摩诃婆罗多 · 章 14.50
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
14.50.1
हन्त वः सम्प्रक्ष्यामि यन्मां पृच्छथ सत्तमाः ।
गुरुणा शिष्यमासाद्य यदुक्तं तन्निबोधत ॥ १४.५०.१ ॥
现在我将为你们完整解释你们所问的,诸位善人之最。请听учитель走近弟子时所说的话。
14.50.2
समस्तमिह तच्छ्रुत्वा सम्यगेवावधार्यताम् ।
अहिंसा सर्वभूतानामेतत्कृत्यतमं मतम् ॥ १४.५०.२ ॥
听完这里的一切,应当好好领会。对一切众生的不害,被认为是最重要的职责。
14.50.3
एतत्पदमनुद्विग्नं वरिष्ठं धर्मलक्षणम् ।
ज्ञानं निःश्रेय इत्याहुर्वृद्धा निश्चितदर्शिनः।
तस्माज्ज्ञानेन शुद्धेन मुच्यते सर्वकिल्बिषैः ॥ १४.५०.३ ॥
此境界无所扰动,最为殊胜,以法为标志。见解确定的长者称知识为至善。因此,借纯净的知识,人便从一切过失中解脱。
14.50.4
हिंसापराश्च ये केचिद्ये च नास्तिकवृत्तयः ।
लोभमोहसमायुक्तास्ते वै निरयगामिनः ॥ १४.५०.४ ॥
那些专事暴力、行为无信仰、充满贪欲与迷妄的人,必定堕入地狱。
14.50.5
आशीर्युक्तानि कर्माणि कुर्वते ये त्वतन्द्रिताः ।
तेऽस्मिन्लोके प्रमोदन्ते जायमानाः पुनः पुनः ॥ १४.५०.५ ॥
那些怀着求果之心而勤勉行事的人,在此世间欢喜,一次又一次地投生。
14.50.6
कुर्वते ये तु कर्माणि श्रद्धधाना विपश्चितः ।
अनाशीर्योगसंयुक्तास्ते धीराः साधुदर्शिनः ॥ १४.५०.६ ॥
而那些有信心、有智慧,不求果报而与瑜伽相应地行事的人,坚定不移,见解正确。
14.50.7
अतः परं प्रवक्ष्यामि सत्वक्षेत्रज्ञयोर्यथा ।
संयोगो विप्रयोगश्च तन्निबोधत सत्तमाः ॥ १४.५०.७ ॥
现在我将阐明萨埵与田知者如何结合与分离,诸位善人请听。
14.50.8
विषयो विषयित्वं च सम्बन्धोऽयमिहोच्यते ।
विषयी पुरुषो नित्यं सत्वं च विषयः स्मृतः ॥ १४.५०.८ ॥
此处说明对象与为对象之性的关系:人永远是受用者,萨埵被认为是对象。
14.50.9
व्याख्यातं पूर्वकल्पेनि मशकोदुम्बरं यथा ।
भुज्यमानं न जानीते नित्यं सत्वमचेतनम्।
यस्त्वेवं तं विजानीते यो भुङ्क्ते यश्च भुज्यते ॥ १४.५०.९ ॥
在前一劫中已以蚊与无花果为喻作了说明:萨埵虽被受用,却常是无意识的,不知;但知此者,即是受用者,也是被受用者。
14.50.10
अनित्यं द्वन्द्वसंयुक्तं सत्वमाहुर्मनीषिणः ।
निर्द्वन्द्वो निष्कलो नित्यः क्षेत्रज्ञो निर्गुणात्मकः ॥ १४.५०.१० ॥
智者说萨埵是无常的,且与对立之双相连;田知者则超越对立,无分,永恒,本性超出诸德。
14.50.11
समः संज्ञानुगश्चैव स सर्वत्र व्यवस्थितः ।
न सज्जते सदा सत्वमापः पुष्करपर्णवत् ॥ १४.५०.११ ॥
他平等无别,随顺觉知,遍住一切处;萨埵永不执着,如水不沾莲叶。
14.50.12
सर्वैरपि गुणैर्विद्वान्व्यतिषक्तो न लिप्यते ।
जलबिन्दुर्यथा लोलः पद्मिनीपत्रसंस्थितः ॥ १४.५०.१२ ॥
智者虽与一切诸德相混,却不被染污,如莲叶上颤动的一滴水珠。
14.50.13
एवमेवाप्यसंयुक्तः पुरुषः स्यान्न संशयः ।
द्रव्यमात्रमभूत्सत्वं पुरुषस्येति निश्चयः ॥ १४.५०.१३ ॥
同样,无染之人也成为如此,此无疑义。人的本质只成为了物质,这是定论。
14.50.14
