Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 14.32

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

14.32.1

त्रयो वै रिपवो लोके नवधा गुणतः स्मृताः ।
हर्षः स्तंभोतिमानश्च त्रयस्ते सात्विका गुणाः ॥ १४.३२.१ ॥

世间有三种敌人,依据德性可说为九种。喜悦、僵硬与过度的傲慢——这三者是善德(萨埵)之性。

14.32.2

शोकः क्रोधाभिसंरम्भो राजसास्ते गुणाः स्मृताः ।
स्वप्नस्तन्द्रा च मोहश्च त्रयस्ते तामसा गुणाः ॥ १४.३२.२ ॥

忧伤与愤怒的剧烈激动被说为激情(罗阇)之性。昏睡、懈怠与迷惑——这三者是暗质(答摩)之性。

14.32.3

एतान्निकृत्य धृतिमान्बाणसङ्घैरतन्द्रितः ।
जेतुं परानुत्सहते प्रशान्तात्मा जितेन्द्रियः ॥ १४.३२.३ ॥

以箭矢之群将它们斩断,坚定、不懈、心意寂静、克制诸根的人,便能够去战胜他人。

14.32.4

अत्र गाथाः कीर्तयन्ति पुराकल्पविदो जनाः ।
अम्बरीषेण या गीता राज्ञा राज्यं प्रशासता ॥ १४.३२.४ ॥

这里,通晓古代传统的人们诵说那些国王安跋利沙在治理王国时所唱的诗句。

14.32.5

समुदीर्णेषु दोषेषु बाध्यमानेषु साधुषु ।
जग्राह तरसा राज्यमम्बरीष इति श्रुतिः ॥ १४.३२.५ ॥

当过失全面兴起、善人遭受迫害时,安跋利沙便用力夺取了王位,传说如此。

14.32.6

स निगृह्यात्मनो दोषान्साधून्समभिपूज्य च ।
जगाम महतीं सिद्धिं गाथाश्चेमा जगाद ह ॥ १४.३२.६ ॥

他克制了自身的过失,又恭敬地礼敬善人,获得了伟大的成就;并且说出了这些诗句。

14.32.7

भूयिष्ठं विजिता दोषा निहताः सर्वशत्रवः ।
एको दोषो वरिष्ठश्च वध्यः स न हतो मया ॥ १४.३२.७ ॥

大部分过失已被征服,一切敌人已被杀死;然而那唯一最为首要、应当被杀的过失,我尚未将它杀死。

14.32.8

यत्प्रयुक्तो जन्तुरयं वैतृष्ण्यं नाधिगच्छति ।
तृष्णार्त इव निम्नानि धावमानो न बुध्यते ॥ १४.३२.८ ॥

此生灵为之所驱,不能获得离欲之境;如同渴极之人奔向低处,却不自觉。

14.32.9

अकार्यमपि येनेह प्रयुक्तः सेवते नरः ।
तं लोभमसिभिस्तीक्ष्णैर्निकृत्य सुखमेधते ॥ १४.३२.९ ॥

以利剑斩断那贪欲——正是它驱使人在此行不当之事——他便在安乐中兴盛。

14.32.10

लोभाद्धि जायते तृष्णा ततश्चिन्ता प्रवर्तते ।
स लिप्समानो लभते भूयिष्ठं राजसान्गुणान्।
तदवाप्तौ तु लभते भूयिष्ठं तामसान्गुणान् ॥ १४.३२.१० ॥

由贪欲生出渴爱,随之而起忧虑。那欲求获得之人,多得到激情之德;而得到之后,多得到暗昧之德。

14.32.11

स तैर्गुणैः संहतदेहबन्धनः ।
पुनःपनर्जायति कर्म चेहते।
जन्मक्षये भिन्नविकीर्मदेहो ।
मृत्युं पुनर्गच्छति जन्मनैव ॥ १४.३२.११ ॥

被那些德性束缚于身体的他,一次又一次地出生并造作业行。生的因缘耗尽,身体破碎散落,他再次遭遇死亡;因为生,他走向死亡。

14.32.12

तस्मादेतं सम्यगवेक्ष्य लोभं ।
निगृह्य धृत्याऽऽत्मनि राज्यमिच्छेत्।
एतद्राज्यं नान्यदस्तीह राज्य-
मात्मैव राजा विदितो यथावत् ॥ १४.३२.१२ ॥

因此,应当充分省察这贪欲,以坚定加以抑制,并在自身之中求取王位。此处除此王位之外别无他王;唯有如实认知的自我才是真正的王。

14.32.13

इति राज्ञाऽम्बरीषेण गाथा गीता यशस्विना ।
आधिराज्य पुरस्कृत्य लोभमेकं निकृन्तता ॥ १४.३२.१३ ॥

光荣的国王安巴利沙如此吟唱了这首偈颂;他将王权置于眼前,斩断了唯一的贪欲。