摩诃婆罗多 · 章 14.107
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
14.107.1
इदं मे तत्वतो देव वक्तुमर्हस्यशेषतः ।
हिंसामकृत्वा यो मर्त्यो ब्रह्महत्यामवाप्नुयात् ॥ १४.१०७.१ ॥
天神啊,您应当完整而真实地告诉我:凡人不行暴力,如何会招致杀害婆罗门的罪过。
14.107.2
ब्राह्मणं स्वयमाहूय भिक्षार्थं वृत्तिकर्शितम् ।
ब्रूयान्नास्तीति यः पश्चात्तमाहुर्ब्रह्मघातकम् ॥ १४.१०७.२ ॥
若有人自己邀请婆罗门来乞食,之后对因生计匮乏而消瘦的他说“没有”,人们称此人为杀害婆罗门者。
14.107.3
मध्यस्थस्येह विप्रस्य योऽनूचानस्य भारत ।
वृत्तिं हरति दुर्बुद्धइस्तमाहुर्ब्रह्मघातकम् ॥ १४.१०७.३ ॥
婆罗多之子啊,若有人出于恶念,夺取此处担任中间人的通晓吠陀的婆罗门的生计,人们称此人为杀害婆罗门者。
14.107.4
आश्रमे वाऽऽलये वाऽपि ग्रामे वा नगरेऽपि वा ।
अग्निं यः प्रक्षिपेत्क्रुद्धस्तमाहुर्ब्रह्मघातकम् ॥ १४.१०७.४ ॥
若有人在愤怒中纵火——无论在修行处、住所、村庄还是城市——人们称此人为杀害婆罗门者。
14.107.5
गोकुलस्य तृषार्तस्य जलान्ते वसुधाधिप ।
उत्पादयति यो विघ्नं तमाहुर्ब्रह्मघातकम् ॥ १४.१०७.५ ॥
大地之主啊,若有人在水边为口渴的牛群制造阻碍,人们称此人为杀害婆罗门者。
14.107.6
यः प्रवृत्तां श्रुतिं सम्यक्छास्त्रं वा मुनिभिः कृतम् ।
दूषयत्यनभिज्ञाय तमाहुर्ब्रह्मघातकम् ॥ १४.१०७.६ ॥
若有人不明其理,便诋毁流传中的天启经典,或由圣哲们妥善编撰的论著,人们称此人为杀害婆罗门者。
14.107.7
चक्षुषा वाऽपि हीनस्य पङ्गोर्वाऽपि जडस्य वा ।
हरेद्वै यस्तु सर्वस्वं तमाहुर्ब्रह्मघातकम् ॥ १४.१०७.७ ॥
夺取盲人、跛子或愚人全部财产的人,被称为杀害婆罗门者(梵杀者)。
14.107.8
गुरुं त्वंकृत्यं हुंकृत्य अतिक्रम्य च शासनम् ।
वर्तते यस्तु मूढात्मा तमाहुर्ब्रह्मघातकम् ॥ १४.१०७.८ ॥
愚昧之人以“你”称呼或以“哼”应答其师,并违背其教令,这样的人被称为杀害婆罗门者(梵杀者)。
14.107.9
क्रोधाद्वा यदि वा द्वेषादाक्रुष्टस्तर्जितोपि वा ।
ऋतौ स्त्रियं वा नोपेयात्तमाहुर्ब्रह्मघातकम् ॥ १४.१०७.९ ॥
若因愤怒或怨恨,即使被辱骂或威胁,而在妻子的月经后可受孕之期不与其亲近,这样的人被称为杀害婆罗门者(梵杀者)。
14.107.10
यावत्सारो भवेद्दीनस्तन्नाशे यस्य दुःस्थितिः ।
तत्सर्वस्वं हरेद्यो वै तमाहुर्ब्रह्मघातकम् ॥ १४.१०७.१० ॥
夺取贫者全部财产——即其所有的少许资产,失之则陷于困厄——这样的人被称为杀害婆罗门者(梵杀者)。
14.107.11
सप्वेषामपि दानानां यत्तु दानं विशिष्यते ।
अभोज्यान्नाश्च ये विप्रास्तान्ब्रवीहि सुरोत्तम ॥ १४.१०७.११ ॥
在一切布施中,哪一种布施最为殊胜?还有,哦,诸神中最优秀者,请告诉我,哪些婆罗门的食物是不可食用的。
14.107.12
अन्नमेव प्रशंसन्ति देवा ब्रह्मपुरस्सराः ।
अन्नेन सदृशं दानं न भूतं न भविष्यति ॥ १४.१०७.१२ ॥
以梵天为首的诸神只赞美食物。从来没有、将来也不会有与施食相等的布施。
14.107.13
