的气息。

14.104.28

बाहू द्वौ च ततः स्पृष्ट्वा हृदयं नाभिमेव च ।
प्रत्यङ्गमुदकं स्पृष्ट्वा मूर्धानं तु पुनः स्पृशेत् ॥ १४.१०४.२८ ॥

然后,触摸双臂、心脏和肚脐,并用水触碰每一肢体,再次触摸头部。

14.104.29

आपः पुनन्त्वित्युक्त्वा च पुनराचमनं चरेत् ।
सोङ्कारव्याहृतीर्वाऽपि सदसस्पतिमित्यृचम् ॥ १४.१०४.२९ ॥

说完"愿水净化"之后,应再次行洁净漱口礼;或者以唵字诵念七语(vyāhṛti),或诵"sadasaspatim"开头的颂文。

14.104.30

आचम्य मृत्तिकाः पश्चात्त्रिधा कृत्वा समालभेत् ।
ऋचेदं विष्णुरित्यङ्गमुत्तमाधममध्यमम्।
आलभ्य वारुणैः सूक्तैर्नमस्कृत्य जलं ततः ॥ १४.१०४.३० ॥

漱口(ācamana)之后,将泥土分成三份,以“idaṃ viṣṇuḥ”一颂触摸上、下、中三部分肢体;然后以伐楼那颂歌触摸并致敬,再取水。

14.104.31

स्रवन्ती चेत्प्रतिस्रोतः प्रत्यर्कं चान्यवारिषु ।
मज्जेदोमित्युदाहृत्य न च विक्षोभयेज्जलम् ॥ १४.१०४.३१ ॥

若水在流动,则应逆流而入,或面向太阳,或在其他水中,念诵“oṃ”而沐浴;且不可搅动水。

14.104.32

गोमयं च त्रिधा कृत्वा जले पूर्वं समालभेत् ।
सव्याहृतीकां सप्रणवां गायत्रीं च जपेत्पुनः ॥ १४.१०४.३२ ॥

将牛粪分成三份,先在水中触摸之;然后再连同“呼”(vyāhṛti)与“唵”(praṇava)诵念伽耶特里。

14.104.33

पुनराचमनं कृत्वा मद्गतेनान्तरात्मना ।
आपोहिष्ठेति तिसृभिर्ऋग्भिः पूतेन वारिणा।
तथा तरत्समन्दीभिः सिञ्चेच्चतसृभिः क्रमात् ॥ १४.१०४.३३ ॥

再次漱口之后,以内心专注于我,以三颂“Āpo hiṣṭhā”用清净水洒身;同样依次以四颂“taratsamandī”洒身。

14.104.34

गोसूक्तेनाश्वसूक्तेन शुद्धवर्गेणि चात्मनः ।
वैष्णवैर्वारुणैः सूक्तैः सावित्रैरिन्द्रदेवतैः ॥ १४.१०४.३४ ॥

以牛颂(Go-sūkta)与马颂(Aśva-sūkta)及自己的清净诸颂,以及毗湿奴、伐楼那、萨维特里与因陀罗神的颂歌,应当为自身灌顶净化。

14.104.35

वामदैव्येन चात्मानमन्यैर्मन्मयसामभिः ।
स्थित्वाऽन्तःसलिले सूक्तं जपेद्वाचाऽघमर्षणं ॥ १४.१०४.३५ ॥

以“伐摩提婆”颂及其他由我而成的娑摩(Sāman)诵歌自净;站在水中,以言语诵念《去罪》(Aghamarṣaṇa)颂。

14.104.36

सव्याहृतीकां सप्रणवां गायत्रीं वा ततो जपेत् ।
आश्वासमोक्षात्प्रणवं जपेद्वा मामनुस्मरन् ॥ १४.१०४.३६ ॥

或者应诵持带有语气词的伽耶特里与七音(三界语);或者直到气息放尽,诵持唵字,并念想我。

14.104.37

उत्प्लुत्य तीर्थमासाद्य धौते शुक्ले च वाससी ।
शुद्धे चाच्छादयेत्कक्षे न कुर्यात्परिपाशके ॥ १४.१०४.३७ ॥

