Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 14.37

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

14.37.1

तदव्यक्तमनुद्रिक्तं सर्वव्यापि ध्रुवं स्थिरम् ।
नवद्वारं पुरं विद्यात्त्रिगुणं पञ्चधातुकम् ॥ १४.३७.१ ॥

それは未顕現であり、過剰でなく、遍在し、不変で堅固である。九つの門をもつこの都市は、三つのグナと五つの元素からなると知るべきである。

14.37.2

एकादशपरिक्षेपं मनोव्याकरणात्मकम् ।
बुद्धिस्वामिकमित्येतत्परमेकादशं भवेत् ॥ १४.३७.२ ॥

十一の囲壁に囲まれ、意と判断をその本性とし、知性を主とするもの——これが至高の第十一である。

14.37.3

त्रीणि स्रोतांसि यान्यस्मिन्नाप्यायन्ते पुनःपुनः ।
प्रनाड्यस्तिस्र एवैताः प्रवर्न्तते गुणात्मिकाः ॥ १४.३७.३ ॥

その中にある三つの流れ、それによってそれは幾度も養われる——これが三つの主要な脈であり、グナの性質を帯びて働く。

14.37.4

तमो रजस्तथा सत्वं गुणानेतान्प्रचक्षते ।
अन्योन्यमिथुनाः सर्वे तथाऽन्योन्यानुजीविनः ॥ १४.३७.४ ॥

タマス、ラジャス、サットヴァ——これらをグナと呼ぶ。これらはすべて互いに対をなし、互いに依って生きる。

14.37.5

अन्योन्यापाश्रयाश्चापि तथाऽन्योन्यानुवर्तिनः ।
अन्योन्यव्यतिषक्ताश्च त्रिगुणाः पञ्चधातवः ॥ १४.३७.५ ॥

それらは互いに支え合い、互いに従い、互いに絡み合う。三つのグナをもつ五つの元素もまた同様である。

14.37.6

तमसो मिथुनं सत्वं सत्वस्य मिथुनं रजः ।
रजसश्चापि सत्वं स्यात्सत्वस्य मिथुनं तमः ॥ १४.३७.६ ॥

タマスの対はサットヴァ、サットヴァの対はラジャスである。ラジャスの対もまたサットヴァであり、サットヴァの対はタマスである。

14.37.7

नियम्यते तमो यत्र रजस्तत्र निवर्तते ।
नियम्यते रजो यत्र सत्वं तत्र प्रवर्तते ॥ १४.३७.७ ॥

タマスが抑えられるところでラジャスは退く。ラジャスが抑えられるところでサットヴァが現れる。

14.37.8

नैशात्मकं तमो विद्यात्त्रिगुणं मोहसंज्ञितम् ।
अधर्मलक्षणं चैव नियतं पापकर्मसु।
तामसं रूपमेतत्तु दृश्यते चापि सङ्गतम् ॥ १४.३७.८ ॥

タマスは夜の本性を持ち、三つのグナからなり、迷妄と呼ばれると知るべきである。それは非法の特徴を帯び、悪業の中に常に留まる。これがタマスの姿であり、実際にそれは相応しいものとして見られる。

14.37.9

प्रकृत्यात्मकमेवाहू रजः पर्यायकारकम् ।
सत्त्वे तु सर्वभूतेषु दृश्यमुत्पत्तिलक्षणम् ॥ १४.३७.९ ॥

ラジャスは根本質料の本性であり、変化を引き起こすと言われる。しかしサットヴァにおいては、一切の衆生に生起の特徴が見られる。

14.37.10

प्रकाशं सर्वभूतेषु लाघवं श्रद्धधानता ।
सात्विकं रूपमेवं तु लाघवं साधुसंमितम् ॥ १४.३७.१० ॥

一切の衆生には明るさ、軽やかさ、信がある。これこそがサーットヴィカの姿であり、軽やかさは善人に好まれる。

14.37.11

एतेषां गुणतत्त्वानि वक्ष्यन्ते तत्त्वहेतुभिः ।
समासव्यासयुक्तानि तत्त्वतस्तानि बोधत ॥ १४.३७.११ ॥

これらグナの真の本性は、真理を論じる者たちによって、要略と詳細の両方で説かれるであろう。それを如実に理解せよ。

14.37.12

सम्मोहो ज्ञानमत्यागः कर्मणामविनिर्णयः ।
स्वप्नः स्तंभो भयं लोभः शोकः सुकृतदूषणम् ॥ १४.३७.१२ ॥

