Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 14.112

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

14.112.1

चक्रायुध नमस्तेऽस्तु देवेश गरुडध्वज ।
चान्द्रायणविधिं पुण्यमाख्याहि भगवन्मम ॥ १४.११२.१ ॥

向你致敬,持轮者,诸神之主,金翅鸟旗之主。世尊,请为我讲述功德的月行苦行之法。

14.112.2

शृणु पाण्डव तत्वेन सर्वपापप्रणाशनम् ।
पापिनो येन शुद्ध्यन्ति तत्ते वक्ष्यामि सर्वशः ॥ १४.११२.२ ॥

听着,般度之子:我将如实地、完整地告诉你那能消灭一切罪恶、使罪人得以清净之法。

14.112.3

ब्राह्मणः क्षत्रियो वाऽपि वैश्यो वा चरितव्रतः ।
यथावत्कर्तुकामो वै तस्यैवं प्रथमा क्रिया ॥ १४.११२.३ ॥

婆罗门、刹帝利或吠舍,若已发愿并希望如法地完成,他的第一项仪式便是此。

14.112.4

शोधयेत्तु शरीरं स्वं पञ्चगव्येन यन्त्रितः ।
सशिरः कृष्णपक्षस्य ततः कुर्वीत वापनम् ॥ १४.११२.४ ॥

自我克制,应以五牛产品净化自身;然后于黑半月,应剃除头发。

14.112.5

शुक्लवासाः शुचिर्भूत्वा मौञ्जीं बध्नीत मेखलाम् ।
पालाशद्ण्डमादाय ब्रह्मचारिव्रते स्थितः ॥ १४.११२.५ ॥

身着白衣,既已清净,应束以蒙遮草制成的腰带;手持波罗奢木杖,安住于梵行学徒之誓。

14.112.6

कृतोपलासः पूर्वं तु शुक्लप्रतिपदि द्विजः ।
नदीसंगमतीर्थेषु शुचौ देशे गृहेऽपि वा।
गोमयेनोपलिप्रेऽथ स्थण्डिलेऽग्निं निधापयन् ॥ १४.११२.६ ॥

再生者应先行斋戒,于白半月初一,在河流交汇的圣渡处,或在洁净之处、或在家中,于涂抹牛粪的祭坛上安置火。

14.112.7

आघारावाज्यभागौ च प्रणवं व्याहृतीस्तथा ।
वारुणं चैव पञ्चैव हुत्वा सर्वान्यथाक्रमम् ॥ १४.११२.७ ॥

按次序献上酥油的浇注、两份酥油供品、唵字、呼声(vyāhṛti)、婆楼那供品以及五次供奉。

14.112.8

सत्याय विष्णवे चेति ब्रह्मर्षिभ्योऽथ ब्रह्मणे ।
विश्वेभ्यो हि च देवेभ्यः सप्रजापतये तथा ॥ १४.११२.८ ॥

献给真理(Satya)、毗湿奴、梵仙们,然后是梵天、诸天神,以及同样献给生主(Prajāpati)。

14.112.9

षडुक्त्वा जुहुयात्पश्चात्प्रायश्चित्ताहुतिं द्विजः ।
अतः समापयेदग्निं शान्तिं कृत्वाऽथ पौष्टिकिम् ॥ १४.११२.९ ॥

诵六个咒语之后,再者,两度出生者应献上赎罪供品。随后应结束火祭,行平息之仪,再行增益之仪。

14.112.10

प्रणम्य् चाग्निं सोमं च भस्म दिग्ध्वा यथाविधि ।
नदीं गत्वा विशुद्धात्मा सोमाय वरुणाय च।
आदित्याय नमस्कृत्वा ततः स्नायात्समाहितः ॥ १४.११२.१० ॥

向火神与月神行礼,依仪轨涂抹圣灰,心灵清净地来到河边,向月神、婆楼那与太阳致敬之后,然后应当心无旁骛地沐浴。

14.112.11

उत्तीर्योदकमाचम्य चासीनः पूर्वतोमुखः ।
प्राणायामं ततः कृत्वा पवित्रैरभिषेचनम् ॥ १४.११२.११ ॥

从水中出来,漱口,面向东方而坐,然后行调息,再以净草洒水灌顶。

14.112.12

आचान्तस्त्वमिवीक्षेत ऊर्ध्वबाहुर्दिवाकरम् ।
कृताञ्जलिपुटः स्थित्वा कुर्याच्चैव प्रदक्षिणम् ॥ १४.११२.१२ ॥