跃入并到达圣浴之处后,应以两件洗净、洁白、清净的衣物裹住腰部,且不要在腰间打结。

14.104.38

पाशेन बद्ध्वा कक्षे यत्कुरुते कर्म वैदिकम् ।
राक्षसा दानवा दैत्यास्तद्विलुंपन्ति हर्षिताः।
तस्मत्सर्वप्रयत्नेन कक्ष्यापाशं न धारयेत् ॥ १४.१०४.३८ ॥

凡系腰带结而行吠陀之祭,罗刹、檀那婆与提迭便欢喜地将其毁坏。因此,务必尽力不佩戴腰间的绳结。

14.104.39

ततः प्रक्षाल्य पादौ च हस्तौ चैव मृदा शनैः ।
आचम्य पुनराचामेत्पुनः सावित्रिया द्विजः ॥ १४.१०४.३९ ॥

然后,以泥土缓缓洗净双足与双手,行漱口礼;婆罗门再以萨维特里咒语再次漱口。

14.104.40

प्राङ्मुखोदङ्मुखो वाऽपि ध्यायन्वेदान्समाहितः ।
जले जलगतः शुद्धः स्थल एव स्थलस्थितः।
उभयत्र स्थितस्तस्मादाचामेदात्मशुद्धये ॥ १४.१०४.४० ॥

面向东方或北方,专心冥想吠陀,心神凝定:在水中者立于水中即得清净,在陆上者立于陆上即得清净。无论立于何处,皆应为自我清净而漱口。

14.104.41

दर्भेषु दर्भपाणिः सन्प्राङ्मुखः सुसमाहितः ।
प्राणायामांस्ततः कुर्यान्मद्गतेनान्तरात्मना ॥ १४.१०४.४१ ॥

坐于吉祥草之上,手持吉祥草,面向东方,心神善定,然后以专注于我的内在自我修习调息(普拉纳雅玛)。

14.104.42

सहस्रकृत्वः सावित्रीं शतकृत्वस्तु वा जपेत् ॥ १४.१०४.४२ ॥

应当念诵萨维德丽咒语一千遍或一百遍。

14.104.43

समाहितो जपेत्तस्मात्सावित्र्या चाभिमन्त्र्य च ।
मन्देहानां विनाशाय रक्षसां विक्षिपेज्जलम् ॥ १४.१०४.४३ ॥

因此,应专心念诵,以萨维德丽咒语加持圣水,洒向以消灭愚钝的罗刹。

14.104.44

उद्वर्गोसीत्यथा चान्तःप्रायश्चित्तजलं क्षिपेत् ॥ १४.१०४.४४ ॥

说“你是乌德瓦尔加”,然后从内心洒出赎罪之水。

14.104.45

अथादाय सुपुष्पाणि तोयमञ्जलिना द्विजः ।
प्रक्षिप्य प्रतिसूर्यं च व्योममुद्रां प्रकल्पयेत् ॥ १४.१०४.४५ ॥

然后,再生者双手合掌取出美丽的花与水,向着太阳抛洒,并结成虚空印。

14.104.46

ततो द्वादशकृत्वस्तु सूर्यस्येकाक्षरं जपेत् ।
ततः षडक्षरादीनि षट्कृत्वः परिवर्तयेत् ॥ १४.१०४.४६ ॥

然后应念诵太阳的单音节咒十二遍;接着,依次将六字咒等各念六遍。

14.104.47

प्रदक्षिणं परामृश्य मुद्रया स्वमुखान्तरे ।
ऊर्ध्वबाहुस्ततो भूत्वा सूर्यमीक्षेत्समाहितः ॥ १४.१०४.४७ ॥

右绕致敬,以手印触于口中,然后举起双臂,专心凝视太阳。

14.104.48

तन्मण्डलस्थं मां ध्यायंस्तोजोमूर्तिं चतुर्भुजम् ।
उदुत्यं च जपेन्मन्त्रं चित्रं तच्चक्षुरित्यपि ॥ १४.१०४.४८ ॥

观想我立于那轮盘之中,乃光明之相、四臂之身,应诵念“udutyaṃ”之咒,以及“citraṃ tac cakṣuḥ”。

14.104.49

सावित्रीं च यथाशत्ति जप्त्वा सूक्तं च मामकम् ।
मन्मयानि च सामानि पुरुषव्रतमेव च ॥ १४.१०४.४९ ॥

