摩诃婆罗多 · 章 14.96
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
14.96.1
अश्वमेधे पुरावृत्ते केशवं केशिसूदनम् ।
धर्मसंशयमुद्दिश्य किमपृच्छत्पितामहः ॥ १४.९६.१ ॥
往昔马祭之时,就一个关于法的疑问,祖父向杀死羅剎Keśin的Keśava问了什么?
14.96.2
पश्चिमेनाश्वमेधेन यदा स्नातो युधिष्ठिरः ।
तदा राजा नमस्कृत्य केशवं पुनरब्रवीत् ॥ १४.९६.२ ॥
在最后一次马祭之后,坚战沐浴完毕,于是国王向Keśava行礼,再次说道。
14.96.3
भववन्वैष्णवा धर्माः किंफलाः किंपरायणाः ।
किं धर्ममधिकृत्याथ भवतोत्पादिताः पुरा ॥ १४.९६.३ ॥
您先前为了何种法而宣说这些毗湿奴之法?它们结出什么果报,以何为最高归宿?
14.96.4
यदि तेहमनुग्राह्यः प्रियोस्मि मधुसूदन ।
श्रोतव्या यदि मे कृष्ण तन्मे कथय सुव्रत ॥ १४.९६.४ ॥
摩图苏陀那啊,若我值得您的恩惠,又为您所爱,若此事可以听闻,克里希那啊,善持誓愿者,请对我说吧。
14.96.5
पवित्रा किल ते धर्माः सर्वपापप्रणाशनाः ।
सर्वधर्मोत्तमाः पुण्या भगवंस्त्वन्मुखोद्गताः ॥ १४.९६.५ ॥
您的法确实清净,能灭除一切罪业,是诸法中最殊胜且有功德的,世尊啊,它们都出自您的口中。
14.96.6
याञ्श्रुत्वा ब्रह्महा गोघ्नो मातृहा गुरुतल्पगः ।
पाकर्भेदी कृतघ्नश्च सुरापो ब्रह्मविक्रयी ॥ १४.९६.६ ॥
凡闻听这些法的人,即便是杀婆罗门者、杀牛者、杀母者、淫师妻者、背信者、忘恩者、饮酒者、卖婆罗门智慧者——
14.96.7
मित्रविश्वासघाती च वीरहा भ्रूणहा तथा ।
तपोविक्रयिणश्चैव दानविक्रयिणस्तथा ॥ १४.९६.७ ॥
背叛朋友信任者、杀害英雄者、杀害胎儿者、贩卖苦行者,以及贩卖布施者。
14.96.8
आत्मविक्रमयिणो मूढा जीवेद्यश्च विकर्मभिः ।
पापाः शठा नैकृतिका डांभिका दूषकास्तथा ॥ १४.९६.८ ॥
出卖自身的愚人、以恶业谋生者、罪人、欺诈者、狡猾者、伪善者和诽谤者。
14.96.9
रसभेदकरा ये च ये च स्युर्ब्रह्मघातकाः ।
शूद्रप्रेष्यकराश्चोरा विप्रा ये च पुरोहिताः ॥ १४.९६.९ ॥
败坏滋味者、杀害婆罗门者、为首陀罗充当仆役者、盗贼,以及充当家庭祭司的婆罗门。
14.96.10
निक्षेपहारिणः स्त्रीघ्नास्तथा ये पारदारिकाः ।
एते चान्ये च पापा ये मुच्यन्तेतेऽपि किल्बिषात् ॥ १४.९६.१० ॥
盗取寄托之物者、杀害女子者、通奸者——这些人以及其他罪人,也都能从罪中解脱。
14.96.11
तानाचक्ष्व सुरश्रेष्ठ त्वद्भक्तस्य ममाच्युत ॥ १४.९६.११ ॥
至尊天神啊,不朽者啊,请为你的信徒我讲述他们。
14.96.12
इत्येवं कथिते देवे धर्मपुत्रेण संसदि ।
वसिष्ठाद्यास्तपोयुक्ता मुनयस्तत्वदर्शिनः ॥ १४.९६.१२ ॥
当天神在法王之子的集会中如此说完,以婆私吒为首的修苦行、洞见真理的仙人们都在场。
14.96.13
श्रोतुकामाः परं गुह्यं वैष्णवं धर्ममुत्तमम् ।