यथा द्रव्यं च कर्ता च संयोगोऽप्यनयोस्तथा ।
यथा प्रदीपमादाय कश्चित्तमसि गच्छति।
तथा सत्त्वप्रदीपेन गच्छन्ति परमर्षयः ॥ १४.५०.१४ ॥
如物质与行为者及其结合一样,亦复如此。如人持灯入暗,诸大仙以本性之灯而行。
14.50.15
यावद्द्रव्यं गुणस्तावत्प्रदीपः सम्प्रकाशते ।
क्षीणे द्रव्ये गुणे ज्योतिरन्तर्धानाय गच्छति ॥ १४.५०.१५ ॥
只要物质与其品质犹存,灯便照明;物质与品质耗尽,光明便隐没。
14.50.16
व्यक्तः सत्वगुणस्त्वेवं पुरुषो द्रव्यमुच्यते ।
एतद्विप्रा विजानीत हन्त भूयो ब्रवीमि वः ॥ १४.५०.१६ ॥
显现的本性之德,因此被称为人之物质。诸婆罗门,当知此理;我再对你们说。
14.50.17
सहस्रेणापि दुर्मेधा न बुद्धिमधिगच्छति ।
चतुर्थेनाप्यथांशेन बुद्धिमान्सुखमेधते ॥ १४.५०.१७ ॥
即使千次(教诲),愚钝之人亦不得智慧;智者仅以四分之一便在安乐中兴盛。
14.50.18
एवं धर्मस्य विज्ञेयं संसाधनमुपायतः ।
उपायज्ञो हि मेधावी सुखमत्यन्तमश्नुते ॥ १४.५०.१८ ॥
如此,法之成就应依方法而知;知方法的智者得至极之安乐。
14.50.19
यथाऽध्वानमपाथेयः प्रपन्नो मनुजः क्वचित् ।
क्लेशेन याति महता विनश्यत्यन्तराऽपि च ॥ १४.५०.१९ ॥
如同人无干粮而踏上某条路,只能历经极大艰辛前行,甚至半途而亡,
14.50.20
तथा कर्मसु विज्ञेयं फलं भवति वा न वा ।
पुरुषस्यात्मनिःश्रेयः शुभाशुभनिदर्शनम् ॥ १४.५०.२० ॥
同样,在行动中应当知道是否会有果报;人自身的至善,由善与恶的征兆所显示。
14.50.21
यथा च दीर्घमध्वानं पद्म्यामेव प्रपद्यते ।
अदृष्टपूर्वं सहसा तत्त्वदर्शनवर्जितः ॥ १४.५०.२१ ॥
又如人徒步忽然踏上一条从未见过的长路,缺乏真知见者也是如此。
14.50.22
तमेव च यथाऽध्वानं रथेनेहाशुगामिना ।
गच्छत्यश्वप्रयुक्तेन तथा बुद्धिमतां गतिः ॥ १४.५०.२२ ॥
如同人乘着由快马拉动的战车走过同一条路,智者的行进也是如此。
14.50.23
ऊर्ध्वं पर्वतमारुह्य नान्ववेक्षेत भूतलम् ।
रथेन रथिनं पश्येत्क्लिश्यमानमचेतनम् ॥ १४.५०.२३ ॥
登上山顶之后,不应俯视大地;应从车上看那位坐车者,他正受苦且失去知觉。
14.50.24
यावद्रथपथस्तावद्रथेन स तु गच्छति ।
क्षीणे रथपदे विद्वान्रथमुत्सृज्य गच्छति ॥ १४.५०.२४ ॥
只要有车道,他便乘车前行;但车道尽头时,智者便舍弃车辆,继续前行。
14.50.25
एवं गच्छति मेधावी तत्त्वयोगविधानवित् ।
परिज्ञाय गुणज्ञश्च उत्तरादुत्तरोत्तरम् ॥ १४.५०.२५ ॥
智者如此前行,通晓真理瑜伽之法,已充分了解诸德,从一个更高的境界走向更高的境界。
14.50.26
यथाऽर्णवं महाघोरमप्लवः सम्प्रगाहते ।
बाहुभ्यामेव सम्मोहाद्वधं वाञ्छत्यसंशयम् ॥ १४.५०.२६ ॥
如同没有船只的人,因迷惑而仅凭双臂扑入极其可怕的大海,无疑是在求死。
14.50.27
नावा चापि यथा प्राज्ञो विभागज्ञः स्वरित्रया ।
अश्रान्तः सलिलं गहाच्छीध्रं संतरते ह्रदम् ॥ १४.५०.२७ ॥
如同通晓区分的智者,借助好的船桨与船只,不倦地迅速渡过深水,他也如此渡过这池水。
14.50.28
तीर्णो गच्छेत्परं पारं नावमुत्सृज्य निर्ममः ।
व्याख्यातं पूर्वकल्पेन यथा रथपदातिनोः ॥ १४.५०.२८ ॥