依自身之力诵念萨维特里与我的专属颂歌,以及由我构成的娑摩歌,并行普鲁沙誓愿。

14.104.50

ततश्चालोकयेदर्कं हंसः शुचिषदित्यपि ।
प्रदक्षिणं समावृत्य नमस्कृत्य दिवाकरम् ॥ १४.१०४.५० ॥

随后应注视太阳,并诵念“haṃsaḥ śuciṣad”。绕行并礼拜之后,应向日出者——太阳——致敬。

14.104.51

ततस्तु तर्पयेदद्भिर्ब्रह्म्णां मां च शङ्करम् ।
प्रजापतिं च देवांश्च तथा देवमुनीनपि ॥ १४.१०४.५१ ॥

随后应以水向婆罗门、向我、向湿婆、向生主、向诸神,以及向天界仙人行奠水之礼。

14.104.52

साङ्गानपि तथा वेदानितिहासान्क्रतूनपि ।
पुराणानि च सर्वाणि कुलान्यप्सरसां तथा ॥ १४.१०४.५२ ॥

同样应对带支分的吠陀、史诗、祭祀、一切往世书,以及天女的诸族行奠水之礼。

14.104.53

क्रतून्संवत्सरं चैव कलाकाष्ठात्मकं तथा ।
भूतग्रामांश्च भूतानि सरितः सागरांस्तथा।
शैलाञ्शैलस्थितान्देवानोषधीः सवनस्पतीः ॥ १४.१०४.५३ ॥

诸祭祀、年,以及以时分(kalā)与刻(kāṣṭhā)为体的时间;众生之群与众生;河流、大海、山岳、住于山上的诸神、药草与树木。

14.104.54

तर्पयेदुपवीती च प्रत्येकं तृप्यतामिति ।
अन्वारभ्य च सव्येन पाणिना दक्षिणेन तु ॥ १४.१०४.५४ ॥

佩戴圣线者应逐一奉献祭水,说“愿他们满足”,并以左手和右手触摸。

14.104.55

निवीती तर्पयेद्विद्वानृषीन्मन्त्रकृतस्तथा ।
मरीच्यादीनृषींश्चैव नारदाद्यान्समाहितः ॥ १४.१०४.५५ ॥

佩戴围颈圣线的智者应以专注之心,向作咒的诸仙、摩里琦等诸仙以及那罗陀等人奉献祭水。

14.104.56

प्राचीनावीत्यथैतास्तु तर्पयेद्देवताः पितॄत् ।
ततस्तु कव्यवाडग्निं सों वैवस्वतं तथा ॥ १४.१०४.५६ ॥

然后以右肩披挂圣线,应向诸神和祖先奉献祭水;随后也向迦婆亚婆特火神、月神,以及毗婆摩之子阎摩奉献。

14.104.57

ततश्चार्यमणं चापि ह्यग्निष्वात्तांस्तथैव च ।
सोमपांश्चैव दर्भेषु सतिलैरेव वारिभिः।
तृप्यतामिति पश्चात्तु स पितॄंस्तर्पयेत्ततः ॥ १४.१०४.५७ ॥

随后,也向阿耶摩、火自生者与饮苏摩者,以混有芝麻的水置于吉祥草上,说“愿他们满足”;之后,他应向祖先奉献祭水。

14.104.58

पितॄन्पितामहांश्चैव तथैव प्रपितामहान् ।
पितामहीस्तता चापि तथैव प्रपितामहीः ॥ १४.१०४.५८ ॥

诸父、祖父,以及曾祖父;诸母、祖母,以及曾祖母。

14.104.59

मातरं चात्मनश्चैव गुरुमाचार्यमेव च ।
पितृमातृष्वसारौ च तथा मातामहीमपि ॥ १४.१०४.५९ ॥

母亲、自己的母亲,以及师长与阿阇梨;父母的姐妹,以及外祖母。

14.104.60

उपाध्यायान्सखीन्बन्धूञ्शिष्यर्त्विग्ज्ञातिबांधवान् ।
प्रमीतानानृशंस्यार्थं तर्पयेत्तानमत्सरः ॥ १४.१०४.६० ॥