漱口之后,应举起双臂仰望太阳;合掌站立,然后行右绕之礼。

14.112.13

नारायणं वा रुद्रं वा ब्रह्मणमथवाऽपि च ।
वारुणं मन्त्रमूक्तं वा प्राग्भोजनमथापि वा ॥ १४.११२.१३ ॥

当诵念那罗延、楼陀罗、梵天或水天的咒语,或在饭前诵念。

14.112.14

वीरघ्नमृषभफं वाऽपि तथा चाप्यघमर्षणम् ।
गायत्रीं मम देवीं वा सावित्रीं वा जपेत्ततः।
शतं वाऽष्टशतं वाऽपि सहस्रमथवा परम् ॥ १४.११२.१४ ॥

当诵念Vīraghna、Ṛṣabhaphaṃ和Aghamarṣaṇa咒语,或我的女神Gāyatrī或Sāvitrī;然后诵一百、一百零八或一千遍,或更多。

14.112.15

ततो मध्याह्नकाले वै पायसं यावकं हि वा ।
पाचयित्वा प्रयत्नेन प्रयतः सुसमाहितः ॥ १४.११२.१५ ॥

然后在正午,精心煮好牛奶米粥或大麦粥,然后节制自己,心神专一。

14.112.16

पात्रं तु सुसमादाय सौवर्णं राजतं तु वा ।
ताम्रं वा मृन्मयं वापि औदुंबरमथापि वा। ॥ १४.११२.१६ ॥

妥善取一容器——金质、银质、铜质、陶质,或无花果(优昙婆罗)木制的。

14.112.17

वृक्षाणां याज्ञियानं तु पर्णैरार्द्रैरकुत्सितैः ।
पुटकेन तु गुप्तेनि चरेद्भैक्षं समाहितः ॥ १४.११२.१७ ॥

心神专一地去乞食,手持用新鲜无瑕的祭祀树叶制成的带盖叶碗。

14.112.18

ब्राह्मणानां गृहाणां तु सप्तानां नापरं व्रजेत् ।
गोदोहमात्रं तिष्ठित्तु वाग्यतः संयतेन्द्रियः ॥ १४.११२.१८ ॥

不可超过七户婆罗门之家;站立的时间只需挤一头牛的奶那么久,言语有节,感官受控。

14.112.19

न हसेन्न च वीक्षेत नाभिभाषेत वा स्त्रियम् ॥ १४.११२.१९ ॥

不应大笑,不应注视,也不应与女子交谈。

14.112.20

दृष्ट्वा मूत्रं पुरीषं वा चण्डालं वा रजस्वलाम् ।
पतितं च तथा श्वानमादित्यमवलोकयेत् ॥ १४.११२.२० ॥

若见小便、大便、旃陀罗、经期女子、堕落者或狗,应当仰望太阳。

14.112.21

यो हि पादुकमारुह्य सर्वदा प्रचरेद्द्विजः ।
तं दृष्ट्वा पापकर्माणमादित्यमवलोकयेत् ॥ १४.११२.२१ ॥

若见那常穿木屐行走的再生者,那作恶之人,应当仰望太阳。

14.112.22

ततस्त्वावसथं प्राप्तो भिक्षां निक्षिप्य भूतले ।
प्रक्षाल्य पादावाजान्वोर्हस्तावाकूर्परं पुनः।
आचम्य वारिणा तेन वह्निं विप्रांश्च पूययेत् ॥ १४.११२.२२ ॥

然后回到住处,将乞食放在地上,洗净双脚至膝、双手至肘,用那水漱口,然后应使火与婆罗门得到净化。

14.112.23

पञ्च सप्ताथवा कुर्याद्भागान्भैक्षस्य तस्य वै ।
तेषामन्यतमं पिण्डमादित्याय निवेदयेत् ॥ १४.११२.२३ ॥

应将那乞食分为五份或七份,并将其中一团食物献给太阳。

14.112.24

ब्रह्मणे चाग्नये चैव सोमाय वरुणाय च ।
विश्वेभ्यश्चैव देवेभ्यो दद्यादन्नं यथाक्रमम् ॥ १४.११२.२४ ॥