तथा भागवताश्चैव ततस्तं पर्यवारयन् ॥ १४.९६.१३ ॥
渴望听闻至上秘密、最高的毗湿奴法,诸婆伽梵信徒便围绕着他。
14.96.14
तत्वतस्तव भावेन पादमूलमुपागतम् ।
यदि जानासि मां भक्तं स्निग्धं वा भक्तवत्सल ॥ १४.९६.१४ ॥
爱护信徒的主啊,若您以您的心意真正知道我是来到您足下的信徒,或是您所亲爱的人……
14.96.15
धर्मगुह्यानि सर्वाणि वेत्तुमिच्छामि तत्वतः ।
धर्मान्कथय मे देव यद्यनुग्रहभागहम् ॥ १४.९६.१५ ॥
我想真实地了解一切法的秘密。天神啊,若我配得您的恩典,请为我讲说诸法。
14.96.16
श्रुता मे मानवा धर्मा वासिष्ठाः काश्यपास्तथा ।
गार्गीया गौतमीयाश्च तथा गोपालकस्य च ॥ १४.९६.१६ ॥
我曾听闻摩奴之法、婆悉吒与迦叶之法、伽尔伽与乔达摩之法,以及牧牛者之法。
14.96.17
पराशरकृताः पूर्वा मैत्रेयस्य च धीमतः ।
औमा माहेश्वराश्चैव नन्दिधर्माश्च पावनाः ॥ १४.९६.१७ ॥
波罗奢所作的古法,智者弥勒之法,以及乌玛、摩诃湿伐罗与难提的清净之法。
14.96.18
ब्रह्मणा कथिता ये च कौमाराश्च श्रुता मया ।
धूमायनकृता धर्माः काण्डवैश्वानरा अपि ॥ १४.९६.१८ ॥
梵天所说之法,我所闻的童子之法,烟行仙所作之法,以及坎达与伐舍婆那罗之法。
14.96.19
भार्गवा याज्ञवल्क्याश्च मार्कण्डेयकृता अपि ।
भारद्वाजकृता ये च बृहस्पतिकृताश्च ये ॥ १४.९६.१९ ॥
婆利古家族的、耶若伐ökya的、摩根德耶所作的、婆罗堕阇所作的、以及勃利诃娑缔所作的法,我也都听过。
14.96.20
कुणेश्च कुणिबाहोश्च विश्वामित्रकृताश्च ये ।
सुमन्तुजैमिनिकृताः शाकुनेयास्तथैव च ॥ १४.९६.२० ॥
匡尼与匡尼跋忽的、毗首密多罗所作的、苏满图与阇弥尼所作的,以及沙昆提耶的法,我也都听过。
14.96.21
पुलस्त्यपुलहोद्गीताः पावकीयास्तथैव च ।
अगस्त्यगीता मौद्गल्याः शाण्डिल्याः शलभायनाः ॥ १४.९६.२१ ॥
补罗底耶与补罗诃所歌咏的、波伐迦家族的、同样,阿伽斯提耶所歌咏的,以及毛德伽利耶、三底利耶与沙罗婆衍那的法,我也都听过。
14.96.22
वालखिल्यकृता ये च ये च सप्तर्षिभिस्तथा ।
आपस्तंबकृता धर्माः शङ्खस्य लिखितस्य च ॥ १४.९६.२२ ॥
伐罗迦利耶所作的、七仙所作的,同样,阿波斯檀巴所作的法,以及商佉与离尼多的法,我也都听过。
14.96.23
प्राजापत्यास्तथा याम्या माहेन्द्राश्च श्रुता मया ।
वैयाघ्रव्यासकीयाश्च विभण्डककृताश्च ये ॥ १४.९६.२३ ॥
我听过生主的法,同样,阎摩的法,因陀罗的法;伐呀格罗与毗耶娑迦的,以及毗梵达迦所作的,也都听过。
14.96.24
नारदीयाः श्रुता धर्माः कापोताश्च श्रुता मया ।
तथा विदुरवाक्यानि भृगोरङ्गिरसस्तथा ॥ १४.९६.२४ ॥
我听过那罗陀的法,也听过迦波多的法;同样,毗杜罗的言语,以及婆利古与安伽罗之言。
14.96.25
क्रौञ्चा मृदङ्गगीताश्च सौर्या हारीतकाश्च ये ।