应以慈悲之心、无嫉妒地,以奠水(tarpaṇa)使师长、朋友、亲属、弟子、祭司、族人及亡者得到满足。

14.104.61

तर्पयित्वा तथाऽऽचम्य स्नानवस्त्रं प्रपीडयेत् ।
वृत्तिं भृत्यजनस्याहुः स्नानं पानं च तद्विदः ॥ १४.१०४.६१ ॥

以奠水使之满足,并如法漱口净身之后,应拧干沐浴的布巾。知者说,沐浴与饮水即是仆役的生计。

14.104.62

अतर्पयित्वा तान्पूर्वं स्नानवस्त्रं न पीडयेत् ।
पीडयेच्चेत्पुरा मोहाद्देवाः सर्पिगणास्तथा।
पितरस्तु निराशास्ते शप्त्वा यान्ति यथागतं ॥ १४.१०४.६२ ॥

在未先以奠水使之满足之前,不应拧干沐浴的布巾;若因迷惑而先行拧干,诸神、蛇众及祖先便会失望,诅咒而去,循原路返回。

14.104.63

प्रक्षाल्य तु मृदा पादावाचम्य प्रयतः पुनः ।
दर्भेषु दर्भपाणिः सन्स्वाध्यायं तु समारभेत् ॥ १४.१०४.६३ ॥

然后以泥土洗足,再次漱口净身,控制自己,手持吉祥草,坐于吉祥草上,开始诵习吠陀(svādhyāya)。

14.104.64

वेदमादौ समारभ्य ततोपर्युपरि क्रमात् ।
यदधीतेऽन्वहं शक्त्या तत्स्वाध्यायं प्रचक्षते ॥ १४.१०४.६४ ॥

从吠陀的开头开始,依次逐步推进,每日依自己的能力所诵读的,便称为诵习(svādhyāya)。

14.104.65

ऋचो वाऽपि यजुर्वाऽपि सामगायमथापि च ।
इतिहासपुराणानि यथाशक्ति न हापयेत् ॥ १४.१०४.६५ ॥

梨俱颂、夜柔数、娑摩歌,以及历史传说与往世书,都应依自己的能力而不废弃。

14.104.66

उत्थाय तु नमस्कृत्य दिशो दिग्देवता अपि ।
ब्रह्मणं च ततश्चाग्निं पृथिवीमोषधीस्तथा ॥ १४.१०४.६६ ॥

起身礼敬方位及方位之神,随后礼敬梵天与火神,也礼敬大地与草药。

14.104.67

वाचं वाचस्पतिं चैव मां चैव सरितस्तथा ।
नमस्कृत्य तथाऽद्भिस्तु प्रणवादि च पूर्ववत् ॥ १४.१०४.६७ ॥

礼敬言语、语自在主、我以及诸河,亦以水礼敬,并如前诵念 praṇava 等。

14.104.68

ततो नमोऽद्भ्य इत्युक्त्वा नमस्कुर्यात्तु तज्जलम् ।
घृणिः सूर्यस्तथाऽऽदित्यस्तं प्रणम्य स्वमूर्धनि ॥ १४.१०४.६८ ॥

随后说“敬礼诸水”,向此水致敬;礼敬光明的太阳与阿提耶,并将(水)置于自己头上。

14.104.69

ततस्त्वालोकयन्नर्कं प्रणवेन समाहितः ।
ततो मामर्चयेत्पुष्पैर्मत्प्रियैरेव नित्यशः ॥ १४.१०४.६९ ॥

随后凝视太阳,以 praṇava 专一其心;然后应每日以我所喜爱的花供奉我。

14.104.70

त्वत्प्रियाणि प्रसूनानि त्वदधिष्ठानि माधव ।
सर्वाण्याचक्ष्व देवेश त्वद्भक्तस्य ममाच्युत ॥ १४.१०४.७० ॥

请告诉我那些您所喜爱、您所居止的所有花,哦摩陀婆;天神之主、不坏者啊,告诉您的信徒我。

14.104.71

शृणुष्वावहितो राजन्पुष्पाणि प्रियकृन्ति मे ।
कुमुदं करवीरं च चणकं चंपकं तथा ॥ १४.१०४.७१ ॥

