摩诃婆罗多 · 章 14.108
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
14.108.1
अनेकान्तं बहुद्वारं धर्ममाहुर्मनीपिणः ।
किंलक्षणोसौ भति तन्मे ब्रूहि जनार्दन ॥ १४.१०८.१ ॥
坚战说:智者说法有多面、多门。吉祥天啊(Janārdana),它的特征是什么,它如何显现?请告诉我。
14.108.2
शृणु राजन्समासेन धर्मशौचविधिक्रमम् ।
अहिंसा शौचमक्रोधमानृशंस्यं दमः शमः।
आर्जवं चैव राजेन्द्र निश्चितं धर्मलक्षणम् ॥ १४.१०८.२ ॥
世尊说:大王,请简要听取法与清净的次第规则。不害、清净、无怒、仁慈、自制、寂静与正直——这些,王中之王啊,便是确定的法之相。
14.108.3
ब्रह्मचर्यं तपः क्षान्तिर्मधुमांसस्य वर्जनम् ।
मर्यादायां स्थितिश्चैव शमः शौचस्य लक्षणम् ॥ १४.१०८.३ ॥
梵行、苦行、忍耐、戒除蜜与肉、安住于礼仪的界限之内,以及寂静——这些便是清净的标志。
14.108.4
बाल्ये विद्यां निषेवेत यौवने दारसंग्रहम् ।
वार्धके मौनमातिष्ठेत्सर्वदा धर्ममाचरेत् ॥ १४.१०८.४ ॥
童年应当专心学习,青年应当娶妻成家,老年应当保持沉默,并且始终奉行法。
14.108.5
ब्राह्मणान्नावमन्येत गुरुन्परिवदेन्न च ।
यतीनामनुकूलः स्यादेष धर्मः सनातनः ॥ १४.१०८.५ ॥
不可轻视婆罗门,不可诽谤师长;应当对苦行者心怀善意——这便是永恒的法。
14.108.6
यतिर्गुरुर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः ।
पतिरेव गुरुः स्त्रीणां सर्वेषां पार्थिवो गुरुः ॥ १४.१०८.६ ॥
对于再生族,师父是苦行者;对于各种姓,师父是婆罗门;对于妇女,师父只是丈夫;而对于所有人,师父是国王。
14.108.7
यद्गृहस्तार्जितं पापं ज्ञानतोऽज्ञानतोपि वा ।
निर्दहिष्यति तत्सर्वमेकरात्रोषितो यतिः ॥ १४.१०८.७ ॥
居家者无论有意无意所积之罪,留宿一夜的苦行者都将全部焚尽。
14.108.8
दुर्वृत्ता वा सुवृत्ता वा ज्ञानिनोऽज्ञानिनोपि वा ।
गृहस्थैर्यतयः पूज्याः परत्र हितकाङ्क्षिभिः ॥ १४.१०८.८ ॥
无论行为恶劣或良善,有学问或无知,居家者若求来世之福,都应敬奉苦行者。
14.108.9
एकदण्डी त्रिदण्डी वा शिखी वा मुण्डितोपि वा ।
काषायदण्डधारोपि यतिः पूज्यो न संशयः ॥ १४.१०८.९ ॥
无论持一杖或三杖,留发或剃头,即便持赭色杖者,苦行者都值得敬奉,毫无疑问。
14.108.10
अपूजितो गृहस्थैर्वा तथा चाप्यवमानितः ।
यतिर्वाऽप्यतिथिर्वाऽपि नरके पातयिष्यतः ॥ १४.१०८.१० ॥
若居家者未敬奉或侮辱苦行者或客人,他将使他们堕入地狱。
14.108.11
तस्मात्तु यत्नतः पूज्या मद्भक्ता मत्परायणाः ।
मयि संन्यस्तकर्माणः परत्र हितकाङ्क्षिभिः ॥ १४.१०८.११ ॥
因此,求来世之福的居家者应当恭敬供养我的信徒,那些专注于我、已将业行舍弃于我的人。
14.108.12
प्रहरेन्न द्विजान्विप्रो गां न हन्यात्कदाचन ।
भ्रूणहत्यासमं चैव उभयं यो निषेवते ॥ १४.१०८.१२ ॥
