摩诃婆罗多 · 章 14.46
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
14.46.1
एवमेतेन मार्गेण पूर्वोक्तेन यथाविधि ।
अधीतवान्यथाशक्ति तथैव ब्रह्मचर्यवान् ॥ १४.४६.१ ॥
如此,依照前述之道,依规定并量力学习,同样持守梵行。
14.46.2
स्वधर्मनिरतो विद्वान्सर्वेन्द्रिययतो मुनिः ।
गुरोः प्रियहिते युक्तः सत्यधर्मपरः शुचिः ॥ १४.४६.२ ॥
博学的圣人,专注于自己的职责,控制一切感官,努力使师长喜悦并获益,坚守真理与法,清净。
14.46.3
गुरुणा समनुज्ञातो भुञ्जीतान्नमकुत्सयन् ।
हविष्यभैक्ष्यभुक् चापि स्थानासनविहारवान् ॥ १४.४६.३ ॥
得到师长允许后方可进食,且不贬斥食物;应食用奉献的酥油饭或乞食,并在站立、坐卧与行走中保持节制。
14.46.4
द्विकालमग्निं जुह्वानः शुचिर्भूत्वा समाहितः ।
धारयीत सदा दण्डं बैल्वं पालाशमेव वा ॥ १४.४६.४ ॥
每日两次向火中献供,保持清净与专一,应时常持带用菩提木(bilva)或palāśa木制成的杖。
14.46.5
क्षौमं कार्पासिकं वाऽपि मृगाजिनमथापि वा ।
सर्वं काषायरक्तं वा वासो वाऽपि द्विजस्य ह ॥ १४.४६.५ ॥
再生者的衣服应为丝绸或棉布,或为鹿皮,或整件染成赭红色。
14.46.6
मेखला च भवेन्मौञ्जी जटो नित्योदकस्तथा ।
यज्ञोपवीती स्वाध्यायी अलुप्तनियतव्रतः ॥ १४.४६.६ ॥
腰带应为munja草所制;应留结发,每日以水沐浴;佩戴圣线,专心自修,不间断地持守规定的誓戒。
14.46.7
पूताभिश्च तथैवाद्भिः सदा दैवततर्पणम् ।
भावेन नियतः कुर्वन्ब्रह्मचारी प्रशस्यते ॥ १४.४६.७ ॥
若以清净之水常如是祭祀诸神,以虔敬自制而行事,梵行者便受到赞美。
14.46.8
एवं युक्तो जयेत्स्वर्गमूर्ध्वरेताः समाहितः ।
न संसरति जातीषु परमं स्थानमाश्रितः ॥ १४.४६.८ ॥
如此专注,精气上行,心意集中,便能征服天界;依止于至高之境,便不在诸生中流转。
14.46.9
संस्कृतः सर्वसंस्कारैस्तथैव ब्रह्मचर्यवान् ।
ग्रामान्निष्क्रम्य चारण्ये मुनिः प्रव्रजितो वसेत् ॥ १४.४६.९ ॥
以一切礼仪成就,同样持守梵行,离开村落,在森林中作为出家的苦行贤者而居住。
14.46.10
चर्मवल्कलसंवासी सायं प्रातरुपस्पृशेत् ।
अरण्यगोचरो नित्यं न ग्रामं प्रविशेत्पुनः ॥ १४.४६.१० ॥
身披兽皮与树皮,晨昏都应漱口净身;以林中所产为食,永不再入村落。
14.46.11
अर्चयन्नतिथीन्काले दद्याच्चापि प्रतिश्रयम् ।
फलपत्रावरैर्मूलैः श्यामाकेन च वर्तयन् ॥ १४.४६.११ ॥
适时礼敬客人,也应给予住所,以果实、树叶、根茎和小米维持生计。
14.46.12
स नित्यमुदकं वायुं सर्वं वानेयमाश्रयेत् ।
