摩诃婆罗多 · 章 14.98
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
14.98.1
एवं श्रुत्वा वचस्तस्य धर्मपुत्रोऽच्युतस्य तु ।
पप्रच्छ पुनरप्यन्यं धर्मं धर्मात्मजो हरिम् ॥ १४.९८.१ ॥
听罢他的话,法之子又向阿周那的主宰(克利须那)询问了另一个关于法的问题。
14.98.2
वृथा च कति जन्मानि वृथा दानानि कानि च ।
वृथा च जीवितं केषां नराणां पुरुषोत्तम ॥ १४.९८.२ ॥
人中最尊者啊!有多少次生命是徒然的,哪些布施是徒然的,人类之中谁的生命是徒然的?
14.98.3
कीदृशासु ह्यवस्थासु दानं दत्तं जनार्दन ।
इह लोकेऽनुभवति पुरुषः पुरुषोत्तम ॥ १४.९८.३ ॥
生主啊,人在何种情况下施予布施后,会在此世体验其果报?人中最尊者啊?
14.98.4
गर्भस्थः किं समश्नाति किं बाल्ये वाऽपि केशव ।
यौवनस्थेऽपि किं कृष्ण वार्धके वाऽपि किं भवेत् ॥ १४.९८.४ ॥
啊,克沙瓦!胎中之人享受什么?童年又享受什么?啊,克利须那!青年时又会如何?老年时又会如何?
14.98.5
सात्विकं कीदृशं दानं राजसं कीदृशं भवेत् ।
तामसं कीदृशं देव तर्पयिष्यति किं प्रभो ॥ १४.९८.५ ॥
啊,天神!何为善性布施,何为激性布施?何为暗性布施?主啊,它能使谁满足?
14.98.6
उत्तमं कीदृशं दानं तेषां वा किं फलं भवेत् ।
किं दानं नयति ह्यूर्ध्वं किं गतिं मध्यमां नयेत्।
गतिं जघन्यामथवा देवदेव ब्रवीहि मे ॥ १४.९८.६ ॥
最上布施是怎样的,其果报又如何?哪种布施引向上方,哪种引向中等之道,哪种引向下等之道?神中之神啊,请告诉我。
14.98.7
एतदिच्छामि विज्ञातुं परं कौतूहलं हि मे ।
त्वदीयं वचनं सत्यं पुण्यं च मधुसूदन ॥ १४.९८.७ ॥
我想知道这些,我的好奇心非常强烈。摩图苏登那啊,你的话真实而有功德。
14.98.8
एवं धर्मं प्रयत्नेन पृष्टः पाण्डुसुतेन वै ।
उवाच वासुदेवोऽथ धर्मान्धर्मात्मजस्य तु ॥ १४.९८.८ ॥
于是,般度之子恳切地询问法,婆薮提婆便向法子讲述各种法。
14.98.9
शृणु राजन्यथान्यायं वचनं तथ्यमुत्तमम् ।
कथ्यमानं मया पुण्यं सर्वपापव्यपोहनम् ॥ १४.९८.९ ॥
国王啊,请依理而听。我所说的这真实至上之言,有功德,能消除一切罪恶。
14.98.10
वृथा च दश जन्मानि चत्वारि च नराधिप ।
वृथा दानानि पञ्चाशत्पञ्चैव च यथाक्रमम् ॥ १४.९८.१० ॥
人主啊,十与四生都是徒然的;五十五种布施,依次也都是徒然的。
14.98.11
वृथा च जीवितं येषां ते च षट् परिकीर्तिताः ।
अनुक्रमेण वक्ष्यामि तानि सर्वाणि पार्थिव ॥ १४.९८.११ ॥
生命徒然者被说为六种。国王啊,我将依次为你一一说明。
14.98.12
धर्मघ्नानां वृथा जन्म लुब्धानां पापिनां तथा ।
वृथा पाकं च येऽश्नन्ति परदाररताश्च ये।
पाकभेदकरा ये च ये च स्युः सत्यवर्जिताः ॥ १४.९८.१२ ॥
毁坏法者、贪婪者和罪人的生命是徒然的。那些食用煮熟之物的人、沉溺于他人妻子的人、在饮食上挑起分裂的人,以及缺乏真实的人,也都是徒然的。
