摩诃婆罗多 · 章 14.45
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
14.45.1
बुद्धिसारं मनस्तम्भमिन्द्रियग्रामबन्धनम् ।
महाभूतारविष्कम्भं निमेषपरिवेष्टनम् ॥ १४.४५.१ ॥
它是智慧的精髓,是心的支柱,是束缚诸根之群的绳索,是大种辐条的支撑,被瞬息所环绕。
14.45.2
जराशोकसमाविष्टं व्याधिव्यसनसञ्चरम् ।
देशकालविचारीदं श्रमव्यायामनिःस्वनम् ॥ १४.४५.२ ॥
它为衰老与悲忧所笼罩,在疾病与灾难中流转,考量处所与时间,并发出劳作与操劳的声响。
14.45.3
अहोरात्रपरिक्षेपं शीतोष्णपरिमण्डलम् ।
सुखदुःखान्तसंश्लेषं क्षुत्पिपासावकीलकम् ॥ १४.४५.३ ॥
它被昼夜环绕,被寒热围成圆环,与苦乐的终端相连,并以饥渴之钉固定。
14.45.4
छायातपविलेखं च निमेषोन्मेषविह्वलम् ।
शोकमोहजराकीर्णं वर्तमानमचेतनम् ॥ १४.४५.४ ॥
它被光影的纹路所刻画,为眨眼与睁眼所迷乱,满布忧悲、迷惑与衰老,存在却无知觉。
14.45.5
मासार्धमासगुणितं विषमं लोकसञ्चरम् ।
तमोनिचयपङ्कं च रजोवेगप्रवर्तकम् ॥ १४.४५.५ ॥
以月与半月相乘,参差不齐,行走于诸世界,是黑暗堆积的泥淖,是激发罗阇之冲力的推动者。
14.45.6
सत्त्वालङ्कारदीप्तं च गुणसंघातमण्डलम् ।
विरतिग्रहणाभीकं शोकसंहारवर्तनम् ॥ १४.४५.६ ॥
以善性之饰而光明,是诸德聚合的圆环,畏惧止息与执取,是灭除忧悲的运行。
14.45.8
भयमोहपरीवारं भूतसंमोहकारकम् ।
आनन्दप्रीतिचारं च कामक्रोधपरिग्रहम् ॥ १४.४५.८ ॥
被恐惧与迷惑所环绕,使众生昏乱,行于喜悦与欢愉之中,并执持欲望与愤怒。
14.45.9
महदादिविशेषान्तमव्यक्तं प्रभवाप्ययम् ।
मनोजवनमश्रान्तं कालचक्रं प्रवर्तते ॥ १४.४५.९ ॥
未显者延伸至从大觉开始的诸具体形态,为生灭之源,迅速如意念,永不止息——时轮转动。
14.45.10
एतद्द्वन्द्वसमायुक्तं कालचक्रमचेतनम् ।
विसृजेत्संक्षिपेच्चापि बोधयेत्स्वापयेज्जगम् ॥ १४.४५.१० ॥
这与诸对立相结合的无意识时轮,可以放出、收摄,也可以唤醒或使世界沉睡。
14.45.11
कालचक्रप्रवृत्तिं च निवृत्तिं चैव तत्त्वतः ।
यस्तु वेद नरो नित्यं न स भूतेषु मुह्यति ॥ १४.४५.११ ॥
若人如实而常知时轮的前行与回转,便不会在众生之中迷惑。
14.45.12
विमुक्तः सर्वसङ्क्लेशैः सर्वद्वन्द्वातिगो मुनिः ।
विमुक्तः सर्वपापेभ्यः प्राप्नोति परमां गतिम् ॥ १४.४५.१२ ॥
摆脱一切烦恼,超越诸对立的牟尼,摆脱一切罪恶,便得至最高之境。
14.45.13
गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः ।
चत्वार आश्रमाः प्रोक्ताः सर्वे गार्हस्थ्यमूलकाः ॥ १४.४५.१३ ॥
居家者、梵行学生、林居者,然后是乞士——宣说了四种行时,它们都以居家生活为根本。
14.45.14
क्रियाकारणसंयुक्तं रागविस्तारमायतम् ।
लोभेप्सापरिविक्षोभं विविक्तज्ञानसम्भवम्
यः कश्चिदिह लोकेऽस्मिन्नाश्रमः परिकीर्तितः ।