प्राश्नीयादानुपूर्व्येण यथादीक्षमतन्द्रितः ॥ १४.४६.१२ ॥
他应常以水、空气及林中所生之物为依托,依其誓愿,按次序进食,不懈怠。
14.46.13
समूलफलशाकाद्यैरर्चेदतिथिमागतम् ।
यद्भक्षः स्यात्ततो दद्याद्भिक्षां नित्यमतन्द्रितः ॥ १४.४६.१३ ॥
应以根、果、菜蔬等供养来到的客人;无论自己所食为何,都应不懈怠地常施舍食物。
14.46.14
देवतातिथिपूर्वं च सदा प्राश्नीत वाग्यतः ।
अस्कन्दितमनाश्चैव लघ्वाशी देवताश्रयः ॥ १४.४६.१४ ॥
先供奉诸神与客人,常时守口,心不动摇,少食,并依止诸神。
14.46.15
दान्तो मैत्रः क्षमायुक्तः कशाञ्शमश्रु च धारयन् ।
जुह्वन्स्वाध्यायशीलश्च सत्यधर्मपरायणः ॥ १४.४६.१५ ॥
当自制、慈友、有忍辱,蓄发与须,行祭火供,专心诵习,以真实与法为依归。
14.46.16
न्यस्तदेहः सदा दक्षो वननित्यः समाहितः ।
एवं युक्तो जयेत्स्वर्गं वानप्रस्थो जितेन्द्रियः ॥ १४.४६.१६ ॥
舍弃身体的执著,常处敏捷,恒住林中,心意专一,如此修持,调伏诸根的林栖者便能得生天界。
14.46.17
गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथवा पुनः ।
य इच्छेन्मोक्षमास्थातुमुत्तमां वृत्तिमाश्रयेत् ॥ १४.४६.१७ ॥
无论在家、梵行或再为林栖,凡欲求解脱者,应依止最上之行法。
14.46.18
अभयं सर्वभूतेभ्यो दत्त्वा नैष्कर्म्यमाचरेत् ।
सर्वभूतहितो मैत्रः सर्वेन्द्रिययतो मुनिः ॥ १४.४६.१८ ॥
施一切众生以无畏,应修行无为;作为一切众生的利益者、慈友,并调摄一切诸根的牟尼。
14.46.19
अयाचितमसंक्लृप्तमुपपन्नं यदृच्छया ।
कृत्वा प्राह्णे चरेद्भैक्ष्यं विधूमे भुक्तवज्जने ॥ १४.४६.१९ ॥
不求而得、非预先安排、偶然所得,取之后,应在上午、炊烟散尽、人们用过餐之时去乞食。
14.46.20
वृत्ते शरावसम्पाते भैक्ष्यं लिप्सेत मोक्षवित् ।
लाभेन च न हृष्येत नालाभे विमना भवेत्।
न चातिभिक्षां भिक्षेत केवलं प्राणयात्रिकः ॥ १४.४६.२० ॥
时辰到了,乞食的钵盂响起之时,知解脱者应去乞食。得之不应欢喜,不得之不应心伤。唯为维持生命而活的人,不应过多乞食。
14.46.21
यात्रार्थी कालमाकाङ्क्षंश्चरेद्भैक्ष्यं समाहितः ।
लाभं साधारणं नेच्छेन्न भुञ्जीताभिपूजितः ॥ १४.४६.२१ ॥
唯求维持生命之人,应待合适时机,心意专一地去乞食。不应贪求普通的所得;即使受到尊敬,也不应进食。
14.46.22
अभिपूजितलाभाद्वि विजुगुप्सेत भिक्षुकः ।
भुक्तान्यन्नानि तिक्तानि कषायकटुकानि च ॥ १४.४६.२२ ॥
乞食之人应厌恶以礼敬所得的供养。所吃的食物会变得苦、涩、辛。
14.46.23
नास्वादयीत भुञ्जानो रसांश्च मधुरांस्तथा ।