渡过之后,舍弃船只,无我无所执,应当走向彼岸,正如先前所说的车战者与步兵的道理。
14.50.29
स्नेहात्सम्मोहमापन्नो नावि दाशो यथा तथा ।
ममत्वेनाभिभूतः संस्तत्रैव परिवर्तते ॥ १४.५०.२९ ॥
因爱恋而陷入迷惑,如同船中的船夫,被“我所有”之念所制伏,便在那里打转。
14.50.30
नावं न शक्यमारुह्य स्थले विपरिवर्तितुम् ।
तथैव रथमारुह्य नाप्सु चर्या विधीयते ॥ १४.५०.३० ॥
不可能登上船只之后又在陆地上行走;同样,登上战车的人,也不被规定在水中行进。
14.50.31
एवं कर्म कृतं वित्त विषयस्थं पृथक्पृथक् ।
यथा कर्म कृतं लोके तथा तदुपपद्यते ॥ १४.५०.३१ ॥
如此,应知所作之业,住于诸境,各各不同。世间如何作业,其果便如何成就。
14.50.32
यन्नैव गन्धि नो रस्यं न रूपस्पर्सशब्दवत् ।
मन्यते न मनो बुद्ध्या तत्प्रधानं प्रचक्षते ॥ १४.५०.३२ ॥
无香、无味、无色、无触、无声,心以觉慧亦不能思之者,此称为原质(pradhāna)。
14.50.33
तत्र प्रधानमव्यक्तमव्यक्तस्य गुणो महान् ।
महप्रधानभूतस्य गुणोऽहङ्कार एव च ॥ १४.५०.३३ ॥
此中原质即是未显;未显之德是大(mahat)。大原质所成之德,乃是我慢(ahaṅkāra)。
14.50.34
अहङ्कारात्तु सम्भूतो महाभूतकृतो गुणः ।
पृथक्त्वेन हि भूतानां विषया वै गुणाःस्मृताः ॥ १४.५०.३४ ॥
从我慢所生之德,由大种所作。对于众生而言,诸境与诸德被说为各各不同。
14.50.35
बीजधर्मं यथाऽव्यक्तं तथैव प्रसवात्मकम् ।
बीजधर्मा महानात्मा प्रसवश्चेति नः श्रुतम् ॥ १४.५०.३५ ॥
如未显具有种子之性,亦具有生起之性。大我(mahān ātman)具种子之性,其生起亦复如是——此乃我等所闻。
14.50.36
बीजधर्मात्साहङ्कारात्प्रसवश्च पुनःपुनः ।
बीजप्रसवधर्माणि महाभूतानि पञ्च वै ॥ १४.५०.३६ ॥
由种子之性与我慢,生起反复而起;具种子与生起之性的五大种,即是此等。
14.50.37
बीजधर्मिण इत्याहुः प्रसवं च प्रकुर्वते ।
विशेषाः पञ्चभूतानां तेषां वित्त विशेषणम् ॥ १४.५०.३७ ॥
据说它们具有种子的性质,并且能够产生生长。五大元素各有其特性;应当知道其区别的标志。
14.50.38
तत्रैकगुणमाकाशं द्विगुणो वायुरुच्यते ।
त्रिगुणं ज्योतिरित्याहुरापश्चापि चतुर्गुणाः ॥ १४.५०.३८ ॥
其中,虚空被说为具一德,风被说为具二德;光明据说具三德,水也具四德。
14.50.39
पृथ्वी पञ्चगुणा ज्ञेया चरस्थावरसङ्कुला ।
सर्वभूतकरी देवी शुभाशुभनिदर्शिनी ॥ १४.५०.३९ ॥
应当知道大地具有五种性质,充满动与不动的众生。她是创造一切众生的女神,显示吉与凶。
14.50.40
शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः ।
एते पञ्चगुणा भूमेर्विज्ञेया द्विजसत्तमाः ॥ १४.५०.४० ॥
声、触、色、味,以及第五种香,这些应当知道是地的五种性质,诸位再生者中的最上者。
14.50.41
पार्थिवश्च सदा गन्धो गन्धश्च बहुधा स्मृतः ।
तस्य गन्धस्य वक्ष्यामि विस्तरेण बहून्गुणान् ॥ १४.५०.४१ ॥
土的香气常在,香气被说为有多种。我将详细地讲述那香气的诸多性质。
14.50.42
इष्टश्चानिष्टगन्धश्च मधुरोऽम्लः कटुस्तथा ।
निर्हारी संहतः स्निग्धो रूक्षो विशद एव च ॥ १४.५०.४२ ॥
