摩诃婆罗多 · 章 14.116
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
14.116.1
कीदृशा ब्राह्मणाः पुण्या भावशुद्धाः सुरेश्वर ।
यत्कर्म सफलं नेति कथयस्य ममानघ ॥ १४.११६.१ ॥
诸神之主啊,何种婆罗门有功德、心性清净?无垢者啊,请告诉我,谁的行为不结果实。
14.116.2
शृणु पाण्डव तत्सर्वं ब्राह्मणानां यथाक्रमम् ।
सफलं निष्फलं चैव तेषां कर्म ब्रवीमि ते ॥ १४.११६.२ ॥
般度之子啊,听着。我将依次告诉你婆罗门的一切行为,哪些有果,哪些无果。
14.116.3
त्रिदण्डधारणं मौनं जटाधारणमुण्डनम् ।
वल्कलाजिनसंवासो व्रतचर्याऽभिषेचनम् ॥ १४.११६.३ ॥
持三杖,缄默,结发,剃头,穿树皮与鹿皮而居,奉行誓愿,以及灌顶沐浴。
14.116.4
अग्निहोत्रं गृहे वासः स्वाध्यायं दारसत्क्रिया ।
सर्वाण्येतानि वै मिथ्या यदि भावो न निर्मलः ॥ १४.११६.४ ॥
火祭、居家生活、诵习吠陀、尊敬妻子,若内心不清净,这一切都是虚妄。
14.116.5
अग्निहोत्रं वृथा राजन्वृथा वेदास्तथैव च ।
शीलेन देवास्तुष्यन्ति श्रुतयस्तत्र कारणम् ॥ १४.११६.५ ॥
国王啊,火祭是虚妄的,吠陀也是如此。诸神因戒行而欢喜;圣典只是其原因。
14.116.6
क्षान्तः दान्तं जितक्रोधं जितात्मानं जितेन्द्रियम् ।
तमग्र्यं ब्राह्मणं मन्ये शेषाः शूद्रा इति स्मृताः ॥ १४.११६.६ ॥
能忍耐、克己、胜过愤怒、胜过自我与诸根的人,我认为他才是最上的婆罗门;其余的被称为首陀罗。
14.116.7
अग्निहोत्रव्रतपरान्स्वाध्यायनिरताञ्शुचीन् ।
उपवासरतान्दान्तांस्तादेवा ब्राह्मणान्विदुः ॥ १४.११६.७ ॥
诸神认为,那些专心于火祭誓愿、勤习吠陀、清净、乐于斋戒且克制自身的人,才是婆罗门。
14.116.8
न जात्या पुजीतो राजन्गुणाः कल्याणकारणाः ।
चण्डालमपि वृत्तस्थं तं देवा ब्राह्मणं विदुः ॥ १४.११६.८ ॥
君王啊,人不因出身受尊敬,而因带来善德的品质受尊敬。即使是安住于善行的旃陀罗,诸神也视之为婆罗门。
14.116.9
मनश्शौचं कर्मशौचं कुलशौचं च भारत ।
शरीरशौचं वाक्छौचं शौचं पञ्चविधं स्मृतम् ॥ १४.११६.९ ॥
婆罗多啊,心之清净、行为之清净、family之清净、身体之清净、言语之清净——清净被说为五种。
14.116.10
पञ्चस्वेतेषु शौचेषु हृदिं शौचं विशिष्यते ।
हृदयस्य च शौचेन स्वर्गं गच्छन्ति मानवाः ॥ १४.११६.१० ॥
在这五种清净之中,心之清净最为殊胜;人们凭借心之清净而升往天界。
14.116.11
अग्निहोत्रपरिभ्रष्टः प्रसक्तः क्रयविक्रयैः ।
वर्णसङ्करकर्ता च ब्राह्मणो वृषलैः समः ॥ १४.११६.११ ॥
若婆罗门离弃火祭,贪恋买卖,并造成种姓混杂,则与首陀罗无异。
14.116.12
यस्य वेदश्रुतिर्नष्टा कर्षकश्चापि यो द्विजः ।
विकर्मसेवी कौन्तेय स वै वृषल उच्यते ॥ १४.११६.१२ ॥
贡蒂之子啊,失去闻诵吠陀之能、从事耕作、行禁忌之事的再生者,才被称为婆罗门中的贱民(vṛṣala)。
14.116.13
वृषो हि धर्मो विज्ञेयस्तस्य यः कुरुते लयम् ।
वृषलं तं विदुर्देवा निकृष्टं श्वपचादपि ॥ १४.११६.१३ ॥
应当知道公牛即是法;毁灭它的人,诸天称之为首罗,比狗肉屠夫更为卑下。
14.116.14
स्तुतिभिर्ब्रह्मगीताभिर्यः शूद्रं स्तौति मानवः ।
न तु मां स्तौति पापात्मा स तु चण्डालतः समः ॥ १४.११६.१४ ॥
若人以梵歌般的赞颂赞美首陀罗,却不赞美我——那罪人与旃陀罗相等。
14.116.15
श्वदृतौ तु यथा क्षीरं ब्रह्म वै वृषले तथा ।
दुष्टतामेति तत्सर्वं शुना लीढं हविर्यथा ॥ १४.११६.१५ ॥
如狗皮袋中之乳必然败坏,首罗之中梵(吠陀)亦然败坏;如被狗舔过之祭品全部污秽。
14.116.16
अङ्गानि वेदाश्चत्वारो मीमांसान्यायविस्तरः ।
धर्मशास्त्रं पुराणं च विद्या ह्येताश्चतुर्दश ॥ १४.११६.१६ ॥