14.98.13
मृष्टमश्नाति यश्चैकः क्लिस्यमानैस्तु बान्धवैः ।
पितरं मातरं चैव उपाध्यायं गुरुं तथा।
मातुलं मातुलानीं च यो निहन्याच्छपेत वा ॥ १४.९८.१३ ॥
独自享用美食而亲族受苦者,以及杀害或咒骂父亲、母亲、老师、上师、舅父或舅母者。
14.98.14
ब्राह्मणश्चैव यो भूत्वा सन्ध्योपासनवर्जितः ।
निस्स्वाहो निस्स्वधश्चैव शूद्राणामन्नभुग्द्विजः ॥ १४.९८.१४ ॥
身为婆罗门却不行晨昏祭礼、无svāhā与svadhā供奉、并食用首陀罗食物的再生族。
14.98.15
मम वा शंकरस्याथ ब्रह्मणो वा युधिष्ठिर ।
अथवा ब्राह्मणानां तु ये न भक्ता नराधमाः।
वृथाजन्मान्यथैतेषां पापिनां विद्धि डव ॥ १४.९८.१५ ॥
俱卢子啊,应知那些不虔信我、湿婆、梵天或婆罗门的卑劣之人,其生命是徒劳的,这些罪人当如此看待,……
14.98.16
अश्रद्धयाऽपि यद्दत्तमवामानेन वाऽपि यत् ।
डंभार्थमपि यद्दत्तं यत्पाषण्डिहृतं नृप ॥ १४.९८.१६ ॥
国王啊,无信心而施、轻慢而施、为炫耀而施、或被异端所取的布施。
14.98.17
शूद्राचाराय यद्दत्तं यद्दत्त्वा चानुकीर्तितम् ।
रोषयुक्तं तु यद्दत्तं यद्दत्तमनुशोचितम् ॥ १४.९८.१७ ॥
施予具首陀罗行为者的布施,施后又自夸的布施,怀怒而施的布施,以及施后又懊悔的布施。
14.98.18
डंभार्जितं च यद्दत्तं यच्च वाऽप्यनृतार्जितम् ।
ब्राह्मणस्वं च यद्दत्तं चौर्येणाप्यार्जितं च यत् ॥ १४.९८.१८ ॥
以虚伪所得之财而施,以谎言所得之财,以婆罗门之财而施,以及甚至以盗窃所得之财而施的布施。
14.98.19
अभिशास्ताहृतं यत्तु यद्दत्तं पतिते द्विजे ।
निर्ब्रह्माभिहृतं यत्तु यद्दत्तं सर्वयाचकैः ॥ १४.९८.१९ ॥
从被指控者处夺取之物,给予堕落再生者之物,被弃吠陀者所夺之物,以及一切乞求者所给之物——
14.98.20
व्राप्यैस्तु यद्धृतं दानमारूढपतितैश्च यत् ।
यद्दत्तं स्वैरिणीभर्तुः श्वशुराननुवर्तिने ॥ १४.९८.२० ॥
被流浪者(vrātya)所受之施,被从高位堕落者所夺之物,给予不贞女人之夫的施舍,以及给予顺从岳父者的施舍——
14.98.21
यद्ग्रामयाचकहृतं यत्कृतघ्नहृतं तथा ।
उपपातकिने दत्तं देवविक्रयिणे च यत् ॥ १४.९८.२१ ॥
被乡村乞丐所夺之物,被忘恩者所夺之物,同样给予犯次等罪者之物,以及给予出卖神圣之物者之物——
14.98.22
स्त्रीजिताय च यद्दत्तं यद्दत्तं राजसेविने ।
गणकाय च यद्दत्तं यच्च कारणिकाय च ॥ १४.९८.२२ ॥
给予受妇人controlled者之物,给予王之侍从之物,给予书记之物,以及给予宫廷官员之物——
14.98.23
वृषलीपतये दत्तं यद्दत्तं शस्त्रजीविने ।
भृतकाय च यद्दत्तं व्यालग्राहिहृतं च यत् ॥ १४.९८.२३ ॥
给予首陀罗女子之夫之物,给予以武器谋生者之物,给予雇佣者之物,以及被耍蛇人所夺之物——
14.98.24
पुरोहिताय यद्दत्तं चिकित्सकहृतं च यत् ।
यद्वणिंक्कर्मिणे दत्तं क्षुद्रमन्त्रोपजीविने ॥ १४.९८.२४ ॥
