Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 14.25

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

14.25.1

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
नारदस्य च संवादमृषेर्देवमतस्य च ॥ १४.२५.१ ॥

此处人们也讲述这段古老的传说——那罗陀与仙人提婆摩陀的对话。

14.25.2

जन्तोः संजायमानस्य किंनु पूर्वं प्रवर्तते ।
प्राणोऽपानः समानो वा व्यानो वोदान एव च ॥ १४.२५.२ ॥

在将要出生的生灵之中,何者最先发动:生气(prāṇa)、下气(apāna)、等气(samāna)、遍气(vyāna)还是上气(udāna)?

14.25.3

येनायं सृज्यते जन्तुस्ततोऽन्यः पूर्वमेति तम् ।
प्राणद्वन्द्वं हि विज्ञेयं तिर्यगूर्ध्वमधश्च यत् ॥ १४.२५.३ ॥

此生灵所由被造者,有别的东西先于它而行。应当了知那一对气息——横向、向上与向下延展者。

14.25.4

केनायं सृज्यते जन्तुः कश्चान्यः पूर्वमेति तम् ।
प्राणद्वन्द्वं च मे ब्रूहि तिर्यगूर्ध्वमधश्च यत् ॥ १४.२५.४ ॥

此生灵由何而被造?何者先于它而行?请为我说那一对气息——横向、向上与向下延展者。

14.25.5

सङ्कल्पाज्जायते हर्षः शब्दादपि च जायते ।
रसात्संजायते चापि रूपादपि च जायते ॥ १४.२५.५ ॥

喜悦由念想而生,也由声音而生。由味而生,也由色相而生。

14.25.6

स्पर्शात्संजायते चापि गन्धादपि च जायते ।
शुक्राच्छोणितसंसृष्टात्पूर्वं प्राणः प्रवर्तते।
प्राणेन विकृते शुक्रे ततोऽपानः प्रवर्तते ॥ १४.२५.६ ॥

由触而生,也由香而生。当精液与血混合时,首先生起生气(prāṇa);精液被生气所变化之后,然后生起下气(apāna)。

14.25.7

शुक्रात्संजायते चापि रसादपि च जायते ।
एतद्रूपमुदानस्य हर्षो मिथुनमन्तरा ॥ १४.२५.७ ॥

由精液而生,也由精华(rasa)而生。这是乌陀那(udāna)的形态:交合二者之间的欢喜。

14.25.8

कामात्संजायते शुक्रं शुक्रात्संजायते रजः ।
समानव्यानजनिते सामान्ये शुक्रशोणिते ॥ १४.२५.८ ॥

由欲望生精液;由精液生月经之液(rajas)。由等息与遍行所生,在共同的交合中,即精液与血。

14.25.9

प्राणापानाविदं द्वन्द्वमवाक् चोर्ध्वं च गच्छतः ।
व्यानः समानश्चैवोभौ तिर्यग्द्वन्द्वत्वमुच्यते ॥ १४.२५.९ ॥

气(prāṇa)与下气(apāna)构成此对,一上一下而行。遍行(vyāna)与等息(samāna)亦为一对,被称为横向之对。

14.25.10

अग्निर्वै देवताः सर्वा इति देवस्य शासनात् ।
संजायते हि प्राणेषु ज्ञानं बुद्धिसमन्वितम् ॥ १४.२५.१० ॥

火即是一切神,此乃依神之教令而说。于诸气中生出具有智慧的知识。

14.25.11

तस्य धूमस्तमोरूपं रजो भस्म सुतेजसः ।
सर्वं संजायते तस्य यत्र प्रक्षिप्यते हविः ॥ १४.२५.११ ॥

其烟具有黑暗之相;尘与灰属于那光明之神。无论祭品投入何处,一切皆由他而生。

14.25.12

हविः समानो व्यानश्च इति यज्ञविदो विदुः ।
प्राणापानावाज्यभागौ तयोर्मध्ये हुताशनः ॥ १४.२५.१२ ॥

祭品即是等息与遍行,通晓祭祀者如此知之。气与下气是酥油分;二者之中,即是食祭之火。

14.25.13

एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ।
निर्द्वन्द्वमिति यत्त्वेतत्तन्मे निगदतः शृणुः ॥ १४.२५.१३ ॥

婆罗门知道这上行气的至上形态。听我讲那所谓“超越二元对立”之物。

14.25.14

अहोरात्रमिदं द्वन्द्वं तयोर्मध्ये हुताशनः ।
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥ १४.२५.१४ ॥

昼与夜是这一对二元;在两者之间是祭火(胡塔舍那)。婆罗门知道这上行气的至上形态。

14.25.15

उभे सत्यानृते द्वन्द्वं तयोर्मध्ये हुताशनः ।
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥ १४.२५.१५ ॥

真与假皆为二元;在两者之间是祭火(胡塔舍那)。婆罗门知道这上行气的至上形态。

14.25.16

सच्चासच्चैव तद्द्वन्द्वं तयोर्मध्ये हुताशनः ।
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥ १४.२५.१६ ॥

有与无即是那二元;在两者之间是祭火(胡塔舍那)。婆罗门知道这上行气的至上形态。

14.25.17

उभे शुभाशुभे द्वन्द्वं तयोर्मध्ये हुताशनः ।
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥ १४.२५.१७ ॥

吉与凶皆为二元;在两者之间是祭火(胡塔舍那)。婆罗门知道这上行气的至上形态。

14.25.18

ऊर्ध्वं समानो व्यानश्च व्यस्यते कर्म तेन तत् ।
द्वितीयं तु समानेन पुनरेव व्यवस्यते ॥ १४.२५.१८ ॥

上行的平衡气(samāna)与遍行气(vyāna)投入于作业,由其成就此事;第二者又由平衡气重新确定。

14.25.19

शान्त्यर्थं वामदेव्यं च शान्तिर्ब्रह्म सनातनम् ।
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥ १४.२५.१९ ॥

为求平静有婆摩提婆之颂;平静即永恒的梵。此乃上气(udāna)的至高形态,婆罗门如是知之。