迷妄、知の放棄、行為における判断の欠如、睡眠、無気力、恐怖、貪欲、悲嘆、そして善行を汚すこと。

14.37.13

अस्मृतिश्चाविपाकश्च नास्तिक्यं भिन्नवृत्तिता ।
निर्विशेषत्वमन्धत्वं जघन्यगुणवृत्तिता ॥ १४.३७.१३ ॥

忘却、未熟、不信、矛盾した振る舞い、区別の欠如、盲目、そして卑しい性質の振る舞い。

14.37.14

अकृते कृतमानित्वमज्ञाने ज्ञानमानिता ।
अमैत्री विकृतो भावो ह्यश्रद्धा मूढभावना ॥ १४.३७.१४ ॥

行わなかったことを行ったと思う慢心、無知なのに智者だと思う慢心、非友好、歪んだ状態、信のなさ、そして愚かな妄想。

14.37.15

अनार्जवमसंज्ञत्वं कर्म पापमचेतना ।
गुरुत्वं सन्नभावत्वमवशित्वमवाग्गतिः ॥ १४.३७.१५ ॥

ねじけ、意識の欠如、罪深い行為、無感覚、鈍重さ、沈み込んだ状態、無力さ、そして下降の道。

14.37.16

सर्व एते गुणा वृत्तास्तामसाः सम्प्रकीर्तिताः ।
ये चान्ये विहिता भावा लोकेऽस्मिन्भावसंज्ञिताः ॥ १४.३७.१६ ॥

これらすべての性質、そしてこの世で「状態」と呼ばれる他の状態は、タマスに属すると説かれている。

14.37.17

तत्रतत्र नियम्यन्ते सर्वे ते तामसा गुणाः ।
परिवादकथा नित्यं मेवब्राह्मणवैरिता ॥ १४.३७.१७ ॥

それら タマスの性質はあちこちで抑えられる。絶え間ない誹謗の言葉と、バラモンへの敵意。

14.37.18

अत्यागश्चातिमानश्च मोहो मन्युस्तथाऽक्षमा ।
मत्सरश्चैव भूतेषु तामसं वृत्तमिष्यते ॥ १४.३७.१८ ॥

放棄しないこと、過度の慢心、迷妄、怒り、同様に堪えられないこと、そして生きものへの嫉妬。これがタマスの行いとされる。

14.37.19

वृथारम्भा हि ये केचिद्वृथा दानानि यानि च ।
वृथाभक्षणमित्येतत्तामसं वृत्तमिष्यते ॥ १४.३७.१९ ॥

無益な事業を始め、無益な布施をし、無益に食べる者——これは タマス の行いと言われる。

14.37.20

अतिवादोऽतितिक्षा च मात्सर्यमभिमानिता ।
अश्रद्दधानता चैव तामसं वृत्तमिष्यते ॥ १४.३७.२० ॥

悪口、不寛容、嫉妬、傲慢、不信——これらもタマスの行いと言われる。

14.37.21

एवंविधाश्च ये केचिल्लोकेऽस्मिन्पापकर्मिणः ।
मनुष्या भिन्नमर्यादास्ते सर्वे तामसाः स्मृताः ॥ १४.३७.२१ ॥

この世にこのような悪業を行い、規範を逸脱した人間は、すべてタマスと伝えられる。

14.37.22

तेषां योनीः प्रवक्ष्यामि नियताः पापकर्मिणाम् ।
अवाङ्निरयभावा ये तिर्यङ्निरयगामिनः। ॥ १४.३७.२२ ॥

悪業を行う者たちの定まった生まれを私は説こう——下劣な地獄の性質をもち、畜生や地獄へ向かう者たちの生まれを。

14.37.23

स्थावराणि च भूतानि पशवो वाहनानि च ।
क्रव्यादा दंदशूकाश्च कृमिकीटविहङ्गमाः ॥ १४.३७.२३ ॥

不動の生き物、家畜と荷役の獣、肉食の動物、噛みつく生き物、虫・昆虫・鳥。

14.37.24

अब्जाता जन्तवश्चैव सर्वे चापि चतुष्पदाः ।
उन्मत्ता बधिरा मूका ये चान्ये पापरोगिणः ॥ १४.३७.२४ ॥

水から生まれた生き物、すべての四足獣、狂人、聾者、唖者、そして罪の病に苦しむ他の者たち。

14.37.25

मग्नास्तमसि दुर्वृत्ताः स्वकर्मकृतलक्षणाः ।
अवाक्स्रोतस इत्येते मग्नास्तमसि तामसाः ॥ १४.३७.२५ ॥