给予家中祭司之物,被医者所夺之物,给予商人之物,以及给予以小咒语谋生者之物——
14.98.25
यच्छूद्रजीविने दत्तं यच्च देवलकाय च ।
देवद्रव्याशिने यच्च यद्दत्तं चित्रकर्मिणे ॥ १४.९८.२५ ॥
布施给以侍奉首陀罗为生者、给神庙祭司(devalaka)、给食用神庙财物者、以及给画师的,皆属此类。
14.98.26
रङ्गोपजीविने दत्तं यच्च मांसोपजीविने ।
सेवकाय च यद्दत्तं यद्दत्तं ब्राह्मणब्रुवे ॥ १४.९८.२६ ॥
布施给以舞台为生者、以卖肉为生者、给仆人的,以及给自称婆罗门者的,皆属此类。
14.98.27
अदेशिने च यद्दत्तं दत्तं वार्धुषिकाय च ।
यदनाचारिणे दत्तं यत्तु दत्तमनग्रये ॥ १४.९८.२७ ॥
布施给无固定住所者、放高利贷者、行为不端者,以及没有圣火者,皆属此类。
14.98.28
असन्ध्योपासिने दत्तं यच्छूद्रग्रामवासिने ।
यन्मिथ्यालिङ्गिने दत्तं दत्तं सर्वाशिने च यत् ॥ १४.९८.२८ ॥
布施给不行晨昏祭礼者、居住在首陀罗村落者、假装有圣相者,以及什么都吃者,皆属此类。
14.98.29
नास्तिकाया च यद्दत्तं धर्मविक्रयिणे च यत् ।
वराकाय च यद्दत्तं यद्दत्तं कूटसाक्षिणे ॥ १४.९८.२९ ॥
布施给否认经典的无神论者、出卖正法者、可怜人,以及伪证者,皆属此类。
14.98.30
ग्रामकूटाय यद्दत्तं दानं पार्तिवपुङ्गव ।
वृथा भवति तत्सर्वं नात्र कार्या विचारणा ॥ १४.९८.३० ॥
诸王中最优秀者啊,布施给村庄里的骗子,全部都会落空;此事无需再议。
14.98.31
विप्राणामधरा एते लोलुपा ब्राह्मणाधमाः ।
नात्मानं तारयन्त्येते न दातारं युधिष्ठिर ॥ १४.९८.३१ ॥
俱卢子啊,这些是婆罗门中最卑劣、贪婪之人。他们既不能救度自己,也不能救度施主。
14.98.32
एतेभ्यो दत्तमात्राणि दानानि सुबहून्यपि ।
वृथा भवन्ति राजेन्द्र भस्मन्याज्याहुतिर्यथा ॥ १४.९८.३२ ॥
诸王之主啊,即使施予他们许多布施,也会落空,如同把酥油倒在灰烬之中。
14.98.33
एतेषु यत्फलं किंचिद्भविष्यति कथंचन ।
राक्षसाश्च पिशाचाश्च तद्विलुंपन्ति हर्षिताः ॥ १४.९८.३३ ॥
从这些人身上无论以何种方式产生的福报,罗刹与毕舍遮都会欢喜地将它夺去。
14.98.34
वृथा ह्येतानि दत्तानि कथितानि समासतः ।
जीवितं तु वृथा येषां चच्छृणुष्व युधिष्ठिर ॥ १४.९८.३४ ॥
我已简要说明,施予他们的布施都是徒劳的。现在听我说,俱卢子啊,关于那些生命本身就是徒劳的人。
14.98.35
ये मां न प्रतिपद्यन्ते शङ्करं वा नराधमाः ।
ब्रैह्मणान्वा महीदेवान्वृथा जीवन्ति ते नराः ॥ १४.९८.३५ ॥
那些不敬奉我、不敬奉湿婆、也不敬奉作为人间神明的婆罗门的卑劣之人,他们的生命是徒劳的。
14.98.36
हेतुशास्त्रेषु ये सक्ताः कुदृष्टिपथमाश्रिताः ।
देवान्निन्दन्त्यनाचारा वृथा जीवन्ति ते नराः ॥ १४.९८.३६ ॥
那些沉溺于论理之书、走上邪见之路、行为不端而诽谤诸神的人,他们的生命是徒劳的。
14.98.37
कुशलैः कृतशास्त्राणि पठित्वा ये नराधमाः ।