婆罗门不应殴打再生者,也绝不可杀牛;两者皆行的人,所犯之罪等同于杀害胎儿。
14.108.13
नाग्निं मुखेनोपधमेन्न च पादौ प्रतापयेत् ।
नाधः कुर्यात्कदाचित्तु न पृष्ठं परितापयेत् ॥ १४.१०८.१३ ॥
不可用口吹火,也不可烤脚。绝不可使火朝下,也不可烤背。
14.108.14
नान्तरा गमनं कुर्यान्न चामेध्यं विनिक्षिपेत् ।
उच्छिष्टो न स्पृशेदग्निमाशौचस्थो न जातुचित् ॥ १४.१०८.१४ ॥
不可在火之间穿行,也不可将不净之物投入火中。沾染残食的人不可触碰火,处于不净状态的人绝不可触碰。
14.108.15
श्वचण्डालादिभिः स्पृष्टो नाङ्गमग्नौ प्रतापयेत् ।
सर्वदेवमयो वह्निस्तस्माच्छुद्धः सदा स्पृशेत् ॥ १४.१०८.१५ ॥
被狗、旃陀罗等人触碰过的人,不可在火中烤自己的身体。火包含一切神明,因此应当保持洁净,始终以清净之身触碰它。
14.108.16
प्राप्तमूत्रपुरीषस्तु न स्पृशेद्वह्निमात्मवान् ।
यावत्तु धारयेद्वेगं तावदप्रयतो भवेत् ॥ १४.१०८.१६ ॥
克制自己的人,若有小便或大便之急,不可触碰火。只要他忍着那急迫感,他便仍是不净的。
14.108.17
पचनाग्निं न गृह्णीयात्परवेश्मनि जातुचित् ।
तस्मिन्पक्वेन चान्नेन यत्कर्म कुरुते शुभम् ॥ १४.१०८.१७ ॥
烹饪之火绝不可从他人家中取得。凡以在此火上煮熟的食物所作的善行……
14.108.18
तस्यैव तच्छुभस्यार्धमग्निदस्य भवेन्नृप ।
तस्माद्गृहगतं वह्निं प्रकुर्यादविनाशितम् ॥ १४.१०८.१८ ॥
国王啊,那善行的一半功德归于给予火者。因此应使家中之火永不熄灭。
14.108.19
प्रमादाद्यदि वाऽज्ञानात्तस्य नाशो भविष्यति ।
गृह्णीयात्तु मथित्वा वा श्रोत्रियागारतोपि वा ॥ १४.१०८.१९ ॥
若因疏忽或无知而使之熄灭,则应钻木取火,或从通晓吠陀的婆罗门家中取火。
14.108.20
कीदृशाः साधवो विप्रास्तेभ्यो दत्तं महाफलम् ।
कीदृशेभ्यो हि दातव्यं तन्मे ब्रूहि जनार्दन ॥ १४.१०८.२० ॥
哗那尔达那啊,给予何种善良的婆罗门,布施便有大果报?应当施与何种人?请告诉我。
14.108.21
अक्रोधनाः सत्यपरा धर्मनित्या जितेन्द्रियाः ।
तादृशाः साधवो विप्रास्तेभ्यो दत्तं महाफलम् ॥ १४.१०८.२१ ॥
施与那些不发怒、专注真理、恒守法义、克制诸根的善良婆罗门,布施便有大果报。
14.108.22
अमानिनः सर्वसहा दृष्टार्था विजितेन्द्रियाः ।
सर्वभूतहिता मैत्रास्तेभ्यो दत्तं महाफलम् ॥ १४.१०८.२२ ॥
施与那些无我慢、能忍受一切、洞见真义、克制诸根、利益一切众生且怀慈友之心的人,布施便有大果报。
14.108.23
अलुब्धाः शुचयो वैद्या हीमन्तः सत्यवादिनः ।
स्वधर्मनिरता ये तु तेभ्यो दत्तं महाफलम् ॥ १४.१०८.२३ ॥
施与那些无贪、清净、博学、知耻、言语诚实、安于本分的人,布施便有大果报。
14.108.24
साङ्गंश्च चतुरो वेदान्योऽधीयेत दिनेदिने ।
शूद्रान्नं यस्य नो देहे तत्पात्रमृषयो विदुः ॥ १४.१०८.२४ ॥
诸仙人认为,每日研习四吠陀及其支分、且身中未曾进入首陀罗食物的人,便是合适的受施者。
