摩诃婆罗多 · 章 14.24
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
14.24.1
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
सुभगे पञ्चहोतॄणां विधानमिह यादृशम् ॥ १४.२४.१ ॥
此处人们也讲述这个古老的故事:善女子啊,这里五位荷塔的规定是怎样的?
14.24.2
प्राणापानवुदानश्च समानो व्यान एव च ।
पञ्चहोतॄंस्तथैतान्वै परं भावं विदुर्बुधाः ॥ १४.२४.२ ॥
气、下行气、上行气、平行气与遍行气——智者将这五位荷塔视为至高之状态。
14.24.3
ब्राह्मण्युवाच ।
स्वभावात्सप्तहोतार इति मे पूर्विका मतिः।
यथा वै पञ्च होतारः परो भावस्तदुच्यताम् ॥ १४.२४.३ ॥
婆罗门妇说:依我本来的想法,荷塔是七位;请说说五位荷塔的至高之状态。
14.24.4
प्राणेन सम्भृतो वायुरपानो जायते ततः ।
अपाने सम्भृतो वायुस्ततो व्यानः प्रवर्तते ॥ १४.२४.४ ॥
由气生出风,风生下行气;下行气中生的风,随后上行气运行。
14.24.5
व्यानेन सम्भृतो वायुस्ततोदानः प्रवर्तते ।
उदाने सम्भृतो वायुः समानो नाम जायते ॥ १४.२४.५ ॥
由遍行气生出的风,随后上行气运行;上行气中生的风,则生出名为平行气者。
14.24.6
तेऽपृच्छन्त पुरो गत्वा पूर्वजातं पितामहम् ।
यो नः श्रेष्ठस्तमाचक्ष्व स नः श्रेष्ठो भविष्यति ॥ १४.२४.६ ॥
他们上前询问那位先生的祖父:请告诉我们,谁是我们中最好的;那位将成为我们中最好的。
14.24.7
ब्रह्मोवाच ।
यस्मिन्प्रलीने प्रलयं व्रजन्ति
सर्वे प्राणाः प्राणभृतां शरीरे ।
यस्मिन्प्रवृत्ते च पुनश्चरन्ति
स वै श्रेष्ठो गच्छत यत्र कामः ॥ १४.२४.७ ॥
梵天说:当彼收敛时,众生身体中的一切气息皆归于毁灭;当彼显现时,它们又重新运行。那才是最殊胜者。随你们的欲望前往吧。
14.24.8
मयि प्रलीने प्रलयं व्रजन्ति ।
सर्वे प्राणाः प्राणभृतां शरीरे।
मयि प्रवृत्ते च पुनश्चरन्ति ।
श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ॥ १४.२४.८ ॥
命气说:我收敛时,众生身体中的一切气息皆归于毁灭;我运行时,它们又重新运行。我才是最殊胜者。看我如何收敛吧。
14.24.9
प्रामः प्रालीयत ततः पुनश्च प्रचचार ह ।
समानश्चाप्युदानश्च वचो ब्रूतां पुनः शुभे ॥ १४.२४.९ ॥
命气收敛,随后又重新运行。平气与上气也说:吉祥者啊,请再说话。
14.24.10
न त्वं सर्वमिदं व्याप्य तिष्ठसीह यथा वयम् ।
न त्वं श्रेष्ठो हि नः प्राण अपानो हि वशे तव।
प्रचचार पुनः प्राणस्ततोऽपानोऽभ्यभाषत ॥ १४.२४.१० ॥
你并不像我们那样遍布这一切而停留于此。哦,命气,你不是我们之中最殊胜的;下气确实在你的掌控之下。命气又重新运行,于是下气开口说话。
14.24.11
उपान उवाच। ॥ १४.२४.११ ॥
下气说道。
14.24.12
ब्राह्मण उवाच। ॥ १४.२४.१२ ॥
婆罗门说道。
14.24.13
अपानः प्रचचाराथ व्यानस्तं पुनरब्रवीत् ।
श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना ॥ १४.२४.१३ ॥
下行气(阿波那)四处流动;于是上行气(毗阿那)又对它说:我是众气之中最殊胜的,听听其中的原因。
14.24.14
मयि प्रलीने प्रलयं व्रजन्ति ।
सर्वे प्राणाः प्राणभृतां शरीरे।
मयि प्रवृत्ते च पुनश्चरन्ति ।