ये पिशङ्गकृताश्चापि कातपायाः सुवालकाः ॥ १४.९६.२५ ॥
以鼓声歌唱的克劳ñca,太阳派与诃梨多迦,毕商伽所作者,以及迦陀波耶与苏跋罗迦。
14.96.26
उद्दालककृता धर्मा औशनस्यास्तथैव च ।
वैशंपायनगीताश्च ये चान्येऽप्येवमादितः ॥ १४.९६.२६ ॥
乌达拉迦所作的法,同样是乌舍那斯的法,毗舍衍那所唱的法,以及其他以此类推开始的法。
14.96.27
एतेभ्यः सर्वधर्मेभ्यो देव त्वन्मुखनिस्सृताः ।
पावनात्वात्पवित्रत्वाद्विशिष्टा इति मे मतिः ॥ १४.९६.२७ ॥
在这些法之上,神啊,从你口中出来的法更为殊胜,因为它们能净化且神圣——这是我的看法。
14.96.28
तस्माद्धि त्वां प्रपन्नस्य त्वद्भक्तस्य च केशव ।
युष्मदीयान्वरान्धर्मान्पुण्यान्कथय मेच्युत ॥ १४.९६.२८ ॥
因此,克舍婆啊,对于皈依你、又是你的信徒的我,请告诉我,阿周那啊(不坏者),你所有的功德之法与恩惠之法。
14.96.29
एवं पृष्टस्तु धर्मज्ञो धर्मपुत्रेण केशवः ।
उवाच धर्मान्सूक्ष्मार्थान्धर्मपुत्रस्य हर्षितः ॥ १४.९६.२९ ॥
法之子如此询问,知法者克舍婆欢喜,便向法之子讲说微妙义理的法。
14.96.30
एवं ते यस्य कौन्तेय यत्नो धर्मेषु सुव्रत ।
तस्य ते दुर्लभो लोके न कश्चिदपि विद्येत ॥ १४.९६.३० ॥
贡蒂之子啊,持善誓者,对于像你这样在法上如此努力的人,你在世间是罕见的;竟找不到任何人。
14.96.31
धर्मः श्रुतो वा दृष्टो वा कथितो वा कृतोपि वा ।
अनुमोदितो वा राजेन्द्र नयतीन्द्रपदं नरम् ॥ १४.९६.३१ ॥
噢,诸王之主,法无论是被听闻、被看见、被宣说、被实践,还是被认可,都能引导人抵达因陀罗之位。
14.96.32
धर्मः पिता च माता च धर्मो नाथः सुहृत्तथा ।
धर्मो भ्राता सखा चैव धर्मः स्वामी परंतप ॥ १४.९६.३२ ॥
法即是父,法即是母;法是保护者,也是朋友。法是兄弟,法是伴侣;噢,征服敌人者,法即是主人。
14.96.33
धर्मादर्थश्च कामश्च धर्माद्भोगाः सुखानि च ।
धर्मार्दैश्वर्यमेवाग्र्यं धर्मात्स्वर्गगतिः परा ॥ १४.९६.३३ ॥
从法而生利益与欲望;从法而生享受与快乐。从法而来至上的权势,从法而来至高的天界之行。
14.96.34
धर्मोयं सेवितः शुद्धस्त्रायते महतो भयात् ।
धर्माद्द्विजत्वं देवत्वं धर्मः पावयते नरम् ॥ १४.९६.३४ ॥
这纯净的法若被奉行,便能救人脱离大恐怖。从法而得再生者之位与神性;法使人清净。
14.96.35
यदा च क्षीयते पापं कालेन पुरुषस्य तु ।
तदा संजायते बुद्धिर्धर्मं कर्तुं युधिष्ठिर ॥ १४.९६.३५ ॥
当人的罪业随时间消减时,那时,噢,坚战,行法的智慧便会生起。
14.96.36
जन्मान्तरसहस्रैस्तु मनुष्यत्वं हि दुर्लभम् ।
तद्गत्वापीह यो धर्मं न करोति स्ववञ्चितः ॥ १४.९६.३६ ॥
即使经过千百次其他生命,人身仍难以获得;若在此已得人身却不行法,便是自欺。
14.96.37
कुत्सिता ये दरिद्राश्च विरूपा व्याधितास्तथा ।
