Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 14.43

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

14.43.1

मनुष्याणां तु राज्यः क्षत्रियो मध्यमो गुणः ।
कुञ्जरो वाहनानां च सिंहश्चारण्यवासिनाम् ॥ १४.४३.१ ॥

人中之王是刹帝利,属中等之德;乘骑中是象,居林者中是狮。

14.43.2

अविः पशूनां सर्वेषामहिस्तु बिलवासिनाम् ।
गवां गोवृषभश्चैव स्त्रीणां पुरुष एव च ॥ १४.४३.२ ॥

诸畜中为公羊,穴居者中为蛇;牛中为公牛,女人中为男子。

14.43.3

न्यग्रोधो जम्बुवृक्षश्च पिप्पलः शाल्मलिस्तथा ।
शिंशपा मेषशृङ्गश्च तथा कीचकवेणवः ॥ १४.४३.३ ॥

榕树、阎浮树、菩提树,以及木棉、舍弥婆树、羊角树和空心的竹子。

14.43.4

एते द्रुमाणां राजानो गणानां मरुतस्तथा ।
हिमवान्पारियात्रश्च सह्यो विन्ध्यस्त्रिकूटवान् ॥ १४.४३.४ ॥

这些是树木之王;诸众中为摩录多;还有喜马拉雅、帕里耶特罗、萨希亚、温底耶和特里库塔。

14.43.5

श्वेतो नीलश्च भासश्च राष्ट्रवांश्चैव पर्वतः ।
भृशस्कन्धो महेन्द्रश्च माल्यवान्पर्वतस्तथा ॥ १४.४३.५ ॥

白山、青山、光山,以及国有山;还有大肩山、摩哂陀罗山和摩利耶山。

14.43.6

एते पर्वतराजानो गणानां मरुतस्तथा ।
सूर्यो ग्रहाणामधिपो नक्षत्राणां च चन्द्रमाः ॥ १४.४३.६ ॥

这些是山岳之王;诸众中为摩录多;太阳为诸行星之主,月亮为诸星宿之主。

14.43.7

यमः पितॄणामधिपः सरितामथ सागरः ।
अंभसां वरुणो राजा मरुतामिन्द्र उच्यते ॥ १४.४३.७ ॥

阎摩是祖先之主,大海是河流之主。水之王是伐楼那,众风神(摩录多)之主被称为因陀罗。

14.43.8

अर्कोऽधिपतिरुष्णानां ज्योतिषामिन्दुरुच्यते ।
अग्निर्भूतपतिर्नित्यं ब्राह्मणानां बृहस्पतिः ॥ १४.४३.८ ॥

太阳是炽热之物的主宰,月亮被称为光明之主。火神阿耆尼永远是众生之主,木星(Bṛhaspati)是婆罗门之主。

14.43.9

ओषधीनां पतिः सोमो विष्णुर्बलवतां वरः ।
त्वष्टाऽधिनां पतिः सोमो विष्णुर्बलवतां वरः। ॥ १४.४३.९ ॥

月神苏摩是草药之主,毗湿奴是强者中最优秀者。特沃斯塔是富者之主;苏摩也是富者之主;毗湿奴是强者中最优秀者。

14.43.10

दक्षिणानां तथा यज्ञो वेदानामृच एव च ।
दिशामुदीची विप्राणां सोमो राजा प्रतापवान् ॥ १४.४३.१० ॥

祭祀是布施之主,梨俱诗节是吠陀之主。北方是方位之主,有威力的国王苏摩是婆罗门之主。

14.43.11

कुबेरः सर्वरत्नानां देवतानां पुरंदरः ।
एष भूताधिपः सर्गः प्रजानां च प्रजापतिः ॥ १४.४३.११ ॥

俱毗罗是一切宝物之主,补兰陀罗(因陀罗)是诸神之主。此创造是众生之主,生主(Prajāpati)是众生之主。

14.43.12

सर्वेषामेव भूतानामहं ब्रह्ममयो महान् ।
भूतं परतरं मत्तो विष्णोर्वाऽपि न विद्यते ॥ १४.४३.१२ ॥

我是伟大的、由梵构成的,是一切众生的根基。无论比我或比毗湿奴更高的众生都不存在。

14.43.13

राजाधिराजः सर्वेषां विष्णुर्ब्रह्ममयो महान् ।
ईश्वरं तं विजानीमः स विभुः स प्रजापतिः ॥ १४.४३.१३ ॥

毗湿奴是众王之王,伟大,由梵构成,我们知道他是主宰。他遍在一切,他就是众生之主。

14.43.14

नरकिन्नरयक्षाणां गन्धर्वोरगरक्षसाम् ।
देवदानवनागानां सर्वेषामीश्वरो हि सः ॥ १४.४३.१४ ॥