应依次向梵天、火神、月神、伐楼那,以及一切天神献上食物。

14.112.25

अवशिष्टमथैकं तु वक्त्रमात्रं प्रकल्पयेत् ॥ १४.११२.२५ ॥

剩下的一份只为口部准备。

14.112.26

अङ्गुल्यग्रे स्थितं पिण्डं गायत्र्या चाभिमन्त्रयेत् ।
अङ्गुलीभिस्त्रिभिः पिण्डं प्राश्नीयात्प्राङ्मुखःक शुचिः। ॥ १४.११२.२६ ॥

应以《伽耶特里》咒语加持放在指尖上的饭团,然后洁净地面向东方,用三指将其食用。

14.112.27

यथा च वर्धते सोमो ह्रसते च यथा पुनः ।
तथा पिण्डाश्च वर्धन्ते ह्रसन्ते च दिनेदिने ॥ १४.११२.२७ ॥

如月亮渐盈又渐亏,饭团也日日增减。

14.112.28

त्रिकालं स्नानमस्योक्तं द्विकालमथवा सकृत् ।
ब्रह्मचारी सदा वाऽपि न च वस्त्रं प्रपीडयेत् ॥ १४.११२.२८ ॥

为他规定每日沐浴三次,或两次,或一次;他应始终保持梵行,且不可拧绞衣物。

14.112.29

स्थान न दिवसं तिष्ठेद्रात्रौ वीरासनं व्रजेत् ।
भवेत्स्थण्डिलशायी वाऽप्यथा वृक्षमूलिकः ॥ १४.११२.२९ ॥

白天不应站立;夜晚应取英雄坐姿。他应睡在光地上,或居于树根之下。

14.112.30

वल्कलं यदि वा क्षौमं शाणं कार्पासकं तथा ।
आच्छादनं भवेत्तस्य वस्त्रार्थं पाण्डुनन्दन ॥ १४.११२.३० ॥

无论是树皮布、丝绸、麻布还是棉布,都让他的覆盖物用作衣服,啊,般度之子!

14.112.31

एवं चान्द्रायणे पूर्णे मासस्यान्ते प्रयत्नवान् ।
ब्राह्मणान्भोजयेद्भक्त्या दद्याच्चैव च दक्षिणाम् ॥ १४.११२.३१ ॥

如此,月亮苦行(月亮斋戒,cāndrāyaṇa)圆满之后,月末时,勤勉之人应当虔诚地供养婆罗门,并奉上布施(dakṣiṇā)。

14.112.32

चान्द्रायणेन चीर्णेन यत्कृतं तेन दुष्कृतम् ।
तत्सर्वं तत्क्षणादेव भस्मीभवति काष्ठवत् ॥ १४.११२.३२ ॥

凡先前所作的恶业,行月亮苦行(cāndrāyaṇa)之时,当下即化为灰烬,如同木柴。

14.112.33

ब्रह्महत्या च गोहत्या सुवर्णस्तैन्यमेव च ।
भ्रूणहत्या सुरापानं गुरोर्दारव्यतिक्रमः ॥ १४.११२.३३ ॥

杀害婆罗门、杀害母牛、窃取黄金、杀害胎儿、饮酒,以及与师长之妻的越轨——

14.112.34

एवमन्यानि पापानि पातकीयानि यानि च ।
चान्द्रायणेन नश्यन्ति वायुना पांसवो यथा ॥ १४.११२.३४ ॥

同样,其他罪过以及一切重罪,都会因月亮苦行而消灭,如同尘土被风吹散。

14.112.35

अनिर्दशाया गोः क्षीरमौष्ठ्रमाविकमेव च ।
मृतसूतकयोश्चान्नं भुक्त्वा चान्द्रायणं चरेत् ॥ १४.११२.३५ ॥

若食用产后未满十日之牛奶、骆驼奶、绵羊或山羊奶,或食用处于死亡或生育不洁中的食物,则应行月亮苦行。

14.112.36

उपपातकिनश्चान्नं पतितान्नं तथैव च ।
शूद्रस्योच्छेषणं चैव भुक्त्वा चान्द्रायणं चरेत् ॥ १४.११२.३६ ॥

若食用犯小罪者之食、堕落者之食,以及首陀罗的残食,则应行月亮苦行。

14.112.37

आकाशस्थं तु हस्तस्थमधः स्रस्तं तथैव च ।
परहस्तस्थितं चैव भुक्त्वा चान्द्रायणं चरेत् ॥ १४.११२.३७ ॥

若食用悬于空中、握在手中、落于地上,或同样在他人手中的食物,应行月行苦行(cāndrāyaṇa)。

14.112.38

अथाग्रेधिषोरन्नं दिधिषूपपतेस्तता ।
परिवेत्तुस्तथा चान्नं परिवित्तान्नमेव च ॥ १४.११२.३८ ॥