अन्नमूर्जस्करं लोके ह्यन्नात्प्राणाः प्रतिष्ठिताः ।
अबोज्यान्नान्मया राजन्वक्ष्यमाणान्निबोध मे ॥ १४.१०७.१३ ॥
在世间,食物赋予力量,生命之气依靠食物而立。大王,请听我说哪些食物不可食用。
14.107.14
दीक्षितस्य कदर्यस्य क्रुद्धस्य निकृतस्य च ।
अभिशप्तस्य षण्डस्य पाकभेदकरस्य च ॥ १४.१०७.१४ ॥
发过圣誓者、吝啬者、愤怒者、受辱者、被诅咒者、阉人,以及分割烹饪者的食物。
14.107.15
चिकित्सकस्य दूतस्य तथा चोच्छिष्टभोजिनः ।
उग्रान्नं सूतकान्नं च शूद्रोच्छेषणमेव च ॥ १४.१०७.१५ ॥
医生与使者的食物,以及食用残余者的食物,凶暴者的食物,居丧不洁者的食物,还有首陀罗的残余。
14.107.16
द्विषदन्नं न भोक्तव्यं पतितान्नं च यच्छ्रुतम् ।
तथा च पिशुनस्यान्नं यज्ञविक्रयिणस्तथा ॥ १४.१०७.१६ ॥
不可食用敌人的食物;如所闻,堕落者的食物;同样,谗言者和卖祭祀者的食物也不可食用。
14.107.17
शैलूषं तन्तुवायान्नं कृतघ्नस्यान्नमेव च ।
अंबष्ठकनिषादानां रङ्गावतरकस्य च ॥ १४.१०७.१७ ॥
演员的食物、织工的食物、忘恩负义者的食物、安跋室陀与尼沙陀的食物,以及登台表演者的食物。
14.107.18
सुवर्णकर्तुर्वैणस्यि शस्त्रविक्रयिणस्तथा ।
सूताना शौण्डिकानां च वैद्यस्य रजकस्य च ॥ १४.१०७.१८ ॥
金匠的食物、编篮者的食物、卖兵器者的食物,同样,御者(苏多)、卖酒者、医生和洗衣者的食物也不可食用。
14.107.19
स्त्रीजितस्य नृशंसस्य तथा माहिषिकस्य च ।
अनिर्दशानां प्रेतानां गणिकानां तथैव च ॥ १४.१०७.१९ ॥
应避免受女人支配者、残忍者、牧水牛者、未满不净期者、亡灵以及妓女的食物。
14.107.20
बन्दिनो द्यूतकर्तुश्च तथा द्यूतविदामपि ।
परिवित्तस्य यच्चान्नं परिवेत्तुस्तथैव च ॥ १४.१०७.२० ॥
应避免歌者、赌徒、精通赌博者、弟弟先于兄长娶妻者以及先于兄长娶妻者的食物。
14.107.21
यश्चाग्रदिधिषुर्विप्रो दिधिषूपपिस्तथा ।
तयोरप्युभयोरन्नं राज्ञां चापि विवर्जयेत् ॥ १४.१०७.२१ ॥
欲先于姐姐娶妻的婆罗门、其妻之夫,二者的食物,以及国王的食物,都应避免。
14.107.22
राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मवर्चसम् ।
आयुः सुवर्णकारान्नं यशश्चार्मावकृन्तिनः ॥ १४.१०७.२२ ॥
国王的食物夺去光辉,首陀罗的食物夺去梵德的光芒,金匠的食物夺去寿命,剥皮者的食物夺去名声。
14.107.23
गणान्नं गणिकान्नं च लोकेभ्यः परिकीर्तितम् ।
पूयं चिकित्सकस्यान्नं शुक्लं तु वृषलीपतेः ॥ १४.१०७.२३ ॥
在世间,聚会之食与妓女之食被宣称为应受非议;医者之食如脓,婆罗门女之夫(吠舍女之夫)之食如精液。
14.107.24
विष्ठा वार्धुषिकस्यान्नं तस्मात्तत्परिवर्जयेत् ।
तेषां त्वगस्थिरोमाणि भुङ्क्ते योऽन्नं तु भक्षयेत् ॥ १४.१०७.२४ ॥
放高利贷者之食如粪便,故应避开。食其食者,即食其皮、骨与毛发。
14.107.25
अमात्यान्नमथैतेषां भुक्त्वा तु त्रियहं क्षिपेत् ।
मत्या भुक्त्वा सकृद्वाऽपि प्राजापत्यं चरेद्द्विजः ॥ १४.१०७.२५ ॥
若食其大臣之食,应禁食三日;若再生者明知而食,即使一次,也应行生主苦行。
14.107.26