यात्रामात्रं च भुञ्जीत केवलं प्राणधारणम् ॥ १४.४६.२३ ॥
进食时不应贪享甘甜的滋味。只应进食维持生命之旅所需的分量,仅为维持气息。
14.46.24
असंरोधेन भूतानां वृत्तिं लिप्सेत मोक्षवित् ।
न चान्यमन्नं लिप्सेत भिक्षमाणः कथञ्चन ॥ १४.४६.२४ ॥
知解脱者应寻求生计,不妨碍众生。乞食之时,不应以任何方式另求他食。
14.46.25
न सन्निकाशयेद्धर्मं विविक्ते चारजाश्चरेत् ।
शून्यागारमण्यं वा वृक्षमूलं नदीं तथा ॥ १४.४६.२५ ॥
不应显示法义;应在僻静处漫游。应住在空屋、静修处、树根下,或河边。
14.46.26
प्रतिश्रयार्थं सेवेत पार्वतीं वा पुनर्गुहाम् ।
ग्रामैकरात्रिको ग्रीष्मे वर्षास्वेकत्र वा वसेत् ॥ १४.४६.२६ ॥
为求栖身,应依托山岳或洞穴;在村庄只住一夜,夏季应漫游,雨季则应居于一处。
14.46.27
अध्वा सूर्येणि निर्दिष्टः कीटवच्च चरेन्महीम् ।
दयार्तं चैव भूतानां समीक्ष्य पृथिवीं चरेत् ॥ १४.४६.२७ ॥
沿着太阳所指的道路,应像虫子一样行走于大地;因怜悯众生而心怀忧伤,应仔细看清大地而行。
14.46.28
सञ्चयांश्च न कुर्वीत स्नेहवासं च वर्जयेत् ।
पूताभिरद्भिर्नित्यं वै कार्यं कुर्वीत मोक्षवित् ॥ १४.४६.२८ ॥
不应囤积,应避免眷恋家室;知解脱者应常以清净之水行其所当行之事。
14.46.29
उपस्पृशेदुद्दृताभिरद्भिश्च पुरुषः सदा ।
अहिंसा ब्रह्मचर्यं च सत्यमार्जवमेव च ॥ १४.४६.२९ ॥
人应常以过滤的净水漱口净身;还应守不杀、梵行、诚实与正直。
14.46.30
अक्रोधश्चानसूया च दमो नित्यमपैशुनम् ।
अष्टस्वेतेषु युक्तः स्याद्व्रतेषु नियतेन्द्रियः ॥ १४.४६.३० ॥
无怒、无嫉、克己,常无谗言;应专心于这八种戒律,使诸根受制约。
14.46.31
अपापमशठं वृत्तमजिह्मं नित्यमाचरेत् ।
जोषयेत सदा भोज्यं ग्रासमागतमस्पृहः ॥ १४.४६.३१ ॥
应始终行为无罪、无欺、正直,并且无欲地接受所来到的食物一口。
14.46.32
यात्रामात्रं च भुञ्जीत केवलं प्राणयात्रिकम् ।
धर्मलब्धमथाश्नीयान्न काममनुवर्तयेत् ॥ १४.४६.३२ ॥
只应进食以维持生命之旅所需,食用依法所得之物,不随欲望而行。
14.46.33
ग्रासादाच्छादनादन्यन्न गृह्णीयात्कथञ्चन ।
यावदाहारयेत्तावत्प्रतिगृह्णीत नाधिकम् ॥ १४.४६.३३ ॥
除食物一口和衣服外,绝不应以任何方式接受其他东西;所接受的只应与所食相当,不可更多。
14.46.34
परेभ्यो न प्रतिग्राह्यं न च देयं कदाचन ।
दैन्यभावाच्च भूतानां संविभज्य सदा बुधः ॥ १४.४६.३४ ॥
不应从他人处接受任何东西,也绝不应给予任何东西;但出于对众生困苦状况的悲悯,智者应当始终分享之后再享用。
14.46.35
नाददीत परस्वानि न गृह्णीयान्न याचयेत् ।