परद्वेष्याश्च मूर्खाश्च न तैर्धर्मः कृतः पुरा ॥ १४.९६.३७ ॥
那些被轻视、贫穷、丑陋、患病、为人所憎恶和愚蠢的人,昔日并未行法。
14.96.38
ये च दीर्घायुषः शूराः पण्डिता भोगिनस्तथा ।
नीरोगा रूपसंपन्नास्तैर्धर्मः सुकृतः पुरा ॥ १४.९६.३८ ॥
那些长寿、勇敢、博学、享受欢乐、无病且容貌端正的人,昔日善行了法。
14.96.39
एवं धर्मः कृतः शुद्धो नयते गतिमुत्तमाम् ।
अधर्मं सेवते यस्तु तिर्यग्योन्यां पतत्यसौ ॥ १४.९६.३९ ॥
如此清净行法,便引至最高之归处;而奉事非法者,则堕入畜生之胎。
14.96.40
इदं रहस्यं कौन्तेय शृणु धर्ममनुत्तमम् ।
कथयिष्ये परं धर्मं तव भक्तस्य पाण्डव ॥ १४.९६.४० ॥
昆提之子,请听此秘密与无上之法。般度之子,你是我的信徒,我将为你宣说最高之法。
14.96.41
इष्टस्त्वमसि मेऽत्यर्थं प्रपन्नश्चापि मां सदा ।
परमार्थमपि ब्रूयां किं पुनर्धर्मसंहिताम् ॥ १४.९६.४१ ॥
你对我极为珍爱,且常皈依于我。我尚可宣说至高真理,何况法典?
14.96.42
इदं मे मानुषं जन्म कृतमात्मनि मायया ।
धर्मसंस्थापनार्थाय दुष्टानां नाशनाय च ॥ १४.९६.४२ ॥
我以幻力在自身中现此人身,为立正法、灭除恶人。
14.96.43
मानुष्यं भावमापन्नं ये मां गृह्णन्त्यवज्ञया ।
संसारान्तर्हि ते मूढास्तिर्यग्योनिष्वनेकशः ॥ १४.९६.४३ ॥
凡以轻慢之心看待已取人身之我者,皆为愚痴之人,在轮回之中屡次生于畜生之胎。
14.96.44
ये च मां सर्वभूतस्थं पश्यन्ति ज्ञानचक्षुषा ।
मद्भक्तांस्तान्सदा युक्तान्मत्समीपं नयाम्यहम् ॥ १४.९६.४४ ॥
凡以智慧之眼见我遍住于一切众生者,我必使常修瑜伽的我的虔信者,亲近于我。
14.96.45
मद्भक्ता न विनश्यन्ति मद्भक्ता वीतकल्मषाः ।
मद्भाक्तानां तु मानुष्ये सफल जन्म पाण्डवा ॥ १४.९६.४५ ॥
我的虔信者不会毁灭,我的虔信者远离污垢。般遮婆们啊,唯有对我的虔信者而言,人身才得以结出果实。
14.96.46
अपि पापेष्वभिरता मद्भक्ताः पाण्डुनन्दन ।
मुच्यन्ते पातकैः सर्वैः पद्मपत्रमिवांभसा ॥ १४.९६.४६ ॥
般杜之子啊,即便沉溺于罪业之中的我的虔信者,也会脱离一切罪过,犹如荷叶不被水所沾湿。
14.96.47
जन्मान्तरसहस्रेषु तपसा भावितात्मनाम् ।
भक्तिरुत्पद्यते तात मनुष्याणां न संशयः ॥ १४.९६.४७ ॥
亲爱的孩子,修苦行而心灵清净的人,在千百世之后才生起虔信之心——此中无疑。
14.96.48
यच्च रूपं परं गुह्यं कूटस्तमचलं ध्रुवम् ।
न दृश्यते तता देवैर्मद्भक्तैर्दृश्यते यथा ॥ १४.९६.४८ ॥
那至高秘密之相,安住于顶峰,不动、恒定,诸天不能见到,而我的虔信者却能如其所是地见到。
14.96.49
अपरं यच्च मे रूपं पर्रादुर्भावेषु दृश्यते ।
तदर्चयन्ति सर्वार्थैः सर्वभूतानि पाण्डव ॥ १४.९६.४९ ॥