可意与不可意之香,甘、酸、辛亦然;散、聚、滑、涩与清澈亦然。
14.50.43
एवं दशविधो ज्ञेयः पार्थिवो गन्ध इत्युत ।
शब्दः स्पर्शस्तथा रूपं द्रवश्चापां गुणाः स्मृताः ॥ १४.५०.४३ ॥
如此,地之气味应知有十种。声、触、色、流动性,被认为是水的属性。
14.50.44
रसज्ञानं तु वक्ष्यामि रसस्तु बहुधा स्मृतः ।
मधुरोऽम्लः कटुस्तिक्तः कषायो लवणस्तथा ॥ १४.५०.४४ ॥
今我将讲味之知识。味被认为有多种:甘、酸、辛、苦、涩,还有咸。
14.50.45
एवं षड्विधविस्तारो रसो वारिमयः स्मृतः ।
शब्दः स्पर्शस्तथा रूपं त्रिगुणं ज्योतिरुच्यते ॥ १४.५०.४५ ॥
如此,六种味之展开被认为由水所成。光明被说为具三德:声、触、色。
14.50.46
ज्योतिषश्च गुणो रूपं रूपं च बहुधा स्मृतम् ।
शुक्लं कृष्णं तथा रक्तं नीलं पीतारुणं तथा ॥ १४.५०.४६ ॥
光之德为色,色被认为多样:白、黑、赤、青,以及黄赤。
14.50.47
ह्रस्वं दीर्घं कृशं स्थूलं चतुरश्राणुवृत्तकम् ।
एवं द्वादशविस्तारं तेजसो रूपमुच्यते ॥ १४.५०.४७ ॥
短、长、细、粗、方、小圆——如此,十二种展开之火的形状被宣说。
14.50.48
विज्ञेयं ब्राह्मणैर्वृद्धैर्धर्मज्ञैः सत्यवादिभिः ।
शब्दस्पर्शौ च विज्ञेयौ द्विगुणो वायुरुच्यते ॥ १४.५०.४८ ॥
此应由婆罗门、长者、知法者与诚实者所知。声与触应当知晓;风被说为具二德。
14.50.49
वायोश्चापि गुणः स्पर्शः स्पर्सश्च बहुधा स्मृतः ।
उष्णः शीतः सुखो दुःखः स्निग्धो विशद एव च ॥ १४.५०.४९ ॥
风的性质也是触,触有多种:热、冷、乐、苦、滑、涩。
14.50.50
कठिनश्चिक्वणः श्लक्ष्णः पिच्छिलो दारुणो मृदुः ।
एवं द्वादशविस्तारो वायव्यो गुण उच्यते ॥ १४.५०.५० ॥
坚、刺、滑、涩、猛、柔;如是风之德被说为十二种广延。
14.50.51
विधिवद्ब्राह्मणैः सिद्धैर्मन्त्रज्ञैस्तत्त्वदार्शिभिः ॥ १४.५०.५१ ॥
依法由婆罗门、成就者、通晓咒语者、洞见真实者。
14.50.52
तत्रैकगुणमाकाशं शब्द इत्येव च स्मृतः ।
तस्य शब्दस्यि वक्ष्यामि विस्तरेण बहून्गुणान् ॥ १४.५०.५२ ॥
虚空唯有一德,即声,如是传述;此声之诸多德,我当详说。
14.50.53
षड्जर्षभः सगान्धारो मध्यमः पञ्चमस्तथा ।
अतः परं तु विज्ञेयो निषादो धैवतस्तथा।
इष्टश्चानिष्टशब्दश्च संहतः प्रतिभानवान् ॥ १४.५०.५३ ॥
六音、rṣabha、gāndhāra、madhyama、pañcama;此后当知niṣāda与dhaivata。悦耳与不悦耳之声,相合而富于表现。
14.50.54
एवं बहुविधो ज्ञेयः शब्द आकाशसम्भवः ।
आकाशमुत्तमं भूतमहङ्कारस्ततः परः ॥ १४.५०.५४ ॥
如是,由虚空所生之声应知有多种。虚空为最上之大种;其后为我慢。
14.50.55
अहङ्कारात्परा बुद्धिर्बुद्धेरात्मा ततः परः ।
तस्मात्तु परमव्यक्तमव्यक्तात्पुरुषः परः ॥ १४.५०.५५ ॥
高于我慢的是覺(buddhi);高於覺的是我(ātman)。再高於此的是最上之未顯現者,而高於未顯現者的是補盧沙(Puruṣa)。
14.50.56
परावरज्ञो भूतानां विधिज्ञः सर्वकर्मणाम् ।
सर्वभूतात्मभूतात्मा यं प्राप्यानन्त्यमश्नुते ॥ १४.५०.५६ ॥
通晓众生高下者,知晓一切业之法则者,成为一切众生之我的真我者——得之,便证得无限。