大王,请专心听:令我欢喜的花有:睡莲(kumuda)、夹竹桃(karavīra)、鹰嘴豆花(caṇaka)、黄兰(campaka)等。

14.104.72

मल्लिकाजातिपुष्पं च नन्द्यावर्तं च नन्दिकम् ।
पलाशपुष्पपत्राणि दूर्वा भृङ्गकमेव च ॥ १४.१०४.७२ ॥

茉莉与阇提花、南迪亚瓦尔塔与南迪迦花、波罗奢花与叶、杜尔瓦草,还有旃陀罗草。

14.104.73

वनमाला च राजेन्द्र मत्प्रियाणि विशेषतः ।
सर्वेषामपि पुष्पाणां सहस्रगुणमुत्पलम् ॥ १४.१०४.७३ ॥

王中之王啊,林中花环尤其为我所爱;在所有花中,青莲胜过其他千倍。

14.104.74

तस्मात्पद्मं तथा राजन्पद्मात्तु सतपत्रकम् ।
तस्मात्सहस्रपत्रं तु पुण्डरीकं ततः परम् ॥ १४.१०४.७४ ॥

之后,大王,是莲花;胜于莲花的是百瓣花;再之后是千瓣花;再往上是白莲。

14.104.75

पुण्डरीकसहस्रात्तु तुलसी गुणतोऽधिका ।
बकपुष्पं ततस्तस्मात्सौवर्णं तु ततोऽधिकम्।
सौवर्णात्तु प्रसूनाच्च मत्प्रियं नास्ति पाण्डव ॥ १४.१०४.७५ ॥

在功德上,罗勒胜过千朵白莲;其次是白鹭花;再之上是金色之花;般度之子啊,我没有比金花更珍爱的了。

14.104.76

पुष्पाभावे तुलस्यास्तु पत्रैर्मामर्चयेत्पुनः ।
पत्रालाभे तु शाखाभिः शाकालाभे शिफालवैः।
शिफाभावे मृदा तत्र भक्तिमानर्चयेत माम् ॥ १४.१०४.७६ ॥

若无罗勒花,便以其叶再供养我;若无叶,以枝供养;若无青菜,以根芽与蔓供养;若无根,虔诚者便以泥土供养我。

14.104.77

वर्जनीयानि पुष्पाणि शृणु राजन्समाहितः ।
किङ्किणी मुनिपुष्पं च धुर्धूरं पाटलं तथा ॥ १४.१०४.७७ ॥

大王啊,请专心听那些应当避免的花:金铃花、牟尼花、毒曼陀罗、以及波吒罗花。

14.104.78

तथाऽतिमुक्तकं चैव पुन्नागं नक्तमालिकम् ।
यौधिकं क्षीरिकापुष्पं निर्गुण्डी लाङ्गुली जपा ॥ १४.१०४.७८ ॥

同样,阿提穆克塔迦、补那伽、夜树花、耀提迦、乳花、尼古恩底、朗古利和槿花。

14.104.79

कर्णिकारं तथाऽशोकं शल्मलीपुष्पमेव च ।
ककुभाः कोविदाराश्च वैभीतकमथापि च ॥ १४.१०४.७९ ॥

同样,耳饰树、无忧树、棉花树之花、ककुभ树、考维达罗树和毗弗跌迦树。

14.104.80

कुरण्टकप्रसूनं च कल्पकं कालकं तथा ।
अङ्केलं गिरिकर्णी च नीलान्येव च सर्वशः।
एकपर्णानि चान्यानि सर्वाण्येव विवर्जयेत् ॥ १४.१०४.८० ॥

矢车菊花、劫波花、迦罗迦花、安盖拉树、山耳草,以及一切蓝色花朵、单叶之花和其他一切,都应当避免。

14.104.81

अर्कपुष्पाणि वर्ज्यानि अर्कपत्रस्तितानि च ।
व्याघृताः पिचुमन्दानि सर्वाण्येव विवर्जयेत् ॥ १४.१०४.८१ ॥