विप्रान्निन्दन्ति यज्ञांश्च वृथा जीवन्ति ते नराः ॥ १४.९८.३७ ॥
那些在学习了熟练学者所作的论著之后,仍诽谤婆罗门与祭祀的卑劣之人,他们是白白地活着。
14.98.38
ये दुर्गां वा कुमारं वा वायुमग्निं जलं रविम् ।
पितरं मातरं चैव गुरुमिन्द्रं निशाकरम्।
मूढा निन्दन्त्यनाचारा वृथा जीवन्ति ते नराः ॥ १४.९८.३८ ॥
那些愚昧而行为不端、诽谤杜尔迦、室建陀、风神、火神、水、太阳、父母、师长、因陀罗或月亮的人,他们是白白地活着。
14.98.39
विद्यमाने धने यस्तु दानधर्मविवर्जितः ।
मृष्टमश्नाति यश्चैको वृथा जीवति सोपि च ॥ १४.९८.३९ ॥
拥有财富却缺乏布施之法,独自享用美味佳肴的人,他也是白白地活着。
14.98.40
वृथा जीवितमाख्यातं दानकालं ब्रवीमि ते ॥ १४.९८.४० ॥
虚度的人生已经讲述;现在我告诉你布施的时机。
14.98.41
तमोनिविष्टचित्तेन दत्तं दानं तु यद्भवेत् ।
तदस्य फलमश्नाति नरो गर्भगतो नृप ॥ १४.९८.४१ ॥
以昏暗之心所施的布施,哦国王,人即使在胎中也会享受其果报。
14.98.42
ईर्ष्यामत्सरसंयुक्तो डंभार्थं चार्थकारणात् ।
ददाति दानं यो मर्त्यो बालभावे तदश्नुते ॥ १४.९८.४२ ॥
人若怀着嫉妒与妒忌,为了炫耀或为了某种利益而施舍,他便在童年时享受其果报。
14.98.43
भोक्तं भोगमशक्तस्तु व्याधिभिः पीडितो भृशम् ।
ददाति दानं यो मर्त्यो वृद्धभावे तदश्नुते ॥ १४.९८.४३ ॥
凡人若被疾病深深折磨、无力享受欲乐,于老年时行布施,他便能得到其果报。
14.98.44
श्रद्धायुक्तः शुचिः स्नातः प्रसन्नेन्द्रियमानसः ।
ददाति दानं यो मर्त्यो यौवने स तदश्नुते ॥ १४.९८.४४ ॥
凡人若在年少时怀着信心、清净沐浴、心意与诸根澄明而行布施,便能得到其果报。
14.98.45
स्वयं नीत्वा तु यद्दानं भक्त्या पात्रे प्रदीयते ।
तत्सार्वकालिकं विद्धि दानमामरणान्तिकम् ॥ १४.९८.४५ ॥
应知亲自携来、以虔敬奉献给合适受者的布施,是永恒之施,直至临终。
14.98.46
राजसं सात्विकं चापि तामसं च युधिष्ठिर ।
दानं दानफलं चैव गतिं च त्रिविधां शृणु ॥ १४.९८.४६ ॥
啊,坚战!请听:罗阇、萨埵、答摩三种布施,其果报,以及三种去处。
14.98.47
दानं दातव्यमित्येव मतिं कृत्वा द्विजाय वै ।
उपकारवियुक्ताय यद्दत्तं तद्धि सात्विकम् ॥ १४.९८.४७ ॥
以“理应布施”之念施予婆罗门,不求任何回报,这便是萨埵之施。
14.98.48
श्रोत्रियाय दरिद्राय बहुभृत्याय पाण्डव ।
दीयते यत्प्रहृष्टेन तत्सात्विकमुदाहृतम् ॥ १४.९८.४८ ॥
啊,般度之子!以欢喜之心施予博学、贫穷、家中有众多仰赖者的婆罗门,这被宣说为萨埵之施。
14.98.49
वेदाक्षरविहीनाय यत्तु पूर्वोपकारिणे ।
समृद्धाय च यद्दत्तं तद्दानं राजसं स्मृतम् ॥ १४.९८.४९ ॥
给予不通吠陀音节之人、曾经有恩之人或富足之人的布施,被称为激情(罗阇斯)之施。
14.98.50
संबन्धिने च यद्दत्तं प्रमत्ताय च पाण्डव ।