14.108.25
प्रज्ञाश्रुताभ्यां वृत्तेन शीलेन च समन्वितः ।
तारयेत्तत्कुलं सर्वमेकोपीह युधिष्ठिर ॥ १४.१०८.२५ ॥
Yudhiṣṭhira啊,即使只有一人具备智慧、学问、德行与品性,也能在此度化整个家族。
14.108.26
गामश्वमन्नं वित्तं वा तद्विधे प्रतिपादयेत् ।
निशम्य तु गुणोपेतं ब्राह्मअणं साधुसंमतम्।
दूरादाहृत्य सत्कृत्य तं प्रयत्नेन पूजयेत् ॥ १४.१०८.२६ ॥
应将牛、马、食物或财物施予这样的人;识别出具备德行、为善人所认可的婆罗门,即使从远方请来,加以敬重,应精心供养。
14.108.27
धर्माधर्मविधिस्त्वेवं भीमं भीष्मेण भाषितम् ।
भीष्मवाक्यात्सारभूतं वद धर्मं सुरेश्वर ॥ १४.१०८.२७ ॥
毗湿摩所说的法与非法之规则如此严峻;诸天之主啊,请从毗湿摩的教言中,说出法的精要。
14.108.28
अन्नेन धार्यते सर्वं जगदेतच्चराचरम् ।
अन्नात्प्रभवति प्राणः प्रत्यक्षं नास्ति संशयः ॥ १४.१०८.२८ ॥
此整个动与不动的世界皆依食物而维持;生命之气由食物而生;这是显而易见的,毫无疑问。
14.108.29
कलत्रं पीडयित्वा तु देशे काले च शक्तितः ।
दातव्यं भिक्षवे चान्नमात्मनो भूतिमिच्छता ॥ १४.१०८.२९ ॥
在不苦害自身(家人)的前提下,依地点、时节与自身能力,欲求自身福祉者应施食予乞者。
14.108.30
विप्रमध्वपरिश्रान्तं बालं वृद्धमथापि वा ।
अर्चयेद्गुरुवत्प्रीतो गृहस्थो गृहमागतम् ॥ १४.१०८.३० ॥
家主应欢喜地如尊敬师长一般,恭敬那因路途疲惫的婆罗门、孩童或老人,或任何来到家中之人。
14.108.31
क्रोधमुत्पतितं हित्वा सुशीलो वीतमत्सरः ।
अर्चयेदतिथिं प्रीतः परत्र हितभूतये ॥ १४.१०८.३१ ॥
舍弃已升起的愤怒,品行良善、不存嫉妒,应欣然款待客人;这为来世带来福祉与兴盛。
14.108.32
अतिथिं नावमन्येत नानृतां गिरमीरयेत् ।
न पृच्छेद्गोत्रचरणं नाधीतं वा कदाचन ॥ १४.१०८.३२ ॥
不可轻慢客人,不可说虚妄之言;不可询问他的族姓与吠陀支派,也不可问他曾学过什么。
14.108.33
चण्डालो वा श्वपाको वा काले यः कश्चिदागतः ।
अन्नेन पूजनीयः स्यात्परत्र हितमिच्छता ॥ १४.१०८.३३ ॥
无论是旃陀罗还是狗厨,凡在适当时候前来者,欲求来世福祉之人应以食物敬待。
14.108.34
पिधाय तु गृहद्वारं भुक्ते योऽन्नं प्रहृष्टवान् ।
स्वर्गद्वारपिधानं वै कृतं तेन युधिष्ठिर ॥ १४.१०८.३४ ॥
闭门独享食物并欣然而食之人,俱卢之子啊,实已关闭了天门。
14.108.35
पितॄन्देवानृषीन्विप्रानतिथींश्च निराश्रयान् ।
यो नरः प्रीणयत्यन्नैस्तस्य पुण्यफलं महत् ॥ १४.१०८.३५ ॥
凡以食物令祖先、诸神、仙人、婆罗门、客人及无依无靠者得到满足的人,其福德之果报甚大。
14.108.36
कृत्वा तु पापं बहुशो यो दद्यादन्नमर्थिने ।
ब्राह्मणाय विशेषेण सर्वपापैः प्रमुच्यते ॥ १४.१०८.३६ ॥
虽曾多次作恶,若以食物施予乞求者,尤其是婆罗门,便可从一切罪过中解脱。
14.108.37