तस्यान्तगमनं श्रेयः कीर्तिरेषा सनातनी ॥ १४.४५.१४ ॥
此世所宣说的任何一种生活阶段,与行动和因缘相连,因贪爱的扩展而延伸,因贪欲与渴望而动荡,生于纯净的知识;抵达其终点便是至善,这便是永恒的荣耀。
14.45.15
संस्कारैः संस्कृतः पूर्वं यथावच्चरितव्रतः ।
जातौ गुणविशिष्टायां समावर्तेत वेदवित् ॥ १४.४५.१५ ॥
先经过净化礼仪如法净化,依法奉持誓愿,生于以德行殊胜的种姓之中,通晓吠陀者应当归家。
14.45.16
स्वदारनिरतो नित्यं शिष्टाचारो जितेन्द्रियः ।
पञ्चभिश्च महायज्ञैः श्रद्दधानो यजेदिह ॥ १४.४५.१६ ॥
常常专一于自己的妻子,遵循贤者的行为,克制诸根,怀着信心,在此以五大祭祀行祭。
14.45.17
देवतातिथिशिष्टाशी निरतो वेदकर्मसु ।
इज्याप्रदानयुक्तश्च यथाशक्ति यथाविधि ॥ १४.४५.१७ ॥
食用供奉诸神与宾客之后所余的食物,专注于吠陀的祭仪,致力于祭祀与布施,依其能力,依其规定而行。
14.45.18
न पाणिपादचपलो न नेत्रचपलो मुनिः ।
न च वागङ्गचपल इति शिष्टस्य गोचरः ॥ १४.४५.१८ ॥
圣者手足不躁动,眼睛不躁动,言语与肢体也不躁动;这便是贤者的行为范围。
14.45.19
नित्यं यज्ञोपवीती स्याच्छुक्लवासाः शुचिव्रतः ।
नियतो यमदानाभ्यां सदा शिष्टैश्च संविशेत् ॥ १४.४५.१९ ॥
应当常常佩戴圣线,身着白衣,持守清净的誓愿,以克制与布施自我约束,并且常常与贤者相处。
14.45.20
जितशिश्नोदरो मैत्रः शिष्टाचारसमन्वितः ।
वैणवीं धारयेद्यष्टिं सोदकं च कमण्डलुम् ॥ १४.४५.२० ॥
克服欲望与腹欲、心怀慈善、具备贤者行为的人,应持竹杖和盛水的净瓶。
14.45.21
त्रीणि धारयते नित्यं कमण्डलुमतन्द्रितः ।
एकमाचमनार्थाय एकं वै पादधावनम्।
एकं शौचविधानार्थमित्येतत्त्रितयं तथा ॥ १४.४५.२१ ॥
不懈怠者应常备三只净瓶:一只用于漱口,一只用于洗足,一只用于净身之仪;此三者即是。
14.45.22
अधीत्याध्यापनं कुर्यात्तथा यजनयाजने ।
दानं प्रतिग्रहं वाऽपि षङ्गुणां वृत्तिमाचरेत् ॥ १४.४५.२२ ॥
学习之后应当教授;同样应当主持和参与祭祀,施舍与受施。如此应行六种生计之道。
14.45.23
त्रीणि कर्माणि जानीत ब्राह्मणानां तु जीविकाः ।
याजनाध्यापने चोभे शुद्धाच्चापि प्रतिग्रहः ॥ १४.४५.२३ ॥
应知婆罗门的生计有三种职事:主持祭祀与教授二者,以及受取清净者的施舍。
14.45.24
अथ शेषाणि चान्यानि त्रीणि कर्माणि यानि तु ।
दानमध्ययनं यज्ञो धर्मयुक्तानि तानि तु ॥ १४.४५.२४ ॥
其余三种职事——布施、学习与祭祀——皆与法相应。
14.45.25
तेष्वप्रमादं कुर्वीत त्रिषु कर्मसु धर्मवित् ।
दान्तो मैत्रः क्षमायुक्तः सर्वभूतसमो मुनिः ॥ १४.४५.२५ ॥
知法者应在这三种职事中不懈怠,克己、慈善、有忍辱,并对一切众生平等的牟尼。
14.45.26
सर्वमेतद्यथाशक्ति विप्रो निर्वर्तयञ्शुचिः ।
एवं युक्तो जयेत्स्वर्गं गृहस्थः संशितव्रतः ॥ १४.४५.२६ ॥
清净的婆罗门依其能力完成这一切,如此坚守,持坚定誓愿的居家者便能赢得天界。