Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 14.51

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

14.51.1

भूतानामथ पञ्चानामथेषामीश्वरं मनः ।
नियमे च विसर्गे च भूतानां मन एव च ॥ १४.५१.१ ॥

心是五大及其主宰。在约束与创生中,众生之心正是(至上)。

14.51.2

अधिष्ठातृमनो नित्यं भूतानां महतां तथा ।
बुद्धिरैश्वर्यमाचष्टे क्षेत्रज्ञश्च स उच्यते ॥ १४.५१.२ ॥

心永远是众生与大种的主宰;觉(智)宣示其主权,而此者被称为知场者。

14.51.3

इनद्रियाणि मनो युङ्क्ते सदश्वानिव सारथिः ।
इन्द्रियाणि मनो बुद्धिः क्षेत्रज्ञे युज्यते सदा ॥ १४.५१.३ ॥

如御者驾驭良马,心驾驭诸根;诸根、心与觉恒常与知场者相应。

14.51.4

महदश्वसमायुक्तं बुद्धिसंयमनं रथम् ।
समारुह्य स भूतात्मा समन्तात्परिधावति ॥ १४.५१.४ ॥

登上以大马驾驭、以觉为缰的车,那众生之我四处奔驰。

14.51.5

इन्द्रियग्रामसंयुक्तो मनःसारथिरेव च ।
बुद्धिसंयमनो नित्यं महान्ब्रह्ममयो रथः ॥ १४.५१.५ ॥

与诸根之众相应、以心为御者、以觉为缰的大车,恒常是梵所成。

14.51.6

एवं यो वेत्ति विद्वान्वै सदा ब्रह्ममयं रथम् ।
स धीरः सर्वलोकेषु न मोहमधिगच्छति ॥ १४.५१.६ ॥

智者若如此常知梵所成之车,此坚定者在一切世界中不陷于迷惑。

14.51.7

अव्यक्तादिविशेषान्तं सहस्थावरजङ्गमम् ।
सूर्यचन्द्रप्रभालोकं ग्रहनक्षत्रमण्डितम् ॥ १४.५१.७ ॥

从未显者直到诸差别的终尽,连同不动与动,由日月之光照耀,以行星与星宿装饰。

14.51.8

नदीपर्वतजालैश्च सर्वतः परिभूषितम् ।
विविधाभिस्तथा चाद्भिः सततं समलंकृतम् ॥ १४.५१.८ ॥

四面以江河与山脉之网装饰,并常以种种水域庄严。

14.51.9

अजितं सर्वभूतानां सर्वप्राणभृतां गतिः ।
एतद्ब्रह्मवनं नित्यं तस्मिंश्चरति क्षेत्रवित् ॥ १४.५१.९ ॥

为一切众生所不可胜,为一切有命者之所归趣——此梵林常住,知田者行于其中。

14.51.10

लोकेऽस्मिन्यानि सत्वानि त्रसानि स्थावराणि च ।
तान्येवाग्रे प्रलीयन्ते पश्चाद्भूतकृता गुणाः।
गुणेभ्यः पञ्च भूतानि एष भूतसमुच्छ्रयः ॥ १४.५१.१० ॥

此世间所有动与不动的众生,先归于消融;此后由诸元素所生的诸德也归于消融。由诸德生出五大——这就是诸大元素的聚合。

14.51.11

देवा मनुष्या गन्धर्वाः पिशाचासुरराक्षसाः ।
सर्वे स्वभावतः सृष्टा न क्रियाभ्यो न कारणात् ॥ १४.५१.११ ॥

天神、人类、乾闼婆、毕舍遮、阿修罗与罗刹——凡此皆由自性所生,非由业行,亦非由某因。

14.51.12

एते विश्वसृजो विप्रा जायन्तीह पुनः पुनः ।
तेभ्यः प्रसूतास्तेष्वेव महाभूतेषु पञ्चसु।
प्रलीयन्ते यथाकालमूर्मयः सागरे यथा ॥ १४.५१.१२ ॥

这些创造世界的仙人在此一再诞生;由他们所生,又于其时归于同样的五大元素之中,犹如波浪归于大海。

14.51.13

विश्वसृग्भ्यस्तु भूतेभ्यो महाभूतास्तु सर्वशः ।
भूतेब्यश्चापि पञ्चभ्यो भुक्तो गच्छेत्परां गतिम् ॥ १४.५१.१३ ॥

从世界创造者与众生中,大元素完全生起;由五大所享用者,当趣向至上之境。

14.51.14

प्रजापतिरिदं सर्वं मनसैवासृजत्प्रभुः ।
तथैव देवानृषयस्तपसा प्रतिपेदिरे ॥ १४.५१.१४ ॥