阿迦花应当避免,阿迦叶也是;婆耶利多、皮楚曼达,所有这些都应当避免。

14.104.82

अन्यैस्तु शुक्लपत्रैस्तु गन्धवद्भिर्नराधिप ।
अवर्ज्यैस्तैर्यथालाभं मद्भक्तो मां समर्चयेत् ॥ १४.१०४.८२ ॥

人主啊,用其他不应避免的芳香白叶,凡有所得,我的信徒应当供养我。

14.104.83

कथं त्वमर्चनीयोसि मूर्तयः कीदृशास्तु ते ।
वैखानसाः कथं ब्रुयूः कथं वा पाञ्चरात्रिकाः ॥ १४.१०४.८३ ॥

我当如何礼拜您?您的形像是怎样的?毗卡纳萨派应当如何说,或者般遮罗怛罗派应当如何说?

14.104.84

शृणु पाण्डव तत्सर्वमर्चनाक्रममात्मनः ।
स्थण्डिले पद्मकं कृत्वा चाष्टपत्रं सकर्णिकम् ॥ १४.१०४.८४ ॥

般度之子啊,请听我的全部供奉次第:在平坦之地画出八瓣带蕊的莲花,

14.104.85

अष्टाक्षरविधानेन ह्यथवा द्वादशाक्षरैः ।
वैदिकैरथ मन्त्रैश्च मम सूक्तेन वा पुनः ॥ १४.१०४.८५ ॥

依八字咒之仪轨,或以十二字咒,以吠陀真言,或以我的赞歌。

14.104.86

स्थापितं मां ततस्तस्मिन्नर्ययित्वा विचक्षणः ।
पुरुषं च ततः सत्यमत्युतं च युधिष्टिर ॥ १४.१०४.८६ ॥

在那里安置我并恭敬供奉,如智者所为,随后也供奉布鲁沙、萨提亚与阿周陀,般遮之子尤地什提啊。

14.104.87

अनिरुद्धं च मां प्राहुर्वैखानसविदो जनाः ।
अन्ये त्वेवं विजानन्ति मां राजन्पाञ्चरात्रिकाः। ॥ १४.१०४.८७ ॥

通晓伽那之学的人称我为阿尼鲁达,然而其他人,即般遮罗多罗派,啊国王,这样认识我。

14.104.88

वासुदेवं च राजेन्द्र संकर्षणमथापि वा ।
प्रद्युम्नं चानिरुद्धं च चतुर्मूर्तिं प्रचक्षते ॥ १४.१०४.८८ ॥

诸王之主啊,伐苏提婆与三结达那,或普罗迪由摩那与阿尼鲁达,人们称我为四相之神。

14.104.89

एताश्चान्याश्च राजेन्द्र संज्ञाभेदेन मूर्तयः ।
विद्ध्यार्थान्तरा एवं मामेवं चार्चयेद्भुधः ॥ १४.१०४.८९ ॥

诸王之主啊,这些以及其他的神相,因名号之别而有不同,应知其义各异。智者应当如此供奉我。

14.104.90

त्वद्भक्ताः कीदृसा देव कानि तेषं व्रतानि च ।
एतत्कथय देवेश त्वद्भक्तस्य ममाच्युत ॥ १४.१०४.९० ॥

神啊,您的信徒是怎样的人?他们的誓愿是什么?主宰诸神的阿周那啊,不灭者,请将此告诉我——您的信徒。

14.104.91

अनन्यदेवताभक्ता चे मद्भक्तजनप्रियाः ।
मामेव शरणं प्राप्ता मद्भक्तास्ते प्रकीर्तिताः ॥ १४.१०४.९१ ॥

不奉事其他神祇、为我的信徒所喜爱、唯以我为皈依的人,他们被称为我的信徒。

14.104.92

स्वर्ग्याण्यपि यशस्यानि मत्प्रियाणि विशेषतः ।
मद्भक्तः पाण्डवश्रेष्ठ व्रतानीमानि धारयेत् ॥ १४.१०४.९२ ॥