दानानां च फलं यद्वै शृणु पाण्डव तत्वतः ।
जलदस्तृप्तिमाप्नोति सुखमक्षयमन्नदः ॥ १४.१०७.२६ ॥
般度之子啊,请如实听闻布施的果报:施水者得到满足,施食者得到不朽的快乐。
14.107.27
तिलदश्च प्रजामिष्टां दीपदश्चक्षुरुत्तमम् ।
भूमदो भूमिमाप्नोति दीर्घमायुर्हिरण्यदः ॥ १४.१०७.२७ ॥
施芝麻者得到如愿的子嗣,施灯者得到最上等的视力。施地者得到土地,施金者得到长寿。
14.107.28
गृहदोऽग्र्याणि वेश्मानि रूप्यदो रूपमुत्तमम् ।
वासोदश्चन्द्रसालोक्यमश्विसालोक्यमश्वदः ॥ १४.१०७.२८ ॥
施屋者得到上等的居所,施银者得到最上的容貌。施衣者得到月亮界,施马者得到双马童的世界。
14.107.29
अनडुद्दः श्रियं जुष्टां गोदो गोलोकमश्नुते ।
यानशय्याप्रदो भार्यामैश्वर्यमभयप्रदः ॥ १४.१०७.२९ ॥
施牛者得到所爱的富饶,施牛群者得到牛界。施车与床榻者得到妻子,施无畏者得到威权。
14.107.30
धान्यदः शाश्वतं सौख्यं ब्रह्मदो ब्रह्मसाम्यताम् ।
सर्वेषामेव दानानां ब्रह्मदानं विशिष्यते ॥ १४.१०७.३० ॥
施谷者得到永恒的快乐,施梵(即吠陀)者得到与梵相等。在一切布施中,施梵最为殊胜。
14.107.31
हिरण्यभूगवाश्वाजवस्त्रशय्यासनादिषु ।
योर्चितः प्रतिगृह्णाति दद्यादुचितमेव च।
तावुभौ गच्छतः स्वर्गं नरकं च विपर्यये ॥ १४.१०७.३१ ॥
若人以敬意接受金、地、牛、马、山羊、衣物、床榻与座椅,若人如理施予,二者皆升天;反之则皆入地狱。
14.107.32
अनृतं न वदेद्विद्वांस्तपस्तप्त्वा न विस्मयेत् ।
नार्तोप्यभिभवेद्विप्रान्न दत्त्वा परिकीर्तयेत् ॥ १४.१०७.३२ ॥
智者不应说谎;行苦行之后不应自满。即便痛苦,也不应轻慢婆罗门;施舍之后也不应张扬宣扬。
14.107.33
यज्ञोऽनृतेन क्षरति तपः क्षरति विस्मयात् ।
आयुर्विप्रावमानेन दानं तु परिकीर्तनात् ॥ १४.१०७.३३ ॥
祭祀因虚妄而衰减,苦行因傲慢而衰减;寿命因轻慢婆罗门而衰减,布施因宣扬而衰减。
14.107.34
एकः प्रजायते जन्तुरेक एव प्रमीयते ।
अकोऽनुभुङ्क्ते सुकृतमेकश्चाप्नोति दुष्कृतम् ॥ १४.१०७.३४ ॥
众生独自出生,也独自死去;唯有他独自享受善行的果报,也独自承受恶行的果报。
14.107.35
मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं क्षितौ ।
विमुखा बान्धवा यान्ति धर्मस्तमनुवर्तते ॥ १४.१०७.३५ ॥
亲属将死者之身如木块或土块般遗弃于地,背面离去;唯有法随他而行。
14.107.36
अनागतानि कार्याणि कर्तुं गणयते मनः ।
शरीरकं समुद्दिश्य स्मयते नूनमन्तकः ॥ १४.१०७.३६ ॥
心念筹划尚未到来的事务;而死神以身体为目标,必然在微笑。
14.107.37
तस्माद्धर्मसहासस्तु धर्मं संचिनुयात्सदा ।
धर्मेण हि सहायेन तमस्तरति दुस्तरम् ॥ १४.१०७.३७ ॥
因此应当常以法为伴侣,积累法;因为有法作为助伴,人便能渡过难以渡越的黑暗。
14.107.38
येषां तटाकानि बहूदकानि ।
सभाश्च कूपाश्च शुभाः प्रपाश्च।
अन्नप्रदानं मधुरा च वाणी ।
यमस्य ते निर्विषया भवन्ति ॥ १४.१०७.३८ ॥
凡拥有水量充沛的池塘、会堂、善井、施水亭,布施食物,并言语甘美者,便脱离阎摩的管辖。