他是一切的主宰:人、紧那罗、夜叉、乾闼婆、大蛇、罗刹、天神、檀那婆与龙。

14.43.15

भगदेवानुयातानां सर्वासां वामलोचना ।
माहेश्वरी महादेवी प्रोच्यते पार्वती हि सा ॥ १४.४३.१५ ॥

在追随薄伽女神的所有女子中,那位眼睛美丽的女子被称为摩醯湿伐利、大天女,她正是帕尔瓦蒂。

14.43.16

उमां देवीं विजानीध्वं नारीणामुत्तमां शुभाम् ।
रतीनां वसुमत्यस्तु स्त्रीणामप्सरसस्तथा ॥ १४.४३.१६ ॥

应知女神乌玛是女子中最殊胜、最吉祥者;在欢愉之女神中有伐苏摩提,在女子中也同样有阿普萨拉斯。

14.43.17

धर्मिकामाश्च राजानो ब्राह्मणा धर्मसेतवः ।
तस्माद्राजा द्विजातीनां प्रयतेतेह रक्षणे ॥ १४.४३.१७ ॥

追求法的国王与婆罗门是法的桥梁;因此,国王在此应当努力守护再生之人。

14.43.18

राज्ञां हि विषये येषामवसीदन्ति साधवः ।
हीनास्ते स्वगुणैः सर्वैः प्रेत्यावाङ्मार्गगामिनः ॥ १४.४३.१८ ॥

那些治下善人受苦的国王,失去自身一切德行,死后走向下行之路。

14.43.19

राज्ञां हि विषये येषां साधवः परिरक्षिताः ।
तेऽस्मिँल्लोके प्रमोदन्ते प्रेत्य चानन्दमेव च ॥ १४.४३.१९ ॥

凡在其国中善人受到庇护的诸王,在此世欢喜,死后也必得喜乐。

14.43.20

प्राप्नुवन्ति महात्मान इति वित्त द्विजर्षभाः ।
अत ऊर्ध्वं प्रवक्ष्यामि नियतं धर्मलक्षणम् ॥ १४.४३.२० ॥

诸位再生者中的最上者啊,当知大德者如是得果。此后我将宣说确定的法之相。

14.43.21

अहिंसालक्षणो धर्मो हिंसा चाधर्मलक्षणा ।
प्रकाशलक्षणा देवा मनुष्याः कर्मलक्षणाः ॥ १४.४३.२१ ॥

不害是法的相,害是非法的相。诸天以光明为相,人以作业为相。

14.43.22

शब्दलक्षणमाकाशं वायुस्तु स्पर्शलक्षणः ।
ज्योतिषां लक्षणं रूपमापश्च रसलक्षणाः ॥ १४.४३.२२ ॥

虚空以声为相,风以触为相。光明之物以色为相,水以味为相。

14.43.23

धारिणी सर्वभूतानां पृथिवी गन्धलक्षणा ।
स्वरव्यञ्जनसंस्कारा भारती शब्दलक्षणा ॥ १४.४३.२३ ॥

地为一切众生之所依持,以香为相;由元音与辅音所成之语言,以声为相。

14.43.24

मनसो लक्षणं चिन्ता तथोक्ता बुद्धिरन्वयात् ।
मनसा चिन्तितानर्थान्बुद्ध्या चेह व्यवस्यति ॥ १४.४३.२४ ॥

意之相为思,由推理亦说觉为相。意所思之义,觉于此处决定之。

14.43.25

बुद्धिर्हि व्यवसायेन लक्ष्यते नात्र संशयः ।
लक्षणं मनसो ध्यानमव्यक्तं साधुलक्षणम् ॥ १४.४३.२५ ॥

毫无疑问,智慧通过坚定的决心而被认识。心的标志是冥想,它是未显现的,是善人的标志。

14.43.26

प्रवृत्तिलक्षणो योगो ज्ञानं संन्यासलक्षणम् ।
तस्माज्ज्ञानं पुरस्कृत्य संन्यसेदिह बुद्धिमान् ॥ १४.४३.२६ ॥

瑜伽以积极投入为特征,知识是出离的标志。因此智者应以知识为先,在此出离。

14.43.27

संन्यासी ज्ञानसंयुक्तः प्राप्नोति परमां गतिम् ।
अतीतो द्वन्द्वमभ्येति तमोमृत्युजरातिगः ॥ १४.४३.२७ ॥

具备知识的出离者达到最高归宿。超越对立的两端,越过黑暗、死亡与衰老,他便到达那里。

14.43.28

धर्मलक्षणसंयुक्तमुक्तं वो विधिवन्मया ।
गुणानां ग्रहणं सम्यग्वक्ष्याम्यहमतः परम् ॥ १४.४३.२८ ॥