अन्नदः प्राणदो लोके प्राणदः सर्वदो भवेत् ।
तस्मादन्नं विशेषेण दातव्यं भूतिमिच्छता ॥ १४.१०८.३७ ॥
在世间施食者即是施生者,施生者即是施一切者。因此,欲求福祉的人应当特别施食。
14.108.38
अन्नं ह्यमृतमित्याहुरन्नं प्रजननं स्मृतम् ।
अन्नप्रणाशो सीदन्ति शरीरे पञ्च धातवः ॥ १४.१०८.३८ ॥
人们说食物即是甘露,食物被认为是生育的根源。食物匮乏时,身体的五种基质便会衰败。
14.108.39
बलं बलवतो नश्येदन्नहीनस्य देहिनः ।
तस्मादन्नं विशेषेण श्रद्धयाऽश्रद्धयापि वा ॥ १४.१०८.३९ ॥
即使是强壮之人,若缺乏食物,其力量也会消失。因此应当特别施食,无论是否怀有信心。
14.108.40
आदत्ते हि रसं सर्वमादित्यः स्वगभस्तिभिः ।
वायुस्तस्मात्समादाय रसं मेधेषु धारयेत् ॥ १४.१०८.४० ॥
太阳以自己的光线吸取所有的水汽。然后风取得这水汽,应将它保存在云中。
14.108.41
तत्तु मेघगतं भूमौ शक्रो वर्षति तादृशम् ।
तेन दिग्धा भवेद्देवी मही प्रीता च ॥ १४.१०८.४१ ॥
那进入云中的水汽,因陀罗便如此降落于大地。大地女神被它浸润,便感到喜悦。
14.108.42
तस्यां सस्यानि रोहन्ति यैर्जीवन्त्यखिलाः प्रजाः ।
मांसमेदोस्थिमज्जानां सम्भवस्तेभ्य एव हि ॥ १४.१०८.४२ ॥
大地之上生长谷物,所有生灵因之而活。肌肉、脂肪、骨骼与骨髓的生成,正是来自于它们。
14.108.43
एवं सूर्यश्च पवनो मेघः शक्रस्तथैव च ।
एक एव स्थितो राशिर्यतो भूतानि जज्ञिरे ॥ १४.१०८.४३ ॥
如此,太阳、风、云与因陀罗也都同处于一个聚合之中,众生由此而生。
14.108.44
भवनानि च दिव्यानि दिवि तेषां महात्मनाम् ।
नानासंस्थानि भूतानि नानाभूमिगतानि च ॥ १४.१०८.४४ ॥
天上有那些大德者的神圣居所;形态各异的众生也居于不同的大地之上。
14.108.45
चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च ।
तरुणादित्यवर्णानि स्थावराणि चराणि च ॥ १४.१०८.४५ ॥
皎洁如月轮,饰以小铃之网,色如初升之日,有静止之物,也有运动之物。
14.108.46
अनेकशतसङ्ख्यानि सान्तर्जलवनानि च ।
तत्र पुष्पफलोपेताः कामदाः सुरपादपाः ॥ १४.१०८.४६ ॥
数以百计的森林,其中有水;那里有满布花果、能满足愿望的天神树木。
14.108.47
वाप्यो बद्धसभाः कूपा दीर्घिकाश्च सहस्रशः ।
भक्ष्यभोज्यमयाः शैला वासांस्याभरणानि च ॥ १४.१०८.४७ ॥
阶梯井、有坚固议事厅的井,以及成千上万的长池;由食物与饮料构成的山,还有衣服与首饰。
14.108.48
क्षीरस्रवन्त्यः सरितस्तथा चैवान्नपर्वताः ।
घोषवन्ति च यानानि युक्तान्यथ सहस्रशः ॥ १४.१०८.४८ ॥
流淌着乳汁的河流,也有食物之山;成千上万套好、发出响声的车辆。
14.108.49
प्रासादप्रवराः शुभ्राः शय्याश्च कनकोज्ज्वलाः ।
अन्नदास्तत्र तिष्ठन्ति तस्मादन्नप्रदो भवेत् ॥ १४.१०८.४९ ॥
那里有殊胜的白色宫殿和金光闪耀的床榻,为施食者所居。因此,人应当成为施食者。