न किञ्चिद्विषयं भुक्त्वा स्पृहयेत्तस्य वै पुनः ॥ १४.४६.३५ ॥
不应取他人之财,不应接受,也不应乞求;享用任何感官对象之后,也不应再去渴望它。
14.46.36
मृदमापस्तथाऽन्नानि पत्रपुष्पफलानि च ।
असंवृतानि गृह्णीयात्प्रवृत्तानि च कार्यवान् ॥ १४.४६.३६ ॥
土、水、食物、树叶、花和果实——那些未被围护、自然生长的——有需要的人可以取用。
14.46.37
न शिल्पजीविकां जीवेद्द्विरन्नं नोत कामयेत् ।
न द्वेष्टा नोपदेष्टा च भवेच्च निरुपस्कृतः ॥ १४.४६.३७ ॥
不应以技艺谋生,也不应贪求第二餐;不应心怀憎恨,也不应好为人师,行为也不应矫饰。
14.46.38
श्रद्धापूतानि भुञ्जीत निमित्तानि च वर्जयेत् ।
मुधावृत्तिरसक्तश्च सर्वभूतैरसंधितः ॥ १४.४६.३८ ॥
应食以信心净化之食物,避免占卜征兆;以不求而得为生,无所执著,不与任何众生订立约定。
14.46.39
आशीर्युक्तानि सर्वाणि हिंसायुक्तानि यानि च ।
लोकसङ्ग्रहधर्मं च नैव कुर्यान्न कारयेत् ॥ १४.४६.३९ ॥
凡与求报相关的一切行为、与伤害相关的行为,以及维系世间的职责,既不应自己去做,也不应使他人去做。
14.46.40
सर्वभावानतिक्रम्य लघुमात्रः परिव्रजेत् ।
समः सर्वेषु भूतेषु स्थावरेषु चरेषु च ॥ १४.४६.४० ॥
超越一切存在的状态,携带极少财物,作为出家者游行,对一切众生,无论静止或运动,都应一视同仁。
14.46.41
परं नोद्वेजयेत्कञ्चिन्न च कस्यचिदुद्विजेत् ।
विश्वास्यः सर्वभूतानामग्र्यो मोक्षविदुच्यते ॥ १४.४६.४१ ॥
不应使任何人惊扰,也不应被任何人惊扰。被称为对一切众生可信赖的、最上的、通晓解脱之人。
14.46.42
अनागतं च न ध्यायेन्नातीतमनुचिन्तयेत् ।
वर्तमानमुपेक्षेत कालाकाङ्क्षी समाहितः ॥ १४.४६.४२ ॥
不应思念未来,也不应反复追忆过去。应忽视当下,等待适当的时机,心意专一安定。
14.46.43
न चक्षुषा न मनसा न वाचा दूषयेत्क्वचित् ।
न प्रत्यक्षं परोक्षं वा किञ्चिद्दुष्टं समाचरेत् ॥ १४.४६.४३ ॥
不以眼,不以心,不以言,永不诋毁任何人;无论当面或背后,都不可做任何恶事。
14.46.44
इन्द्रियाण्युपसंहृत्य कूर्मोऽङ्गानीव सर्वशः ।
क्षीणेन्द्रियमनोबुद्धिर्निरीहः सर्वतत्त्ववित् ॥ १४.४६.४४ ॥
如龟收敛其肢体于四面,收摄诸根,根、意、觉皆已消减,无所欲求,通晓一切真理。
14.46.45
निर्द्वन्द्वो निर्नमस्कारो निःस्वाहाकार एव च ।
निर्ममो निरहङ्कारो निर्योगक्षेम आत्मवान् ॥ १४.४६.४५ ॥
超越二元对立,不行礼敬,不行献祭,无我所,无我慢,无得失之忧,自制自持。
14.46.46
निराशीर्निर्गुणः शान्तो निरासक्तो निराश्रयः ।