般度之子中最优秀的人啊,这些能带来天界与声名、尤其为我所喜爱的誓愿,我的信徒应当奉持。

14.104.93

नान्यदाच्छादयेद्वस्त्रं मद्भक्तो जलतारणे ।
स्वस्थस्तु न दिवा स्वप्येन्मधुमांसानि वर्जयेत् ॥ १४.१०४.९३ ॥

渡水之时,我的信徒不应以他衣遮身;身体健康时不应白天睡觉,应戒除蜂蜜与肉类。

14.104.94

प्रदक्षिणं व्रजेद्विप्रान्गामश्वत्थं हुताशनम् ।
न धावेत्पतिते वर्षे नाग्नभिक्षां च लोपयेत् ॥ १४.१०४.९४ ॥

应绕行婆罗门、牛、无花果树与火;雨落之时不应奔跑,也不应废弃献火的布施。

14.104.95

प्रत्यक्षलवणं नाद्यत्सौभाञ्जनकरञ्जनौ ।
ग्रासमुष्टिं गवपे दद्याद्धान्याम्लं चैव वर्जयेत् ॥ १४.१०४.९५ ॥

不应食用可见之盐,不应食用蒜豆与嘎仑植物;应给牛一把食物,并应戒除酸味的谷类饮料。

14.104.96

तथा पर्युषितं चापि पक्वं परगृहागतम् ।
अनिवेदितं च यद्द्रव्यं तत्प्रयत्नेन वर्जयेत् ॥ १४.१०४.९६ ॥

同样,陈旧之物、虽已煮熟但来自他人之家者,以及未经供献之物,都应谨慎戒避。

14.104.97

विभितककरञ्जानां छायां दूरे विवर्जयेत् ।
पिप्रदेवपरीवादान्न वदेत्पीडितोपि सन् ॥ १४.१०४.९७ ॥

应远离毗毗陀迦与卡兰遮树的树荫;即便处于困苦之中,也不可非议婆罗门。

14.104.98

सात्विका राजसाश्चापि तामसाश्चापि पाण्डव ।
मामर्चयन्ति मद्भक्तास्तेषामीदृग्विदा गतिः ॥ १४.१०४.९८ ॥

般度之子啊,即使是善性、激性与暗性之人,只要作为我的信徒崇拜我,他们的归宿也如此类智者一般。

14.104.99

तामसास्तिमिरं यान्ति राजसा रज एव तत् ।
सात्विकाः सत्वसंपन्नाः सत्वमेव प्रयान्ति ते ॥ १४.१०४.९९ ॥

暗性者入于昏暗,激性者入于激情;而具足善性的善性者,唯得善性。

14.104.100

ये सिद्धाः सन्ति साङ्ख्येन योगसत्वबलेन च ।
नभस्यादित्यचन्द्राभ्यां पश्यन्ति पदविस्तरम् ॥ १४.१०४.१०० ॥

那些凭借数论、瑜伽与善性之力而成就的圆满者,借助日月在天空中看见道路的广大延展。

14.104.101

एकस्तंभे नवद्वारे त्रिस्थूणे पञ्चसाक्षिके ।
एतस्मिन्देहनगरे राजसस्तु सदा भवेत् ॥ १४.१०४.१०१ ॥

在这身体之城中,有一根柱子、九个门、三根支柱与五位见证者,激性之德常驻其中。

14.104.102

उदिते सवितर्याप्य क्रियायुक्तस्य धीमतः ।
चतुर्वेदविदश्चापि देहे षड्वृषलाः स्मृताः ॥ १४.१०४.१०२ ॥

太阳升起时,在精通仪轨的智者及通晓四吠陀者身中,据说有六种贱民(vṛṣala)。

14.104.103

क्षत्रियाः सप्त विज्ञेया वैश्यास्त्वष्टौ प्रकीर्तिताः ।
नियताः पाण्डवश्रेष्ठ शूद्राणामेकविंशतिः ॥ १४.१०४.१०३ ॥

应知有七种刹帝利,八种吠舍已被宣说。般度之子中最优秀者啊,首陀罗确定为二十一种。

14.104.104

कामः क्रोधश्च लोभश्च मोहश्च मद एव च ।
महामोहश्च इत्येते देहे षड्वृषलाः स्मृताः ॥ १४.१०४.१०४ ॥