我在后来的化身中所显现的另一种形相,般度之子啊,一切众生以种种供品礼敬它。
14.96.50
कल्पकोटिसहस्रेषु व्यतीतेष्वागते च ।
दर्शयामीह तद्रूपं यच्च पश्यन्ति मे सुराः ॥ १४.९६.५० ॥
虽已过去和将要到来的千万劫,我在此显现诸神所见的那个我的形相。
14.96.51
स्तित्युत्पत्त्यव्ययकरं यो मां ज्ञात्वा प्रपद्यते ।
अनुगृह्णाम्यहं तं वै संसारान्मोचयामि च ॥ १४.९६.५१ ॥
谁知我是维持、创造与毁灭者而皈依于我,我必定施恩于他,并使他脱离轮回。
14.96.52
अहमादिर्हि देवानां सृष्टा ब्रह्मादयो मया ।
प्रकृतिं स्वामवष्टभ्य जगत्सर्वं सृजाम्यहम् ॥ १४.९६.५२ ॥
我确是诸神的本源;梵天等皆由我所创。依托我自己的本性,我独自创造整个世界。
14.96.53
तमोमूलोहमव्यक्तो रजोमध्ये प्रतिष्ठितः ।
ऊर्ध्वं सत्त्वं विना लोभं ब्रह्मादिस्तंबपर्यतः ॥ १४.९६.५३ ॥
我的根基是暗性;我是未显者,安住于激情之中。无善性于上,自梵天直至草尖。
14.96.54
मूर्धानं मे विद्धि दिवं चन्द्रादित्यौ च लोचने ।
गावोग्निर्बाह्मणो वक्त्रं मारुतः श्वसनं च मे ॥ १४.९६.५४ ॥
当知天是我的头;月亮与太阳是我的双目。牛(大地)、火与婆罗门是我的口;风是我的气息。
14.96.55
दिशो मे बाहवश्चाष्टौ नक्षत्राणि च भूषणम् ।
अन्तरिक्षमुरो विद्धि सर्वभूतावकाशकम्।
मार्गो मेघानिलाभ्यां तु यन्ममोदरमव्ययम् ॥ १४.९६.५५ ॥
四方是我的八臂,二十八宿是我的饰物。应知虚空是我的胸膛,它容纳一切众生;云与风的路径便是我不朽的腹部。
14.96.56
पृथिवीमण्डलं यद्वै द्वीपार्णवनगैर्युतम् ।
सर्वसंधारणोपेतं पादौ मम युधिष्ठिर ॥ १४.९६.५६ ॥
啊,坚战!这大地圆盘,具备岛屿、海洋与山岳,并拥有承载一切的力量,便是我的双足。
14.96.57
स्थितो ह्येकगुणः खेऽहं द्विगुणश्चास्मि मारुते ।
त्रिगुणोग्नौ स्थितोहं वै सलिले च चतुर्गुणः ॥ १४.९६.५७ ॥
我于虚空中以一德而住,于风中以二德;于火中以三德而住,于水中以四德。
14.96.58
शब्दाद्या ये गुणाः पञ्च महाभूतेषु पञ्चसु ।
तन्मात्रासंस्थितः सोहं पृथिव्यां पञ्चधास्थितः ॥ १४.९६.५८ ॥
以声为首的五德,存在于五大之中;安住于五唯者,正是我。于大地上,我以五种方式而住。
14.96.59
अहं सहस्रसीर्षस्तु सहस्रवदनेक्षणः ।
सहस्रबाहूदरधृक्सहस्रोरुः सहस्रपात् ॥ १४.९६.५९ ॥
我有千首、千面与千目;持有千臂与千腹,有千股与千足。
14.96.60
धृत्वोर्वीं सर्वतः सम्यगत्यतिष्ठं दशांगुलम् ।
सर्वभूतात्मभूतस्थः सर्वव्यापी ततोस्म्यहम् ॥ १४.९६.६० ॥
我于四面全然承载大地,超出其上十指之宽。作为一切众生之我而安住,因此我遍在一切。
14.96.61
अचिन्त्योहमनन्तोहमजरोहमजो ह्यहम् ।
अनाद्योऽहमवध्योहमप्रमेयोहमव्ययः ॥ १४.९६.६१ ॥
我不可思议,我无穷尽,我不老,实为我不生。我无始,我不可杀,我不可量,我不灭。