आत्मसङ्गी च तत्त्वज्ञो मुच्यते नात्र संशयः ॥ १४.४६.४६ ॥
无欲求,超越三德,寂静,无执著,无所依,与自我相融,通晓真理者,必得解脱,此无疑也。
14.46.47
अपादपाणिपृष्ठं तदशिरस्कमनूदरम् ।
अभिन्नगुणकर्माणं केवलं विमलं स्थिरम् ॥ १४.४६.४७ ॥
无足、无手、无背;无首、无腹;于德与业不可分割,唯一、清净、恒常。
14.46.48
अगन्धमरसस्पर्शमरूपाशब्दमेव च ।
अनुगम्यमनासक्तममांसमपि चैव यत् ॥ १४.४६.४८ ॥
无香、无味、无触、无色、无声;可以依循,无执著,无肉身,即无形之实相。
14.46.49
निशअचिन्तमव्ययं दिव्यं गृहस्थमपि सर्वदा ।
सर्वभूतस्थमात्मानं ये पश्यन्ति न ते मृताः ॥ १४.४६.४९ ॥
那些始终见到自我——无忧、不坏、神圣、住于一切众生之中、即使身为居家者——的人,并非死者。
14.46.50
न तत्र क्रमते बुद्धिर्नेन्द्रियाणि न देवताः ।
वेदा यज्ञाश्च लोकाश्च न तपो न व्रतानि च ॥ १४.४६.५० ॥
彼处智慧不能进入,诸根与诸天也不能;吠陀、祭祀、诸世界、苦行与誓愿亦不能。
14.46.51
यत्र ज्ञानवतां प्राप्तिलिङ्गग्रहणा स्मृता ।
तस्मादलिङ्गधर्मज्ञो धर्मतत्त्वमुपाचरेत् ॥ १४.४६.५१ ॥
智者的证得被说为不执取标志,因此,知晓无标志法的人应当修行法的真谛。
14.46.52
गूढधर्माश्रितो विद्वान्विज्ञानचरितं चरेत् ।
अमूढो मूढरूपेण चरेद्धर्ममदूषयन् ॥ १४.४६.५२ ॥
依托隐秘之法的智者应行知识之行;虽不迷惑,却应以迷惑之相行走,且不污染法。
14.46.53
यथैनमवमन्येरन्परे सततमेव हि ।
तथावृत्तश्चरेच्छान्तः सतां धर्मानकुत्सयन् ॥ १४.४६.५३ ॥
正如他人常常轻视他,他应当如此平静地行事,不诋毁善人的法。
14.46.54
य एवं वृत्तसम्पन्नः स मुनिः श्रेष्ठ उच्यते ।
इन्द्रियाणीन्द्रियार्थांश्च महाभूतानि पञ्च च ॥ १४.४६.५४ ॥
如此具备善行者,被称为最上的牟尼——他已制服诸根、根境与五大。
14.46.55
मनो बुद्धिरहङ्कारमव्यक्तं पुरुषं तथा ।
एतत्सर्वं प्रसङ्ख्याय यथावत्तत्त्वनिश्चयात् ॥ १४.४६.५५ ॥
如实地分辨了意、觉、我慢、未显现者与原人,依据对诸原理的确定认知。
14.46.56
ततः स्वर्गमवाप्नोति विमुक्तः सर्वबन्धनैः ।
एतावदन्तवेलायां परिसङ्ख्याय तत्त्ववित् ॥ १४.४६.५६ ॥
此后,他脱离一切束缚而得生天;临终之际,知真理者如是完整地审察。
14.46.57
ध्यायेदेकान्तमास्थाय मुच्यतेऽथ निराश्रयः ।
निर्मुक्तः सर्वसङ्गेभ्यो वायुराकाशगो यथा ॥ १४.४६.५७ ॥
应当安住于独处而静修;然后无所依托,脱离一切执著而得解脱,如风行于虚空。
14.46.58
क्षीणकोशो निरातङ्कस्तथेदं प्राप्नुयात्परम् ॥ १४.४६.५८ ॥
外壳已消融、无所恐惧者,便如此得到那至上之境。