摩诃婆罗多 · 章 14.40
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
14.40.1
नैव शक्या गुणा वक्तुं पृथक्त्वेनैव सर्वशः ।
अविच्छिन्नानि दृश्यन्ते रजः सत्वं तमस्तथा ॥ १४.४०.१ ॥
诸德无法逐一完整描述,因为罗阇、萨埵与答摩总是相互不可分离地显现。
14.40.2
अन्योन्यमनुरज्यन्ते ह्यन्योन्येनानुजीविनः ।
अन्योन्यापाश्रयाः सर्वे तथाऽन्योन्यानुवर्तिनः ॥ १४.४०.२ ॥
彼此相互依恋,依靠彼此而生存;一切相互依赖,相互追随。
14.40.3
यावत्सत्वं रजस्तावद्वर्तते नात्र संशयः ।
यावत्तमश्च सत्वं च रजस्तावदिहोच्यते ॥ १४.४०.३ ॥
只要有萨埵,罗阇便存在——此无疑问;只要答摩与萨埵存在,此处便说有罗阇。
14.40.4
संहत्य कुर्वते यात्रां सहिताः सङ्घचारिणः ।
सङ्घातवृत्तयो ह्येते वर्तन्ते हेत्वहेतुभिः ॥ १४.४०.४ ॥
彼此结合,结伴而行,此等开始其运行;聚合是其作用,它们依有因与无因而运转。
14.40.5
उद्रेकव्यतिरिक्तानां तेषामन्योन्यवर्तिनाम् ।
वक्ष्यते तद्यथाऽन्यूनं व्यतिरिक्तं च सर्वशः ॥ १४.४०.५ ॥
关于那些因过盛与差别而相异、相互作用的诸德,将说明它们如何并非不足,而是在各方面都各自分明。
14.40.6
व्यतिरिक्तं तमो यत्र तिर्यग्भावगतं भवेत् ।
अल्पं तत्रथ रजो ज्ञेयं सत्वमल्पतरं तथा ॥ १४.४०.६ ॥
若答摩独立且转入横向之态,则应知罗阇为少,萨埵更少。
14.40.7
उद्रिक्तं च रजो यत्र मध्यस्रोतोगतं भवेत् ।
अल्पं तत्र तमो ज्ञेयं सत्वमल्पतरं तथा ॥ १४.४०.७ ॥
若罗阇增盛而入于中流,则当知答摩甚少,萨埵更少。
14.40.8
उद्रिक्तं च यदा सत्वमूर्ध्वस्रोतोगतं भवेत् ।
अल्पं तत्र तमो ज्ञेयं रजश्चाल्पतरं तथा ॥ १४.४०.८ ॥
若萨埵增盛而入于上流,则当知答摩甚少,罗阇更少。
14.40.9
सत्वं वैकारिकी योनिरिन्द्रियाणां प्रकाशिका ।
न हि सत्वात्परो भावः कश्चिदन्यो विधीयते ॥ १४.४०.९ ॥
萨埵是变化之源,照亮诸根;除萨埵之外,并无更高的其他境界被规定。
14.40.10
ऊर्ध्वं गच्छन्ति सत्वस्था मध्ये तिष्ठन्ति राजसाः ।
जघन्यगुणसंयुक्ता यान्त्यधस्तामसा जनाः ॥ १४.४०.१० ॥
住于萨埵者上升,罗阇者居于中间,答摩者与最低之德相连,则下行。
14.40.11
तमः शूद्रे रजः क्षत्रे ब्राह्मणे सत्वमुत्तमम् ।
इत्येवं त्रिषु वर्णेषु विवर्तन्ते गुणास्त्रयः ॥ १४.४०.११ ॥
答摩在首陀罗,罗阇在刹帝利,最上萨埵在婆罗门;如此三德于三种姓中显现。
14.40.12
दूरादपि हि दृश्यनते सहिताः सङ्घचारिणः ।
तमः सत्वं रजश्चैव पृथक्त्वेनानुशुश्रुम ॥ १४.४०.१२ ॥
即使远望,群行者亦可见;我们曾听闻答摩、萨埵与罗阇各自分别。
14.40.13
दृष्ट्वा त्वादित्यमुद्यन्तं कुचोराणां भयं भवेत् ।
अध्वगाः परितप्येयुरुष्णतो दुःखभागिनः ॥ १४.४०.१३ ॥
见日升起,盗贼生惧;行路之人被炎热所灼,遂承受痛苦。