फलार्थिभिरपात्राय तद्दानं राजसं स्मृतम् ॥ १४.९८.५० ॥
般度之子啊,为求果报而施予亲属、放逸之人或不应受施之人,被称为激情之施。
14.98.51
वैश्वदेवविहीनाय दानमश्रोत्रियाय च ।
दीयते तस्करायापि तद्दानं तामसं स्मृतम् ॥ १४.९८.५१ ॥
施予不行毗湿伐提婆祭、不通吠陀之人,甚至小偷,被称为黑暗(答摩斯)之施。
14.98.52
सरोषमवधूतं च क्लेशयुक्तमवज्ञया ।
सेवकाय च यद्दतं तत्तामसमुदाहृतम् ॥ १४.९८.५२ ॥
以愤怒、轻慢、烦恼与鄙视施予仆役之物,被说为黑暗(答摩斯)之施。
14.98.53
देवाः पितृगणाश्चैव मुनयश्चाग्नयस्तथा ।
सात्विकं दानमश्नन्ति तुष्यन्ति च नरेश्वर ॥ १४.९८.५३ ॥
诸神、祖灵众、仙人以及诸火,享用善性(萨埵)之施而欢喜,人王啊。
14.98.54
दानवा दैत्यसङ्गाश्च ग्रहा यक्षाः सराक्षसाः ।
राजसं दानमश्नन्ति वर्जितं पितृदैवतैः ॥ १४.९८.५४ ॥
檀那婆、提迭众、星神、夜叉与罗刹,享用祖灵与天神所弃的激情(罗阇斯)之施。
14.98.55
पिशाचाः प्रेतसङ्घाश्च कश्मला ये मलीमसाः ।
तामसं दानमश्नन्ति गतिं च त्रिविधां शृणु ॥ १४.९८.५५ ॥
毕舍遮、亡灵众以及污秽不净的迦什摩罗,享用暗性之布施。现在听那三种去向。
14.98.56
सात्विकानां तु दानानामुत्तमं फलमश्नुते ।
मध्यमं राजसानां तु तामसानां तु पश्चिमम् ॥ १४.९८.५६ ॥
行善性之布施者得最上之果;行激性者得中等之果,行暗性者得最末之果。
14.98.57
अभिगम्योपनीतानां दानानामुत्तमं फलम् ।
मध्यमं तु समाहूय जघन्यं याचते फलम् ॥ १४.९८.५७ ॥
亲自前往而奉上的布施,其果为最上;经邀请后给予者,其果为中等;而受请求才给予者,所得之果为最下。
14.98.58
अयाचितप्रदाता यः स याति गतिमुत्तमाम् ।
समाहूय तु यो दद्यान्मध्यमां स गतिं व्रजेत्।
याचितो यश्च वै दद्याज्जघन्यां स गतिं व्रजेत् ॥ १४.९८.५८ ॥
不待请求而施舍者,往至最上之趣;经邀请而施舍者,往至中等之趣;受请求而施舍者,往至最下之趣。
14.98.59
उत्तमा दैविकी ज्ञेया मध्यमा मानुषी गतिः ।
गतिर्जघन्या तिर्यक्षु गतिरेषा त्रिधा स्मृता ॥ १४.९८.५९ ॥
最上之趣应知为天界,中等为人道,最下则在畜生之中。此趣被传为三种。
14.98.60
पात्रभूतेषु विप्रेषु संस्थितेष्वाहिताग्निषु ।
यत्तु निक्षिप्यते दानमक्षयं संप्रकीर्तितम् ॥ १४.९८.६० ॥
奉献于具德、安住而持守圣火的婆罗门者,其布施被宣称为不朽。
14.98.61
श्रोत्रियाणां दरिद्राणां भरणं कुरु पार्थिव ।
समृद्धानां द्विजातीनां कुर्यास्तेषां तु रक्षणम् ॥ १४.९८.६१ ॥
毗舍磨衍那:国王啊,应供养贫穷而通晓吠陀的学者婆罗门;保护富裕的再生族。
14.98.62
दरिद्रान्वित्तहीनांश्च प्रदानैः सुष्ठु पूजय ।
आतुरस्यैषधैः कार्यं नीरुजस्य किमौषधैः ॥ १४.९८.६२ ॥
毗舍磨衍那:应以布施好好尊敬贫穷和无财者。病人应以药物医治;无病之人何须药物?