欲、怒、贪、痴、慢与大痴,这些被说为身中的六种贱民。

14.104.105

गर्वः स्तंभो ह्यहङ्कार ईर्ष्या च द्रोह एव च ।
पारुष्यं क्रूरता चैव सप्तैत क्षत्रियाः स्मृताः ॥ १४.१०४.१०५ ॥

骄慢、固执、我慢、嫉妒、恶意、粗暴与残酷,这七者被说为刹帝利。

14.104.106

तीक्ष्णता निकृतिर्माया शाठ्यं डंभो ह्यनार्जवम् ।
पैशुन्यमनृतं चैव वेश्यास्त्वष्टौ प्रकीर्तिताः ॥ १४.१०४.१०६ ॥

锋利、欺诈、幻术、狡猾、伪善、不正直、谗言与虚妄,这八者被宣说为吠舍。

14.104.107

तृष्णा बुभुक्षा निद्रा च ह्यालस्यं चाघृणादयः ।
आधिश्चापि विषादश्च प्रमादो हीनसत्वता ॥ १४.१०४.१०७ ॥

渴爱、饥饿、睡眠、懒惰、无慈悲等,心之痛苦、忧伤、放逸,以及精神的软弱。

14.104.108

भयं विक्लबता जाड्यं पापकं मन्युरेव च ।
आशा चाश्रद्दधानत्वमनवस्थाप्यमन्त्रणम् ॥ १४.१०४.१०८ ॥

恐惧、慌乱、迟钝、罪恶之行与愤怒、希望、缺乏信心、不安定与邪恶的谋划。

14.104.109

आशौचं मलिनत्वं च शूद्रा ह्येते प्रकीर्तिताः ।
यस्मिन्नेते न दृश्यन्ते स वै ब्राह्मण उच्यते ॥ १४.१०४.१०९ ॥

不净与污秽,这些正是所称的首陀罗。在他身上看不到这些的人,才被称为婆罗门。

14.104.110

येषुयेषु हि भावेषु यत्कालं वर्तते द्विजः ।
तत्कालं वै स विज्ञेयो ब्राह्मणो ज्ञानदुर्बलः ॥ १४.१०४.११० ॥

再生者在任何状态中停留于某时,那时就应被认作婆罗门——在知识上软弱之人。

14.104.111

प्राणानायम्य यत्कालं येन मां चापि चिन्तयेत् ।
तत्कालो वै द्विजो ज्ञेयः शेषकालो ह्यथेतरः ॥ १४.१०४.१११ ॥

当一个人调伏气息而思念我的时候,那时他就应被认作再生者;其余的时间则不同。

14.104.112

तस्मात्तु सात्विको भूत्वा शुचिः क्रोधविवर्जितः ।
मामर्चयेत्तु सततं मत्प्रियत्वं यदीच्छति ॥ १४.१०४.११२ ॥

因此,成为纯善之性、清净、远离愤怒,想要为我所爱的人,应当时常礼拜我。

14.104.113

अलोलजिह्वः समुपस्थितो धृतिं ।
निधाय चक्षुर्युगमात्रमेव तत।
मनश्च वाचं च निगृह्य चञ्चलं ।
भयान्निवृत्तो मम भक्त उच्यते ॥ १४.१०४.११३ ॥

舌头不躁动,坚定地安住,视线只落在一轭之远,克制躁动的心与言语,远离恐惧的人——他被称为我的信徒。

14.104.114

ईदृशाध्यात्मिनो ये तु ब्राह्मणा नियतेन्द्रियाः ।
तेषां श्राद्धेषु तृप्यन्ति तेन तृप्ताः पितामहाः ॥ १४.१०४.११४ ॥

如此精通自性、诸根已调伏的婆罗门,在他们的施罗陀祭中,祖先得到满足;因此而满足的祖先便欢喜。

14.104.115

धर्मो जयति नाधर्मः सत्यं जयति नानृतम् ।
क्षमा जयति न क्रोधः क्षमावान्ब्राह्मणो भवेत् ॥ १४.१०४.११५ ॥

法得胜,非非法得胜;真理得胜,非虚妄得胜;忍辱得胜,非愤怒得胜。有忍辱者,方可为婆罗门。