14.40.14
आदित्यः सत्वमुद्दिष्टः कुचोरास्तु तथा तमः ।
परितापोऽध्वगानां च रजसो गुण उच्यते ॥ १४.४०.१४ ॥
太阳被说为萨埵之性,盗贼亦为答摩之性;行人的烦恼则称为罗阇之德。
14.40.15
प्राकाश्यं सत्वमादित्यः संतापो रजसो गुणः ।
उपप्लवस्तु विज्ञेयस्तामसस्तस्य पर्वसु ॥ १४.४०.१५ ॥
光明是萨埵之德,太阳具有之;热是罗阇之德;而其盈亏之时所现的蚀,应知是答摩之德。
14.40.16
एवं ज्योतिष्षु सर्वेषु प्रवर्तन्ते गुणास्त्रयः ।
पर्यायेण च वर्न्तते तत्रतत्र तथातथा ॥ १४.४०.१६ ॥
如是,三德在一切光明之体中生起;它们轮流在此处彼处,各以其方式显现。
14.40.17
स्थावरेषु तु भावेषु तिर्यग्भावगतं तमः ।
राजसास्तु विवर्तन्ते स्नेहभावस्तु सात्विकैः ॥ १४.४०.१७ ॥
在不动之物中,答摩转为旁生之性;罗阇者流转不息;而情谊之性由萨埵者生起。
14.40.18
अहस्त्रिधा तु विज्ञेयं त्रिधा रात्रिर्विधीयते ।
मासार्दमासवर्षाणि ऋतवः सन्धयस्तथा ॥ १४.४०.१८ ॥
白昼应知为三分,黑夜亦规定为三分;月、半月、年、季节与交接之时,也同样是时间的区分。
14.40.19
त्रिधा दानानि दीयन्ते त्रिधा यज्ञः प्रवर्तते ।
त्रिधा लोकास्त्रिधा देवास्त्रिधा विद्यास्त्रिधा गतिः ॥ १४.४०.१९ ॥
布施有三种方式,祭祀也以三种方式进行。世界有三种,神有三种,学问有三种,去处也有三种。
14.40.20
भूतं भव्यं भविष्यं च धर्मोऽर्थः काम एव च ।
प्राणापानावुदानश्चाप्येत एव त्रयो गुणाः ॥ १४.४०.२० ॥
过去、现在与未来;法、利、欲;入息、出息与上行之气——这便是三德。
14.40.21
पर्यायेण प्रवर्तन्ते तत्रतत्र तथातथा ।
यत्किञ्चिदिह लोकेऽस्मिन्सर्वमेते त्रयो गुणाः ॥ १४.४०.२१ ॥
它们轮流运作,在此处彼处,各以其方式;此世间所有的一切,都是这三德。
14.40.22
त्रयो गुणाः प्रवर्तन्ते ह्यव्यक्ता नित्यमेव तु ।
सत्वं रजस्तमश्चैव गुणसर्गः सनातनः ॥ १४.४०.२२ ॥
三德永远以未显之态运行;善(萨埵)、激情(罗阇)、暗(答摩)——德的创造是永恒的。
14.40.23
तमोऽव्यक्तं शिवं धाम रजो योनिः सनातनः ।
प्रकृतिर्विकारः प्रलयः प्रधानं प्रभवाप्ययौ ॥ १४.४०.२३ ॥
暗(答摩)是未显,是湿婆的居所;激情(罗阇)是永恒的胎藏。自性、变异、灭尽、本质——这便是生与灭。
14.40.24
अनुद्रिक्तमनूनं वाऽप्यकम्पमचलं ध्रुवम् ।
सदसच्चैव तत्सर्वमव्यक्तं त्रिगुणं स्मृतम्।
ज्ञेयानि नामधेयानि नरैरद्यात्मचिन्तकैः ॥ १४.४०.२४ ॥
既不过多也不缺少,不动摇、不移动、恒定;有与无亦然——这一切被称为未显、具三德者。今日,那些反思自我的人应当知道它的名称。
14.40.25
अव्यक्तनामानि गुणांश्च तत्त्वतो ।
यो वेद सर्वाणि गतीश्च केवलाः।
विमुक्तदेहः प्रविभागतत्त्ववि-
त्स मुच्यते सर्वगुणैर्निरामयः ॥ १४.४०.२५ ॥
知晓未显者之名与德性真相、并纯粹了知一切归途者,脱离身体,通晓分别之真理,便从一切德性中解脱,无病无患而获得解脱。