主宰者生主仅以意念创造了这一切;同样,诸天与仙人也通过苦行而证得。

14.51.15

तपसश्चानुपूर्व्येण फलमूलाशिनस्तथा ।
त्रैलोक्यं तपसा सिद्धाः पश्यन्तीह समाहिताः ॥ १४.५१.१५ ॥

依次修苦行,食果根者与成就者,同样以苦行并专注于此,得见三界。

14.51.16

औषधान्यगदादीनि नानाविद्याश्च सर्वशः ।
तपसैव प्रसिद्ध्यन्ति तपोमूलं हि साधनम् ॥ १४.५१.१६ ॥

草药、解毒之物等,以及种种学问,皆唯因苦行而成就;苦行乃成就之根本。

14.51.17

यद्दुरापं दुराम्नायं दुराधर्षं दुरन्वयम् ।
तत्सर्वं तपसा साध्यं तपो हि दुरतिक्रमम् ॥ १४.५१.१७ ॥

凡难得、难学于传承、难以抵挡、难以遵循者,皆可由苦行成就;苦行实乃难以超越。

14.51.18

सुरापो ब्रह्महा स्तेनो भ्रूणहागुरुतल्पगः ।
तपसैव सुतप्तेन मुच्यते किल्बिषात्ततः ॥ १४.५१.१८ ॥

饮酒者、杀婆罗门者、盗贼、杀胎者、染指师尊之床者——即便是他们,也因善修苦行而脱离罪过。

14.51.19

मनुष्याः पितरो देवाः पशवो मृगपक्षिणः ।
यानि चान्यानि भूतानि चराणि स्थावराणि च ॥ १४.५१.१९ ॥

人类、祖灵、诸神、牲畜、鹿与鸟,以及其他众生,动者与不动者。

14.51.20

तपःपरायणा नित्यं सिद्ध्यन्ते तपसा सदा ।
तथैव तपसा देवा महाभागा दिवं गताः ॥ १४.५१.२० ॥

常修苦行者,常以苦行而成就;同样,大福的诸神也因苦行而升往天界。

14.51.21

आशीर्युक्तानि कर्माणि कुर्वते ये त्वतन्द्रिताः ।
अहङ्कारसमायुक्तास्ते सकाशे प्रजापतेः ॥ १४.५१.२१ ॥

那些不知疲倦地行贪求之业、并怀有我慢的人,会去到主宰众生者之前。

14.51.22

ध्यानयोगेन शुद्वेन निर्ममा निरहंकृताः ।
आप्नुवन्ति महात्मानो महान्तं लोकमुत्तमम् ॥ १४.५१.२२ ॥

以清净的禅定瑜伽,离我所与我慢,大德者便得至那殊胜的广大世界。

14.51.23

ध्यानयोगमुपागम्य प्रसन्नमतयः सदा ।
सुखोपचयमव्यक्तं प्रविशन्त्यात्मवित्तमाः ॥ १४.५१.२३ ॥

依于禅定瑜伽,心常喜悦,知自我者中最殊胜的人,进入充满安乐的未显现者之中。

14.51.24

ध्यानयोगादुपागम्य निर्ममा निरहंकृताः ।
अव्यक्तं प्रविशन्तीह महतां लोकमुत्तमम् ॥ १४.५१.२४ ॥

依于禅定瑜伽,离我所与我慢,便于此进入未显现者,那是大德者的殊胜世界。

14.51.25

अव्यक्तादेव सम्भूताः समयज्ञा गताः पुनः ।
तमोरजोभ्यां निर्मुक्ताः सत्वमास्थाय केवलम् ॥ १४.५१.२५ ॥

他们只从未显者中生起,知晓适时,又重返彼处;脱离黑暗与激情,唯依于纯善(萨埵)。

14.51.26

निर्मुक्तः सर्वपापेभ्यः सर्वं त्यजति निष्कलः ।
क्षेत्रज्ञ इति तं विद्याद्यस्तं वेद स वेदवित् ॥ १४.५१.२६ ॥

脱离一切罪恶,舍弃一切,他是无分的(niṣkala)。应当知他为知场者(kṣetrajña);知他者,方是通晓吠陀之人。

14.51.27

चित्तं चित्तादुपागम्य मुनिरासीत संयतः ।
यच्चित्तस्तन्मना भूत्वा ग्राह्यमेतत्सनातनम् ॥ १४.५१.२७ ॥

以心趋近心,贤者应当制心而坐;使自心与所专注之物合一,便当领悟这永恒者。

14.51.28

अव्यक्तादिविशेषान्तमविद्यालक्षणं स्मृतम् ।
निबोधत तथा ज्ञानं गुणैर्लक्षणमित्युत ॥ १४.५१.२८ ॥