若食用先娶者(agredhi)、先嫁妹者(didhiṣūpati)、先娶者之后娶的兄长(parivettṛ)及同样的 parivitti 之食物,应行月行苦行。

14.112.39

कुण्डान्नं गोलकान्नं च देवलान्नं तथैव च ।
तथा पुरोहितस्यान्नं भुक्त्वा चान्द्रायणं चरेत् ॥ १४.११२.३९ ॥

若食用 kuṇḍa、golaka、devala 之食物,以及家中祭司(purohita)之食物,应行月行苦行。

14.112.40

सुराऽऽसवं विषं सर्पिर्लाक्षा लवणमेव च ।
तैलं चापि च विक्रीणन्द्विजश्चान्द्रायणं चरेत् ॥ १४.११२.४० ॥

若二生者贩卖烈酒、酒醴、毒药、酥油、紫胶、盐或油,亦应行月行苦行。

14.112.41

एकोद्दिष्टं तु यो भुङ्क्ते जनमध्यगतोऽपि यः ।
भिन्नभाण्डेषु यो भुङ्क्ते द्विजश्चान्द्रायणं चरेत् ॥ १४.११२.४१ ॥

二生者若食用一人专享之供食(ekoddiṣṭa),或在人群中而食,或以破碎之器皿而食,应行月行苦行。

14.112.42

यो भुङ्क्तेऽनुपनीतेन यो भुङ्क्ते च स्त्रिया सह ।
कन्यया सह यो भुङ्क्ते द्विजश्चान्द्रायणं चरेत् ॥ १४.११२.४२ ॥

二生者若与未受成人礼者(anupanīta)同食,或与妇人同食,或与未嫁之女同食,应行月行苦行。

14.112.43

उच्छिष्टं स्थापयेद्विप्रो यो मोहाद्भोजनान्तरे ।
दद्याद्वा यदि वा मोहाद्विजश्चान्द्रायणं चरेत् ॥ १४.११२.४३ ॥

婆罗门若因迷惑在两餐之间放置剩余的食物,或因迷惑将其施与他人,应行月亏修行(Cāndrāyaṇa)。

14.112.44

तुम्बकोशातकं चैव पलाण्डुं गृञ्जनं तथा ।
छत्राकं लशुनं चैव भुक्त्वा चान्द्रायणं चरेत् ॥ १४.११२.४४ ॥

食用葫芦、苦瓜、洋葱、gṛñjana、蘑菇或大蒜之后,应行月亏修行(Cāndrāyaṇa)。

14.112.45

द्विजः पर्युषितं चान्नं पक्वं परगृहागतम् ।
विपक्वं च तथा मांसं भुक्त्वा चान्द्रायणं चरेत् ॥ १४.११२.४५ ॥

再生族若食用隔夜之饭、来自他家的熟食或未煮熟的肉,应行月亏修行(Cāndrāyaṇa)。

14.112.46

उदक्यया शुना वाऽपि चण्डालैर्वा द्विजोत्तमः ।
दृष्टमन्नं तु भुञ्जानो द्विजश्चान्द्रायणं चरेत् ॥ १४.११२.४६ ॥

若上等再生族食用被经期女子、狗或旃陀罗所见之食物,应行月亏修行(Cāndrāyaṇa)。

14.112.47

तत्पुरा विशुद्ध्यर्थमृषिभिश्चरितं व्रतम् ।
पावनं सर्वभूतानां पुण्यं पाण्डवचोदितम् ॥ १४.११२.४७ ॥

这一誓戒,古时诸仙为求清净而行,能净化一切众生,功德殊胜;由般度之子所宣示。

14.112.48

एतेन वसवो रुद्राश्चादित्याश्च दिवं गताः ।
एतदद्य परं गुह्यं पवित्रं पापनाशनम् ॥ १४.११२.४८ ॥

依此,诸婆薮、楼陀罗与阿底提亚得生天界;此今为至上秘法,清净而能灭罪。

14.112.49

यथोक्तमेतद्यः कुर्याद्द्विजः पापप्रणाशनम् ।
स दिवं याति पूतात्मा निर्मलादित्यसंनिभः ॥ १४.११२.४९ ॥

按所说如法行此灭罪之法的再生者,灵魂得以清净,如无垢的太阳般升往天界。