Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 14.44

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

14.44.1

यदादिमध्यपर्यन्तं ग्रहणोपायमेव च ।
नामलक्षणसंयुक्तं सर्वं वक्ष्यामि तत्त्वतः ॥ १४.४४.१ ॥

我将如实宣说一切有始、有中、有终之物,领会它们的方法,以及具备名与相的一切。

14.44.2

अहः पूर्वं ततो रात्रिर्मासाः शुक्लादयः स्मृताः ।
श्रवणादीनि ऋक्षाणि ऋतवः शिशिरादयः ॥ १४.४४.२ ॥

先是白昼,然后是黑夜;称述以白半月开始的月份;以室宿(Śravaṇa)起始的星宿,以及以寒季起始的季节。

14.44.3

भूमिरादिस्तु गन्धानां रसानामाप एव च ।
रूपाणामादिरग्निस्तु स्पर्शादिर्वायुरुच्यते ॥ १४.४४.३ ॥

地为香之始,水为味之始;火为色之始,而风以触为始,据说如此。

14.44.4

शब्दस्यादिस्तथाऽऽकाशमेष भूतकृतो गुणः ।
अतः परं प्रवक्ष्यामि भूतानामादिमुत्तमम् ॥ १४.४४.४ ॥

声之始同样是虚空;这是由诸大所生的属性。此后,我将宣说众生的最高之始。

14.44.5

आदित्यो ज्योतिषामादिरग्निर्भूतादिरुच्यते ।
सावित्री सर्वविद्यानां देवतानां प्रजापतिः ॥ १४.४४.५ ॥

太阳为诸光之始,火被称为众生之始;萨维特丽为一切明智之始,生主为诸神之始。

14.44.6

ओङ्कारः सर्ववेदानां वचसां प्राण एव च ।
यदस्मिन्नियतं लोके सर्वं सावित्रमुच्यते ॥ १४.४४.६ ॥

唵是一切吠陀与言语的气息;此世界中所确定的一切,据说都属于萨维特丽。

14.44.7

गायत्री च्छन्दसामादिः प्रजानां सर्ग उच्यते ।
गावश्चतुष्पदामादिर्मनुष्याणां द्विजातयः ॥ १४.४४.७ ॥

在韵律中,伽耶特里为首;在众生中,创造被称为首要。在四足动物中,牛为首;在人类中,再生者为首。

14.44.8

श्येनः पतत्रिणामादिर्यज्ञानां हुतमुत्तमम् ।
प्रसर्पिणां तु सर्वेषां ज्येष्ठः सर्पो द्विजोत्तमाः ॥ १४.४४.८ ॥

在飞禽中鹰为首;在祭祀中,最上的供奉为首。在一切爬行之物中,蛇为长,诸位再生者中的最上者啊。

14.44.9

कृतमादिर्युगानां च सर्वेषां नात्र संशयः ।
हिरण्यं सर्वरत्नानामोषधीनां यवास्तथा ॥ १४.४४.९ ॥

在诸时代中,克利塔时代为首,此事毫无疑问。在一切宝物中,黄金为首;在草药中,大麦亦然。

14.44.10

सर्वेषां भक्ष्यभोज्यानामन्नं परममुच्यते ।
द्रवाणां चैव सर्वेषां पेयानामाप उत्तमाः ॥ १४.४४.१० ॥

在一切可食与可餐之物中,粮食被称为至上;在一切液体与饮料中,水为最好。

14.44.11

स्थावराणां तु भूतानां सर्वेषामविशेषतः ।
ब्रह्मक्षेत्रं सदा पुण्यं प्लक्षः प्रवरजः स्मृतः ॥ १४.४४.११ ॥

在一切不动之物中,无分别地,梵之田永远神圣;无花果树(plakṣa)被称为最上所生。

14.44.12

अहं प्रजापतीनां च सर्वेषां नात्र संशयः ।
मम विष्णुरचिन्त्यात्मा स्वयंभूरिति संस्मृतः ॥ १४.४४.१२ ॥

在一切生主之中,我为首,此事毫无疑问。我那不可思议的自性毗湿奴,被称为自生者。

14.44.13

पर्वतानां महामेरुः सर्वेषामग्रजः स्मृतः ।
दिशां च प्रदिशां चोर्ध्वं दिक्पूर्वा प्रथमा तथा ॥ १४.४४.१३ ॥

在山中,大须弥被视为众山之长。在方位、次方位与上方之中,东方居首。

14.44.14

तथा त्रिपथगा गङ्गा नदीनामग्रजा स्मृता ।
तथा सरोदपाननां सर्वेषां सागरोऽग्रजः ॥ १४.४४.१४ ॥

同样,流经三路的恒河被视为河流中的长者。在湖泊与井中,大海为众之长。

14.44.15

देवदानवभूतानां पिशाचोरगरक्षसाम् ।
नरकिन्नरयक्षाणां सर्वेषामीश्वरः प्रभुः ॥ १४.४४.१५ ॥

无论诸天、檀那婆、鬼神、毕舍遮、龙蛇、罗刹、人类、紧那罗与夜叉,他都是他们的主宰与君王。

14.44.16

आदिर्विश्वस्य जगतो विष्णुर्ब्रह्ममयो महान् ।
ततः परतरं यस्मात्त्रैलोक्ये नेह विद्यते ॥ १४.४४.१६ ॥

毗湿奴是宇宙与世界的起源,由梵构成而伟大。在三界之中,没有比他更高的存在。

14.44.17

आश्रमाणां च सर्वेषां गार्हस्थ्यं नात्र संशयः ।
लोकानामादिरव्यक्तं सर्वस्यान्तस्तदेव च ॥ १४.४४.१७ ॥

在一切生活阶段中,居家之位最为尊贵,此无疑问。诸世界的根源是未显现者,而这同一未显现者也是一切的终结。

14.44.18

अहान्यस्तमयान्तानि उदयान्ता च शर्वरी ।
सुखस्यान्तं सदा दुःखं दुःखस्यान्तं सदा सुखम ॥ १४.४४.१८ ॥

白昼止于日落,黑夜止于日出。快乐的尽头总是悲苦,悲苦的尽头总是快乐。

14.44.19

सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः ।
संयोगाश्च वियोगान्ता मरणान्तं च जीवितम् ॥ १४.४४.१९ ॥

一切积聚以毁坏告终,一切升起以坠落告终;结合以分离告终,生命以死亡告终。

14.44.20

सर्वं कृतं विनाशान्तं जातस्य मरणं ध्रुवम् ।
अशाश्वतं हि लोकेऽस्मिन्सदा स्थावरजङ्गमम् ॥ १४.४४.२० ॥

一切所作以毁灭告终;出生者必有死亡。在此世间,不动与动者皆恒常无常。

14.44.21

इष्टं दत्तं तपोऽधीतं व्रतानि नियमाश्च ये ।
सर्वमेतद्विनाशान्तं ज्ञानस्यान्तो न विद्यते ॥ १४.४४.२१ ॥

祭祀、布施、苦行、诵习、誓戒与律仪——这一切皆以毁灭告终;而智慧没有终结。

14.44.22

तस्माज्ज्ञानेन शुद्धेन प्रशान्तात्मा जितेन्द्रियः ।
निर्ममो निरहंकारो मुच्यते सर्वपाप्मभिः ॥ १४.४४.२२ ॥

因此,以清净的智慧,心意寂静、制伏诸根,离我所与我慢,便能从一切罪恶中解脱。