我已依法向你们宣说了具备法之特征的内容。现在我将详细解说对诸德的把握。

14.43.29

पार्तिवो यस्तु गन्धो वै घ्राणेन हि स गृह्यते ।
प्राणस्यश्च तथा वायुर्गन्धज्ञाने विधीयते ॥ १४.४३.२९ ॥

地之气味确实由鼻子感知。气息与风也同样被安排在嗅觉的认知之中。

14.43.30

अपां धातू रसो नित्यं जिह्वया स तु गृह्यते ।
जिह्वास्थश्च तथा सोमो रसज्ञाने विधीयते ॥ १४.४३.३० ॥

水之元素的味道总是由舌头感知。位于舌中的月神(苏摩)同样被安排在味觉的认知之中。

14.43.31

तेजसस्तु गुणो रूपं चक्षुषा तच्च गृह्यते ।
चक्षुःस्थश्च ततादित्यो रूपज्ञाने विधीयते ॥ १४.४३.३१ ॥

火的性质是形色,由眼睛领会。住于眼中的太阳(阿ditya)被安排用于色的认知。

14.43.32

वायव्यस्तु सदा स्पर्शस्त्वचा प्रज्ञायते च सः ।
त्वक्स्थश्चैव सदा वायुः स्पर्सने स विधीयते ॥ १४.४३.३२ ॥

风的性质永远是触,由皮肤感知。永远住于皮肤中的风被安排用于触的认知。

14.43.33

आकाशस्य गुणो घोषः श्रोत्रेण च स गृह्यते ।
श्रोत्रस्थाश्च दिशः सर्वाः शब्दज्ञाने प्रकीर्तिताः ॥ १४.४३.३३ ॥

虚空的性质是声,由耳朵领会。住于耳中的一切方位被宣说用于声的认知。

14.43.34

मनसश्च गुणश्चिन्ता प्रज्ञया स तु गृह्यते ।
हृदिस्थश्चेतनो धातुर्मनोज्ञाने विधीयते ॥ १४.४३.३४ ॥

意的性质是思虑,由慧所领会。住于心中的觉知要素被安排用于意的认知。

14.43.35

बुद्धिरध्यवसायेन ध्यानेन च महांस्तथा ।
निश्चित्य ग्रहणाद्व्यक्तमव्यक्तं नात्र संशयः ॥ १४.४३.३५ ॥

觉由决定与禅定而知,大(mahat)亦复如是。通过确定的把握,显与隐便得以知晓;此中无疑。

14.43.36

अलिङ्गग्रहणो नित्यः क्षेत्रज्ञो निर्गुणात्मकः ।
तस्मादलिङ्गः क्षेत्रज्ञः केवलं ज्ञानलक्षणः ॥ १४.४३.३६ ॥

田知者不以相状而被把握,是常住的,本性无德。因此田知者无相,唯以知为其特征。

14.43.37

अव्यक्तं क्षेत्रमुद्दिष्टं गुणानां प्रभवाप्ययम् ।
सदा पश्याम्यहं लीनं विजानामि शृणोमि च ॥ १४.४३.३७ ॥

未显现者被宣说为田,是诸德的生起与消融之处。那隐没于其中者,我常常见之、知之、闻之。

14.43.38

पुरुषस्तद्विजानीते तस्मात्क्षेत्रज्ञ उच्यते ।
गुणवृत्तं तथा कृत्स्नं क्षेत्रज्ञः परिपश्यति ॥ १४.४३.३८ ॥

补卢沙知晓之,故称为知田者。知田者完全洞察诸德的全部作用。

14.43.39

आदिमद्यावसानं तत्सृज्यमानमचेतनम् ।
न गुणा विदुरात्मानं सृज्यमानाः पुनःपुनः ॥ १४.४३.३९ ॥

彼有始有终,被创造,无知觉。被反复创造的诸德,并不知晓自我。

14.43.40

न सत्यं वेद वै कश्चित्क्षेत्रज्ञस्त्वेव विन्दति ।
गुणानां गुणभूतानां यत्परं परतो महत् ॥ १४.४३.४० ॥

无人真正知晓真理;然而知田者得之。那超越诸德及由诸德所成之物的,至高而伟大者。

14.43.41

तस्माद्गुणांश्च तत्वं च परित्यज्येह तत्ववित् ।
क्षीणदोषो गुणान्हित्वा क्षेत्रज्ञं प्रविशत्यथ ॥ १४.४३.४१ ॥

故此处知真者,舍弃诸德与诸谛,过失消尽,离诸德,然后进入知田者。

14.43.42

निर्द्वन्द्वो निर्नमस्कारो निःस्वधाकार एव च ।
अचलश्चानिकेतश्च क्षेत्रज्ञः स परो विधिः ॥ १४.४३.४२ ॥

超越二元对立,不行礼敬,不行斯瓦塔祭,不动,无居所:他即知田者,此即至上的法则。