从未显者直至最后的差别,被称为无明之相;你应当明白。同样,智慧由诸德性来标示——此即其定义。

14.51.29

द्व्यक्षरस्तु भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम् ।
ममेति च भवेन्मृत्युर्न ममेति च शाश्वतम् ॥ १४.५१.२९ ॥

两个音节者为死亡,三个音节的梵是永恒的。说“我的”即是死亡;说“非我的”即是永恒。

14.51.30

कर्म केचित्प्रशंसन्ति मन्दबुद्धितया नराः ।
ये तु वृद्धा महात्मानो न प्रशंसन्ति कर्म ते ॥ १४.५१.३० ॥

有些人因为愚钝的智力而赞美业行;但那些年长而伟大的灵魂,并不赞美业行。

14.51.31

कर्मणा जायते जन्तुर्मूर्तिमान्षोडशात्मकः ।
पुरुषं ग्रसते विद्या तद्ग्राह्यममृताशिनम् ॥ १४.५१.३१ ॥

众生因业而生,具足形体,由十六部分构成。智慧攫取补鲁沙;它可以被把握,是享用甘露者。

14.51.32

तस्मात्कर्मसु निःस्नेहा ये केचित्पारदर्शिनः ।
विद्यामयोऽयं पुरुषो न तु कर्ममयः स्मृतः ॥ १४.५१.३२ ॥

因此,那些不执着于业、洞见彼岸的人说:此补鲁沙由智慧构成,而非由业构成。

14.51.33

य एवममृतं नित्यमग्राह्यं शश्वदक्षरम् ।
वश्यात्मानमसंश्लिष्टं यो वेद न मृतो भवेत् ॥ १४.५१.३३ ॥

若有人如此了知那不死、常住、不可执取、恒久、不灭、自我已调伏、不相附着者,他便不会死去。

14.51.34

अपूर्वमकृतं नित्यं य एनमविचारिणम् ।
य एवं विन्देदात्मानमग्राह्यममृताशनम्।
अग्राह्यो ह्यमृतो भवति स एभिः कारणैर्ध्रुवः ॥ १४.५१.३४ ॥

若有人如此将这无先例、无作、常住、不可思辨者认作自我,那享用甘露、不可执取者便成为不死的;由于这些缘故,他变得坚定。

14.51.35

आयोज्य सर्वसंस्कारान्संयम्यात्मानमात्मनि ।
स तद्ब्रह्म शुभं वेत्ति यस्माद्भूयो न विद्यते ॥ १४.५१.३५ ॥

他完成一切净化,将自我安住于自我之中加以调伏,便认识那吉祥的梵,超出其上者再无他物。

14.51.36

प्रसादे चैव सत्वस्य प्रसादं समवाप्नुयात् ।
लक्षणं हि प्रसादस्य यथा स्यात्स्वप्नदर्शनम् ॥ १४.५१.३६ ॥

在萨埵的清净中,人应当完全获得清净;清净的标志就如梦中所见。

14.51.37

गतिरेषा तु मुक्तानां ये ज्ञानपरिनिष्ठिताः ।
प्रवृत्तयश्च याः सर्वाः पश्यन्ति परिणामजाः ॥ १४.५१.३७ ॥

这是已解脱者之道,他们坚定地安住于知识之中;他们看见由变化所生的一切活动。

14.51.38

एषा गतिर्विरक्तानामेष धर्मः सनातनः ।
एषा ज्ञानवतां प्राप्तिरेतद्वृत्तमनिन्दितम् ॥ १४.५१.३८ ॥

这是离欲者之道,是永恒的法。这是智者的成就,是无可指责的行为。

14.51.39

समेन सर्वभूतेषु निस्पृहेण निराशिषा ।
शक्या गतिरियं गन्तुं सर्वत्र समदर्शिना ॥ १४.५१.३९ ॥

能以平等心对待一切众生、无贪求、无希望回报、处处平等看待的人,才能行走这条道路。

14.51.40

एतद्वः सर्वमाख्यातं मया विप्रर्षिसत्तमाः ।
एवमाचरत क्षिप्रं ततः सिद्धिमवाप्स्यथ ॥ १४.५१.४० ॥

诸位最优秀的婆罗门仙人啊,这一切我已为你们宣说。你们应迅速如此修行,那时便能获得成就。

14.51.41

इत्युक्तास्ते तु मुनयो गुरुणा ब्रह्मणा तथा ।
कृतवन्तो महात्मानस्ततो लोकमवाप्नुवन् ॥ १४.५१.४१ ॥

导师梵天如此告知后,那些大德的仙人照此而行,随后便到达了那个世界。

14.51.42

त्वमप्येतन्महाभाग मयोक्तं ब्रह्मणो वचः ।
सम्यगाचर शुद्धात्भंस्ततः सिद्धिमवाप्स्यसि ॥ १४.५१.४२ ॥