14.98.63
पापं प्रतिग्रहीतारं प्रदातुरपगच्छति ।
प्रतिग्रहीतुर्यत्पुण्यं प्रदातारमुपैति तत्।
तस्माद्दानं सदा कार्यं परत्र हितमिच्छता ॥ १४.९८.६३ ॥
施者之罪归于受者,受者之福归于施者。因此,欲求来世之利者,应当常行布施。
14.98.64
वेदविद्यावदातेषु सदा शूद्रान्नवर्जिषु ।
प्रयत्नेन विधातव्यो महादानमयो निधिः ॥ १४.९८.६४ ॥
对于因吠陀知识而清净、拒绝首陀罗食物的婆罗门,应当常常努力布施;这是由大布施构成的宝藏。
14.98.65
येषां दाराः प्रतीक्षन्ते सहस्रस्येव लम्भनम् ।
भुक्तशेषस्य भक्तस्य तान्निमन्त्रय पाण्डव ॥ १४.९८.६५ ॥
凡妻子期待餐后剩余之食,如同得千倍之利者,啊,般度之子!应邀请那些虔诚之人。
14.98.66
आमन्त्र्य तु निराशानि न कर्तव्यानि भारत ।
कुलानि सुदरिद्राणि तेषामाशा हता भवेत् ॥ १४.९८.६६ ॥
啊,婆罗多!既已邀请,不应使他们失望;极贫之家的希望将会被摧毁。
14.98.67
मद्भक्ता ये नरश्रेष्ठ मद्गता मत्परायणाः ।
मद्याजिनो मन्नियमास्तान्प्रयत्नेन पूजयेत् ॥ १४.९८.६७ ॥
人中之最!凡我的信徒、归依于我者、以我为至上归宿者、向我献祭者、持守我之戒律者,应当虔诚地礼敬他们。
14.98.68
तेषां तु पावनायाहं नित्यमेव युधिष्ठिर ।
उभे सन्ध्येऽधितिष्ठामि ह्यस्कन्नं तद्व्रतं मम ॥ १४.९८.६८ ॥
优地希私啰!为了净化他们,我常在晨昏两个时辰守护他们,因为我的誓愿从不落空。
14.98.69
तस्मादष्टाक्षरं मन्त्रं मद्भक्तैर्वीतकल्मषैः ।
सन्ध्याकाले तु जप्तव्यं सततं चात्मशुद्धये ॥ १४.९८.६९ ॥
因此,我那些无罪的信徒应在黄昏时持续诵念八字真言,也为了自我的清净。
14.98.70
अन्येषामपि विप्राणां किल्बिषं हि विनश्यति ।
उभे सन्ध्येप्युपासीत तस्माद्विप्रो विशुद्धये। ॥ १४.९८.७० ॥
其他婆罗门的罪过也会被消除;因此婆罗门为求清净,应在晨昏两时修习敬拜。
14.98.71
दैवे श्राद्धेपि विप्रः स नियोक्तव्योऽजुगुप्सया ।
जुगुप्सितस्तु यः श्राद्धं दहत्यग्निरिवेन्धनम् ॥ १४.९८.७१ ॥
即使在祭神与祖先祭礼中,也应不加轻慢地任用这样的婆罗门;但被鄙视者会焚毁祖先祭礼,如火焚烧柴薪一般。
14.98.72
भारतं मानवो धर्मो वेदाः साङ्गाश्चिकित्सितम् ।
आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभिः ॥ १४.९८.७२ ॥
《摩诃婆罗多》、摩奴法典、连同支分的吠陀,以及医学——这四者因命令而确立,不应以论辩加以否定。
14.98.73
न ब्राह्मणान्परीक्षेत दैवे कर्मणि धर्मवित् ।
महान्भवेत्परीवादो ब्राह्मणानां परीक्षणे ॥ १४.९८.७३ ॥
知法者不应在神圣的祭祀中考验婆罗门;考验婆罗门会招来巨大的非议。
14.98.74
ब्राह्मणानां परीवादं यः कुर्यात्स नराधमः ।
रासभानां शुनां योनिं गच्छेत्पुरुषदूषकः ॥ १४.९८.७४ ॥
诽谤婆罗门者是最卑劣的人;败坏人者将转生为驴与狗之胎。
14.98.75
श्वत्वं प्राप्नोति निन्दित्वा परीवादात्खरो भवेत् ।
कृमिर्भवत्यभिभवात्कीटो भवति मत्सरात् ॥ १४.९८.७५ ॥