四吠陀、其六支、弥曼差、正理之广论、法论与往世书——此为十四种学问。
14.116.17
यान्युक्तानि मया सम्यग्विद्यास्थानानि भारत ।
उत्पन्नानि पवित्राणि भुवनार्थं तथैव च ॥ १४.११६.१७ ॥
婆罗多啊,我已详尽宣说的学问之处是清净的,它们为世间之利益而生。
14.116.18
तस्मात्तानि न शूद्रस्य स्प्रष्टव्यानि युधिष्ठिर ।
सर्वं त्रीण्यपवित्राणि पञ्चामेध्यानि भारत। ॥ १४.११६.१८ ॥
因此,般度之子坚战啊,首陀罗不可触摸它们。婆罗多啊,一切皆为三种不净,五种为秽。
14.116.19
श्वा च शूद्रः श्वपाकश्च अपवित्राणि पाण्डव ।
गायकः कुक्कुटो यूपो ह्युदक्या वृषलीपतिः। ॥ १४.११६.१९ ॥
狗、首陀罗、狗肉者、歌者、公鸡、祭柱、月经中的女子,以及贱种女子的丈夫,都是不净的,般度之子啊。
14.116.20
पञ्चैते स्युरमेध्याश्च स्प्रष्टव्या न कदातन ।
स्पृष्ट्वैतानष्ट वै विप्रः सचेलो जलमाविशेत् ॥ १४.११६.२० ॥
这五者是不净的,永远不可触碰。婆罗门若触碰了这八者,应穿着衣服入水。
14.116.21
मद्भक्ताञ्शूद्रसामान्यादवमन्यन्ति ये नराः ।
नरकेष्वेव तिष्ठन्ति वर्षकोटिं नराधमाः ॥ १४.११६.२१ ॥
那些因我的信徒属于首陀罗之类而轻视他们的人,这些最卑劣的人,要在地狱中停留千万年。
14.116.22
चण्डालमपि मद्भक्तं नावमन्येत बुद्धिमान् ।
अवमानात्पतन्त्येव नरके रौरवे नराः ॥ १४.११६.२२ ॥
智者即使对我的信徒旃陀罗也不应轻慢;因轻慢,人们坠入罗罗婆地狱。
14.116.23
मम भक्तस्य भक्तेषु प्रीतिरभ्यधिका मम ।
तस्मान्मद्भक्तभक्ताश्च पूजनीया विशेषतः ॥ १४.११६.२३ ॥
我对我信徒之信徒的爱更加深厚;因此,我信徒的信徒尤其应当被尊敬。
14.116.24
कीटपक्षिमृगाणां च मयि संन्यस्तचेतसाम् ।
ऊर्ध्वामेव गतिं विद्धि किं पुनर्ज्ञानिनां नृणाम् ॥ १४.११६.२४ ॥
要知道,心专注于我的昆虫、鸟类和野兽,也能获得上升之道;更何况智慧的人呢。
14.116.25
पत्रं वाऽप्यथवा पुष्पंक फलं वाऽप्यप एव वा ।
ददाति मम शूद्रो यच्छिरसा धारयामि तत् ॥ १४.११६.२५ ॥
若首陀罗向我献上一片叶子、一朵花、一个果实,甚至只是水,我便将其置于头顶。
14.116.26
विप्रानेवार्चयेद्भक्त्या शूद्रप्रायांश्च मत्प्रियान् ।
तेषां तेनैव रूपेण पूजां गृह्णामि भारत ॥ १४.११६.२६ ॥
应以虔诚礼拜婆罗门,也礼拜那些虽近似首陀罗、却为我所爱之人。婆罗多啊,我以他们那样的形貌接受他们的供奉。
14.116.27
वेदोत्तेनैव मार्गेण सर्वभूतहृदि स्थितम् ।
मामर्चयन्ति ये पिप्रा मत्सायुज्यं व्रजन्ति ते ॥ १४.११६.२७ ॥
那些依吠陀所示之道,礼拜居于一切众生心中的我的人,便得与我合一。
14.116.28
मद्भक्तानां हितायैव प्रादुर्भावः कृतो मया ।
प्रदुर्भावकृता काचिदर्चनीया युधिष्ठिर ॥ १४.११६.२८ ॥
为了我的信徒们的福祉,我才显现化身。尤迪什提拉啊,那显现中的某一形相,乃是可供礼拜的。
14.116.29
आसामन्यतमां मूर्तिं यो मद्भक्त्या समर्चति ।
तेनैव परितुष्टोऽहं भविष्यामि न संशयः ॥ १४.११६.२९ ॥
凡以虔诚礼拜这些形相中任何一种的人,我便因那一形相而得完全的欢喜,此事毫无疑问。
14.116.30
मृदा च मणिरत्नैश्च ताम्रेण रजतेन च ।
कृत्वा प्रतिकृतिं कुर्यादर्चनां काञ्चनेन वा।
पुण्यं दशगुणं विद्यादेतेषामुत्तरोत्तरम् ॥ १४.११६.३० ॥
以泥土、宝石与珍玉、铜或银制作形像而礼拜;或以黄金。在这些之中,功德应当理解为每一级递进都增至十倍。
14.116.31
जपकामो भवेद्राजा विद्याकामो द्विजोत्तमः ।
वैश्यो वा धनकामस्तु शूद्रः सुखफलप्रियः।
सर्वकामाः स्त्रियो वाऽपि सर्वान्कामानवाप्नुयुः ॥ १४.११६.३१ ॥
渴望诵念者可成为国王;渴望知识的至上再生族可成为学者;渴望财富的吠舍可获得财富;喜爱幸福果实的首陀罗可获得幸福。愿女子也获得一切所愿。