大福德者啊,梵天的这句话我已为你宣说;你也应善加修行,清净之人啊,那时你便能获得成就。

14.51.43

इत्युक्तः स तदा शिष्यो गुरुणा धर्ममुत्तमम् ।
चकार सर्वं कौन्तेय ततो मोक्षमवाप्तवान् ॥ १४.५१.४३ ॥

那弟子被老师如此吩咐后,完成了至上的法,昆蒂之子,于是得到了解脱。

14.51.44

कृतकृत्यश्च स तदा शिष्यः कुरुकुलोद्वह ।
तत्पदं समनुप्राप्तो यत्र गत्वा न शोचति ॥ १४.५१.४४ ॥

那弟子完成了使命,于是到达了那个境界,俱卢族的栋梁啊,到那里的人便不再悲伤。

14.51.45

को न्वसौ ब्राह्मणः कृष्ण कश्च शिष्यो जनार्दन ।
श्रोतव्यं चेन्मयैतद्वै तत्त्वमाचक्ष्व मे विभो ॥ १४.५१.४५ ॥

那婆罗门是谁,克里希那?那弟子是谁,阇那陀那?如果我应当听闻此事,那么,全能者啊,请把那真理告诉我。

14.51.46

अहं गुरुर्महाबाहो मनः शिष्य च विद्धि मे ।
त्वत्प्रीत्या गुह्यमेतच्च कथितं ते धनंजय ॥ १४.५१.४६ ॥

我是导师,大臂者啊;你应知心是我的弟子。出于对你的爱,阿周那,这秘密已经告诉了你。

14.51.47

मयि चेदस्ति ते प्रीतिर्नित्यं कुरुकुलोद्वह ।
अध्यात्ममेतच्छ्रुत्वा त्वं सम्यगाचर सुव्रत ॥ १४.५१.४७ ॥

如果你永远爱我,俱卢族的栋梁啊,那么听闻这内在教导之后,请完全地实践它,善持誓言者啊。

14.51.48

ततस्त्वं सम्यगाचीर्णो धर्मेऽस्मिन्नरिकर्शन ।
सर्वपापविनिर्मुक्तो मोक्षं प्राप्स्यसि केवलम् ॥ १४.५१.४८ ॥

那么,你完全实践此法之后,克敌者啊,脱离一切罪恶,你将获得唯一的解脱。

14.51.49

पूर्वमप्येतदेवोक्तं युद्धकाल उपस्थिते ।
मया तव महाबाहो तस्मादत्र मनः कुरु ॥ १४.५१.४९ ॥

大臂者啊,战斗时刻来临时,我早已这样对你说过;因此,你应当将心念专注于此。

14.51.50

मया तु भरतश्रेष्ठ चिरदृष्टः पिता प्रभुः ।
तमहं द्रष्टमिच्छामि सम्मते तव फल्गुन ॥ १४.५१.५० ॥

婆罗多中最优秀者啊,我已很久未见我的尊主父亲;法尔古那,若你允许,我愿去见他。

14.51.51

इत्युक्तवचनं कृष्णं प्रत्युवाच धनंजयः ।
यदिष्टं कुरु सर्वेषामीश्वरोऽस्मान्प्रपालय ॥ १४.५१.५१ ॥

克里希那如此说后,持财者(阿周那)回答道:请做大家所愿之事;主啊,请护佑我们。

14.51.52

नमस्ते सर्वलोकात्मन्नारायण परात्पर ।
मनोमलात्तपोशक्यं कर्म चाविद्यया हतम्। ॥ १४.५१.५२ ॥

敬礼你,那罗延,一切世界之自我,高于至高者;可由苦行成就的行为,因心之垢与无明而被毁灭。

14.51.53

दानमप्यर्थदोषेणि नाम तस्मात्कलौ स्मरेत् ।
यदि गन्तुं कृता बुद्धिर्वासुदेव नमोस्तु ते।
गच्छावो नगरं कृष्ण गजसाह्वयमद्य वै ॥ १४.५१.५३ ॥

即使布施也会因贪婪之过而被玷污,因此在迦利时代应当记住此理。婆苏提婆啊,若你已决意前往,敬礼你;克里希那啊,今日我们便去那名为象城的都城吧。

14.51.54

समेत्य तत्रि राजानं धर्मात्मानं युधिष्ठिरम् ।
समनुज्ञाप्य राजानं स्वां पुरीं यातुमर्हसि ॥ १४.५१.५४ ॥

在那里,与德行崇高的国王坚战相见,并得到国王的允许后,你应当返回自己的城邑。