因辱骂而成狗;因诽谤而成驴。因轻蔑而成虫,因嫉妒而成昆虫。
14.98.76
दुर्वृत्ता वा सुवृत्ता वा प्राकृता वा सुसंस्कृताः ।
ब्राह्मणा नावमन्तव्या भस्मच्छन्ना इवाग्नयः ॥ १४.९८.७६ ॥
无论品行不端还是端正,平凡还是有教养,都不可轻慢婆罗门;他们如同被灰烬覆盖的火。
14.98.77
क्षत्रियं चैव सर्पं च ब्राह्मणं च बहुश्रुतम् ।
नावमन्येत मेधावी कृशानपि कदाचन ॥ १४.९८.७७ ॥
智者即使他们衰弱,也绝不可轻慢刹帝利、蛇,或博学的婆罗门。
14.98.78
एतत्त्रयं हि पुरुषं निर्दहेदवमानितम् ।
तस्मादेतत्प्रयत्नेन नावमन्येत बुद्धिमान् ॥ १४.९८.७८ ॥
这三者若被轻慢,便会将人烧成灰烬;因此智者应当谨慎,不可轻慢他们。
14.98.79
यथा सर्वास्ववस्थासु पावको दैवतं महत् ।
तथा सर्वास्ववस्थासु ब्राह्मणो दैवतं महत् ॥ १४.९८.७९ ॥
如同火在一切境况中都是伟大的神明,婆罗门在一切境况中也是伟大的神明。
14.98.80
व्यङ्गाः काणाश्च कुब्जाश्च वामनाङ्गास्तथैव च ।
सर्वे दैवे नियोक्तव्या व्यामिश्रा वेदपारगैः ॥ १४.९८.८० ॥
残障者、独眼者、驼背者和侏儒,都应由精通吠陀的人与其他人混合安排到神圣的祭事之中。
14.98.81
मन्युं नोत्पादयेत्तेषां न चारिष्टं समाचरेत् ।
मन्युप्रहरणा विप्रा न विप्राः शश्त्रपाणयः ॥ १४.९८.८१ ॥
不应对他们生起愤怒,也不应伤害他们。婆罗门以愤怒为武器,而非手中持兵器。
14.98.82
मन्युना घ्नन्ति ते शत्रून्वज्रेणेन्द्र इवासुरान् ।
ब्राह्मणो हि महद्दैवं जातिमात्रेण जायते ॥ १४.९८.८२ ॥
他们以愤怒击杀敌人,如同因陀罗以金刚杵击杀阿修罗。婆罗门仅凭出生便是伟大的神明。
14.98.83
ब्राह्मणः सर्वभूतानां धर्मकोशस्य गुप्तये ।
किं पुनर्ये च कौन्तेय सन्ध्यां नित्यमुपासते ॥ १४.९८.८३ ॥
婆罗门是为了守护一切众生与法的宝藏而存在的。何况,贡提之子啊,那些日日行晨昏之祭的人呢!
14.98.84
यस्यास्येन समश्नन्ति हव्यानि त्रिदिवौकसः ।
कव्यानि चैव पितरः किं भूतमधिकं ततः ॥ १४.९८.८४ ॥
天界的居民通过他的口享用供物,祖先享用祭品,还有什么生灵能高过他呢?
14.98.85
उत्पत्तिरेव विप्रस्य मूर्तिधर्मस्य शाश्वती ।
स हि धर्मार्थमुत्पन्नो ब्रह्मभूयाय कल्पते ॥ १४.९८.८५ ॥
婆罗门的出生本身便是永恒的具象化法。他为法而生,适合达到梵的境界。
14.98.86
स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च ।
आनृशंस्याद्ब्राह्मणस्य भुञ्जते हीतरे जनाः।
तस्मात्ते नावमन्तव्या मद्भक्ता हि द्विजाः सदा ॥ १४.९८.८६ ॥
婆罗门只食其所有,居其所有,施其所有。其他人依靠婆罗门的慈悲而享用。因此,作为我之信徒的再生者,永远不可轻慢。
14.98.87
आरण्यकोपनिषदि ये तु पश्यन्ति मां द्विजाः ।
निगूढं निष्कलावस्थं तान्प्रयत्नेन पूजय ॥ १४.९८.८७ ॥
那些在森林书与奥义书中见我隐秘、处于无分状态的再生者,应当精心供养。
14.98.88
स्वगृहे वा प्रवासे वा दिवारात्रमथापि वा ।
श्रद्धया ब्राह्मणाः पूज्या मद्भक्ता ये च पाण्डव ॥ १४.९८.८८ ॥