14.96.62
निर्गुणोहं निगूढात्मा निर्द्वन्द्वो निर्ममो नृप ।
निष्कलो निर्विकारोहं निदानममृतस्य तु ॥ १४.९६.६२ ॥
我无德性,我的自我隐秘;我超越二元,无我所执,大王。我无分无变;我实为甘露的根源。
14.96.63
सुधा चाहं स्वधा चाहं स्वाहा चाहं नराधिप ।
तेजसा तपसा चाहं भूतग्रामं चतुर्विधम् ॥ १४.९६.६३ ॥
我是甘露(sudhā),我是祭祖之供(svadhā),我也是献神之供(svāhā),人主啊。以光辉与苦行,我即是四类众生。
14.96.64
स्नेहपाशैर्गुणबद्ध्वा धारयाम्यात्ममायया ।
चातुराश्रमधर्मेहं चातुर्होत्रफलाशनः।
चतुर्मूर्तिश्चतुर्यज्ञश्चतुराश्रमभावनः ॥ १४.९६.६४ ॥
我以爱之绳索与诸德所缚,以自身幻力而持持。我即四行期的法,我即享用四位祭司祭仪之果者。我具四形,我是四种祭祀,我是培育四行期者。
14.96.65
संहृत्याहं जगत्सर्वं कृत्वा वै गर्भमात्मनः ।
शयामि दिव्ययोगेन प्रलयेषु युधिष्ठिर ॥ १४.९६.६५ ॥
收摄整个世界,将其置于自身胎中,我以神圣瑜伽而卧于劫灭之时,युधिष्ठिर啊。
14.96.66
सहस्रयुगपर्यन्तां ब्राह्मीं रात्रिं महार्णवे ।
स्थित्वा सृजामि भूतानि जङ्गमानि स्थिराणि च ॥ १४.९६.६६ ॥
住于梵天之夜(延续千个时代)的大海之中,我创造动与不动的众生。
14.96.67
कल्पे कल्पे च भूतानि संहरामि सृजामि च ।
न च मां तानि जानन्ति मायया मोहितानि मे ॥ १४.९६.६७ ॥
每一劫中,我收摄众生又创造众生;但他们被我的摩耶所迷,并不认识我。
14.96.68
मम चैवान्धकारस्य मार्गितव्यस्य नित्यशः ।
प्रशान्तस्येव दीपस्य गतिर्नैपोपलभ्यते ॥ १४.९६.६८ ॥
我的踪迹,常须在黑暗中寻求,却如熄灭的灯火一般不可见。
14.96.69
न तदस्ति क्वचिद्राजन्यत्राहं न प्रतिष्ठितः ।
न च तद्विद्यते भूतं मयि यन्न प्रतिष्ठितम् ॥ १४.९६.६९ ॥
大王啊,没有哪里是我不立足的,也没有哪个存在不立足于我。
14.96.70
यावन्मित्रं भवेद्भूतं स्थूलं सूक्ष्ममिदं जगत् ।
दीवभूतो ह्यहं तस्मिंस्तावन्मात्रं प्रतिष्ठितः ॥ १४.९६.७० ॥
只要这个有形与无形的世界与众生共存,我便化作光明,在其中立足到相应的程度。
14.96.71
किंचात्र बहुनोक्तेन सत्यमेतद्ब्रवीमि ते ।
यद्भूतं यद्भविष्यच्च तत्सर्वमहमेव तु ॥ १४.९६.७१ ॥
何必多说?我告诉你这真理:过去所有、未来所有,一切皆是我。
14.96.72
मया सृष्टानि भूतानि मन्मयानि च भारत ।
मामेव न विजानन्ति मायया मोहितानि वै ॥ १४.९६.७२ ॥
婆罗多啊,由我所造、由我所成的众生,被我的摩耶所迷,竟然不认识我。
14.96.73
एवं सर्वं जगदिदं सदेवासुरमानुषम् ।
मत्तः प्रभवते राजन्मय्येव प्रविलीयते ॥ १४.९६.७३ ॥
如此,这整个世界,连同天神、阿修罗与人类,皆从我而生,大王,又唯独融入于我之中。