摩诃婆罗多 · 章 14.38
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
14.38.1
रजोऽहं वः प्रवक्ष्यामि याथातथ्येन सत्तमाः ।
निबोधत महाभागा गुणवृत्तं च राजसम् ॥ १४.३८.१ ॥
诸位最优秀的众生啊,我将如实地向你们讲说激情之德(罗阇)。大福德者们,请听那由德而生的激情之行。
14.38.2
संतापो रूपमायासः सुखदुःखे हिमातपौ ।
ऐश्वर्यं विग्रहः सिद्धिर्हेतुवादोऽरतिः क्षमा ॥ १४.३८.२ ॥
忧烦、劳苦、苦乐、寒热、威权、争斗、成就、辩论、不悦与忍耐——这些便是它的形态。
14.38.3
बलं शौर्यं मदो रोषो व्यायामकलहावपि ।
ईर्ष्येप्सा पैशुनं युद्धं ममत्वं परिपालनम् ॥ १४.३८.३ ॥
力量、勇武、傲慢、愤怒,以及努力与争吵;嫉妒、贪欲、谗言、战斗、“我的”之念与守护。
14.38.4
वधबन्धपरिक्लेशाः क्रयो विक्रय एव च ।
निकृन्त च्छिन्धि भिन्धीति परवर्मावकर्तनम् ॥ १४.३८.४ ॥
杀戮、缚绑与苦难,也有买与卖;高喊“斩、劈、刺”,以及斩破敌人的铠甲。
14.38.5
उग्रं दारुणमाक्रोशः परवित्तानुरागिता ।
लोकचिन्ताऽनुचिन्ता च मत्सरः परिभाषणम् ॥ १४.३८.५ ॥
凶猛与残酷、辱骂、贪恋他人财物、对世间的忧虑与事后的反复思量、嫉妒与苛刻之言。
14.38.6
वृथाशास्त्रं मृषावादो विकल्पपरिभाषणम् ।
निन्दा स्तुतिः प्रशंसा च प्रतापः परिधर्षणम् ॥ १४.३८.६ ॥
虚妄的经论、虚假之言、支支吾吾的言辞、毁与誉、称扬、炫耀威势以及侮辱性的攻击。
14.38.7
परिचर्या च शुश्रूषा सेवा तृष्णा व्यपाश्रयः ।
व्यूहो नयः प्रमादश्च परिवादः परिग्रहः ॥ १४.३८.७ ॥
侍奉、恭敬照料、奉献的服务、渴爱、依附、阵列、策略、放逸、毁谤与执取。
14.38.8
संस्कारा ये च लोकेषु प्रवर्तन्ते पृथक्पृथक् ।
नृषु नारीषु भूतेषु द्रव्येषु शरणेषु च ॥ १४.३८.८ ॥
在诸世界中各自流行的礼仪,无论在男子、女子、众生、物品,还是在皈依处之中。
14.38.9
संतापोऽप्रत्ययश्चैव व्रतानि नियमाश्च ये ।
प्रधानमाशीर्युक्तं च सततं मे भवत्विति ॥ १४.३८.९ ॥
悲痛、怀疑,以及诸誓愿与戒律,与主要的祈愿相连:"愿此常属于我"。
14.38.10
स्वाहाकारो नमस्कारः स्वधाकारो वषट्क्रिया ।
याजनाध्यापने चोभे यजनाध्ययने अपि ॥ १४.३८.१० ॥
娑婆诃之供、礼敬、斯婆陀之供、婆沙特之行;主持祭祀与教授二者;以及祭祀与诵习。
14.38.11
दानं प्रतिग्रहश्चैव प्रायश्चित्तानि मङ्गलम् ।
इदं मे स्यादिदं मे स्यात्स्नेहो गुणसमुद्भवः ॥ १४.३८.११ ॥
布施与受施、赎罪与吉祥之事;"愿此属于我,愿此属于我"——由德性所生的爱著。
14.38.12
अभिद्रोहस्तथा माया निकृतिर्मान एव च ।
स्तैन्यं हिंसा जुगुप्सा च परितापः प्रजागरः ॥ १४.३८.१२ ॥
背叛、幻术、欺诈、骄慢、盗窃、暴力、厌恶、苦恼与失眠。
14.38.13
दम्भो दर्पोऽथ रागश्च भक्तिः प्रीतिः प्रमोदनम् ।
द्यूतं च जनवादश्च सम्बन्धाः स्त्रीकृताश्च ये ॥ १४.३८.१३ ॥
伪善、傲慢、贪爱、虔敬、情爱、欢喜、赌博、世人的非议,以及因女人而结成的种种关系。
14.38.14
नृत्यवादित्रगीतानां प्रसङ्गा ये च केचन ।
सर्व एते गुणा विप्रा राजसाः सम्प्रकीर्तिताः ॥ १४.३८.१४ ॥
凡沉迷于舞蹈、乐器与歌唱之事,诸位婆罗门啊,这一切功德都被称为罗阇(激情)之性。
14.38.15
भूतभव्यभविष्याणां भावानां भुवि भावनाः ।
त्रिवर्गनिरता नित्यं धर्मोऽर्थः काम इत्यपि ॥ १४.३८.१५ ॥
世间对过去、现在、未来众生之状态的种种思量,常常专注于三重目标:法、利与欲。
14.38.16
कामवृत्ताः प्रमोदन्ते सर्वकामसमृद्धिभिः ।
अर्वाक्स्रोतस इत्येते मनुष्या रजसा वृताः ॥ १४.३८.१६ ॥
行为受欲望驱使的人,因一切欲望的充盈而欢喜;这些人的流向向下,被罗阇所笼罩。
14.38.17
अस्मिँलोके प्रमोदन्ते जायमानाः पुनःपनः ।
प्रेत्यभाविकमीहन्ते हलौकिकमेव च।
ददति प्रतिगृह्णन्ति तर्पयन्त्यथ जुह्वति ॥ १४.३८.१७ ॥
在此世屡屡投生而欢喜;死后则求取未来之果与超世间之果;他们施予、接受、满足他人,然后献上祭供。
14.38.18
रजोगुणा वो बहुधानुकीर्तिता ।
यथावदुक्तं गुणवृत्तमेव च।
नरोपि यो वेद गुणानिमान्सदा ।
स राजसैः सर्वगुणैर्विमुच्यते ॥ १४.३८.१८ ॥
罗阇之性已为你们多方宣说,诸性的行迹也依所说而述。凡人若常如实知此诸性,便能脱离一切罗阇之性。