无论在家还是在外,无论白昼或黑夜,都应以信心供养婆罗门;而那些是我之信徒的,啊潘达瓦,也值得尊敬。
14.98.89
नास्ति विप्रसमं दैवं नास्ति विप्रसमो गुरुः ।
नास्ति विप्रात्परो बन्धुर्नास्ति विप्रात्परो निधिः।
नास्ति विप्रात्परं तीर्थं न पुण्यं ब्राह्मणात्परम्। ॥ १४.९८.८९ ॥
没有与婆罗门相等的神,也没有与婆罗门相等的师长。没有比婆罗门更高的亲属,也没有比婆罗门更高的宝藏。没有比婆罗门更高的圣地,也没有比婆罗门更高的功德。
14.98.90
न पवित्रं परं विप्रान्न द्विजात्पावनं परम् ।
नास्ति विप्राप्तरो धर्मो नास्ति विप्रात्परा गतिः ॥ १४.९८.९० ॥
没有比婆罗门更纯净的,没有比再生者更能净化的。没有比婆罗门更高的法,没有比婆罗门更高的归宿。
14.98.91
पापकर्मसमाक्षिप्तं पतन्तं नरके नरम् ।
त्रायते पात्रमप्येकं पात्रभूते तु तद्द्विजे ॥ १४.९८.९१ ॥
被罪业拖入地狱的人,即使只有一位合格的受施者,也能得救;这便是再生者。
14.98.92
बालाहिताग्नयो ये च शान्ताः शूद्रान्नवर्जिताः ।
मामर्चयन्ति तद्भक्तास्तेभ्यो दत्तमिहाक्षयम् ॥ १४.९८.९२ ॥
对于那些敬奉我的虔诚之人——他们的圣火由少年照看,他们心平气和,远离首陀罗的食物,并敬拜我——在此所施之物是不朽的。
14.98.93
प्रदानैः पूजितो विप्रो वन्दितो वापि संस्कृतः ।
सम्भाषितो वा दृष्टो वा मद्भक्तो दिवमुन्नयेत् ॥ १४.९८.९३ ॥
婆罗门若是我的虔信者,无论以布施供养、礼拜、恭敬对待、与之交谈,甚至只是见到,都能将人引向天界。
14.98.94
ये पठन्ति नमस्यन्ति ध्यायन्ति पुरुषास्तु माम् ।
स तान्स्पृष्ट्वा च दृष्ट्वा च नरः पापैः प्रमुच्यते ॥ १४.९८.९४ ॥
那些诵读我、礼拜我、冥想我的人,人若触摸或仅仅看到他们,便能完全摆脱罪过。
14.98.95
मद्भक्ता मद्गतप्राणा मद्गीता मत्परायणाः ।
बीजयोनिविशुद्धा यै श्रोत्रियाः संयतेन्द्रियाः।
शूद्रान्नविरता नित्यं ते पुनन्तीह दर्शनात् ॥ १४.९८.९५ ॥
我的信徒,生命之气专注于我,歌颂我,一心皈依于我,血统与出身清净,通晓吠陀,诸根调伏,且永远远离首陀罗的食物——他们只需在此被人看见,便能净化他人。
14.98.96
स्वंय नीत्वा विशेषेण दानं तेषां गृहेष्वथ ।
निवापयेत्तु यद्भक्त्या तद्दानं कोटिसंमितम् ॥ १४.९८.९६ ॥
亲自送去、特别是在他们家中以虔诚奉献的布施,等同于一千万份布施。
14.98.97
जाग्रतः स्वपतो वापि प्रवासेषु गृहेष्वथ ।
हृदये न प्रणश्यामि यस्य विप्रस्य भावतः ॥ १४.९८.९७ ॥
无论醒着还是睡着,无论在旅途还是在家中,在那位婆罗门的心中,因其虔信,我永不消失。
14.98.98
स पूजितो वा दृष्टो वा स्पृष्टो वापि द्विजोत्तमः ।
सम्भाषितो वा राजेन्द्र पुनात्येव नरं सदा ॥ १४.९८.९८ ॥
无论那位最上等的再生者被供养、被看见、被触碰或与之交谈,哦,诸王之王,他总能净化人。
14.98.99
एवं सर्वास्ववस्थासु सर्वदानानि पाण्डव ।
मद्भक्तेभ्यः प्रदत्तानि स्वर्गमार्गप्रदानि वै ॥ १४.९८.९९ ॥
如此,在任何情况下,哦般度之子,所有施予我的信徒的布施都赐予天堂之路。