श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ॥ १४.२४.१४ ॥
我一旦隐没,身体中一切众生的诸气都会走向消散;我一旦运行,它们便又重新活动。我确实最殊胜;看我此刻隐没的样子。
14.24.15
प्रालीयत ततो व्यानः पुनश्च प्रचचार ह ।
प्राणापानावुदानस्च समानश्च तमब्रुवन् ॥ १४.२४.१५ ॥
于是毗阿那隐没了,随后又重新运行。命气、下气、上气、平气对它说道。
14.24.16
न त्वं श्रेष्ठोसि नो व्यान समानस्तु वशे तव ।
प्रचचार पुनर्व्यानः समानः पुनरब्रवीत्।
श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना ॥ १४.२४.१६ ॥
毗阿那啊,你并非我们之中最殊胜者;平气(萨摩那)受你支配。毗阿那又运行起来,平气又说:我是众气之中最殊胜的,听听其中的原因。
14.24.17
मयि प्रलीने प्रलयं व्रजन्ति ।
सर्वे प्राणाः प्राणभृतां शरीरे।
मयि प्रवृत्ते च पुनश्चरन्ति ।
श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ॥ १४.२४.१७ ॥
我一旦隐没,身体中一切众生的诸气都会走向消散;我一旦运行,它们便又重新活动。我确实最殊胜;看我此刻隐没的样子。
14.24.18
ततः समानः प्रालिल्ये पुनश्च प्रचचार ह ।
प्राणापानावुदानस्च व्यानश्चैव तमब्रवीत्।
न त्वं समान श्रेष्ठोसि व्यान एव वशे तव ॥ १४.२४.१८ ॥
于是समान隐没,随后又再次运行。प्राण、अपान、उदान与व्यान对他说:“समान啊,你并非最高;只有व्यान在你的掌控之中。”
14.24.19
समानः प्रचचाराथ उदानस्तमुवाच ह ।
श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना ॥ १४.२४.१९ ॥
当समान运行时,उदान对他说:“我是众者之中最高的;请听其缘由。”
14.24.20
मयि प्रलीने प्रलयं व्रजन्ति ।
सर्वे प्राणाः प्राणभृतां शरीरे।
मयि प्रवृत्ते च पुनश्चरन्ति ।
श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ॥ १४.२४.२० ॥
我隐没时,众生身体中的一切气息皆归于消融;我运行时,它们便又运行。我确是最高者;请看,我已隐没。
14.24.21
ततः प्रालीयतोदानः पुनश्च प्रचचार ह ।
प्राणापानौ समानश्च व्यानश्चैव तमब्रुवन्।
उदानि न त्वं श्रेष्ठोसि व्यानि एव वशे तव ॥ १४.२४.२१ ॥
于是उदान隐没,随后又再次运行。प्राण、अपान、समान与व्यान对他说:“उदान啊,你并非最高;व्यान啊,一切都在你的掌控之中。”
14.24.22
ततस्तानब्रवीत्सर्वान्स्मयमानः प्रजापतिः ।
सर्वे श्रेष्ठा न च श्रेष्ठाः सर्वे चान्योन्यकाङ्क्षिणः ॥ १४.२४.२२ ॥
于是生主प्रजापति微笑着对他们所有人说:“众者皆为最高,却又并非最高;你们彼此相互渴求。”
14.24.23
सर्वे स्वविषये श्रेष्ठाः सर्वे चान्योन्यधर्मिणः ।
इति तानब्रवीत्सर्वान्समवेतान्प्रजापतिः ॥ १४.२४.२३ ॥
各在其位皆为卓越,彼此也各有其法。造物主如此对聚集于此的众人说道。
14.24.24
एकः स्थिरश्चराश्चान्ये विशेषात्पञ्च वायवः ।
एक एव च सर्वात्मा बहुधाऽप्युपचीयते ॥ १४.२४.२४ ॥
一者静止,其余运动,尤其是五风。众生唯一的自我,却以多种方式增长。
14.24.25
परस्परस्य सुहृदो भावयन्तः परस्परम् ।
स्वस्ति व्रजत भद्रं वो धारयध्वं परस्परम् ॥ १४.२४.२५ ॥
彼此互为善友,相互护持,愿你们平安吉祥。去吧,互相扶持。