悪行の者たちは暗闇に沈み、自らの行いによって印づけられている。流れが下へ向かうこれらの者は、暗闇に沈んだタマス(暗質)の者である。

14.37.26

तेषामुत्कर्षमुद्रेकं वक्ष्याम्यहमतः परम् ।
यथा ते सुकृतां लोकाँल्लभन्ते पुण्यकर्मिणः ॥ १४.३७.२६ ॥

今、私は彼らの向上と卓越について語ろう。功徳ある行いをする者が、善行者の世界をどのように得るかを。

14.37.27

अन्यथा प्रतिपन्नास्तु विवृद्धा ये च कर्मसु ।
स्वकर्मनिरतानां च ब्राह्मणानां शुभैषिणाम् ॥ १४.३७.२७ ॥

しかし、別の道に陥った者、行いにおいて成長した者、そして自らの務めに専念し善を求めるバラモンたち。

14.37.28

संस्कारेणोर्ध्वमायान्ति यतमानाः सलोकताम् ।
स्वर्गे गच्छन्ति देवानामित्येषा वैदिकी श्रुतिः ॥ १४.३७.२८ ॥

浄化の儀礼によって彼らは上昇し、努力して同じ世界の状態に至り、天界へ、神々のもとへ行く。これが吠陀の聖典である。

14.37.29

अन्यथा प्रतिपन्नास्ते विबुद्धाः स्वेषु कर्मसु ।
पुनरावृत्तिधर्माणस्ते भवन्तीह मानुषाः ॥ १४.३७.२९ ॥

別の道に陥った者たちは、自らの行いに目覚めていても、再び還る法則に従い、ここで人間となる。

14.37.30

पापयोनिं समापन्नाश्चण्डाला मूकचूचुकाः ।
वर्णान्पर्यायशश्चापि प्राप्नुवन्त्युत्तरोत्तरम् ॥ १४.३७.३० ॥

罪深い生に陥ったチャンダーラや無乳者たちは、順次にヴァルナを得て、次第に高くなっていく。

14.37.31

शूद्रयोनिमतिक्रम्य ये चान्ये तामसा गुणाः ।
स्रोतोमध्ये समागम्य वर्तन्ते तामसे गुणे ॥ १४.३७.३१ ॥

首陀羅の胎を越えて、その他の暗質の諸性質は流れの中で集まり、暗質の中にとどまる。

14.37.32

अभिष्वङ्गस्तु कामेषु महामोह इति स्मृतः ।
ऋषयो मुनयो देवा मुह्यन्त्यत्र सुखेप्सवः ॥ १४.३७.३२ ॥

欲望への執着は大いなる迷妄と伝えられる。聖仙、苦行者、神々さえも、ここで幸福を求めて迷う。

14.37.33

तमोमोहो महामोहस्तामिस्रो ह्यन्धसंज्ञितः ।
मरणं त्वन्धतामिस्रस्तामिस्रः क्रोध उच्यते ॥ १४.३७.३३ ॥

暗痴、大痴、そして盲と呼ばれるもの。死こそ盲闇(アンダターミスラ)、怒りは闇(ターミスラ)と言われる。

14.37.34

वर्णतो गुणतश्चैव योनितश्चैव तत्त्वतः ।
सर्वमेततमो विप्राः कीर्तितं वो यथाविधि ॥ १४.३७.३४ ॥

種姓により、性質により、生まれにより、また真実において——バラモンたちよ、これらすべてのタマスは規定どおりあなた方に説かれた。

14.37.35

को न्वेतद्बुध्यते साधु को न्वेतत्साधु पश्यति ।
अतत्त्वे तत्त्वदर्शी यस्तमसस्तच्च लक्षणम् ॥ १४.३७.३५ ॥

誰がこれを正しく理解するか。誰がこれを正しく見るか。非真実の中に真実を見る者——それがタマスの特徴である。

14.37.36

तमोगुणा बहुविधाः प्रकीर्तिता ।
यथावदुक्तं च तमः परावरम्।
नरो हि यो वेद गुणानिमान्सदा ।
स तामसैः सर्वगुणैः प्रमुच्यते ॥ १४.३७.३६ ॥

タマスの諸性質は多様に説かれ、上と下を含むタマスは如実に説明された。これらの性質を常に知る人は、あらゆるタマスの性質から解放される。